Page loading... Please wait.
8|3|13 - ढो ढे लोपः
॥ तस्मै पाणिनये नमः ॥
8|3|13
SK 2335
ढो ढे लोपः   🔊
सूत्रच्छेदः
ढः (षष्ठ्येकवचनम्) , ढे (सप्तम्येकवचनम्) , लोपः (प्रथमैकवचनम्)
अनुवृत्तिः
-
अधिकारः
पदस्य  8|1|16 पूर्वत्रासिद्धम्  8|2|1 संहितायाम्  8|2|108
सम्पूर्णसूत्रम्
ढः ढे लोपः
सूत्रार्थः
ढकारस्य ढकारे परे लोपः भवति ।
यदि ढकारात् परः ढकारः आगच्छति, तर्हि प्रथमढकारस्य लोपः भवति ।

अत्र बिन्दुत्रयम् ज्ञातव्यम् -
1. यद्यपि एतत् सूत्रम् "पदस्य" अधिकारे आगच्छति, तथापि पदान्ते विद्यमानस्य ढकारस्य उदाहरणानि न दृश्यन्ते, अतः अत्र "अपदान्तढकारस्य" इत्यैव स्वीकरणीयम् ।
2. अस्य सूत्रस्य कृते ष्टुना ष्टुः 8|4|41 इत्यनेन उक्तम् ष्टुत्वम् सिद्धम् अस्ति ।
3. एतत् सूत्रम् त्रिपाद्याः ढ्रलोपे पूर्वस्य दीर्घोणः 6|3|111 इत्यस्य कृते सिद्धम् अस्ति ।

उदाहरणम् - गुह् -धातोः क्त-प्रत्ययान्तरूपम् "गूढः" एतादृशम् सिद्ध्यति -
गुह् + क्त [निष्ठा 3|2|102 इति क्त-प्रत्ययः]
→ गुढ् + त [हकारस्य हो ढः 8|2|31 इति झलि परे ढकारः]
→ गुढ् + ध [झषस्तथोर्धोऽधः 8|2|40 इत्यनेन तकारस्य धकारः]
→ गुढ् + ढ [ष्टुना ष्टुः 8|4|41 इति ष्टुत्वे धकारस्य ढकारः]
→ गुढ [ढो ढे लोपः 8|3|13 इति ढकारे परे ढकारस्य लोपः । ष्टुत्वम् अस्य कृते सिद्धम् अस्ति ।]
→ गूढ [ढ्रलोपे पूर्वस्य दीर्घोणः 6|3|111 इति उकारस्य दीर्घः । ढकारलोपः अस्य कृते सिद्धः अस्ति ।]

एवमेव लिह् + क्त → लीढ, मुह् + क्त → मूढ, मिह् + क्त → मीढ - एतानि रूपाणि अपि सिद्ध्यन्ति ।
One-line meaning in English
A ढकार is deleted when it is followed by another ढकार.
काशिकावृत्तिः
ढकारस्य ढकारे लोपो भवति। सत्यपि पदाधिकारे तस्य असम्भवादपदान्तस्य ढकारस्य अयं लोपो विज्ञायते। लीढम्। उपागूढम्। ष्टुत्वस्य अत्र सिद्धत्वमाश्रयाद् द्रष्टव्यम्। श्वलिड् ढौ कते इत्यत्र तु जश्वे कृते कार्यं न अस्ति इति लोपाभावः। न च ढलोपो जश्त्वापवादो विज्ञातुं शक्यते, तस्य हि लीढादिः विषयः सम्भवति। तत्र हि श्रुतिकृतमानन्तर्यम् अस्ति। शास्त्रकृतं तु यदा नानन्तर्यं ष्टुत्वस्य असिद्धत्वेन प्राप्तम्, तत् तु सूत्रकरणसामर्थ्याद् बाध्यते। श्वलिड् ढौकते इत्यत्र तु न श्रुतिकृतमनन्तर्यम्, न शास्त्रकृतम् इति अविषयो ऽयं ढलोपस्य।
`ढे` इति वर्णमात्रं निमित्तत्वेनाश्रीयते; न वर्णसमुदायः। कुत एतत्? व्याप्त्या। अकार उच्चारणार्थः। वर्णग्रहणे तु सति लीढ्वा, मीढ्वेत्यादावपि भवति; अन्यथा हि यदि वर्णसमुदायो निमित्तत्वेनाधीयते तदा लौढम्, मीढमित्यादावेव स्यात्, न तु लीढवेत्यादौ। `लीढम्` इत्यादि। `लिह आस्वादने` (धापा।1016) `मिह सेचने` (दा।पा।992), `गुहू संवर्णे` (धातुपाठः-896)--एभ्यः [एभ्यः `ष्टुना ष्टुः` इति ष्टुत्वम्--कांउ।पाठः] क्तः, `हो ढः` 8|2|31 इति ढत्वम्, `झवस्तथोर्धोऽधः` 98.2.40) इति धत्वम्। `ष्टुना ष्टुः` 8|4|40 इति ष्टुत्वम्, ढलोपः, ढ्रलोपे पूर्वस्य दीर्घोऽणः` 6|3|110 इति दीर्घः। कथं पुनर्लीढमित्याद्युदाहणमुपपद्यते, यावता ढकारोऽत्र परनिमित्तं नास्त्येव ढलोपे कत्र्तव्ये ष्टुत्वस्यासिद्धत्वात्? इत्यत--`ष्टुत्वस्य` इति। ढकारोऽत्र ढलोपनिमित्तनाश्रीयते, न चासौ क्वचित्? सिद्धः सम्भवति यत्रानेन ढलोपः कत्र्तव्यः। तस्माद्? ढकारस्य निमित्तत्वेनाश्रयणादेव ष्टुत्वस्य सिद्धत्वं वेदितव्यम्; अन्यथा ह्रस्य वचनस्य वैयथ्र्यं स्यात्; अनवकाशत्वात्। स्यादेतत्। आलीङ्ढौकत इत्यनेन ढलोपो भविष्यति, सिद्धो ह्रत्र ढकारः, तत्? कुतो वचनस्य वैयथ्र्याम्? इत्याह`आलिङ्ढौक्ते` इत्यादि। यद्यप्यत्र निमित्तं ढकारः सिद्धः, तथापि नैव ढलोप उपपद्यते; जश्त्वे कृते कार्यिणो ढकारस्याभावात्। ननु च निर्विषयत्वाङ्ढलोपो जश्त्वापवादो भविष्यति? इत्याह--`न च` इत्यादि। कुत एतत्? इत्याह--`तस्य हि` इत्यादि। यदि हि तस्य विषयो न सम्भाव्येत, ततो जशत्वापवादः सक्यते विज्ञातम्। सम्भवति चास्य विषयो लीढाटिः, तस्मान्न शक्यौऽसौ जशत्वापदाद इति विज्ञातुम्। कथं पुनर्लीढादिरस्य विषयः पावता यथा आलिङ्ढौकत इत्यत्र जश्त्वे कृते कार्यिणोऽसम्भवाङढलोपस्या विषयः, तथा लोढादावपवि ष्टुतवस्यासिद्धत्वे सति निमित्तस्याभावात्। अथात्र वचनसमाथ्र्याडढलोपेन ष्टुत्वस्यासिद्धत्वं बाध्यते? इतरत्रापि जश्त्वं कस्मान्न बाध्यते; तस्माद्यदि पुनर्लीढाविढंलोपस्य विषय इत्तरेणापि तद्विषयेण भवितव्यम्, न तु लीढादिनैवेतरत्रापीत्यत आह--`तत्र हि` इत्यादि। इह `ढे` इति सप्तमीनिर्देशा दानन्तर्यमाश्रितम्; न तु लीढादिनैवेतरत्रापीत्यत आह--`तत्र हि` इत्यादि। इह `ढे` इति सप्तमीनिर्देशा तद्विषयेण भवितध्यम्, न तु लीढादिनैवेतरत्रापीत्यत आह--`तत्र हि` इत्यादि। इह `ढे` इति सप्तमीनिर्देशा दानन्तर्यमाश्रितम्; निर्दिष्टग्रहणस्यानन्तर्यार्थत्वात्। ततश्चानन्तर्ये सति ढलोपेन भवितव्यम्। अस्ति च लोढादो श्रुतिकृतमानन्तर्यम्, उभयोर्निमित्तकार्यिणोर्ढकारयोः श्रयमाणत्वात्। तस्मादेष एव ढलोपस्य विषयः? सत्यमिहासत्यानन्तर्यं श्रुतिकृतम्; अनानन्तर्यमप्यस्ति शास्त्रकृतम्; शास्त्रेण ष्टुत्वस्यासिद्धत्वोपादानात्। सति च तस्मिन्? सोऽपि न ढलोपस्य विषय इत्यत आह--`शास्त्रकृतम्; शास्त्रेण ष्टत्वस्यासिद्धत्वोपादानात्। सति च तस्मिन सोऽपि न ढलोपस्य विषय इत्यत आह--`शास्त्रकृतम्` इत्यादि। विद्यमानमपि शास्त्रकृतमनान्तर्यं ढलोपेन बाध्यते; अन्यथा हि वचनवैयध्र्यं स्यात्। यथा शास्त्रकृतमनानन्तर्यं वचनसामथ्र्याद्बाधित्वा ढलोपो भवति, तथा श्यलिङ्ढौकत इत्यत्रापि श्रुतिकृतमानानन्तर्यं बाधित्वा ढलोपः स्यादित्याह--`आलिङ्ढौकत इत्यत्र तु` इत्यत्र तु` इत्यादि। तुशब्दो लौढादेरस्य विशेषं दर्शयति। अत्र लीढादौ हि यद्यपि शास्त्रकृतमानन्तर्यं नास्ति, श्रुतिकृतं त्वस्ति। इह तु नापि श्रुतिकृतमानन्तर्यं द्वयोर्ढकारयोरश्रूयमाणत्वात्, नापि शास्त्रकृतम्, शास्त्रेण जशत्वस्यासिद्धत्वानुपायनात्। तस्मान्नैव ढलोपस्य विषयः॥
आकार उच्चारणार्थः, ढकारमात्रं निमितम्; तेन लेढा, लेढैइत्यादावपि भवति । लीढमित्यादौ ठ्हो ढःऽ, ठ्झषस्तथोर्धोऽधःऽ, ठ्झषस्तथोर्धोऽधऋऽ, ष्टुअत्वम्, ततोऽनेन ढलोपः । ननु चासिद्धं ष्टुअत्वं तत्कथमत्र लोपः ? तत्राह---ष्टुअत्वस्येति । उच्यते चेदम्---ढेअ परतो ढस्य लोपो भवतीति, तत्र ष्टुअत्वस्यासिद्धत्वे निर्विषयमेतत्स्यात् । ननु च यत्रौत्पतिको ढकारः---श्वलिड्ढौकत इत्यादौ, तत्र सावकाशः स्यादत आह---श्वलिड्ढौकत इत्यत्रेति । जश्त्वे कृत इति । एकपदाश्रयत्वादन्तरङ्गत्वात् ठ्पूर्वत्रासिद्धम्ऽ इति लोपस्यासिद्धत्वाद्वा पूर्वं जश्त्वम् । ननु च निर्विषयत्वाद् ढलोपो जश्त्वं बाधेत ? नेत्याह---न चेति । कुतः ? इत्याह---तस्य हीति । कथं पुनर्लीढादिरवकाशः, यावता यथा श्वलिड्ढौकते इत्यत्र जश्त्वे कृते कार्यिणोऽभावः, तथा लीढादावपि ष्टुअत्वस्यासिद्धत्वान्निमितस्याभावः; अथ तत्र वचनसामर्थ्यात् ष्टुअत्वस्यासिद्धत्वं बाध्यते, तदेतरत्रापि जश्त्वं बाधनीयम्, वक्तव्यो वा विशेषः ? अत आह---तत्र हीति । अयमभिप्रायः---लोपेन तावदसिद्धत्वमवश्यं बाध्यम्, तत्र लीढमित्यादावेकमेव ठ्पूर्वत्रासिद्धम्ऽ इत्यसिद्धत्वम्, अतस्तदेव बाध्यते; श्वलिड्ढौकत इत्यत्र तु ढलोपस्य जश्त्वापेक्षया बहिरङ्गत्वात् परत्वाच्च द्विविधमसिद्धत्वमिति न तद्वाध्यते । ततो जश्त्वे कृते न श्रुतिकृतमानन्तर्यम्, नापि शास्त्रकृतम्; जश्त्वस्यासिद्धत्वाभावादिति ढलोपस्यायमविषय इति ॥
सिद्धान्तकौमुदी
ढस्य लोपः स्याड्ढे परे । गाढा । गाहिष्यन्ते । घाक्ष्यते । गाहिषीष्ट । घाक्षीष्ट । अगाहिष्ट । अगाढ । अघाक्षाताम् । अघाक्षत । अगाढाः । अघाढ्वम् । अघाक्षि । 650 गृहू गर्हणे । गर्हते । जगृहे ॥ ।ऋदुपधेभ्यो लिटः कित्वं गुणात्पूर्वविप्रतिषेधेन (वार्तिकम्) ॥ जगृहिषे । जघृक्षे । जघृढ्वे । गर्हिता । गर्ढा । गर्हिष्यते । घर्क्ष्यते । गर्हिषीष्ट । घृक्षीष्ट । लुङि । अगर्हिष्ट । इडभावे ॥
ढो ढे लोपः - इडभावे तु गाह् ता इति स्थिते हस्य ढत्वे "झषस्तथोर्धोऽधः" इति तकारस्य धत्वे, ष्टुत्वेन धस्य ढत्वे, गाढ् — ढा इति स्थिते — इडभावे तु गाह् ता इति स्थिते ढो ढे । "ढः" इति षष्ठन्तम् । तदाह — ढस्येति । ढकारस्येत्यर्थः । इति पूर्वस्य ढकारस्य लोपे "गाढा" इति रूपम् । ढलोपे ष्टुत्वस्याऽसिद्धत्वं तु न, तथा सति ढलोपविधिवैयथ्र्यात् । घाक्ष्यते इति । इडभावे हस्य ढः, गस्य भष् घकारः, ढस्य कः, सस्य ष इति भावः । अगाहिष्टेति । सिच इट्, सस्य षः, तकारस्य ष्टुत्वेन टः । इडभावे त्वाह — अगाढेति । अगाह् स् त इति स्थिते सिच इडभावेझलो झली॑ति लोपः । ढत्वधत्वष्टुत्वढलोपः । सलोपात्पूर्वं भष्भावस्तु न, भष्भावस्याऽसिद्धतयाझलो झली॑ति सलोपस्य पूर्वं प्रवृत्तेः । न च कृतेऽपि सलोपे प्रत्ययलक्षणेन सकारपरकत्वात् भष् दुर्वार इति शङ्क्यं, वर्णाश्रये प्रत्ययलक्षणाऽभावादिति भावः । अधाक्षातामिति । इडभावपक्षे ढघकषाः । अघाक्षतेति । पूर्ववत् । अगाढा इति । थास् सिच् । इडभावे सलोपः । ढत्वधत्वष्टुत्वढलोपाः । अघाढ्वमिति । ध्वमि इडभावपक्षे सलोपः । ढत्वघत्वष्टुत्वढलोपाः । ध्ममाश्रित्य ढलोपात्पूर्वं भष्भावः । अघाक्षीति । इडभावे हस्य ढः, भष्भावः, ढस्य कः, सस्य षत्वमिति भाव- । अघाक्ष्वहि । अघाक्ष्महि । अगाहिष्यत अघाक्ष्यत । गृहूधातुरूदित् ऋदुपधः । गर्हते इति । लटस्तिपि शपि लघूपधगुणे रपरत्वम् । जगृहे इति ।असंयोगा॑दिति कित्त्वाद्गुणाऽभावः । न च कित्त्वात् परत्वाद्गुणः शङ्क्यः ,ऋदुपधेभ्यो लिट कित्त्वं गुणात्पूर्वप्रतिषेधेने॑ति वार्तिकादिति भावः । ऊदित्त्वादिड्विकल्पं मत्वा आह — जगृहिषे जघृक्षे इति । अभ्यासे उरदत्वं, हलादिः शेषः, जश्त्वम्, इट्, षत्वम् । इडभावे तु ढत्वभष्भावकत्वषत्वानि । ध्वमि जगृहिध्वे इति सिद्धवत्कृत्य इडभावे आह — जघृढ्वे इति । हस्य ढः, भष्भावष्टुत्वढलोपाः । गर्ढेति । इडभावे गुणे रपरत्वे ढत्वधत्वष्टुत्वलोपाः । घक्ष्र्यते इति । गुणः, रपरत्वं, हस्य ढः, भष्भावः, ढस्य कः षत्वम् । अगर्हिष्टेति । सिच इटि गुणे रपरत्वे षत्वे रूपम् ।
ढो ढे लोपः - अगाढेति ।झलो झली॑ति सलोपः । ढत्वधत्वष्टुत्वढलोपाः । सिज्लोपात्पूर्वं भष्भावस्तु न , असिद्ध्तवात् । भष्भावस्तु सिज्लोपानन्तरमपि न बवति, सकारपरत्वाऽभावात् । न च कृतेऽपि सलोपे प्रत्ययलक्षमेन सिच्परत्वाद्भष्भावो दुर्वार इति शङ्यं, वर्णाश्रये प्रत्ययलक्षणाऽभावात् । अन्यथा गवे हितं गोहितमित्यत्राऽवादेशः स्यादिति दिक् । जगृहे इति । कित्त्वात्परत्वात्पुगन्ते॑ति गुणे प्राप्तेरऋदुपधेब्य॑ इति वार्तिकात्कित्त्वे गुणाऽभावः ।
लघुसिद्धान्तकौमुदी
-
महाभाष्यम्
ढो ढे लोपः ।। ढलोपेऽपदान्तग्रहणम्।। ढलोपेऽपदान्तग्रहणं कर्तव्यम्। इह मा भूत्-श्वलिड्ढौकते गुडलिड्ढौकते।। तत्तर्हि वक्तव्यम्?।। न वक्तव्यम्। जश्त्वमत्र बाधकं भविष्यति।। जश्भावादिति चेदुत्तरत्र ढस्याऽभावादपवादप्रसङ्गः।। जश्भावादिति चेदुत्तरत्र ढकारस्याऽभावादसिद्धत्वादपवादोऽयं विज्ञायेत।। कस्य?।। जश्त्वस्य।। तस्मात्सिद्धवचनम्।। तस्मात्सिद्धत्वं वक्तव्यम्।। कस्य?।। सङ्ग्रहणं वा।। सङ्ग्रहणं वा कर्तव्यम्। सङि ढ इति वक्तव्यम्।। तत्तर्हि वक्तव्यम्?।। न वक्तव्यम्। आनन्तर्यमिहाश्रीयतेढकारस्य ढकार इति।। क्व चिच्च सन्निपातकृतमानन्तर्यं शास्त्रकृतमनानन्तर्यं(1), क्व चिच्च नैव सन्निपातकृतं, नापि शास्त्रकृतम्। ष्टुत्वे संनिपातकृतमानन्तर्यं शास्त्रकृतमनानन्तर्यं(2), जश्त्वे नैव संनिपातकृतं, नापि शास्त्रकृतम्। यत्तु कुतश्चिदेवानन्तर्यं तदाश्रयिष्यामः।