Page loading... Please wait.
8|3|116 - स्तम्भुसिवुसहां चङि
॥ तस्मै पाणिनये नमः ॥
8|3|116
SK 2580
स्तम्भुसिवुसहां चङि   🔊
सूत्रच्छेदः
स्तम्भुसिवुसहाम् (षष्ठीबहुवचनम्) , चङि (सप्तम्येकवचनम्)
अनुवृत्तिः
-
अधिकारः
पूर्वत्रासिद्धम्  8|2|1 संहितायाम्  8|2|108 अपदान्तस्य मूर्धन्यः  8|3|55 इण्कोः  8|3|57
सम्पूर्णसूत्रम्
Will be updated soon
सूत्रार्थः
Will be updated soon.
One-line meaning in English
Will be updated soon.
काशिकावृत्तिः
स्तम्भु सिवु सह इत्येतेषां चङि परतः सकारस्य मूर्धन्यादेशो न भवति। स्तन्भेः 8|3|77 इति, परिनिविभ्यः इति च प्राप्तः मूर्धन्यः प्रतिषिध्यते। स्तम्भु पर्यतस्तम्भत्। अभ्यतस्तम्भत्। सिवु पर्यसीषिवत्। न्यसीषिवत्। सह पर्यसीषहत्। व्यसीषहत्। स्तम्भुसिवुसहां चङ्युपसर्गादिति वक्तव्यम्। उपसर्गाद्या प्राप्तिः तस्याः एव प्रतिषेधो यथा स्यात्, अभ्यासाद्या प्राप्तिः तस्या मा भूतिति। तथा च एव उदाहृतम्।
अत्राद्यस्य `स्तन्भेः` 8|3|67 इति षत्वे प्राप्ते, इतरयोस्तु `परिनिविभ्यः` 8|3|70 प्रतिषेधेऽयमारभ्यते। `अभ्यतस्तम्भत्` इति। णिच्, लुङ्, णिश्रिद्रुरुआउभ्यः कत्र्तरि चङ्` 3|1|48 , णिलोपः, `चङि` 6|1|11 इति द्विर्वचनम्, पूर्ववत्? खयः शेषः, अट्, `प्राक्सितादड्व्यवायेऽपि` 8|3|63 , `स्थादिष्वभ्यासेन चाभ्यासस्य` 8|3|64 इति व्यवाये सत्युपसर्गस्थान्निमित्तातु षत्वं प्राप्तं न भवति। `पर्यसीषिवत्` इत्यादि। पूर्ववल्लुङादि, सिवेर्लधूपधगुणः, सहेस्तु `अत उपधायाः` 7|2|116 इति बृद्धिः, `सन्वल्लघुनि` 7|4|93 इतीत्त्वे, उभयोः `णो चङ्युपधायाः` 7|4|1 इति ह्यस्वः। `दीर्घो लघोः` 7|4|94 इति दीर्घः। अत्रापि `सिवादीनां वाङ्यवायेऽपि` 8|3|71 इत्यङ्व्यवाय उपसर्गस्यान्निमित्तात्? परेषां प्राप्नोति, तत्र भवति। `सिवुसहोः` इत्यादि। एतयोः सिवुसहोश्चङ्युपसर्गस्थान्निमित्तात्? षत्वं प्राप्नोति, तनमा भूदित्येवमर्थरूपं व्याख्येयमित्यर्थः। किमर्थम्? इत्याह--`उपतर्गाद्या प्राप्तिः` इत्यादि। तत्रेदं व्याख्यानम्--`डपसर्गात्? सुनोति` 8|3|65 इत्यतो मण्डूकप्लुतिन्यायेनोपसर्गादितीहानुवत्र्तते। तेनोपसर्गाद्या प्राप्तिस्तस्या एव प्रतिषेधो भविष्यतीति। `तथा चैवोदाह्मतम्` इति। यत्तदर्थरूपं व्याख्येयम्, तत्तथोक्तम्। तदर्थरूपमेवोदाह्मतमित्यर्थः॥
लिटि द्विर्वचने कृते द्वौ सकारौ भवतः, तत्र सदेः ठ्स्थादिष्वभ्यासेन चऽ इति वचनात् ठ्सदिरप्रतेःऽ इति षत्वप्रसङ्गः, स्वञ्चेरपि ठुपसर्गात्सुनोतिऽ इत्यादिना । परिषस्वज इति । कथं पुनरत्र नलोपः, यावता संयोगान्तत्वान्नात्र लिटः कित्वमस्ति ? अत आह---स्वञ्जेरिति । एतच्च ठिन्धिभवतिभ्यां चऽ इत्यत्र व्याख्यातम्, स्वञ्जिग्रहणञ्च वार्तिके दर्शनात्सूत्रे प्रक्षिप्तम्, यथाह---ठ्सदो लिटि प्रतिषेधे स्वञ्चेरुपसंख्यानम्ऽ इति ॥
सिद्धान्तकौमुदी
उपसर्गस्थान्निममित्तादेषां सस्य षो न स्याच्चङि । अवातस्तम्भत् । पर्यसीषिवत् । न्यसीषहत् । आटिटत् । आशिशत् । बहिरङ्गोऽप्युपधाह्रस्वोऽद्वित्वात्प्रागेव । ओणेर्ऋदित्करणाल्लिङ्गात् । मा भवानिदिधित् । एजादावेधतौ विधानान्नेह वृद्धिः । मा भवान्प्रेदिधत् । न न्द्राः--- (कौमुदी-2446) इति नदराणां न द्वित्वम् । औन्दिदत् । आड्डिडत् । आर्चिचत् । उब्ज आर्जवे । उपदेशे दकारोपधः । भुजन्युब्जौ पाण्युपतापयोः (कौमुदी-2877) इति सूत्रे निपातनाद्दस्य वः । स चान्तरङ्गोऽपि द्वित्वविषये न न्द्राः (कौमुदी-2446) इति निषेधाज्जिशब्दस्य द्वित्वे कृते प्रवर्तते न तु ततः प्राक् । दकारोच्चारणसामर्थ्यात् । औब्जिजत् । अजादेरित्येव । नेह । अदिद्रपत् ॥
Text Unavailable. Please use feedback link below to provide the text if you have.
स्तन्भुः सौत्रः। `षिवु तन्तुसंताने`। षह मर्षणे`। स्तन्भतेः `स्तन्भेः` इत्यनेन प्राप्तिरन्ययोस्तु `परिनिविभ्यः` इत्यनेनेति विवेः। आटिटत्। आशिशदिति। णिचा सह द्वित्वात्सन्वद्भावो नेति त्दविषये विहितो यो `दीर्घो लघो`रिति दीर्घः स न प्रवर्तते। ऋदित्करणाल्लिङ्गादिति। यदि पूर्वं द्विर्वचनं भवेत्तद। णिशब्दस्य द्वित्वे सत्युपधाह्रस्वस्याऽप्राप्तेस्तत्प्रतिषेधार्थमृदित्करणं व्यर्थं स्यादतस्तदुक्तेऽथ ज्ञापकमेव। एजादावेधताविति। `एत्येधत्यूठ्सु` इति सूत्रे `एजाद्योरेत्येधत्यो`रिति व्याख्यातत्वादिति भावः। न च मा भवान्प्रेदिधदित्यत्र `णौ चङी`ति ह्रस्वे कृते नायमेधतिरिति वृद्धेरप्रवृत्तौ किमेधतेरेजादिविशेषमेनेति वाच्यम्, एकदेशविकृतस्याऽनन्यत्वात्। न चैवमपि `अजादेर्द्वितीयस्ये`ति धिशब्दस्थाने धिधिशब्दादेशे सति वस्नसोरिव प्रकृतिप्रत्ययविभाघसंमोह इति वाच्यं, `द्विः प्रयोगो द्विर्वचनं षष्ठ`मिति भाष्ये सिद्धान्ततत्वात्। अन्यथा इहैव प्रेदिधदित्यत्र णिलोपो न स्यात्, `जिघांसती`त्यादौ सनः सकारेण विशिष्टस्य द्वित्वे कृते कुत्वं च न स्यादिति दिक्। उब्ज आर्जव इति। अयमुपध्मानीयोपध इति वार्तिककृतोक्तम्। तस्य `झलां जश् झशी`ति झश्त्वेन बकारे कृते-- अब्जिता उब्जितुमिति रूपम्। एतच्चाऽयोगवाहानां शर्षु पाठस्य फलम्। भाष्यकारादयस्तूपध्मानीयोपधपाठे `उब्जिजिषती`ति रूपं न सिध्येत्। यदि `पूर्वत्राऽसिद्धीयमद्विर्वचने` इत्याश्रित्य बकारोत्तरं द्वित्वं क्रिये, यदि वा अस्याऽनित्यतामाश्रित्य बकारात्पूर्वमेवोपध्मानीयस्य द्वित्वमुभयतापीष्टरूपाऽसिद्धिः, आद्ये उबिब्जिषति, द्वितीये तूपध्मीनीयस्याऽच्त्वात्तदादेः `अजादेर्द्वितीयस्ये`ति द्वित्वे हलादिः शेषे द्वितीयोपध्मानीयस्य जश्त्वेन बकारे पश्चात्प्रथमस्यापि तथैव बकारे उब्ब्जिषतीत्यापत्तेः। ततश्चेष्टसिद्धये दकारोपधोऽयं स्वीकार्यः। `बुजन्युब्जा`विति निपातनादुपधादकारस्य बो भवतीति वाक्यं कल्प्यते, तच्च `स्तोः श्नुना श्चु`रित्यस्याग्रे। तदयमर्थः--- श्चुना योगे उद्?जेर्दकारस्य बकार इति। अभ्युद्रः समुद्र इत्यत्र तु उब्जिता उब्जितुमित्यत्रेव चवर्गयोगो नास्तीति न बकारः। दकारोपधे चास्मन्स्वीकरृते `न न्द्राः` इति निषेधाज्जिशब्दस्य द्वित्वे ततो बकारे च उब्जिजिषतीति सिध्यति रूपम्। न च `पूर्वत्रासिद्धीयमद्विर्वचने`इति धकारोत्तरं द्विर्वचने सति स्यादेवाऽनिष्टमिति वाच्यम्, द्विर्वचने हि त्रैपादिकं सिद्धं न तु तन्निषेधेऽपि। तथा च निषेधे त्रिपादीश्थस्याऽसिद्धत्वात् `न न्द्राः` इति निषेधः प्रवर्तते। य्दवा तादृशवाक्यमिह न कल्प्यते किं तु `भुजन्युब्जौ` इति निपातनेन दस्य ब इति। न चैवं बकारसहितस्य द्वित्वप्रसङ्गः, धातोर्दकारोच्चारणसामथ्र्यात्। नचाऽभ्युद्र इत्यादावपि बकारश्रवणप्रसङ्गः, अकुत्वविषय एव बकारनिपातनाभ्युपगमात्। यद्वा अभ्युद्र इत्यादि रूपं द्व्युपसर्गाद्रमेर्डप्रत्यये ज्ञेयम्। उद्?जेस्तु घञि अनभिधात्प्रयोगाऽभाव इति वदन्ति। तदेतद्भाष्यादिमतमभिप्रेत्याह-- उपदेशे दकारोपध इत्यादि। अजादेरित्येवेति। `न न्द्राः` इत्यत्र अजादेरित्यनुवर्तते, तेन आदिभूतादचः परा एव नदरा द्विर्नोच्यन्ते नान्ये इत्यर्थः। ननु `लावस्थायामेव `अ`डिति भाष्याकोरक्तपक्षे अदिद्रपदित्यत्र अजादित्वमस्त्येव, न्याय्यश्च प्रथममट्, परत्वादन्तरङ्गत्वाच्चेति चेत्। अत्राहुः-- द्वितीयस्येत्यप्यत्रानुवर्तते, तत्सामथ्र्याच्च नित्यं द्वितीयस्येति तदर्थः। तेन लावस्थायामटि कृतेऽपि दातुसंज्ञाप्रवृत्तिकाले अजादित्वाऽभावान्नोक्तदोषः। नित्यं द्वितीयस्यैकाचो ये नदरास्तेषामेव निषेधात्। न चैवं नित्य#ं द्वितीयस्येति व्याख्ययैव इष्टसिद्धावजादेरित्यस्याऽत्रानुवृत्तिर्मास्त्विति वाच्यम्, इन्द्रिदीयिषतीत्यत्र दकारस्यापि द्वित्वनिषेधापत्तेः। अजादेरित्युक्तौ त्वादिभूतदचः परत्वं दकारस्य नेति सिद्धमिष्टम्। न च अजादेरिति कर्मधारयात्पञ्चमीत्युक्तत्वात्। इह च एकदेशे स्वरितत्वं प्रतिज्ञाय अच इत्येवानुवत्र्यताम्। अथवा आदेरित्य्सयाप्यनुवर्तनमस्तु, तस्य नावयवपरत्वं, किंतु पूर्ववर्तिमात्रपरत्वं, शब्दाधिकाराश्रयणादिति ज्ञेयम्। नन्वेवमुत्तरार्थतया द्वितीयस्येति ग्रहणस्य सार्थकत्वे स्थिते `द्वितीयस्येति न वक्तव्य`मिति भाष्यं विरुध्येतेति चेत्। मैवम्। यस्मिन्सूत्रे पठितं तत्र मास्त्विति तदाशयात्। रन च अजादेरित्येतावत्युक्तेयस्य कस्यचिदेकाचो द्वित्वं स्यादिति वाच्यम्, प्रथमस्यैकाचः पूर्वेणैव सिद्धेः पुनरारम्भो द्वितीयस्य द्वित्वार्थमिति सुवचत्वात्।
लघुसिद्धान्तकौमुदी
-
महाभाष्यम्
स्तम्भुसिवुसहां चङि ।। स्तम्भुसिवुसहां चङ्युपसर्गात्।। स्तम्भुसिवुसहां चङ्युपसर्गादिति वक्तव्यम्।। किं प्रयोजनम्?।। उपसर्गाद्या प्राप्तिस्तस्याः प्रतिषेधो यथा स्यादभ्यासाद्या प्राप्तिस्तस्याः प्रतिषेधो मा भूदिति। पर्यसीषहत्।। (स्तम्भुसिवु)