Page loading... Please wait.
8|3|14 - रो रि
॥ तस्मै पाणिनये नमः ॥
8|3|14
SK 173
रो रि   🔊
सूत्रच्छेदः
रः (षष्ठ्येकवचनम्) , रि (सप्तम्येकवचनम्)
अनुवृत्तिः
लोपः  8|4|13 (प्रथमैकवचनम्)
अधिकारः
पदस्य  8|1|16 पूर्वत्रासिद्धम्  8|2|1 संहितायाम्  8|2|108
सम्पूर्णसूत्रम्
रः रि लोपः
सूत्रार्थः
रेफस्य रेफे परे लोपः भवति ।
यदि रेफात् परः रेफः आगच्छति, तर्हि प्रथमरेफस्य लोपः भवति ।

अत्र बिन्दुद्वयम् ज्ञातव्यम् -
1. यद्यपि एतत् सूत्रम् "पदस्य" अधिकारे आगच्छति, तथापि पदस्य तथा अपदस्य - उभयोः विषये अस्य सूत्रस्य प्रसक्तिः अस्ति ।
2. एतत् सूत्रम् त्रिपाद्याः ढ्रलोपे पूर्वस्य दीर्घोणः 6|3|111 इत्यस्य कृते सिद्धम् अस्ति ।

उदाहरणानि -

1) पदान्ते विद्यमानस्य रेफस्य रेफे परे लोपः -
(अ) पुनर् + रमते
→ पुन रमते [रो रि 8|3|14 इति रेफस्य लोपः]
→ पुना रमते [ढ्रलोपे पूर्वस्य दीर्घोणः 6|3|111 इति अकारस्य दीर्घः]

(आ) अग्नि + सुँ + रोचते
→ अग्निरुँ + रोचते [ससजुषोः रुँः 8|2|66 इति रुँत्वम्]
→ अग्नि रोचते [रो रि 8|3|14 इति रेफस्य लोपः]
→ अग्नी रोचते [ढ्रलोपे पूर्वस्य दीर्घोणः 6|3|111 इति अकारस्य दीर्घः]

2) अपदान्ते विद्यमानस्य रेफस्य रेफे परे लोपः - "स्पर्धँ (सङ्घर्षे)" इति भ्वादिगणस्य धातुः । अस्य धातोः यङ्लुगन्तस्य लङ्लकारस्य मध्यमपुरुषद्विवचनस्य रूपम् "अपास्पाः" इत्यस्य प्रक्रियायाम् अस्य सूत्रस्य अपदान्ते प्रसक्तिः अस्ति । प्रक्रिया इयम् -

स्पर्ध् + यङ् [धातोरेकाचो हलादे क्रियासमभिहारे यङ् 3|1|22 इति यङ्-प्रत्ययः]
→ स्पर्ध् + स्पर्ध् + यङ् [सन्यङोः 6|1|9 इत्यनेन यङ्-प्रत्यये परे अङ्गस्य यः एकाच्-अवयवः तस्य द्वित्वम् भवति ।]
→ प + स्पर्ध् + यङ् [शर्पूर्वाः खयः 7|4|61 इति खय्-वर्णः अवशिष्यते ]
→ पा + स्पर्ध् + यङ् [दीर्घोऽकितः 7|4|83 इति अभ्यासस्य दीर्घः]
→ पा + स्पर्ध् [यङोचि च 2|4|74 इति यङ्-प्रत्ययस्य अच्-इत्यस्य अनुपस्थितौ अपि लुक् ]
→ पा + स्पर्ध् [सनाद्यन्ताः धातवः 3|1|32 इति धातुसंज्ञा । "पुनः पुनः सङ्घर्षः" इत्यर्थः]
→ पा + स्पर्ध् + लङ् [अनद्यतने लङ् 3|2|111 इति लङ्]
→ अट् + पा + स्पर्ध् + लङ् [लुङ्लङ्लृङ्क्ष्वडुदात्तः 6|4|71 इति अडागमः]
→ अ + पा + स्पर्ध् + सिप् [तिप्तस्झि... 3|4|78 इति मध्यमपुरुषैकवचनस्य विवक्षायाम् सिप्-प्रत्ययः]
→ अ + पा + स्पर्ध् + सिप् [चर्करीतम् च इति धातुपाठस्थ-गणसूत्रेण [क्र. 1081] यङ्-लुगन्तात् शप्-विकरणम् भवति, तस्य च लुक् भवति ।]
→ अ + पा + स्पर्ध् + स् [इतश्च 8|3|14 इति इकारलोपः]
→ अ + पा + स्पर्ध् [हल्ङ्याब्भ्यो दीर्घात् सुतिस्यपृक्तं हल् 6|1|68 इति सकारलोपः]
→ अ + पा + स्पर्द् [झलां जशोऽन्ते 8|2|39 इति जश्त्वम्]
→ अ + पा + स्पर् रुँ [दश्च 8|2|75 इति दकारस्य रूँत्वम्]
→ अ + पा + स्प र् [रो रि 8|3|14 इति रेफे परे रेफस्य लोपः]
→ अ + पा + स्पा र् [ढ्रलोपे पूर्वस्य दीर्घोणः 6|3|111 इति अकारस्य दीर्घः]
→ अ + पा + स्पाः [खरवसानयोर्विसर्जनीयः 8|3|15 इति विसर्गः]
→ अपास्पाः
One-line meaning in English
A रेफ is deleted when followed by another रेफ.
काशिकावृत्तिः
रेफस्य रेफे परतो लोपो भवति। नीरक्तम्। दूरक्तम्। अग्नी रथः। इन्दू रथः। पुना रक्तं वासः। प्राता राजक्रयः। पदस्य इत्यत्र विशेषणे षष्ठी, तेन अपदान्तस्य अपि रेफस्य लोपो भवति, जर्गृधेः अजर्घाः, पास्पर्धेः अपास्पाः इति।
किं पुनरिदं सानुबन्धकारस्य रेफस्य ग्रहणम्? उत्त निरनुबन्धकस्य? किञ्चात्र यदि सानुबन्धकस्य ग्रहणम्? सिद्धम्--अग्नीरथः, इन्दूरथ इति; नीरक्तं दूरक्तमिति तु न सिध्यति। अथ निरनुबन्धकरस्य ग्रहणम्? तदा सिध्यति--नीरक्तम्, दूरक्तमिति; अग्नीरथः, इन्दूरथ इति न सिध्यति? नैष दोषः; इह तन्तेणाचार्यः `रो रि` इति द्वे सूत्रे उच्चारितवान्, तत्रैकत्र सानुबन्धकस्य ग्रहणम्, अपरत्र निरनुबन्धकस्येति। नीरक्तमित्यादौ `ढ्रलोपे पूर्वस्य दीर्घोऽणः` 6|3|110 इति दीर्घत्वम्। इह यदि पदस्येति स्थानषष्ठी स्यात्, ततः `अलोऽन्त्यस्य` 1|1|51 इति पदान्तस्यैव [`पदान्तस्य`--कांउ।पाठः] रेफस्य [अयं भागः कांउ।पाठे नास्ति]लोपः स्यात्--नीरक्तमित्यादौ। अजर्धा इत्यादौ त्वपदान्तस्य[अयं भागः कांउ।पाठे नास्ति] न स्यात्; विशेषणषष्ठआं त्वस्यामिहापि भवतीत्येतच्चेतसि कृत्वाऽ‌ऽह--`पद्स्य` इत्यादि। विशेषणषष्ठआं हि पदस्येत्यस्यैवमभिसम्बन्धः क्रियते--पदस्यावयवो यो रेफस्तस्य रेफे परतो लोपो भवतीति। तेनापदान्तस्यापि भवति। `अजर्धाः` इति। `एकाचो बशो भव्` 8|2|37 इत्यादौ सूत्र इवं व्युत्पादितम्। `अपास्पाः` इति। `स्पद्र्ध सङ्घर्षे` (धातुपाठः-3) असमाद्यङ्, द्विर्वचनम्, `शर्पूर्वाः खयः` 7|4|61 इति खयः शेषः, `दीर्घोऽकितः` 7|4|83 इति दीर्घत्वम्, `यङोऽचि च` 2|4|74 इति यङो लुक्; पास्पद्र्ध इति स्थिते लङ् अडापमः, सिप्, `चर्करौतञ्च` (धातुपाठः-1081) इत्यादिषु पाठाच्छपो लुक्, सिपो इल्ङ्यादिना 6|1|66 लोपः, जश्त्वेन धकारस्य दकारः, `दश्च` 8|2|75 इति तस्यैव दकारस्य रुत्वम्, तत्रानेन रेफस्य लोपः, पूर्ववद्दीर्धत्वम्। योगविभागकरणमुत्तरार्थम्, उत्तरसूत्रे रेफस्यानुवृत्तिर्यथा स्यादित्येवमर्थम्; इतरथा हि ढकारस्यापि ततरानुवृत्तिः स्यात्, ततश्च तस्यापि विसर्जनीयः प्रसज्येत॥
किमिदं सानुबन्धकस्य रोर्ग्रहणम् ? आहोस्विद्रेफस्य ? कुतः संशयः ? तुल्यात्र संहिता---रोः रि, रः रीति । किं चातः ? यदि सानुबन्धकस्य ग्रहणम्, सिद्धमिन्दूरथः अग्नीरथः; इदं तु न सिध्यति---नीरक्तम्, दूरक्तमिति । अथ रेफस्य ग्रहणम्, सिद्धं नीरक्तं दूरक्तमिति; इदं तु न सिध्यतिअग्नीरथः, इन्दूरथ इति, ठ्निरनुबन्धकग्रहणे न सानुबन्धकस्यऽ इति ? नैष दोषः, वर्णग्रहणेषु नैषा परिभाषा प्रवर्तते । पदस्येत्यत्र विशेषणे षष्ठीति । एतच्च ठ्पदस्यऽ ठ्पदात्ऽ इत्यत्रैव व्याख्यातम् । तेन किं सिद्धं भवति ? इत्याह---तेनेति । स्थानषष्ठ।लं तु रेफेण पदस्य विशेषणाद्रेफान्तस्य पदस्य लोपेन भवितव्यम् । अजर्घा इति । ठेकाचो बशो भष्ऽ इत्यत्रैतद् व्युत्पादितम् । अपास्पा इति । ठ्स्पर्द्ध सङ्घर्षेऽ, यङ्लुकि ठ्दीर्घोऽकितःऽ इति दीर्घः, लङ् इसिपि शपो लुक्, सिपो हल्ङ्यादिलोपः; जश्त्वम्, ठ्दश्चऽ इति रुत्वम् ॥
सिद्धान्तकौमुदी
रेफस्य रेफे परे लोपः स्यात् ॥
रो रि - रो रि । "र" इति षष्ठी । "ढो ढ लोप" इत्यतो "लोप" इत्यनुवर्तते, तदाह-रेफस्येति । पुनर्-रमते इति स्थिते रेफस्य लोपः ।
रो रि - विसर्गापवाद इति । मो राजिवद्रेफस्य रेफो विधीयते विकारनिवृत्त्यर्थमिति भावः ।
लघुसिद्धान्तकौमुदी
-
महाभाष्यम्
Text Unavailable. Please use feedback link below to provide the text if you have.