Page loading... Please wait.
8|3|112 - सिचो यङि
॥ तस्मै पाणिनये नमः ॥
8|3|112
SK 2640
सिचो यङि   🔊
सूत्रच्छेदः
सिचः (षष्ठ्येकवचनम्) , यङि (सप्तम्येकवचनम्)
अनुवृत्तिः
-
अधिकारः
पूर्वत्रासिद्धम्  8|2|1 संहितायाम्  8|2|108 अपदान्तस्य मूर्धन्यः  8|3|55 इण्कोः  8|3|57
सम्पूर्णसूत्रम्
Will be updated soon
सूत्रार्थः
Will be updated soon.
One-line meaning in English
Will be updated soon.
काशिकावृत्तिः
सिचः सकारस्य यगि परतो मूर्धन्यादेशो न भवति। सेसिच्यते। अभिसेसिच्यते। उपसर्गातिति या प्राप्तिः सा पदादिलक्षणम् एव प्रतिषेधं बाधते, न सिचो यङि इति। तस्मादयं प्रतिषेधः सर्वत्र भवति। यङि इति किम्? अभिषिषिक्षति।
`आदेशप्रत्यययोः` 8|3|59 इति `उपसर्गात्? सुनोति` 8|3|65 इति च प्राप्तस्य षत्वस्यार्य प्रतिषेधः। `सेसिच्यते` इति। `आदेशप्रत्यययोः` 8|3|59 इति प्राप्तिः। `अभिसेसिच्यते` इति। अत्र `उपसर्गात्? सुनोति` 8|3|65 इत्यादिना। कथं पूनरत्र प्रतिषेधः प्रवत्र्तते? यावता `उपसर्गात्` 8|3|65 इत्यादिना सूत्रेण षत्वं प्रतिषेधविषये विधीयते। अत्रोपसर्गस्थान्निमित्ताद्या प्राप्तिः सा यथा `सात्पदाद्योः` 8|3|113 इतीमं पदादिलक्षणप्रतिषेधं बाधते, तथा `सिचो यङि` 8|3|112 इत्यतच्च? इति देश्यमाशङ्क्याह--`उपसर्गाथा प्राप्तिः` इत्यादि। येन नाप्राप्तिन्यायेन (व्या।प।49) पदादिलक्षणस्यैव प्रतिषेधस्य बाधा युक्ता, तत्र प्राप्त एवोपसर्गार्थमारभ्यते, `सिचो यङि` 8|3|112 इत्येतस्मिन्? पुनः प्राप्ते चाप्राप्ते च। अथ वा--`पुरस्तादपवादा अनन्तरान्? विधीन्? बाधन्ते नोत्तरान्` (व्या।पा।9) इत्येवमुपसर्गात्? षत्वप्राप्तिः सिचः पदादिलक्षणमेव प्रतिषेधं बाधते, न तु सिचो यङीत्यभिप्रायः॥
ठ्स्तन्भेःऽ इति प्राप्तिः प्रति षिध्यते ॥
सिद्धान्तकौमुदी
सिचः सस्य षो न स्याद्यङि । निसेसिच्यते ॥
Text Unavailable. Please use feedback link below to provide the text if you have.
सिचो यङि - शासिवसीति प्राप्तमपि नेति । एवं चअविन्द उरिउआयाः॑ इति मन्त्रे षत्वाऽभावः सिद्धः । माधवस्तु वृत्तिग्रन्थानुरोधेन बाहुलकादिह षत्वं नेति व्याचष्टे ।उरुआओ वृषे च किरणे उरुआआऽर्जुन्युपचित्रयोः॑ इति मेदिनी ।माहेयी सौरभेयी गौरुरुआआ माता च श्रङ्गिणी॑त्यमरः ।वाश्रो ना दिवसे क्लीबं मन्दिरे च चतुष्पथे॑ इति मेदिनी ।वाश्रो रासभपक्षिणोः॑ इति केचित् । माधवेन तुवाश्रेव विद्युन्मिमाति॑ इति मन्त्रे शब्दयुक्ता प्रस्नुतस्तना धेनुर्वाश्रेति व्याख्यातम् ।शुभ्रं स्यादभ्रके क्लीबमुद्दीप्तशुक्लयोरिउआषु इति मेदिनी । मुरुआमिति । मुस खण्डने । चकि । चक तृप्तौ, रमु क्रीडायाम्,चुक्रस्त्वम्लेऽम्लवेतसे । चुक्री चाङ्गेरिकायां स्याद्वृक्षाम्ले चुक्रमिष्यते॑ इति विआः । वौ कसेः । कस गतौ । विपूर्वादस्माद्रक् स्यादुत्वं चोपधायाः । अमि । अम गत्यादिषु, तमु काङ्क्षायाम् । आभ्यां रक् स्यादुपधाया दीर्घश्च । निन्देः । णिदि कुत्सायाम् । अर्देः । अर्द गतौ ।आद्र्रा नक्षत्रभेदे स्यात्स्त्रियां क्लिन्नेऽभिधेयव॑दिति मेदिनी । शुचेः । शुच शोके, अस्माद्रक् दश्चान्तादेश ,धातोर्दीर्घश्च । शूद्रो वृषलः ।अहहा रे त्वा शूद्र॑ इति श्रुतौ तु रूढेर्बाधाद्योग एव पुरस्कृतः । तथा चोत्तरतन्त्रे भगवता व्यासेन सूत्रितं — ॒शुगस्य तदनादरश्रवणा॑दिति । दुरीणो । इणा गतावित्यस्माद्दुपपदेरक् स्याद्धातोर्लोपश्च ।रो री॑ति रेफस्य लोपेढ्रलोपे॑ इति दीर्घः । कृतेः । कृती च्छेदने इत्यस्माद्रक् स्याच्छक्रू इत्येतावादेशौ च स्तः । छस्त्वन्त्यस्यादेशः ।क्रू॑ त्वनेकाल्वात्सर्वस्यादेशः ।कृच्छ्रमाख्यातमाभीले पापसंतापनादिनोः॑ इति विआमेदिन्यौ ।स्यात्कष्टं कृच्छ्रमाभील॑मित्यमरः ।क्रूरस्तु कठिने धोरे नृशंसे चाभिधेयवदि॑ति विआः ।नृशंसो धातुकः क्रूरः पापो धूर्तस्तु वञ्चकः॑ इत्यमरः । रोदेः । रुदिर् अश्रुविमोचने, ण्यन्तादस्माद्रक्,णेश्चलुक् ।णेरनिटी॑ति लोपे तुपुगन्ते॑ति गुणः स्यादिति णिलुक् चेत्युक्तम् । रोदयतीति रुद्र इति । नन्वेवंसोऽरोदीद्यदरोदीत्तद्रुद्रस्य रुद्रत्व॑मिति श्रुत्या सह विरोधोऽत्र स्यादिति चेत् । अत्राहुः — कर्तरि कृ॑दिति सूत्रानुरोधेन शम्भुरित्यत्र शं भावयतीत्यन्तर्भावितण्यर्थता यथा स्वीक्रियते तथा अरोदीदित्यत्राप्यन्तर्भावितण्यर्थतायां स्वीकृतायं रोदनं कारितवानित्यर्थलाभान्नास्ति श्रुतिविरोधः । न च देवैरग्नौ वामं वसु स्थापितं तच्चधनं देवैयर्याचितं तेदग्निस्तु रोदनं कृतवानिति सोऽरोदीदित्यादिश्रुत्यर्थादिहान्तर्भावितण्यर्थकल्पनं न संभवतीति श्रुतिविरोधस्त्वपरिहार्य एवेति वाच्यम्, दैवैः स्थापितं वामं वसु देवेभ्योऽग्निना न दत्तं, ते देवा एव रोदनं कृतवन्तः । अग्निस्तु तदीयमदत्वा रोदनं कारितवानित्यर्थकल्पनायाः संभवात् । अथवाऽग्नौ प्रयुज्यमानरुद्रशब्दस्य रोदितीति रुद्र इत्येवार्थोऽस्तु, परन्तु ब्राहृविष्णुरुद्रा इति व्यवह्यियमाणो यो रुद्रस्तद्वाचकरुद्रशब्दस्य रोदेरित्युणादिसूत्रान्तरात्प्रत्ययान्तरेऽपि णेर्लुगित्यर्थः । संज्ञायामुदाहरणम् — बृंहयति वर्धयति प्रजा इति ब्राहृआ । शं सुखं भावयतीति शम्भुरित्यादि । छन्दसि तु वृधु वृद्धौ ।वर्धन्तु त्वा सुष्टुतयः । वर्धयन्त्वित्यर्थः ।य इमा जजान॑ । जनी प्रादुर्भावे लिटि रूपम् । जनयामासेत्यर्थः । इह णलि परतःअत उपधायाः॑ इति वृद्धिर्भवत्येव,जनिवध्योश्च॑ इति निषेधस्यचिणि ञिति णिति किति च स्वीकारात् । न च णिलोपे सति प्रत्ययान्तत्वात्कास्प्रत्यया॑दित्याम्स्यादिति वाच्यम्, अमन्त्र इति पर्युदासादामोऽप्रसक्तेः ।कास्यनेकाच॑ इति वार्तिकेन तु आम्शङ्का दूरापास्तैव, लिटि णिलोपे सत्यनेकाच्त्वाऽभावात् । ननु णलिणेरनिटी॑त्यनिडादावाद्र्धधातुके णिलोपे जजानेति रूपं सिद्धमिति किमनेन लुक्युदाहरणेनेति चेन्मैवम् । णिलोपे सतिजनीजृषन्कसुरञ्जोऽमन्ताश्चे॑ति णौ मित्त्वेमितां ह्यस्वः स्यात्, प्रत्ययलक्षणन्यायेन णिपरत्वसंभवात् । ततश्चजनेनेति स्यात् । लुकि सति तु प्रत्ययलक्षणन्यायो न प्रवर्तत इति मित्त्वाऽभावादिष्टं सिध्यति । बाहुलकादसंज्ञाछन्दसोरपि क्वचिद्भवतीत्याशयेनोदाहरति — वान्तीत्यादि ।पर्णानि शोषयन्तीति पर्णशु षः । पर्णानि मोचयन्तीति पर्णमुचः । जोरी च । जु गतौ सौत्रोऽस्माद्रक्, ईकारश्चान्तादेशः ।जीरः खड्गे वणिद्ग्रव्ये॑ इति विआः ।जीरस्तु जरणे खड्गे॑ इति मेदिनी । ज्यश्चेति । ज्या वयोहानौ । अस्माद्रक्ग्रहीज्ये॑ इति संप्रसारणं पूर्वरूपम्हलः॑इति दीर्घः । एके इति । मुख्या इत्यर्थः । तथा च न धातुलोपे॑ इति सूत्रे जीवेरदानुरित्यस्य प्रत्याख्यानार्थं नैतज्जीवेरूपं किं तु रकिज्यः संप्रसारण॑मिति भाष्ये उक्तम् । सुसूधा । षुञ् अभिषवे, षूञ् प्राणिगर्भविमोचने, डुधाञ् धारणादौ, गृधु अभिकाङ्क्षायाम् ।सुरा चषकमद्योः । पुंलिङ्गस्त्रिदिवेशे स्यात् इति मेदिनी ।सुरो देवे सुरा मद्ये चषकेऽपि सुरा क्वचित् इति विआः । सुबति प्रेरयति कर्मणि लोकमिति सूरः सूर्यः ।सूरसूर्यार्यमादित्ये॑त्यमरः ।दीरो धैर्यान्विते स्वैरे बुधेक्लीबं तु कुङ्कुमे । स्त्रियां श्रवणतुल्याया॑मिति मेदिनी ।गृध्रः खगान्तरे पुंसि वाच्यलिङ्गोऽथ लुब्धके॑ इति च ।शुसिचि । शु गतौ, षिञ् बन्धने, चिञ् चयने, डुमिञ् प्रक्षेपणे, एभ्यः कन्ेषां दीर्घत्वं च ।शूरः स्याद्यादवे भटे॑ इति मेदिनी ।शूरश्चारु(र)भटे सूर्ये॑ इति विआहेमचन्द्रौ ।सीरोऽर्कहलयोः पुंसि चीरी झिल्ल्यां नपुंसकम् । गोस्तने वरुआभेदे च रेखालेखनभेदयोः॑ इति मेदिनी ।चीरं तु गोस्तने वरुओ चूडायां सीम(स) केऽपि च । चीरी कृच्छ्राटिकाझिल्ल्योः॑ इति विआः । वा विन्धेः । ञीन्धी दीप्तौ । विपूर्वादस्मात् क्रन् ।अनिदितामि॑ति नलोपः ।वीघ्रं तु विमलात्मक॑मिति विशेष्यनिघनेऽमरः । वृधि । वृधु वृद्धौ, डुवप् बीजसन्ताने ।वप्रः पितरि केदारे वप्रः प्राकाररोधसोः॑ इति धरणिरन्तिदेवौ ।वप्रस्ताते पुमानस्त्री रेणौ क्षेत्रे चये तटे॑ इति मेदिनी ।ऋज्रेनद्राग्र । ऋज गतिस्थानादिषु,इदि परिमैआर्ये,अगि गतौ ,वज गतौ, डुवप् बीजसन्ताने, कुबि आच्छादेन, चुबि वक्रसंयोगे, भदि कल्याणे, शुच शोके , गुङ् अव्यक्ते शब्दे, इण् गतौ । नायक इति ।ऋज्राआः पृष्टिभिरम्बरीषः इति मन्त्रे ऋज्रा गतिमन्तोऽस्वा यस्य स ऋज्राआ इति वेदभाष्यम् ।इन्द्रः शचीपतावन्तरात्मन्यादित्ययोगयोः॑ इति विआः ।अग्रं पुरस्तादुपरि परिमाणे पलस्य च ।आलम्बने समूहे च प्रान्ते स्यात्पुंनपुंसकम् । अधिके च प्रधाने च प्रथमे चाभिधेयवत् इति मेदिनी ।भद्रः शिवे खञ्जरीटे वृषभे तु कदम्बके । करिजातिविशेषे ना क्लीबं मङ्गलमुस्तयोः॑ इति च ।उग्रः शूद्रासुते क्षत्राद्रुद्रे पुंसि त्रिषूत्कटे । स्त्रीवचांक्षुद्रयोः॑ इति मेदिनी । भेरीति । गौरादित्वान्ङीष् ।॒भेरी स्त्री दुन्दुभिः पुमा॑नित्यमरः ।भेलः प्लवे भीलुकेच निर्बुद्धिमुनिभेदयोः॑ इति विआः ।भेलः प्लवे मणौ पुंसि भीरावज्ञे च वाच्यव॑दिति ।शुक्रः स्याद्भार्गवे ज्येष्ठमासे वैआआनरे पुमान् । रेतोऽक्षिरुग्भिदोः क्लीबं शुक्लो योगान्तरे सिते । नपुंसकं तु रजते॑ इति च ।गौरः पीतेऽरुणे ओते विशुद्धेऽप्यभिधेयवत् । ना ओतसर्षपे चन्द्रे न द्वयोः पद्मकेसरे । गौरी त्वसंजातरजः कन्याशङ्करभार्ययोः । रोचने रजनीपिङ्गाप्रियङ्गुवसुधासु च । आपगाया विशेषेऽपि यादसांपतियोषिति॑ इति च मेदिनी ।नदीभेदेच गौरीस्याद्वरुणस्य च योषिति॑ इति विआः ।अष्टवर्षा तु या दत्ता श्रुतशीलसमन्विते । सागौरी तत्सुतो यस्तु स गौरः परिकीर्तितः॑ इति ब्राहृआण्डवचनं श्राद्धकाण्डे हेमाद्रिणोदाह्मतम् । एतेनगौरः शुच्याचारः॑ इत्यादि भाष्यं व्याख्यातम् ।इरा भूवाक्सुराप्सु स्या॑दित्यमरः । मालेति । प्रत्ययरेफस्य लत्वम् ।मालं क्षेत्रे स्त्रियां पृक्कारुआजोर्जात्यन्तरे पुमा॑निति मेदिनी ।मालं क्षेत्रे जिने मालो माला पुष्पादिदामनी॑ति विआः ।मालमुन्नतभूतल॑मित्युत्पलः ।क्षेत्रमारुह्रमाल॑मिति मेघदूतः । मणिपूर्वोऽयमर्थान्तरे रूढः ।मणिमालास्मृता हारे स्त्रीणां दन्तक्षताऽन्तरे॑ इति विआः । [बाहुकटौ॑ इति मेदिनी ] ।समि कस ।संकुसुकोऽस्थरः॑ इति विशेष्यनिघ्नेऽमरः । पचिनशोः । डुपचष् पाके, णश अदर्शने । आभ्यां णुकन् प्रत्ययः स्यात् । णकारो वृद्ध्यर्थः । अनयोर्यथाक्रमं कादेशनुमागमौ च भवतः । भियः । ञिभी भये ।अधीरे कातररुआस्नौ भीरुभीरुकभीलुकाः॑ इत्यमरः । क्वुन् । शिल्पिन्यभिधेये संज्ञायां गम्यमानायां च क्वुन् स्यादपूर्वस्य निरुपपदस्य च । अपिशब्दात्सोपपदस्य । पञ्चम्यर्थे षष्ठी । यद्वा अर्थद्वारकसंबन्धे षष्ठी, प्रकृतिप्रत्ययार्थयोः क्रियाकारकभावात् । एवं च निरुपपदप्रकृत्यर्थनिरूपतिकर्तृकारके क्वुन्नित्याद्यर्थः फलितः । शिल्पिनि तावत् — रञ्ज रागे ।रजको धावको शुके॑ इति विआः ।रजकौ धावकशुकौ॑ इति हेमचन्द्रः ।कुट्ट छेदने॑ । इक्षून् कुट्टयति गौडिकः । चर गतिभक्षणयोः । संज्ञायां तुचषकोऽस्त्री पानमात्रम् । शुन गतौ, भष भत्र्सने । शुनकः भषकः आआ । लमक इति । ऋषिविशेषः । जहातेः । ओहाक् त्यागे । ध्मो धम च । ध्मा शब्दाग्निसंयोगयोः । कुहको दाम्भिकः । कृतकमिति । कृती छेदने । कृषेः । कृष विलेखने । अस्मात्क्वुन् । [वृद्धिश्च] । कार्षकः कृषीवलः । कृषकः सएव ।कृषकः पुंसि फाले स्यात्कर्षके त्वभिधेयवत् इति मेदिनी । उदकं च । उन्दी क्लेदने अस्मात्क्वुन् । ननुक्वुन् शिल्पि॑ इत्यादिना गतार्थमित्याशङ्कायामाह — प्रपञ्चार्थमिति । वृश्चिकृष्योः । ओव्रश्चू छेदने, कृष विलेखने । प्राङि । पण व्यवहारे । कषशिषेति दण्डके हिंसार्थकः । मुषेः । मुषस्तेये अस्मात्किकन् धातोर्दीर्घश्च । स्यमेः । स्यमु शब्दे । क्रियः । डुक्रोञ् द्रव्यविनिमये । आङि पणि । पण व्यवहारे स्तुतौ च, पन च, पत्लृ गतौ, खनु अवदारणे, एभ्य आङि उपपदे इकन् स्यात् । आपणिक इति । नन्वेत्रैव प्रपूर्वे आङि प्रापणिक इति सिद्धौप्राङि पणी॑त्यत्र पणिग्रहणं प्रपञ्चार्थमित्युज्ज्वलदत्तः । उपसर्गान्तरनिवृत्त्यर्थमिति तु मनोरमायाम् । आपणिकशब्दोऽयं णित्स्वरेणाद्युदात्तः । आपणेन व्यवहरतीत्यर्थे ठकि तु कित इत्यन्तोदात्तः । श्यास्त्या । श्यैङ् गतौ, स्त्यै ष्टऐ शब्दसंघातयोः,ह्मञ् हरणे, अव रक्षणादौ ।श्येनः पत्रिणि पाण्डुरे॑ इति मेदिनी । स्त्येनश्चौरः । स्तेन चौर्ये इति टचौरादिकात्पचाद्यचि तु स्तेन निर्यकारोऽपि । केचित्तुस्तायूनां पतये नमः॑ इत्यादिप्रयोगोपष्टम्भेन निर्यकारस्यापि ष्टैधातोर्माधवादिभिर्भ्वादिषु स्वीकृतत्वात्प्रकृतसूत्रेऽपि ष्टैधातुमेव पठन्तः स्तेनशब्दो निर्यकार एवेत्याहुः ।हरिणः पुंसि सारङ्गे विशदे त्वमभिधेयवत् । हरिणी हरितायां च नारीभिद्वृतभेदयोः । सुवर्णप्रतिमायां च॑ इति मेदिनी । वृजेः । वृजी वर्जने । वृजिं पापम् ।वृजिं कल्मषे क्लीबं क्लेशे ना कुटिलेऽन्यव॑दिति मेदिनी ।अजेः । अज गतिक्षेपमयोरस्मादिनच् । अजेरजादेशविधानं व्यर्थमित्यत आह — वीभावबाधनार्थमिति ।अजिनं चर्म कृतिः स्त्री॑ इत्यमरः । बहुलमन्यत्रापि । अन्यस्मादपीत्यर्थः । कठ कृच्छ्रजीवने,णल गहने,मल मल्ल धारणे, कुडि दाहे, दोअवखण्डने ।कठिनमपि निष्ठुरे स्यात्स्तब्धे तु त्रिषु नपुंसकं स्थाल्याम् । कठिनी खटिकायामपि कठिना गुडशर्करायां च॑ इति मेदिनी ।मलिनं दूषिते कृष्णे ऋतुमत्यां तु योषिति॑ इति मेदिनी । कुण्डिनमिति ।नगरं कुण्डिनमण्डजो ययौ॑ इति श्रीहर्षः । कुण्डिन ऋषिः । तस्यापत्यं कौण्डिन्यः । [यत्पुरुषीति] ।यत्पुरषि = पर्वणि दिनं खण्डितं तद्देवाना॑मिति तैत्तिरीयश्रुत्यर्थः । द्रुदक्षि । द्रु गतौ,दक्ष वृद्धौ ।द्रविणं न द्वयोर्वित्ते काञ्चने च पराक्रमे इति मेदिनी ।दक्षिणो दक्षिणोद्भूतसरलच्छन्दवृत्तिषु । अवामे त्रिषु यज्ञादिविधिदाने दिशिस्त्रियाम् इति च ।दक्षैमः सरलोदारपरच्छन्दानुवृत्तिषु । वाच्यवद्दक्षिणावाची यज्ञदानप्रतिष्ठयोः इति विआः । अर्तेः । ऋ गतौ,अस्मादिनन्कित्स्यात् । इकारश्च धातोः । रपरत्वम् ।इरिणं शून्यमूषरम् इत्यमरः ।इरिणं तूषरे शून्येऽपि॑इति मेदिनी । वेपि । टुवेपृ कम्पने, तुहिर् अर्दने, आभ्यामिनन् ह्यस्वश्च धातो- ।अटव्यरण्यं विपिनम्इत्यमरः । तुहिनमिति । लघूपधगुणे कृते ह्यस्वः । तलि.तल प्रतिष्ठायाम्, पुल महत्त्वे ।तलिनं विरले स्तोके स्वच्छेऽपि वाच्यलिङ्गम् इति मेदिनी । गर्वेः । गर्व मोचने, अस्मादिनन् अकारस्य उत् । रुहेश्च । रुह बीज जन्मनि प्रादुभावे । रोहिण इति । प्रज्ञादित्वादणि रौहिणश्चन्दनतरुः । महेः । मह पूजायाम् ।कुतस्त्वमिन्द्रमाहिनः सन् । माहिनो महनीयः पूजनीय इति वेदभाष्यम् । क्विब्वचि । वच परिभाषणे, प्रच्छ ज्ञीप्सायाम्, श्रिञ्सेवायाम्, रुआउ गतौ, प्रुङ्गतौ,जुगतौ सौत्रः । वागिति ।वचिस्वपि॑ इति संप्रसारणाऽभावः । पृच्छतीति प्राट् ।ग्रहीज्ये॑ति संप्रसारणाऽभावः ।छ्वोः शूड् इति शः ।व्रश्च॑ इति षत्वं, जश्त्वचर्त्वे, प्राशौ प्राशः । श्रीरिति ।कृदिकारा॑दिति ङीष् तु न भवति,कृतप्रत्ययस्य य इकार॑ इति व्याख्यानात् ।कृदन्तं यदिकारान्त॑मिति पक्षे तु यद्यपि ङीषः प्राप्तिरस्ति तथापि कारग्रहणसामर्थ्येन केवलस्येकारस्य ग्रहणादिकारन्तपक्षो दुर्बल इत्याहुः । दुर्घटस्तु — ङीषि श्रीमित्यपि रक्षित इच्छतीत्याह ।श्री वेषरचाशोभारारतीसरलद्रुमे । लक्ष्म्यां त्रिवर्गसंपत्तिविद्योपकरणेषु च । विभूतौ च मतौ च स्त्री॑ति मेदिनी ।जूराकाशे॑ इत्यादिमूलोदाह्मतमपि मेदिनी । आप्नोतेः । आप्लृ व्याप्तौ, अस्मात्क्विप् धातोश्च दीर्घः । श्लुवद्भावाद्द्विर्वचनम् । परौ । व्रज गतौ । हुवः । हु दानादनयोः । अस्मात्क्विप् धातोश्च दीर्घः । श्लुवद्भावाद्द्विर्वचनम् । रुआउवः कः । रुआउ गतौ । रुआउवो यज्ञपात्रविशेषः ।अयं रुआउवो अभिजिहर्ति॑रुआउवेण पार्वणौ जुहोति॑ इत्यादौ प्रसिद्धः । चिक् च । रुआउव इत्येव । योगविभाग उत्तरार्थः । क इदिति । तेन रुआउक् रुआउचौ रुआउच इत्यादौ गुणो न । [तनोते] । तनु विस्तारे । व इति सङ्घातग्रहमं । तदाह — वशब्दादेश इति ।रिउआयां तु त्वगसृग्धरा॑ इत्यमरः । ग्लानुदि । ग्लै हर्षक्षये, णुद प्रेरणे ।ग्लौर्मृगाङ्कः कलानिधिः॑इत्यमरः ।रिउआयां नौस्तरणिस्तरिः॑ इति च । ग्लौकरोतीति । अग्लौः ग्लौः संपद्यते तथा करोतीत्यर्थः । अव्ययत्वात्सुपो लुक् । च्व्यन्त एवेति । तेन ग्लौर्नौर्गौरित्यादीनां नाव्ययत्वमिति भावः । रातेः । रा दाने । रा इति । रायो हली॑त्यात्वम् ।रा स्मृतः पावके तीक्ष्णे राः पुंसि स्वर्णवित्तयोः॑ इति मेदिनी ।रास्तीक्ष्णे दहने रास्तु सुवर्णे जलदे धने॑ इति हेमचन्द्रः । गमेः । गम्लृ गतौ ।गोतो णित् । गौः । केशवोक्तमाह — गौर्नादित्य इत्यादि ।गौः स्वर्गे वृषबे रश्मौ वज्रे चन्द्रे पुमान् भवेत् । अर्जुनी नेत्रदिग्बाणभूवाग्वारिषु गौर्मता॑ इत्यमरः । द्युतेरपीति । द्युत दीप्तौ । द्योतन्ते देवा अस्यामिति द्यौः । भ्रमेश्च । भ्रमु अनवश्थाने, गम्लृ गतौ । अग्रेगूः सेवकः । दमेः । दमु उपशमे । डित्त्वाट्टिलोपः । दोरिति ।दोषं तस्ये॑ति श्रीहर्षप्रयोगात्पुंस्त्वम् ।ककुद्दोषणी॑ इति भाष्यप्रयोगान्नपुंसकत्वम् ।दोर्दोषा च भुजो बाहुः॑ इति धनञ्जयकोशात्स्त्रीलिङ्गोऽप्ययमित्यादि प्रागेव प्रपञ्चितम् । पणेः । पण व्यवहारे स्तुतौ च । अमरोश[स्थ] माह — नैगम इत्यादि । वशेः । वश कान्तौ, अस्मादिनिः कित्स्यात्, ।ग्रहिज्ये॑ति संप्रसारणम् । भृञः । भृञ् भरणे, अस्मादिनिः कित्स्याद्धातोरुकारान्तादेशश्च । जसि । जसु मोक्षणे । षह मर्षणे ।जसुरये स्तर्यं पिप्यथुर्गा॑मिति मन्त्रे जसुरये श्रान्तायेति,नीचायमानं जसुरिं न श्येन॑ मित्यत्र जसुरिं क्षुधितं श्येनं न = श्येनपक्षिणमिवेति ।उतस्य वाजी सहुरिरृतौ॑इति मन्त्रेसहुरिः सहनशील इति च वेदभाष्यम् । सुयु । षुञ् अभिषवे, यु मिश्रणे, रु शब्दे, वृञ् वरणे ।सवनं त्वघ्वरे स्नानेसोम निर्दलनेऽपि च॑ इति मेदिनी । यवनो म्लेच्छविशेषः ।रवणः शब्दने स्वरे॑ इति च मेदिनी । रवणः कोकिल इत्येके । वरणो वृक्षभेदः । टापितु वरणा नदी ।वरणस्तिक्तशाकेऽपि प्राकारे वरणं वृत्तौ॑ इति विआः ।वरुणो वरणः सेतुस्तिक्तशाकऋ कुमारकः॑ इत्यमरः । अशेः । अशू व्याप्तौ । जिह्वावाची त्विति ।रस आस्वादने चौरादिकः । ततो नन्द्यादित्वाल्ल्युः ।ण्यासश्रन्थः॑ इति युज्वा । रसत्यास्वदयतीति रसना ।रसनं स्वदने ध्वनौ । जिह्वायां तु न पुंसि स्याद्गास्नायां रसना रिउआयाम् इति मेदिनी । काञ्चीवाची तालव्यशकारवान्, जिह्वावाची तु दन्त्यसकारवानित्येषा व्यवस्था भूरिप्रयोगाबिप्रेयणोक्ता । वस्तुतस्तु तालव्यशकारवान् रशनाशब्दोऽपि काञ्च्यां जिह्वायां च, दन्त्यसकारवान् रसनाशब्दोऽप्यर्थद्वये बोध्यः । तथा हितालव्या अपि दन्त्याश्च शम्बशूकरपांशवः । रशनापि च जिह्वाया॑मिति विआकोशाज्जिह्वायामुभयं साधु ।रसनं निःस्वने रसना काञ्चिजिह्वयोः॑ इत्यजयधरणिकोशाभ्यां काञ्च्यामप्युभयं साधु । एवं चअसेरश चे॑ति सूत्रे अशू व्याप्तौ, अश भोजने,इति धातुद्वयमपि ग्राह्रम् । रस आस्वादने, रसशब्दे इति धातुभ्यां तुबहुलमन्यत्रापि॑ इत्यनुपदमेव वक्ष्यमाणो युच् । तेन सर्वत्रावयवार्थानुगमोऽपि सूपपाद इत्याहुः । उन्देः । उन्दी क्लेदने अस्माद्युच् ।ओदनं न स्त्रियां भक्ते बलायामोदिनी स्त्रिया॑मिति मेदिनी । गमेः । गम्लृ गतौ ।नभोऽन्तरिक्षं गगन॑मित्यमरः । बहुलम् । स्यन्दू प्ररुआवणे, रुच दीप्तौ ।स्यन्दनं तु श्रुतौ नीरे तिनिशे ना रथे स्त्रियी॑मिति मेदिनी ।रोचना रक्तकह्लारे गोपितवरयोषितोः । रोचनः कूटशाल्मल्यां पुंसि स्याद्रोचके त्रिषु॑ इति च । चदि आह्लादे ।चन्दनं मलयोद्भवे । चन्दनः कपिभेदे स्यान्नदीभेदे तु चन्दनी॑ इति विआः ।चन्दनी तु नदीभिदि । चन्दनोऽस्त्री मलयजे भदर्काल्यां नपंसक॑मिति मेदिनी । भद्रकाली ओषधिविशेषः ।भद्रकाली तु गन्धोल्यां कात्यायन्यामपि स्त्रिया॑मिति मेदिनी । असु क्षेपणे ।असनं क्षेपणे क्लीबं पुंसि स्याज्जीवकद्रुमे॑ इति मेदिनी । अत सातत्यगमने राजपूर्वः ।राजातनः क्षीरिकायां प्रियाले किंशुकेऽपि च॑ इति विआमेदिन्यौ । एवमन्येऽपि द्रष्टव्याः । रञ्जेः । रञ्ज रागे । ल्युटि तु रञ्जनम् ।रञ्जनो रागजनने रञ्जनं रक्त चन्दने॑ इति मेदिनी । बाहुलकात्कृपेरपि क्युन् ।कृपो रो लः॑ इति प्राप्तलत्वाऽभावश्च । कृपणः । भूसू । भू सत्तायां, षूङ् प्राणिप्रसवे, धूञ् कम्पने, भ्रस्ज पाके, बहुलवचनाद्भाषायामपि क्वचित् ।भुवनं विष्टपेऽपि स्यात्सलिले गगने जने॑ इति मेदिनी ।विष्टपं भुवनं जग॑दित्यमरः । भृज्जनामति ।ग्रहिज्ये॑ति संप्रसारणम् ।सस्य जश्त्वेन दः, दस्य श्चुत्वेन जः । क्लीबेऽम्बरीषं भ्राष्ट्रो ना॑ इत्यमरः । कृपृ । कृ विक्षेपि, पृ पालनादौ वृजी वर्जने, मदि स्तुत्यादौ, डुधाञ् धारणपोषणयोः ।निधनं स्यात्कुले नाशे॑ इति मेदिनी ।निधनं कुलनाशयोः॑ इति हेमचन्द्रः । धृषेः । ञिधृषा प्रागल्भ्ये, अस्मात्क्युः, धिषादेशश्च धातोः॑ ।धिषमरिउआदशाचार्ये धिषणा धियि योषिति॑ इति मेदिनी ।गीष्पतिर्धिषणो गुरुः॑ इत्यमरः । वर्तमाने । शतृवच्चेति । तथा चउगिदचा॑मिति नुमि महान् । रिउआयां तुउगितश्च॑ इति ङीपि महतीत्यादि सिध्यतीति भावः । ननु पृषन्महदादयःलटः शतृनाशचौ॑ इति शतृप्रत्ययान्ता एव भवन्तु । ततश्च वर्तमान इति शतृवच्चेति च न कर्तव्यमिति महदेव लाघवमिति चेदत्राहुः — शतृप्रत्ययान्तत्वे तुकर्तरि शप् इति शप्प्रत्यये महतीत्यादौआच्छीनद्योः॑ इति नुम् स्यात्, महानित्यादौ तुतास्यनुदात्तेन्ङिददुपदेशात् इति लसार्वधातुकस्वरः स्यात्, अतिप्रत्ययान्तत्वे तु तस्याऽतिप्रत्ययस्याद्र्धधातुकत्वाभ्युपगमेन शबभावान्नोक्तदोष इत्याशयेनाऽडतिप्रत्ययान्तत्वेन निपातनं स्वीकृतमिति । वृह वृद्धौ, मह पूजायाम्, गम्लृ गतौ । पृषन्तीति । बिन्दुवाची पृषच्छब्दो नपुंसकमिति ध्वननाय बहुवचनमुदाह्मतम् ।पृषन्भृगे पुमान् बिन्दौ न द्वयोः पृषतोऽपि ना । अनयोश्च त्रिषु ओतबन्दुयुक्तेऽप्युभाविमौ॑ इति मेदिनी ।बृहती क्षुद्रवार्ताक्यां कण्टकार्यां च वाचि च । वारिधान्यां महत्यां च छन्दोवसनभेदयोः॑ इति विआः । शतृवदभ्वात्उगिदचाम् इति नुम् । बृहन्-विपुलः ।महती वल्लकीभेदे राज्ये तु स्यान्नपुंसकम् । तत्त्वभेदे पुमान् श्रेष्ठे वाच्यव॑दिति मेदिनी । महती — नारदवीणा ।विआआवसोस्तु बृहती तुम्बुरोस्तु कलावती । महती नारदस्य स्यात्सरस्वत्यास्तु कच्छपी॑ति वैजयन्ती ।अवेक्ष्यमाणं महतीं मुहुर्मुहुः॑ इति माघः ।जगत्स्याद्विष्टपे क्लीबं वायौ ना जङ्गमे त्रिषु । जगती भुवने क्ष्मायां छन्दोभेदे जनेऽपि चेटति मेदिनी । तत्र वायुवाचिनः पुंलिङ्गस्य शतृवद्भाबादुगित्त्वेन नुमिजगन् जगन्तौ जगन्त॑ इत्यादि भवति ।द्युतिगमिजुहोतीनां द्वे चे॑ति व्युत्पादितस्य तु नुमभावाज्जगत् जगतौ जगत इत्यादीति बोध्यम् । संश्चत्तृ चिञ् चयने, तृप प्रीणने, हन हिंसागत्योः । निपात्यन्त इति ।अतिप्रत्ययान्ता॑ इति शेषः । निवृत्त्यर्थमिति । एवं च संश्चदित्यत्रउगिदचा॑मिति नुमः । शङ्कैव नास्ति । वेहदित्यत्र तुउगितश्चे॑ति ङीब्नेति भावः । सञ्चिनोतेरिति । सुभूतिचन्द्रस्तु संपूर्वाच्छ्वयतेः संश्च दित्याहथ । तृपच्छत्रमिति । चन्द्रमा इत्यन्ये । विहन्ति गर्भमिति वेहत् । एतए चेति । विशब्दसम्बन्धिन इकारस्य एकार इत्यर्थः । गौरित्यनुवृत्तौवेहद्गर्भोपघातिनी॑ इत्यमरः । छन्दसि । शु गतौ, जृष् वयोहानौ । पन्था इति ।प्रथमन्मह॑ इत्यादिमन्त्रद्वये शवसानशब्दो गन्तृपरतया व्याख्यातः । ऋञ्जि । ऋजि भर्जने, वृधु वृद्धौ, मदि स्तुत्यादौ, षह मर्षणे एभ्यः असनाच् कित्स्यात् । ऋञ्जसानो मेघ इति । ऋजेरिदित्त्वान्नुम् । इदित्त्वादेव नलोपऽभावः । एवं चायं मनदिसही च त्रयोऽपि पूर्वसूत्र एव पठितुं शक्याः । कित्त्वं तु वृधुधातावेवोपयुज्यते । उत्तरसूत्रेऽपि गुणग्रहणं सुत्यजम्, अर्तेः सुट् च वृधेः भाष्ये तु यौगिकार्थ एव पुरस्कृतः । अर्तेः । ऋ गतौ धातोर्गुणः प्रत्ययस्य सुडागमः ।आसाविषदर्शसानाये॑ति मन्त्रस्य भाष्ये तु अर्शसानाय = शत्रूणां हिंसित्रे इति व्याख्यातम् । समि । ष्टुञ् स्तुतौ । अस्मात्सम्युपपदे आनच् । युधि । युध संप्रहारे । युधानो रिपुः । बुधिर् बोधने । बुधान आचार्यः । दृशिर् प्रेक्षणे । बाहुलकात् कृपेरप्यानच् । कृपाणः खङ्गः ।कृपाणेन कथङ्कारं कृपणः सह गण्यते । परेषां दानसमये यः स्वकोशं विमुञ्चति॑ । हुर्च्छेः । हुच्र्छा कौटिल्ये, अस्मात्सन्नन्तादानच्स्यात्सनो लुक् छलोपश्च ।युयोध्यस्मज्जुहुराणमेनः॑ इति मन्त्रे जुहुराणं = कौटिल्यकारि एनः = पापं युयोधि = पृथक् कुरु इति भाष्यम् । इआतेः । इआता वर्णे अस्मात्सन्नन्तादानच् ।सन्यङोः॑ इति द्वित्वम् । सनो लुक् । तकारस्य च दकारः । किदित्यनुवत्तेर्न गुणः । पुण्यकर्मेति ।शिइआदानोऽकृष्णकर्मे॑ति विशेष्यनिघ्ने अमरः । अकृष्णं = शुक्लं निष्पापत्वात् शुद्धं कर्म यस्येत्यर्थः । क्षीरस्वामिना तु प्कृतसूत्रं विस्मृत्य इआदि औत्ये अस्माल्लिटः कानजिति व्याख्यातं, तदसङ्गतं, कानचश्छान्दसत्वात् । इदित्त्वेन नलोपानुपपत्तेश्चेति दिक् । शंस्तेति । शंसु स्तुतावस्मात्तृन् ।अप्तृन् — ॑ इति सूत्रे नप्त्रादिग्रहणं नियमार्थमौणादिकतृजन्तानां चेदुपधादीर्घस्तर्हि नप्त्रादीनामेवेत्युक्तम् । तेनात्र दीर्घो नेत्युदाहरति — शंस्तरौ शस्तर इति । नित्त्वादाद्युदात्तः । तथा च मन्त्रःग्रावग्राभ उत शंस्ता सुविप्रः॑ । आदिशब्दाच्छासु अनुशिष्टौ । शास्ति विनयति सत्त्वात् शास्ता बुद्धः । शास्तरौ ।शास्तरः ।शास्ता समन्तभद्रे ना शासके पुनरन्यवत् इति । प्रपूर्वस्य तु नप्त्रादिषु पाठात्अप्तृन् इति दीर्घः । प्रशास्तारौ प्रशास्तारः ।क्षत्ता वैश्याजे प्रतीहारे च सारथौ । भुजिष्यातनयेऽपि स्यान्नियुक्तवेधसोःपुमान् इति मेदिनीकोशानुसारेणाह — वैश्यायामिति । अमरस्तुक्षत्रियायां च शूद्रजे॑ इत्याह । णीञ् प्रापणे उत्पर्वः । उन्नेता ऋत्विग्भेदः । बहुलमन्यत्रापि । अन्यत्रापि धातोर्बहुलं तृन्तृचौ भवतः । पूर्वसूत्रस्थादिशब्देनैव मन्ता हन्तेत्यादेः सिद्धत्वात्प्रपञ्चार्थमिदं सूत्रम् । नप्तृनेष्ट्ट । नप्त्रादयोदश तृन्तृजन्ता निपात्यन्ते । नप्तेति । नञः प्रकृतिभावः । पत्लृ गतावित्यस्याऽच्छब्दलोपः । णीञ् प्रापणे, त्विष दीप्तौ, हु दानादनयोः, पूञ् पवने, भ्राजृ दीप्तौ, मा माने, पा रक्षणे, दुह प्रपूरणे ।त्वष्टा पुमान् देवशिल्पितक्ष्णोरादित्यभिद्यपि॑ इति मेदिनी । जायां मातीत्यन्तरभावितण्यर्थः । सुञि उपपदे असु क्षेपणे इत्यस्मात् ऋन्, यणादेशः । स्वसा भगिनी । सावसेरिति तु क्वाचित्कः पाठः । यतेः । यती प्रयत्ने । नञि च । टुनदि समृद्धौ अस्मान्नञ्युपपदे ऋन् । न नन्दतीति । कृतायामपि सेवायां तुष्यतीत्यर्थः ।उषाप्यूषा ननान्दा च ननन्दा च प्रकीर्तिता॑ इति द्विरूपकोशः । दिवेः । दिवु क्रीडाविजिगीषादौ । देवेति । भ्रातर इत्यनुवृत्तौस्वामिनो देवृदेवरौ॑ इत्यमरः । [देवे धवे देवरि माधवे चे॑ति श्रीहर्षः । नयतेः । णीञ् प्रापणे । अस्माद् ऋप्रत्ययः स च डित् । डित्त्वाट्टिलोपः ।स्युः पुमांसः पञ्चजनाः पुरुषाः पूरुषा नरः॑ इत्यमरः । सव्ये । ष्ठा गतिनिवृत्तौ अस्मात्सव्यशब्दे उपपदे ऋः स्यात्स च डित् ।तत्पुरुषे कृती॑ ति सप्तम्या अलुक् । * स्थास्थिन्स्थूणाममुपसङ्ख्यानम् । उपसंख्यानमिति ।षत्वस्ये॑ति शेषः । अर्ति । ऋ गतौ, सृ गतौ, धृञ् धारणे, धमिः सौत्रः, अम गतौ, अश बोजने, अव रक्षणादौ, तृ प्लवनतरणयोः ।अरणिर्हह्निमन्थे ना द्वयोर्निर्मत्यदारुणि॑ इति मेदिनी ।सरणिः श्रेणिवर्त्नोः॑ इति दन्त्यादौ रभसः ।सरणिः पङ्क्तौ मार्गे स्त्री॑ इति मेदिनी । शृ हिंसायां ततोऽतिप्रत्ययः । शरणिरित्येके ।शरणि पथि चाऽ‌ऽवलौ॑ इति तालव्यादावजयः ।इमामग्ने शरणि॑ मिति मन्त्रे शरणिं हिंसां व्रतलोपरूपां मीमृषः क्षमस्वेति वेदभाष्यम् । धरणिर्भूमिः ।धमनी तु शिराहट्टविलासिन्यां तु योषिति॑ इति मेदिनी । अमनिर्गतिः । अश्यते भुज्यते राज्यमिन्द्रेणानयेति अशनिर्वज्रम् ।अशनिः स्त्रीपुंसयोः स्याच्चञ्लायां रवावपी॑ति मेदिनी । अवनिः पृथिवी ।तरमद्र्युमणौ पुंसि कुमारीनौकयोः स्त्रिया॑मिति मेदिनी । कुमारी लताविशेषः ।तरणी रामतरणी कर्णिका चारुकेसरा । सहा कुमारी गन्धाढआ॑ इति धन्वन्तरिनिघण्टुः । रजनिरिति । रञ्ज रागे अस्मादप्यनिः । न लोपोऽपि बाहुलकात् ।कृदिकारा॑दिति ङीष् । रजनी ।रजनी नीलिनी रात्रिर्हरिद्राजतु कासु च॑ इति मेदिनी । आङि । शुष शोषणे अस्मात्सन्नन्तादाङि उपपदे अनिः स्यात् । कृषेरादेः । कृष विलोपखने॑ । चर्षणिर्जन । इति । वैदिकनिघण्टौ चर्षणिशब्दस्य मनुष्यनामसु पाठात्,ओमासस्चर्षणीधृतः॑ इत्यादिमन्त्रेषु वेदभाष्यकारैस्तथैव व्याख्यातत्वाच्च । उज्जवलदत्तेन तु आदेश्च ध इति पठित्वा धर्षणिर्बन्धकीति व्याख्यातम् । तदयुक्तम् । तथा सति धृषेरित्येव सूत्रयेत्, प्रगाल्भ्यरूपावयवार्थानुगमात् ।आदेश्च ध॑ इत्यंशस्य त्यागेन लाघवाच्च, तस्मादादेश्च च इति दशपादीवृत्तिपाठ एव युक्त इत्याहुः । अदेः । अद भक्षणे अस्मादनिस्तस्य मुडागमश्च । वृतेश्च । वृतु वर्तने अस्मादप्यनिः । वर्तनिरित ।॒कृदिकारा॑दिति ङीषि तु वर्तनी ।सरणीः पद्धतिः पद्या वर्तन्येकपदीति चे॑त्यमरः । क्षिपेः । क्षिप प्रेरणे । क्षिपणिरायुधमिति ।उतस्य वाजी क्षिपणिं तुरण्यती॑ ति मन्त्रस्य वेदभाष्ये तु क्षिपणिं = क्षेपणमनु, तुरण्यति = त्वरयति, गन्तुमिति व्याख्यातम् । अर्चि । अर्च पूजायाम्, शुच शोके, हु दानादनयोः॑ सृप्लृ गतौ,छद अपवारणे,ण्यन्तः । छर्द वमने, अर्चिरिति सान्तम् ।तमर्चिषा स्फूर्जयन् इति मन्त्रः ।नयनमिव सनिद्रं घूर्णते दैवमर्चिः॑ इति माघः । ज्वालाभासोर्नपुंस्यर्चिः॑ इति नानार्थे सान्तेष्वमरः । इदन्तोऽपीति । इदन्तोऽपीति । णिजन्तादर्चेरत इरिति भावः ।अर्चिर्हेतिः शिखारिउआया॑मित्यमरः ।रोचिः शोचिरुभे क्लीबे॑ इति च । स्पिर्घृतम् । छाद्यतेऽनया छदिः ।छदिः रिउआयामेवे॑ति लिङ्गानुशासनसूत्रम् । एवं चपटलं छदि॑ रित्यमरग्रन्थे पटलसाहचर्याच्छदिषः क्लीबतां वदन्त उपेक्ष्याः । छद्र्यतीति । छर्दिश्चातिसारश्च शूलञ्च तानि यस्य सन्तीति विग्रहः । बृंहेः । बृहि वृद्धौ अस्मादिसिः । कुशशुष्मणोरिति । शुष्मा नाम अग्निः । शुष्मा नाम अग्निः ।अग्निर्वैआआनरो वह्निः॑ इत्युक्रम्यबर्हिः शुष्मेत्यमरेणोक्तत्वात् । [॒ बर्हिः पुंसि हुताशने । स्त्री कुशे॑ इति मेदिनी] । द्युतेः । द्युत दीप्तौ ।ज्योतिरग्नौ दिवाकरे । पुमान्नपुंसकं दृष्टौ स्यान्नक्षत्रप्रकाशयोः॑ इति मेदिनी । वसौ । रुच दीप्तावस्माद्वसुशब्दे उपपद इसिन्तस्यात्संज्ञायाम् । बाहुलकात्केवलादपि ।रोचिः शोचिरुभे क्लीबे॑ इत्यमरः । भुवः । भवतेरिसिन् स्यात्स न कित् । सहो । षह मर्षणेषऽस्मादिसिन् धश्चान्तादेशः । पिबतेः । पा पाने अस्मादिसिन्धातोश्च थुगागमः । जेः । जनी प्रादर्भावे । मनेः । मनु अवबोधनेऽस्मादुसिः स्याच्छन्दसि धकारश्चान्तादेशः । मधु पवित्रद्रव्यम् । अर्तिपृ । ऋ गतौ, पृ पालनपूरणयोः , डुवप् बीजसन्ताने, यज देवपूजादौ, तनु विस्तारे, धन धान्ये, तप सन्तापे, एभ्य उसिर्नित्स्यात् । व्रणोऽस्त्रियामीर्ममरुः क्लीबे॑ इत्यमरः ।ग्रन्थिर्ना पर्वपरुषी॑ इति च ।वपुः क्लीबं तनौ शस्ताकृतावपि॑ इति मेदिनी । शस्ताकृतिः प्रशस्ताकृतिरित्यर्थ- । यजुरितियजुर्वेदः । तनुः शरीरम् ।तनुषे तनुषेऽनङ्ग॑मितति सुबन्धुः ।स्यात्तनुस्तनुषा सार्धं धनुषा च धनुं विदुः॑ र्धरे त्रिषु॑ इति सान्ते मेदिनी । एतेः । इण् गतावित्यस्मादुसिः । णित्त्वाद्वृद्धौ कृतायामायादेशः । चक्षेः । चक्षिङ् व्यक्तायां वाचि, अस्मादुसिः शिद्भवति । शित्त्वात्ख्याञादेशाऽबावः । चक्षते रूपमनुभवन्त्येनेनेति चक्षुः ।मुहेः । मुह वैचित्ये ।मुहुः पुनः पुनः शस्वदभीक्ष्णमसकृत्समाः॑ इत्यव्ययेष्वमरः । [अस्मात्परं बहुलमन्यत्रापि इति सूत्रं स्पष्टत्वात्] । कृ गृ ।कृ विक्षेपे,गृ निगरणे, शृ हिंसायाम्, वृञ् वरणे, चते याचने ।नैरृतः कर्वरः क्रव्यात्कर्बुरो यातुरक्षसोः॑इति शब्दार्णवः ।शर्वरी यामिनीस्त्रियोः॑ इति मेदिनी ।वर्वरः पामरेकेशविन्यासे नीवृदन्तरे । वर्वरः फञ्जिकायां तु वर्वरा शाकपुष्पयोः॑ इति विआः ।वर्वरः पामरेकेशवक्रले नीवृदन्तरे । फञ्जीकायां पुमान् शाकपुष्पभेदभिदोः स्त्रियाम् इति मेदिनी ।चत्वरं स्थण्डिले गणे॑ इति च । नौ सदेः । षद्लृ विशरणादौ । निपूर्वादस्मात्ष्वरच् स्यात् ।सदिरप्रतेः॑ इति षत्वम् ।निषद्वरः स्मरे पङ्के निशायां तु निषद्वरी॑ ति मेदिनी ।इत्युणादिषु द्वितीयः पादः ।छित्वर । अनयोरिति । छिदिर् द्वैधीरणे, छद अपवारणे,छित्वरशश्छेदने द्रव्ये धूर्ते वैरिणि च त्रिषु॑ इति मेदिनी । डुधाञ् धारणपोषणयोः, पा पाने, मा माने, एषां त्रयाणामीत्वमन्त्यस्य निपात्यत इत्येके । अन्ये तु पीव मीव तीव नीव स्थौल्ये । एभ्यः ष्वरचिलोपो व्योः॑ इति लोपमाहुः ।पीवरः कच्छपे स्थूले॑ इति मेदिनी । मीवर इति । हिंसक इत्यर्थानुगुण्येन मीञ् हिंसायामित्यस्मात्ष्वरजिति केचिदाहुः ।तीवरो नाऽम्बुधौ व्याधे॑ इति मेदिनी ।स्यान्नीवरो वाणिजके वास्तवेऽपि च दृश्यते॑ इति मेदिनी । उपह्वरो रथ इति केचित् ।तदु प्रयक्षतम्इति मन्त्रे तु उपह्वरे उपगन्तव्ये समीपदेशे] ।इण् । इण् गतौ,षिञ् बन्धने, जि जये, दीङ् क्षये, उष दाहे, अव रक्षणे ।इनः पत्यौ नृपाऽर्कयोः॑ इति मेदिनी ।जिनोऽर्हति च बुद्धे च पुंसि स्त्र्यात्रिषु जित्वरे॑ इति च ।दीना मूषिकयोषायां दुर्गते कातरेऽन्यवत् इति विआः ।उष्णो ग्रीष्मे पुमान् दक्षाऽशीतयोरन्यलिङ्गकः॑ इति मेदिनी ।ज्वरत्वरे॑ त्यूठ् । ऊनमसंपूर्णम् । फेन । स्फायी वृद्दौ,अस्य फे इत्यादेशःडिण्डीरोऽब्धिकफः फेनः॑ इत्यमरः । मीञ् हिंसायाम् ।मीनो राश्यन्तरे मत्स्ये॑ इति विआः । कृषेः । कृष विलेखने अस्माद्वर्णे वाच्ये नक् स्यात् ।कृष्णः सत्यवतीपुत्रे केशवे वायसेऽर्जुने । कृष्णा स्याद्द्रौपदीनीलीकणाद्राक्षासु योषिति । मेचके वाच्यलिङ्गः स्यात्क्लीबे मरिचलोहयोः॑ इति मेदिनी । बन्धेः । बन्ध बन्धने अस्मान्नक् ।भास्करोऽहस्करो ब्राध्नः प्रभाकरदिवारकरौ॑ इत्यमरः ।बुध्नो ना मूलरुद्रयोः॑ इति मेदिनी । धापृ । डुधाञ् धारणादौ, पृ पालनादौ, वस निवासे, अज गतौ, अत सातत्यगमन,एभ्यो नः स्यात् । नक्प्रत्यये सति तु वस्न इत्यत्र संप्रसारणं स्यात । वेन इत्यत्र तु गुणो न स्यादिति बावः ।धाना भृष्टयवे प्रोक्ता धान्याकेऽभिनवोद्भिदि॑ इति विआः ।पर्णं पत्रं किंशुके ना॑ इति मेदिनी ।वस्नस्त्ववक्रये पुंसि वेतने स्यान्नपुंसक॑मिति च । वेनः लुण्टाकः प्रजापतिश्च । लक्षेः । लक्ष दर्शनाङ्कनयोः । लक्षणमित्यादि । लक्षणलक्ष्मणशब्दौ द्वापवि नामचिह्नयोः क्लीबौ । रामभ्रातरि तु पुंलिङ्गौ । हंसयोषायां लक्षमा,सारसस्य योषायां तु लक्ष्मणेति व्यवस्थेत्यर्थः ।लक्षणं नाम्नि चिह्ने च सौमित्रिरपि लक्षणः । लक्ष्मणं नाम्नि चिह्ने च सारस्यां लक्षणा क्वचित् । लक्षणा त्वौषधीभेदे सारस्यामपि योषिति । रामभ्रातरि पुंसि स्यात्सश्रीके चाभिधेयव॑दिति मेदिनी । कोशे तुसारस्यामपि लक्षणा॑इति निर्मकारः पाठः स्वीकृतः । वनेः । वन संभक्तावस्मान्नः, उपधाया इत्वं च । वेन्नेति । लघूपधगुणः । सिवेः । षिवु तन्तुसन्ताने । बाहुलकादिति । एत्चछ्वोः शूड् इति सूत्रे वृत्तौयेन विधिः॑ इति सूत्रे कैयटग्रन्थे च स्पष्टम् । यणिति । लघूपधगुणे कृते त्वेकारस्याऽदेशे ऊठोऽपिसार्वधातुके॑ त्यादिना गुणे कृते सयोन इति स्यादिति भावः ।स्योनः किरणसूर्ययोः॑ इति मेदिनी । कृवृ कृ विक्षेपे,वृञ् वरणे, दीर्घपाठे तु वृ वरणे, जृष् वयोहानौ, दिवादिः । जृ इति क्र्यादौ चुरादौ च । षिञ् बन्धने, द्रु गतौ, पन स्तुतौ, अन प्रापणने, ञिष्वप् शये, एभ्यो नप्रत्ययो नित्स्यात् ।कर्णः पृथाज्येष्ठसुते सुवर्णालौ श्रुतावपि॑ इति विआमेदिन्यौ ।वर्णौ द्विजादिशुक्लादियशोगुणकथासु च । स्तुतौ ना न स्त्रियां भेदे रूपाक्षरविलेखने॑ इति मेदिनी । विआमेदिनीस्थमाह — जर्णश्चन्द्र इति ।जर्णो जीर्मद्रुमेन्दुषु॑ इति हेमचन्द्रः ।ध्वजिनी वाहिनी सेना॑ इत्यमरः ।॒द्रोणोऽस्त्रियामाढके स्यादाढकाचितुष्टये । पुमान्कृपीपतौ कृष्णकाकेऽस्त्री नीवृदन्तरे । स्त्रीयां काष्ठाम्बुवाहिन्यां गवादन्यमपीष्यते॑ ।अन्नं भक्ते च भुक्ते स्या॑दिति मेदिनी ।स्वप्नः स्वापे प्रसुप्तस्य विज्ञाने दर्शने पुमान् इति मेदिनी । धेटः । धेट् पाने अस्मान्नः स्यादिच्चान्तादेशः ।देना नद्यां नदे पुमा॑निति मेदिनी ।धेनः समुद्रे नद्यां च धेना॑ इति विआ । श्लोको धारा इत्यादिषु वाङ्नामसु देनेति वैदिकनिघण्टौ पठितम् । अत एवधेना जिगाति दाशुषे॑इन्द्र धेनाभिरिह मादयस्व॑ इत्यादिमन्त्रेषु धेना वागिति व्याख्यातं भाष्ये । तृषि । ञितृषा पिपासायाम्, शुष शोषणे, रस शब्दे ।तृष्णा लिप्सापिपासयोः॑ इति विआः । सुञः । षुञ् अभिषवे अस्मान्नः स्याद्धातोर्दीर्घश्च ।सूनाऽधोजिह्विकापि चे॑ति नान्तेऽमरः ।सूनं प्रसवपुष्पयोः । सूना पुत्र्यां वधस्थानगलकण्ठिकयोः स्त्रियाटमिति मेदिनी । रमेः । रमेण्र्यन्तान्नः स्यात्तकारश्चाऽन्तादेशः ।रत्नं स्वजातिश्रेष्ठेऽपि मणावपि नपुंसक॑मिति मेदिनी ।रास्ना । रस आस्वादने उपधीदीर्घः ।रास्ना तु स्याद्भुजङ्गाक्ष्यामेलापण्र्यामपि स्त्रिया॑मिति मेदिनी । षस स्वप्ने उपधादीर्घः ।सास्ना तु गलकम्बलः॑ इत्यमरः ।सास्नः गोगलकम्बलः॑ इति पाठान्तरम् । ष्ठा गतिनिवृत्तागत्यादिषु । गुणाऽभाव णत्वं च ।वीणा विद्युति वल्लक्या॑मिति मेदिनी । गादाभ्याम् ।गै शब्दे, डुदाञ् कुक्षिषु॑ इति मेदिनी । कृत्यशू ।कृती वेष्टने, अशू व्याप्तौ ।कृत्स्नं सर्वाम्बुकुक्षिषु॑इति मेदिनी । तिजेः । तिज निशाने अस्मात्कस्नः, धातोर्दीर्घश्च ।॒तीक्ष्णं सामुद्रलवणेविषलोहाऽ‌ऽजिमुष्कके । क्लीबं यवाग्रके तिग्मात्मत्यागिनोस्त्रिषु॑ इति मेदिनी । यजि । यज देवपूजादौ,मन ज्ञाने, शुन्ध ज्ञाने,शुन्ध शुद्धौ,दसु उपक्षय, जनी प्रादुर्भावे ।दस्युश्चौरे रिपौ पुंसि॑ इति मेदिनी ।अथ जन्युः स्यात्पुंसि प्राण्याग्निधातृषु॑ इति च । भुजि । भुज पालनादौ, मृङ् प्राणत्यागे, आभ्यां यथासंख्यं युक्त्युकौ स्तः ।मृत्युर्ना करणे यमे॑ इति मेदिनी ।सृ गतौ । पा रक्षणे, णीञ् प्रापणे, विष्लृ व्याप्मतौ ।नीपः कदम्बबन्धूकनीलाऽशोकद्रुमेऽपि च॑ इति मेदिनी । च्युवः । च्युङ् गतौ । धातूनामनेकार्थत्वादिह भाषणे । च्यवन्ते भाषन्तेऽनेनेति विग्रहः । दशपाद्यः तुचुपः किच्चे॑ति पठते । चुप मन्दायां गतौ । चोपतीति च्युपः मन्दगमनकर्ता । स्तुवः । ष्टुञ् स्तुतौ । अस्मात्पः स्याद्धातोर्दीर्घश्च । सुशृ । षुञ् अभिषवे, शृ हिंसायाम् । आभ्यां पः स्यात्स च निद्भवति । नित्त्वं तु स्वरार्थम् ।सूपो व्यञ्जनसूदयोः॑ इति मेदिनी । शूर्पमिति । बाहुलकादुत्वं रपरत्वंहलि च॑ इति दीर्घः ।प्रस्फोटनं शूर्पमरुआई॑ इत्यमरः ।कुयु । कु शब्दे, यु मिश्रणे । आभ्यां पः, सच निद्धातोर्दीर्घत्वं च । खष्पशिल्प । खनु अवदारणे, शील समाधौ, बाधृ लोडने, रु शब्दे, पृ पालनादौ ।खष्पः क्रोधे बलात्कृतौ॑इति विआः ।शष्पं बालतृणेऽपि च । पुंसि स्यात्प्रतिभाहानौ॑ इति मेदिनी । विआओक्तिमाह — बाष्प इति ।बाष्पमूष्मणि चाश्रुणि॑ इति कोशान्तरमभिप्रेत्याह — बाष्पं चेति ।रूपं स्वभावे सौन्दर्ये नाणके पशुशब्दयोः । ग्रन्थवृत्तौ नाटकादावाकारश्लोकयोरपि॑ इति विआमेदिनौ ।तल्पमट्टे कलत्रे चशयनीये चन द्वयोः॑ इति मेदिनी । अमरोक्तिमाह — तल्पं शय्येति । स्तनिह्मषि । स्तनदी देवशब्दे चचुरादिण्यन्तौ,ह्मष तुष्टौ,पुष पुष्टौ, मदी रर्षग्लेनयोः, घटादिः, एभ्यो ण्यन्तोब्यो इत्नुच् स्यात् ।स्तयित्नुः पुमान्वारिधरेऽपि स्तनितेऽपि चे॑ति मेदिनी ।स्तनयित्नुः पयोवाहे तद्ध्वनौमृगरोगयोः॑ इति विआः ।हर्षयित्नुः सुते हेम्नि पोषयित्नुः पिके द्विजे॑ इति च ।गदयित्नुः पुमान्कामे जल्पाके कार्मुकेऽपि च॑इति विआमेदिन्यौ ।मदयित्नुः कामदेवे पुमान्मद्ये नपुंसक॑मिति मेदिनी । कृहनि । डुकृञ करणे, हन हिंसागत्योः । हत्नुरिति ।अनुदात्तोपदेशे॑त्यादिनाऽनुसनासिकलोपः । एवमुत्तरत्र गमेः क्नुप्रत्यये जिगत्नुरित्यत्रापि बोध्यः । शस्त्रं चेति । चाद्धन्ता । दशपादीवृत्तौ तु क्नुरिति तकाररहितं पठित्वा कृणुः कर्ता । हनुर्वक्रैकदेशः । बाहुलकान्नलोपः । गमेसतुजिगत्नुरित्युदाह्मतं तत्सर्वं प्रामादिकम् । लक्ष्यविसंवादात् । तथा च श्रूयते — ॒सुरूपकृत्सुमूतये॒॑ज्येष्ठराजं भरे कृत्नु॑अयं कृत्नुरगृभीतः॑मा नो वधाय हत्नवे॑मृगं न भीममुपहत्नुमुप्रम्योनः सनुत्य उतवा जिगत्नु॑रित्यादि । अतएव हन्तिधातुं विवृण्वता माधवेन उपहत्नुरित्युदाह्मत्य क्त्नोः कित्त्वादनुनासिकलोप इत्युक्तम् । [यत्तु तेनैवसुरूपकृत्नु॑मिति मन्त्रं विवृण्वता तकारोपजनश्छान्दस इत्युक्तं, तद्दशपादीवृत्तिमनुसृत्य, नतु वस्तुस्थितिमनुरुध्येति सह्मदयैराकलनीयमित्याहुः] । दाभाभ्याम् । डुदाञ्, दाने,भा दीप्तौ ।दानुर्दातरि विक्रान्ते॑इति मेदिनी ।भानू रश्मिदिवाकरौ॑ इत्यमरः । वचेः । वच परिभाषणे । वग्नुर्वाचालः । धेटः । धेट् पानेअस्मान्नुः स्यादिकारश्चान्तादेशः ।धेनुः स्यान्नवसूतिका॑ ओहाक् त्यागे ।जह्नुः स्यात्पुंसि राजषिभेदे च मधुसूदने॑इति मेदिनी । सुवः षूङ् प्राणिप्रसवे । अस्मान्नुः स्यात्स च कित् । विआओक्तिमाह — सू नुः पुत्रे इति । जहातेः । ओहाक् त्यागे ।जह्नुः स्यात्पुंसि राजषिभेदे च मधुसूदने ॑ इति मेदिनी । स्थो णुः । ष्ठा गतिनिवृत्तौ । अस्माण्णुः स्यात् । विआओक्तिमाह — स्थाणुरिति ।स्थाणुः कीले हरे पुमान् । अस्त्री ध्रुवे॑ इति मेदिनी । अजिवृ । अज गतौ, वृङ् संभक्तौ, री गतिरेषणयोः, एभ्यो णुर्नित्स्यात् ।वेणुर्नृपान्तरे वंशे॑ इति विआः ।रेणुः स्त्रीपुंसयोर्धूलौ पुंलिङ्गः पर्पटे पुनः॑ इति मेदिनी । विषेः । विष्लृ व्याप्तौ । अस्माण्णुः स्यात्स च कित् । चान्नित् । नित्त्वादाद्युदात्तत्वम् । विष्णुरिच्छा.॒विष्णुर्नारायणः कृष्णः॑ इत्यमरः । कृदा । डुकृञ् करणे, डुधाञ् धारणपोषणयोः,रा दाने, अर्च पूजायाम्,कल गतौ ।कर्कः कर्केतने वह्नौशुक्लाओ दर्पणे घटे॑ इति विआमेदिन्यौ ।राका नद्यन्तरे कच्छ्वां नवजातरजः स्त्रियाम् । संपूर्णेन्दुतिथौ॑ इति मेदिनी ।राका तु सरिदन्तरे । राका नवरजः कन्या पूर्णेन्दुः पूर्णिमापिच॑ इति विआः । इह दा धा रा एषांकेणः॑ इति ह्यस्वोऽपि बाहुलकात्संज्ञापूर्वकविदेरनित्यत्वाद्वा नेति बोध्यम् ।अर्कोऽर्कपर्णे स्फटिके रवौ ताम्ने दिवस्पतौ॑ इति विआमेदिन्यौ ।कल्कोऽस्त्री घृततैलादिशेषे दम्भे विभीतके । विट्किट्टयोश्च पापे च त्रिषु पापशये पुनः॑ इति मेदिनी । बाहुलकाद्रमेरपि कः ।रङ्गः कृपणमन्दयोः॑ इति मेदिनी । कपिलकादित्वाल्लत्वं । टाप् ।लङ्का रक्षः पुरीशाखाशाकिनीकुलटासु च॑ इति इति विआमेदिन्यौ । सुवृ । सृ गतौ, वृञ् वरणे, भू सत्तायाम्, शुष शोषणे, मुष स्तेये । सृक इति । सृक इति ।सृकं संशाय पविमिन्द्र तिग्म॑मिति मन्त्रस्य वेदभाष्ये तु सृकं = सरणशीलं पविं = वज्रं संशाय सम्यक् तीक्ष्णीकृत्येति व्याख्यातम् ।भूकं छिद्रे च काले चे॑ति मेदिनी ।मुष्को मोक्षकवृक्षे स्यात्संघाते वृषणेऽपि च॑ इति स एव ।शुको व्याससुते कीरे रावणस्य च मन्त्रिणि । शिरीषपादपे पुंसि ग्रन्थिपर्णे नपुसंकम् ।वल्कं वल्कलशल्कयोः॑ इति च ।उल्का ज्वालाविभावसोःर॑ इति शुभूतिचन्द्रः ।इण्भी ।इण् गतौ, ञिभी भये,कै शब्दे, पा पाने,शल गतौ, अत सातत्यगमने ।एखं संख्यान्तरे श्रेष्ठे केवलेतरयोस्त्रिषु॑ इति मेदिनी ।कारः स्याद्वायसे वृक्षप्रभेदे पीठसर्पिणि । शिरोऽवक्षालने मानप्रभेदद्वीपभेदयोः । काका स्यात्काकनासायां काकोलीकाकरजङ्घयोः । रक्तिकायां मलय्वां च काकमाच्यां च योषिति । काकं सुरतबन्धे स्यात्काकानामपि संहतौ इति मेदिनीविआप्रकाशौ ।पाकः परिणतौ शिशौ । केशस्य जरसा शोक्ल्ये स्थाल्यादौ पचनेऽपि च ॑इति मेदिनी ।शल्कं तु शकलेवल्के इति च । मर्च इति सौत्रो धातुरिति बहव- । मर्च शब्दे चौरादिक इतिमिदचोऽन्त्यापरः॑इति सूत्रे कैयटः ।मर्तो मर्तं मर्चयति द्वयेन॑ इति मन्त्रे मर्चयति विधेयीकरोति भत्र्सयति वेति वेदभाष्यम् । न चैवं णिलोपस्य स्थानिवद्भावेन कुत्वाऽभावान्मर्क इति न सिध्येदिति वाच्यम्, पूर्वत्रासिद्धे तदभावात् । शो तनूकरणे अस्मादपि बाहुलकात्कन् ।शाको द्वीपान्तरेऽपि च ।शक्तौ द्रुमविशेषे च पुमान् हरितके स्त्रियाम् इति मेदिनी । नौ सदेः । षद्लृ विशरणे अस्मान्निशब्दे उपपदे कन् स्यात्स च डित् । डित्त्वाट्टिलोपः ।सदिरप्रतेःर॑ इति षत्वम् ।निष्क्रमस्त्री साऽष्टहेमशते दीनारकर्षयोः । वक्षोऽलङ्करणे हेममात्रे हेमपलेऽपि च॑ इति मेदिनी । स्यमेः । स्यमु शब्दे अस्मात्कनत्स्यात्तस्य च ईडागमः ।स्यमीका नीलिकायां स्त्री स्यमीको नाकवृक्षयोः॑ इति मेदिनी । अजि । अज गतिक्षेपणयोः, यु मिश्रणे, धूञ् कम्पने, णीञ् प्रापणे, एभ्यः कन् स्यादेषां दीर्घश्च । तत्सामथ्र्याद्गुणाऽबाव- । अजेर्वीभावः । ह्यियः । ह्यी लज्जायामस्मात्कन्धातोर्दीर्घत्वं च । तत्सामथ्र्याद्गुणाऽभावः । शकेः । शक्लृ शक्तौ ।शकुन्तिपक्षिशकुनिशकुन्तशकुनद्विजाः॑ इत्यमरः ।शकुनस्तु पुमान्पक्षिमात्रपक्षिविशेषयोः । शुभाशंसिनिमित्ते च शकुनं स्यान्नपुंसकम् इति मेदिनी ।शकुन्तः कीटभेदे स्याद्भासपक्षिविहङ्गयोः॑ इति ।शकुनिः पुंसि विहगे सौबले करणान्तरे॑ इति च । भुवः । भू सत्तायाम् । अस्मात् झिच् स्यात् ।झोऽन्तः॑कृदिकारात् — ॑ इति ङीष् । भवन्ती लटः संज्ञा । [भवन्तीति स्पष्टार्थः] । तथा चअस्तिर्भवन्तीपरः प्रयोक्तव्यः॑ इति भाष्यम् । बाहुलकात्कमेरपि प्रत्ययादिपलोपे धातोः कुशब्दादेश । कुन्तिः ।इतो मनुष्यजातेः॑इति ङीष् ।कुन्ती पाण्डुप्रियायं च शल्कक्यां गुग्गुलद्रुमे॑ इति मेदिनी । अवन्तिरित्यादि । अव रक्षणे, वद वक्तायां वाचि, आभ्यामपि झिच् । वदन्तिरिति ।कृदिकारा॑दिति वा ङीष् । कन्युच् । क्षिप प्रेरणे, भू सत्तायाम् ।क्षिपण्युस्तु पुमान् देहे सुरभौ वाच्यलिङ्गकः॑ इति मेदिनी ।भुवन्युः स्यात्पुमान्भानौ ज्वलने शशलाञ्छने॑ इति विआमेदिन्यौ । अनुङ् । णद अव्यक्ते शब्दे । अस्मादनुङ्प्रत्ययः स्यात् । क्षिपणुरिति । ङित्त्वाद्गुणाऽभावः । कृवृ । कृ विक्षेपे, वृञ् वरणे,दृ विदारणे, ण्यन्तः ।करुणस्तु रसे वृक्षे कृपायां करुणा मता॑ इति विआमेदिन्यौ ।वरुणस्तरुभेदेऽप्सु प्रतीचीपतिसूर्ययोः॑ इति विआः ।दारुणं भीषणं भीष्मम् इत्यमरः ।दारुणो रसभेदे ना त्रिषुतु स्याद्भयावहे॑ इति मेदिनी । त्रो रश्च । तृ प्लवनतरणयोरस्मादुनन्स्यात् ।तरुणं कुब्जपुष्पे ना रुचके यूनि तु त्रिषु॑ इति मेदिनी । गौरादित्वान् ङीष् ।तरुणी तलुनीति च॑ इति द्विरुपेषु विआः । क्षुधि । क्षुध बुभुक्षायाम्, पिश अवयवे, अयं दीपनायामपि । मिथिः सौत्रो धातुः ।पिशुनो दुर्जनः खलः॑ इत्यमरः ।पिशुनं कुङ्कुमे स्मृतम् । कपिवक्रे च काके ना सूचकक्रूरयोस्त्रिषु । पृक्कायां पिशुना स्त्री स्यात् इति मेदिनी ।मिथुनं न द्वयो राशिभेदेस्त्रीपुंसयुग्मके॑ इति च । फलेः । फल निष्पत्तौ, अस्मादुनन्, गुगागमश्च धातोः ।फल्गुनस्तु फाल्गुणोऽर्जुने॑ इति द्विरुपकोशः । अशेः । अश भोजने अस्मादुनन्,धातोर्लशादेशश्च । लशुनं महाकन्दः ।लशुना लशुनं वेश्म कश्मलं विस्वमआवत्ट इति मध्यतालव्येषु विआः । लस चेति दन्त्यमध्यपाठस्तु प्रामादिकः । अर्जेः । ऋझ गतिस्थानार्जनोपार्जनेषु, अस्माण्ण्यन्तादुनन् स्यात् णेश्च लुक् । इहणेरनिटि॑इति णिलोपेनैव सिद्धे णिलुक् चेत्युक्तेः फलं चिन्त्यम् ।अर्जुनः ककुभे पार्थे कार्तवीर्यमयूरयोः । मातुरेकसुतेऽपि स्याद्धवले पुनरन्यवत् । नपुंसकं तृणे नेत्ररोगे वाप्यर्जुनी गवि । उषायां बाहुदानद्यां कुट्टन्यामपि च क्वचित् इति विआमेदिन्यौ । अर्तेश्च । ऋ गतावस्मादुनन्स्यात्स च चित् ।अरुणोऽवन्यक्तरागेऽर्के सन्ध्यारागेऽर्कसारथौ । निःशब्दे कपिले कुष्ठभेदे ना गुणिनि त्रिषु । अरुणाऽतिविषाश्यामामञ्जिष्ठात्रिवृतासु च॑ इति मेदिनी । अजि । अज गतिक्षेपणयोः, यम उपरमे, शीङ् स्वप्ने, एभ्य उनन् स्यात्स च चित् । अजेर्वीभावः । वीयते गम्यतेऽत्रेति वयुन् ।विआआनि देव वायुनानि विद्वान्इति मन्त्रे वयुनानि प्रज्ञानानीति वेदभाष्यम् । वैदिकनिघण्टौ प्रज्ञापर्याये प्रशस्यपर्याये च वयुनशब्दः पठितः ।यमुना शमनस्वसा॑ इत्यमरः । वृ तृ । वृ वरणे, तृ प्लवनतरणयोः, वद व्यक्तायां वाचि, हन हिंसागत्योः, कमु कान्तौ, कष हिंसायाम् । वर्सः तर्स इति ।तितुत्रे॑ति नेट् । षत्वं तु न भवति, बाहुलकेन षत्वे कर्तव्ये प्रत्ययसंज्ञाया अप्रवृत्तेः । कक्षशब्दे तु षत्वं भवत्येव । एतच्च भाष्यकैयटादिपर्यालोचनयोक्तम् । कथं तर्हि सर्वैरप्युणादिवृत्तिकारैरिह षत्वमुदाह्मतमिति चेत् । अत्राहुः — अस्तु भाष्यप्रामाण्यात् वर्सं तर्समिति दन्त्यपाटोऽपि साधुः । पक्षे तु षत्वमस्तु । बाहुलकलभ्यषत्वाऽभावस्य पाक्षिकत्वेऽपि बाधकाऽभावात्, वृषितृषिभ्यां घञि कृते ण्यन्तादेरचिघञर्थे कविधान॑मिति ण्यन्तात्कप्रत्यये वा कृते वर्षतर्षशब्दयोर्दुर्वारत्वात्, अज्विधौ भयादीनमुपसङ्ख्यागनं नपुंसके क्तादिनिवृत्त्यर्थमित्यत्र वर्षमित्याकरे उदाह्मतत्वाच्च । तस्मादिह द्विरूपता फलितेति । वर्षोषऽस्त्री भारतादौ स्याज्जम्बूद्वीपाऽब्दबृष्टिषु । प्रावृट्काले स्त्रियां भूम्नी॑ति मेदिनी ।तर्षो लिप्सोदन्ययोः॑ इति च ।पुत्रादौ तर्णके वर्षे वत्सः क्लीबं तु वक्षसी॑ति त्रिकाण्डशेषः । सद्योजातस्तु तर्णकः॑ ।हंसः स्यान्मानसौकसि । निर्लोभनृपविष्ण्वर्कपरमात्मसु मत्सरे । योगभेदे मन्त्रभेदे शारीरमरुदन्तरे ।तुरङ्गमप्रभेदे चे ॑ ति मेदिनी ।कंसोऽस्त्री तैजसद्रव्ये कांस्ये मानेऽसुरे तुना॑इति च ।कंसो दैत्यान्तरे स्मृतः । कांस्ये च कांस्यपात्रे च मानभेदे च कीर्तितः॑ इति विआः ।कक्षः स्यादनतरीयस्य पश्चादञ्चलपल्लवे । स्पर्धायां ना तु दोर्मूले कच्छवीरुत्तृणेषु चे॑ति मेदिनी । प्लुषेः । प्लुष दाहे, अस्मात्सः स्यादुपधाया अकारश्च ।प्लक्षो जटी गर्दभाण्जद्वीपभित्कुञ्जराशने॑ इति मेदिनी ।प्लक्षो द्वीपविशेषे स्यात्पर्कटीगर्दभाण्डयोः । पिप्पले द्वारपार्ो च गृहस्य परकीर्तितः॑ इति विआः । मनेः । मन ज्ञाने ।मांसं स्मादामिषे क्लीबं कक्कोलीजटयोः स्त्रिया॑मिति मेदिनी । अशेः । अशू व्याप्तौ, अस्माद्देवने वाच्ये सः स्यात् ।व्रश्चभ्रस्जे॑त्यादिना षत्वादिकार्यम् ।अथाऽक्षमिन्द्रिये । ना द्यूताङ्गे कर्षे चक्रे व्यवहारे कलिद्रुमे॑इत्यमरः ।अक्षो ज्ञानात्मशकटव्यवहारेषु पाशके । रुद्राक्षेन्द्राऽक्षयोः सर्पे बिभीतकरावपि । चक्रे कर्षे पुमान् क्लीबं तुत्थसौवर्चलेन्द्रिये॑ इति मेदिनी । स्नुव्रश्चि । स्नु प्ररुआवणे, ओव्रश्चू छेदने, कृती छेदने, ऋषी गतौ, एभ्य सः कित्स्यात् । स्नुषा पुत्रवधूः । वृक्षः इति । सस्य कित्त्वात्ग्रहिज्या॑ इति संप्रसारणम् ।ऋक्षः पर्वतभेदे स्याद्भल्लूके शोणके पुमान् । कृतवेधेऽप्यन्यलिङ्गं नक्षत्रे पुंनपुंसक॑मिति मेदिनी । ऋषेर्जातौ ।पूर्वसूत्रेणैव सिद्धे ऋषेर्जातावेवेति नियमार्थं सूत्रम् । तेनाऽन्येभ्यस्त्रिभ्यः केवलयौगिकत्वेऽपि सप्रत्ययो भवति ।उन्दिगुधि । उन्दी क्लेदने, गुध रोषे,कुष निष्कर्षे, एभ्यः सः कित्स्यात् ।अनिदिता॑मिति नलोपः ।उत्सः प्ररुआवणं वारी॑त्यमरः ।गुत्सः स्यात्स्तबके स्तम्बे हारभिद्ग्रन्थिपर्णयोः॑ इति मेदिनी । गुच्छश्च ।गुत्सो गुच्छो गुलुञ्छव॑दिति द्विरूपकोशात् ।सयाद्गुच्छः स्तबके स्तम्बे हारभेदकलापयोः॑ इति चवर्गद्वितीयान्ते मेदिनीकोशाच्च । गृधि । गृधु अभिकाङ्क्षायाम्, पम व्यवहारे स्तुतौ च । ननु गृधेश्चर्त्वेन गृत्स इति सिद्धे दकारविधानं व्यर्थमिति चेत् । मैवम् । चत्र्वस्याऽसिद्धत्वेनएकाचो बश॑ इति भष्भावप्रसङ्गात् । न चैवमपि प्रक्रियालाघवाय तकार एव विधीयतामिति शङ्क्यं ,चयो द्वितीयाः॑ इति पक्षे तकारस्य थकारापत्तेः । पक्षो मासाऽर्धके पार्ो ग्रहे साध्यविरोधयोः । केशादेः परतोवृन्दे बले सखिसहाययोः । चुल्लीरन्ध्रे पतत्रे च राजकुञ्जरपार्ायोः॑ इति हेमचन्द्रः ।असेः सरन् इत्युज्जवलदत्तादिपाठस्तु प्रामादिकः, नित्स्वरापत्तेः । इष्यते तु प्रत्ययस्वरेणाऽक्षरशब्दस्य मध्योदात्तत्वम् ।ऋचो अक्षरे परमे व्योमन् इत्यादिऋङ् मन्त्रेषु ,त्रीणि च शतानि षष्ठिश्चाक्षराणी॑ति यजुषी च तथैव पाठात् । अत एवाऽश्नोतेर्वा सरोऽक्षरमिति द्वितीयाह्निकान्ते भाष्यकृतोक्तम् । वसेश्च । वस निवासे, अस्मादपि सरः स्यात् ।सः स्याद्र्धदातुके॑ इति तत्त्वम् ।सपूर्वादिति । पाठान्तरम् । तच्च लक्ष्यविरोधादुपेक्ष्यम् । कृधू । डुकृञ् करणे, धूञ् कम्पने, मदी हर्षे, एभ्यः सरः कत्स्यात् ।कृसरः स्या॑दित्यादि हारावलीस्थम् ।धूसरी किन्नरीभेदे ना खरे त्रिषु पाण्डुरे॑ इति मेदिनी । मत्सरा मक्षिकायां स्यान्मात्सर्यक्रोधयोः पुमान् । असह्रपरसंपत्तौ कृपणे चाभिधेयव॑दिति च ।मत्सरोऽन्यशुभद्वेषे तद्वत्कृपणयोस्त्रिषु॑ इत्यमरः ।अथ मत्सरः ।असह्रपरसंपत्तौ मात्सर्ये कृपणे क्रुधी॑ति विआः । वेदे तु मदी हर्षे इति योगार्थं पुरस्कृत्य प्रयुज्यते — हन्दुमिन्द्राय मत्सरम् ।तं सिन्धवो मत्सरमिन्द्रियाणमि॑त्यादि । मत्सरं हर्षहेतुमिति तद्भाष्यम् ।पतेः । पत्लृ गतावस्मात्सरः स्याद्रेफस्य लश्च । तन्यृषि । तनु विस्तारे, ऋषी गतौ । अमरोक्तिमाह — तसर इति । कित्त्वात्अनुदात्तोपदेशे॑त्यादिनाऽनुनासिकलोपः । ऋक्ष ऋत्विगिति ।ऋक्षरं वारिधारायामृक्षरस्त्वृत्विजि स्मृतः॑ इति मेदिनी ।अनृक्षरा ऋजवः सन्तु पन्थाःर॑ इति मन्त्रस्य वेदभाष्ये तु ऋक्षरः कण्टक इति व्याख्यातम् । पीयुक्वणिभ्याम् । अण रण इति दण्डके क्वणिः पठते स च शब्दार्थकः । आभ्यां कालन् स्याद्यथाक्रमं ह्यस्वः,संप्रसारणं च ।राजादनः प्रियालः स्या॑दित्यमरः ।प्रियालः स्यात्पियादलव॑दिति द्विरूपकोशः । बाहुलकारद्भञ्जेरपि कालन् । कित्त्वान्नलोपः ।न्यङ्क्वादित्वात्कुत्वम् ।भगालं नरमस्तकम् । मत्वर्थे इनिः ।चण्डिकातो बगाली च लेलिहानो वृषध्वज॑ इत राजशेखरः ।कठिकुषि । कठ कृच्छ्रजीवने, कुष निष्कर्षे ।कुषाकुः कपिवह्न्यर्के ना परोत्तापिनि त्रिषु॑ इति मेदिनी । उज्ज्व्लदत्तस्तुकटिकषिभ्या॑मिति पठित्वा कषशिषेति दण्डकदातुमुपन्यस्य कषाकुरित्युदाजहार, तत्कोशविरुद्धम् । मेदिनीकोशे ह्रुपकारप्रक्रमे पाठात् । सर्तेः । सृ गतावस्मात्काकुः स्याद्धातोर्दुगागमश्च ।सृदानुर्नाऽनिले चक्रे ज्वलने प्रतिसूर्यके॑ इति मेदिनी । वृतेः । वूतु वर्तने ।॒वार्ताकुः प्रियवार्ताकी वृन्ताकोऽपि च दृश्यते॑ इति द्विरूपे विआः ।वार्ताको हिङ्गुली सिंही भाण्टाकी दुष्प्रधर्षणी॑त्यमरः ।वार्ताकं पित्तलं किंचिदङ्गारपरिपाचित॑मिति वैद्यशास्त्रम् । पर्देः । पर्द कुत्सिते शब्दे । अस्मात्काकुः स्यात्स च नित् । धातोः रेफस्य संप्रसारणमकारलोपश्च । विआकोशस्थमाह — पृदाकुरिति ।पृदाकुर्वृश्चिके व्याघ्रे सर्पचित्रकयोः पुमा॑निति मेदिनी । सृयु ।सृ गतौ, यु मिश्रणे,वच परिभाषणे ।सरण्युस्तु पुमान् वारिवाहे स्यान्मातरिआनी॑निति मेदिनी ।सरण्युरस्य सूनुरआः॑ इति मन्त्रस्य भाष्ये सरण्युः शीघ्रगामीति व्याख्यातम् ।यवागूरुष्णिकाश्राणा विलेपी तरलाच सा॑इत्यमरः ।वचक्नुस्तु पुमान् विप्रे वावदूकेऽभिधेयव॑दिति मेदिनी । आनकः । शीङ् स्वप्ने, ञिभी भये । विभेत्यस्मादिति भयानको भयङ्करः ।॒भयानकः स्मृतो रसे राहौ भयङ्करे॑इति मेदिनी । आणको । लूञ् छेदने, धूञ् कम्पने, शिघि आघ्राणे, डुधाञ् धारणषोषणयोः । हारावलीस्थमाह — शिङ्घाणमिति ।शिङ्घाणं काचपात्रे स्याल्लोहनासिकयोर्मले॑इति विआः ।शिङ्घाणः फेनडिण्डीरो नक्ररेतश्च पिच्छिलः॑ इति विक्रमादित्यकोशः । उल्मुक । एते निपात्यन्ते । निपातनप्रकारमेवाह — उष दाहे इत्यादि । हारावलीस्थमाह — उल्मुकमिति.॒दर्विः कम्बिः खजाका च॑ इत्यमरः ।ह्यियः । ह्यी लज्जायामस्मात्कुक्प्रत्ययः स्यात् । ककारो गुणनिषेधार्थः । हसि । हसे हसने, मृङ् प्राणत्यागे,गृ निगरणे, इण् गतौ, वा गतिगन्धनयोः, अम गत्यादिषु,दमु उपशमे, लूञ् छेदने, पूञ् पवने, धुर्वी हिंसायाम् ।हस्तः करे करिकरे सप्रकोष्टकरेऽपिच । ऋक्षे केशात्पपरो व्राते॑ इति मेदिनी । अत्रायमर्थः — केशावाचकात्परो यो हस्तशब्दः ससमूहवाची । तथा च केशहस्तशब्दः केशसमूहशब्दपर्याय इति । मर्तो भूलोकस्तत्र भवो मत्र्यः । दिगादेराकृतिगणत्वाद्यत् ।गर्तस्त्रिगर्तभेदे स्यादवटे च कुकुन्दरे॑ इति मेदिनी ।एतः कर्बुर आगते । अन्तः स्वरूपे नाशे ना न स्त्री शेषेऽन्तिके त्रिषु॑ इति च ।दन्तोऽद्रिकटके कुञ्जे दशने चौषधौ स्त्रियाम् इति च मेदिनी । लोतमश्रुणि चोरिते॑ इति विआः ।क्तक्तवतू निष्ठा॑इतिसूत्रेलोतो मेष॑इति कैयटः ।पोतः शिशौ वहित्रे च॑ इति विआमेदिन्यौ । धूर्त इति । धूर्त इति ।लोपा व्योर्वली॑ति वलोपः,राल्लोपः॑ इत्यनेन लोपस्तु क्ङितीत्यननुवृत्तिपक्षे बोध्यः ।हलि चे॑ति दीर्घः ।धूर्ते तु खण्डलवणे धत्तूरे ना शठे त्रिषु॑ इति मेदिनी । तूस्तमिति । तुस खण्डन इत्यस्मात्तन् । नञ्या । आप्लृ व्याप्तौ । अस्मान्नञ्युपपदे तन्स्यादिडागमश्च । बाहुलकान्नञो नलोपाऽभावः । तनि.तनु विस्तारे,मृङ् प्राणत्यागे, आभ्यां तन्प्रत्ययः स्यात्स च कित् । कित्त्वादनुनासिकलोपः ।ततं वीणादिकं वाद्य॑मित्यमरः ।अथ ततं व्याप्ते विस्तृते च त्रिलिङ्गकम् । क्लीबं वीणादिवाद्ये स्यात्पुंलिङ्गस्तु समीरणे॑ इति मेदिनी ।मृतं तु याचितेमृत्यौ क्लीबं मृत्युमति त्रिषु॑ इति च । अञ्जि । अञ्जू व्यक्तम्रक्षणादौ, घृ क्षरणदीप्त्योः, षिञ् बन्धने,एभ्यः क्तः स्यात् । निष्ठासंज्ञात्वेतस्य न भवति,उणादीनमव्युत्पन्नत्वाद्बाहुलकाद्वा । अन्यथानिष्ठा द्व्यजना॑दित्याद्युदात्तत्वं स्यादितिक्तक्तवतू निष्ठे॑ ति सूत्रे कैयटः । अक्तं — परिच्छिन्नम् ।अक्तपरिमाणवाचक॑ इति भाष्यस्य कैयटेन तथा व्याख्यातत्वात् ।अक्तं व्याप्ते च सङ्कुले इति विआ॑ इत्युज्वलदत्तेनोक्तम्, तच्चलिपिभ्रमप्रयुक्तम् । विआकोशे जले क्लीबं प्रदीप्ते त्वभिधेयवत् ।सितमवसिते च बद्धे धवलेत्रिषु शर्करायां स्त्री॑ इति मेदिनी । बाहुलकात् ऋ गतावित्यस्मात् क्तः । ऋतमुञ्छशिले जले ।सत्ये दीप्ते पूजिते स्या॑दिति मेदिनी ।दुतनि । दु गतौ, तनु विस्तारे, आभ्यां क्तः स्याद्धातोर्दीर्घश्च । दूतः प्रेष्यः । गौरादित्वान्ङीष् । दूती ।कथं तर्हितेन दूति । विदितं निषेदुषा॑ इति रघुरिति चेत् । अत्राहुः — दूङ् परितापे इत्यस्मात् क्तिचि दूतिरित ।दूत्यांदूतिरपि स्मृता॑ इति द्विरूपकोशः ।तातोऽनुकम्प्ये जनके॑ इति विआमेदिन्यौ । बाहुलकात् शीङ् स्वप्ने इत्स्मादपि क्तः । शीता लाङ्गलपद्धतिः ।सीता लाङ्गलपद्धतिः । वैदेहीस्वर्गगङ्गासु॑ इति दन्त्यादौ मेदिनी ।सीता लाङ्गलरेखा स्याद्व्योमगङ्गा च जानकी॑ति दन्त्यादौ रभसकोशाच्च ।जेः । जि जये, अस्मात् क्तप्रत्ययस्तस्योदात्तमुडागमः स्यात् । दीर्घ इत्यनुवृत्त्या धातोर्दीर्घश्च स्यात् । इदं सूत्रमनार्षमिति केचित् । अतएव वृत्त्यादिग्रन्थे पृषोदरादिषु जीमूतशब्द उदाह्मतः ।तीमूतोऽद्रौ मृतिकरे देवताडे पयोधरे॑ इति मेदिनी ।वेणी खरा गरी देवताडो जीमूतः॑ इत्यमरः ।जोमूतः स्याद्भृतकरे घने॑ इति विआः । लोष्ट ।लूञ् छेदने, पल गतौ,एतौ क्तान्तौ निपात्येते ।लोष्टानि लेष्टवः पुंसि॑ इत्यमरः । अत्र पुंसीत्युभयान्वयि । तेन पुंनपुंसकलिङ्गो लोष्टशब्दः । तथा चस्थानेऽन्तरतमः॑ इति सूत्रे भाष्यंलोष्टः क्षिप्तो बाहुवेगं गत्वे॑त्यादि.अत एवलेष्टुः शण्डेऽपि लोष्टः स्यात् इति पुंलिङ्गकाण्डे बोपालितः ।पलितं शैलजेतापे केशपाके च कर्दमे॑ इति मेदिनी । ह्मश्या । ह्मञ् हरणे,श्यैङ् गतौ ।हरिता स्त्री च दूर्वायां हरिद्वर्णयुतेऽन्यव॑दिति मेदिनी ।शुक्लशुभ्रशुचिओतविशदश्येतपाण्डराः॑ इत्यमरः । रुहेः । रुह बीजजन्मनि प्रादुर्भावे च । अस्मादितन् ।रोहितं कुङ्कुमे रक्तेऋजुशक्रशरासने । पुंसि स्यानमीनमृगयोर्भेदे रोहितकद्रुमे॑ इति मेदिनी ।लोहितं रक्तगोशीर्षकुङ्कुमाजिकुचन्दने । पुमान् नदान्तरे भौमे वर्णे च त्रिषु तद्वति॑ इति च । पिशेः । पिश अवयवे । अयं दीपनायामपि । अस्मादितन्स्यात्स च कित् ।पिशितं मांसम्, मांस्यां स्त्री॑ति मेदिनी । मांस्यां — जटामांस्याम् । तथा चजटा च पिशिता पेसी॑ति धन्वन्तरिः । श्रुदक्षि । श्रु श्रवणे, दक्ष वृद्धौ, स्पृह ईप्सायाम्,गृहू ग्रहणे, चुरादावदन्तौ ।उद्यतरुआउचे भवसि श्रवाय्यः॑ इति मन्त्रे श्रवाय्यो = मन्त्रैः श्रवणीय इति वेदभाष्यम् ।दक्षाय्यो यो दम आस नित्यः॑ इत्यादिष्वपि यौगिकार्थ एव भाष्ये पुरस्कृतः । स्पृहयाय्यः ।अयामन्ते॑ णेरयादेशः । एवं — गृहयाय्य इति । दिधिषाय्य इति । डुधाञ् धारणपोषणयोः । उज्ज्वलदत्तस्तु दधिषाय्य इति सूत्रं पठित्वा दधिपूर्वात्स्यतेराय्यः षत्वं च, दधिषाय्यो घृतमिति व्याख्यात् । दशपादीवृत्तिकारस्तु धिषु शब्दे अस्य द्वित्वं, गुणाऽबावः, अत्वं चाऽभ्यासस्य निपात्यत इत्याह, प्रसादकारादयोऽप्येवमेवाहुस्तदेतत्सर्वं प्रामादिकम् ।मित्र इव यो दिधिषाय्योऽभूत् इति वैदिकप्रयोगाद्दिधिषाय्य इत्येव सूत्रं युक्तिमिति प्रमाणिकाः । वृञः । वृञ् वरणे । वरेण्यः = श्रेष्ठः । स्तुवः । ष्टुञ् स्तुतौ । स्तुषेय्यं स्तोतव्यम् । पुरुवर्चसं = बहुरूपमिति वेदभाष्यम् । स्तुवः केय्य इति पठित्वा कित्वाद्गुणाऽभावे उवङि सति स्तुवेय्यः पुरन्दर इत्युदाहरन्नुज्वलदत्तस्तु उदाह्मतश्रुतितद्भाष्यादिविरोधादुपेक्ष्यः । तस्मादिह क्सेय्यप्रत्ययं पठन् दशपादीवृत्तिकृदेव ज्यायानित्याहुः । राजेः । राजृ दीप्तौ । क्षत्रियजातौ तुराजआराद्य॑दिति यत्प्रत्यये राजन्य इत्यन्तस्वरितः । शृरम्योः । शृ हिंसायाम्, रम क्रीडायाम् । आभ्यामन्यः स्यात् । अर्तेः । ऋ गतौ ।अस्मादन्यः, स च नित् ।अटव्यरण्यं बिपिन॑मित्यमरः । पर्जन्यः । पृषु सेचने, षस्य जः ।पर्जन्यो मेघशब्देऽपि ध्वनदम्बुदशकयोः॑ इति मेदिनी । वदेः । वद व्यक्तायां वाचि । अजयकोशस्थमाह — वदान्य इति । अमिनक्षि । अम गत्यादिषु, नक्ष गतौ, नक्ष गतौ, यज देवपूजादौ, वध हिंसायाम्, पत्लृ गतौ । नक्षत्रमिति ।नभ्रण्नपा॑दिति सूत्रे नञः प्रकृतिभावेन नक्षत्रमिति साधितं तत्तु व्युत्पत्त्यन्तरमिति बोध्यम् । यजत्रमग्निहोत्रमिति व्याख्यातत्वात् । अमरकोशस्थमाह — पतत्रं चेति । गडेः । गड सेचने, अस्मादत्रन्स्याद्गकारस्य ककारादेशश्च ।कलत्रं श्रोणिभार्ययोःर॑ इत्यमरः । वृञः । वृञ् वरणे अस्मादत्रन् चित्स्यात् । चित्त्वादन्तोदात्तः ।नघ्री वध्री वरत्रा स्यात् इत्यमरः ।वरत्रायां दार्वानह्रमानः॑ इत्यादौ चित्स्वरः स्पष्टः । सुविदेः कत्रः । विद ज्ञाने । इह कत्रन्निति नितंकेचित्पठन्ति, तत्प्रामादिकम् ।बृहस्पतेः सुविदत्राणि राध्या॑इत्यादौ नित्स्वराऽदर्शनात् । कृदुत्तरपदप्रकृतिस्वरेण प्रत्ययस्वरस्यैव दर्शनाच्चेत्याहुः । कृतेः । कृती छेदने, अस्मात्कत्रः स्याद्धातोर्नुमागमश्च ।धन्व च यत्कृन्तत्रं चे॑ति कृनतत्रं कर्तनीयमरण्यमिति वेदभाष्यम् । शृमृ । मृञ् भरणे, भङ् प्राणत्यागे, दृशिर् प्रेक्षणे,यज देवपूजादौ, परव पूरणे, डुपचष् पाके,अम गतौ, तमु काङ्क्षायाम्, णम प्रह्वत्वे शब्दे च, हर्य गतिकान्त्योः । दशपाद्यां तु भृदृशीङिति पठित्वा दृङ् आदरे द्रियते दरतः शेते शयतः इत्युदाह्मतम् । तन्न ।रुशन्तमग्न दर्शतं बृहतम्,तरणिर्विआदर्शतःर॑दैव्यो दर्शतो रथः॑ इत्यादिमन्त्रैस्तद्भाष्येण च विरोधात् ।भरतो नाटशास्त्रे मूनौ नटे । रामानुजे च दौष्यन्तौ॑ इति मेदिनी । यजत ऋत्विगिति । उज्ज्वलदत्ताद्यनुरोधेनैवमुक्तम् । वेदभाष्ये तुहिरण्यशृङ्गं यजतौ बृहन्त॑मित्यादिषु यजतशब्दो यष्टव्यपरतया व्याख्यातः ।पर्वतः पादपे पुंसि शाकमत्स्यप्रभेदयोः ।देवमुन्यन्तरे शैले॑इति मेदिनी । हर्यतोऽआ इति ।परि त्यं हर्यतं हरिम् [॒आनर्यताय धृष्णवे॑] इत्यादिमन्त्रेषु हर्यतः सर्वैः स्पृहणीय इति वेदभाष्यम् । पृषि । पृषु सेचने, रञ्ज रागे, आभ्यामतच् कित्स्यात् ।पृषन् मृगेपुमान् बिन्दौ न द्वयोः पृषतोऽपि ना । अनयोश्च त्रिषु ओतबिन्दुयुक्तेऽप्युभाविमौ॑ इति मेदिनी ।रजतं त्रिषु शुक्ले स्यात् क्लीबं हारेच दुर्वर्णे॑ इति च ।खलतिः । स्खल संचलने । शीङ्शपि । शीह् स्वप्ने, शप आक्रोशे, रु शब्दे, गम्लृ गतौ, वञ्चु गतौ भ्वादिः, वञ्चु प्रलम्भने चुरादिः, जीव प्राणधारणे,अन प्राणने प्रपूर्वः । उज्ज्वलदत्तेनाऽत्र वञ्चिजीवीति पठते । अन्यैस्तु वञ्चिस्थाने वन्दिः पठते । वञ्चथवन्दथयोरन्यतरं वेदादावुपलभ्य बहुश्रुतैः पाठो निर्णेयः । वन्दथ इति । कर्मणि कर्तरि वा प्रत्ययः । प्रणथ इति ।अनितेः॑ इति णत्वम् । शमिदमिभ्यामिति । शम उपशमे,दमु उपशमे ।शमथः शान्तिमन्त्रिणोः॑ इति मेदिनी ।दमथस्तु पुमान् दण्डे दमे च परिकीर्तितः॑ इति च । भृञः । डुभृञ् धारणपोषणयोः । अस्मादथः स्यात्सच चित् । रुदि । रुदिर् अश्रुविमोचने,विद ज्ञाने, आभ्यामथः स्यात्स च ङित् ।विदथो योगिकृतिनोः॑ इति मेदिनी । अत्रोज्ज्वलदत्तो रुविदिभ्यां किदिति पठित्वा रौतीति रुवथः ओत्युदाजहार । दशपादीवृत्तिकारस्तु रुदिविदिभ्यां किदिति पपाठ । इह तु भाष्यानुरोधेन ङिदिति पठितम् । तथाहिगाङ्कुटादि॑सूत्रेके पुनश्चङादयः चङङ्नजिङथङ्नङ् इति भाष्यम् । किदिति पठतां तु अथङिति भाष्यं न सङ्गच्छेतेति दिक् । उप । वस निवासे, अस्मादुपसर्गे अथः स्यात् । उज्ज्वलदत्तेन तु सोपसर्गाद्वसेरिति पठितम्, अन्यैस्तु आङि वसेरिति पठितम् । अत्यवि । अत सातत्यगमने अव रक्षणादौ,चमु अदने,तमु काङ्क्षायाम्, णम प्रह्वत्वे शब्दे च, रभ राभ्स्ये,डुलभष् प्राप्तौ, णभ तुभ हिंसायाम्, भ्वादौ क्र्यादौ चायम् । तप सन्तापे, पत्लृ गतौ,पण व्यवहारे स्तुतौ च, पन च, मह पूजायाम् । गौरादित्वात् ङीष् ।अतसी स्यादुमा क्षुमा॑ इत्यमरः ।चमसो यज्ञपात्रस्य भेदेऽस्त्री पिष्टके स्त्रिया॑मिति मेदिनी ।पनसः कण्टकिफले कन्दके वानरान्तरे । स्त्रियां रोगप्रभेदे स्यात् इति च । वेञः । वेञ् तन्तुसन्ताने, अस्मादसच् स्यात्तस्य तुट् । दशपादीवृत्तौ तुवियस्तुट् चे॑ति पठित्वा वी गतिप्रजनकान्त्यादिष्विति धातुरुदाह्मतः । वहि । वह प्रापणे, यु मिश्रणादौ,अजगरे॑ शयुर्वाहस इत्युभौ॑ इत्यमरः ।वा तु क्लीबे दिवसवासरौ॑ इति च । यावस इति । असचो णित्त्वाद्वृद्धिः । दिवः । दिवु क्रीडादौ । कृशृ । कृ विक्षेपे, शृ हिंसायाम्,शल गतौ, कल विलेखने,गर्ग शब्देषकरभो मणिबन्धादिकनिष्ठान्तोष्ट्रतत्सुते॑इति मेदिनी ।मणिबन्धादाकनिष्ठं करस्य करभो बहिः॑ इत्यमरः ।शरभस्तु पशोर्भिदि॑ ।करभो वानरभिदि॑ इति मेदिनी ।समौ पतङ्गशभौ॑ इत्यमररः ।कलभः करिपोतकः॑ इति च ।गर्दभः ओतकुमुदे गर्दभो गन्धभिद्यपि । रासभे गर्दभी क्षुद्रजन्तुरोगप्रभेदयोः॑ इति मेदिनी । ऋषि । ऋषी गतौ,वृषु सेचने, आभ्यां अभच् स्यात्स च कित् ।ऋषभस्त्वौषधान्तरे । स्वरभिद्वृषयोः कर्णरन्ध्रगर्दभपुच्छयोः । उत्तरस्थः स्मृतः श्रेष्ठे स्त्रीनराकारयोषिति । शूकशिम्ब्यां शिरालायां विधवायां क्वचिन्मता॑ इति मेदिनी । जृविशि.जृ वयोहानौ,विश प्रवेशने ।वेशन्तः पल्वलं चाल्पसरःट इत्यमरः । बाहुलकादर्हतेरपि झच् । अर्हन्तः क्षपणको जिनः॑इति विक्रमादित्यकोशः । रुहि । रुह बीजजन्मनि प्रादुर्भावे च, टुनदि समृद्धौ, जीव प्राणधारणे,अन प्राणने प्रपूर्वः । एभ्य आशिषि झच्, स च षिद्भवति । प्राणन्त इति ।अनितेः॑ इति णत्वम् ।तृभू । तृ ल्पवनतरणयोः,भू सत्तायाम्,वह प्रापणे वस निवासे, बासृ दीप्तौ, साध संसिद्धौ,गड सेचने, मडि भूषायाम्, उभौ ण्यन्तौ । जि जये, टुनदि समृद्धौ ण्यन्तः । नन्दयन्त इति । उज्ज्वलदत्तस्तु स्वयमेवानुवर्तितत्वात् । हन्तेः । हन हिंसागत्योरस्मात् झच्प्रत्ययः स्यात्तस्य मुडागमः, धातोर्हिरादेशश्च ।भन्दे । भदि कल्याणे सुखे च । अस्मात् झच् स्याद्धातोर्नकारलोपश्च । ऋच्छेः । ऋच्छ गतौ । बाहुलकादिति । जर्ज चर्च झर्झ परिभाषणहिंसातर्जनेषु । परिभाषणभत्र्सनयोरिति तुदादौ ।जर्जरं शैवले शक्रध्वजे त्रिषु जरत्तरे । झर्झरः स्यात्कलियुगे वाद्यभेदे नदान्तरे॑ इति च मेदिनी । बाहुलकादेव झस्य जादेशे जर्झर इत्युज्ज्वलदत्तः ।अर्तिकमि । ऋ गतौ, कमु कान्तौ,भ्रमु अनवस्थाने, चमु अदने, दिवु क्रीडादौ, वस निवासे, उभावपि ण्यन्तौ ।अररं छदकपाटयोः॑इति मेदिनी ।कपटामररं तुल्ये॑ इत्यमरः ।भ्रमरः कामुके भृङ्गे॑ इति मेदिनी ।चमरं चामरे स्त्री तु मञ्जरीमृगभेदयोः॑इति च । चमरोमृगभेदः । देवरः पत्युः कनिष्ठभ्राता । वासर इति । केचित सूत्रे वाशिभ्य इति तालव्यं पठित्वा वाशृ शब्द इत्यस्मादरप्रत्यये वाश्यत इतिवाशरः कोकिल इत्याहुः । कुवः । कु शब्दे । अङ्गि.अगिर्गत्यर्थः,मदी हर्षे,मदि स्तुत्यादौ ।॒अङ्गार उल्मुके न स्त्री पुंलिङ्गस्तु महोसुते॑ इति मेदिनी ।मन्दारः स्यात्सुरद्रुमे । पारिभद्रेऽर्कपर्णे च मन्दारो हस्तिधूर्तयोः॑ इति च । मदि स्तुत्यादावित्स्माद्बाहुलकादारुरपि ।पारिभद्रे तु मन्दारुर्मन्दारः पारिजातकः॑ इति शब्दार्णवः । गडेः । गडि वदनैकदेशे,गड सेचने, अस्मादारन्प्रत्ययः स्यात्कडादेशश्च ।कडारः कपिले दासे॑इति मेदिनी ।कडारः कपिलः पिङ्गः॑ इत्यमरः । शृङ्गार । शृ हिंसायाम्, डुभृञ् धारणपोषणयोः,एतौ निपात्येते । आभ्यामारन्नुम् गुग् ह्यस्वश्च ।शृङ्गारः सुरते नाटए रसे च गजमण्डने । नपुंसकं लवङ्गेऽपि नागसंभवचूर्णयोः॑इति मेदिनी ।भृङ्गारी झिल्लिकायां स्यात्कनकालौ पुनः पुमान् इति च । कञ्जि । मृजू शुद्धौ, चित्वादारन्प्रत्ययः, अन्तोदात्तः । कञ्जारो जरठे सूर्ये विरञ्चौ वारणे मुनौ॑इति विआमेदिन्यौ ।मार्जार ओतौ खट्वाङ्गे॑इति च ।ओतुर्बिरडालो मार्जारः॑इत्यमरः । कमेः । कमु कान्तौ, अस्मादरन्कित्स्यात् ।कुमारः स्याच्छुके स्कन्दे युवराजेऽआवारके । बालके वरुणद्रौ ना न द्वयोर्जात्यकाञ्चने । कुमारी सैलतनयावनकाल्योर्नदीभिदि । सहापरजिताकन्याजम्बुद्वीपेषु च स्त्रिया॑मिति मेदिनी । विआप्रकाशेतुकुमारी रामतरणी॑ति पाठः ।रामतरणी लताविशेषः । सहेति प्रसिद्धः ।तरणो रामतरणी कर्णिका चारुकेसरा । सहा कुमारी गन्धाढआ॑ इतिधन्वन्तरिनिघण्टुः ।जम्बूद्वीपसहाकन्याः कुमार्योऽथाआवारके । बालके कार्तिकेये च कुमारो भर्तृदारके॑ इति त्रिकाण्डशेषः । तुषारा । एते निपात्यन्ते । तुष तुष्टौ आरन् ।तुषारस्तुहिं दीङ् क्षये, अस्मादारम्, चस्य नुडागमश्च । सृ गतौ अस्मादपः स्याद्धातोः षुगागमश्च । उषि । उष दाहे, कुट कौटिल्ये,दल विदारणे, कच बन्धने, खज मन्थे । क्वणेः । क्वण शब्दे । अस्मात्कपन् धातुवकारस्य संप्रसारणं च ।कुणपः पूतिगन्धे शवेपि चे॑ति मेदिनी ।कुणपः शवमस्त्रिया॑मित्यमरः । विटप ।विटपो न स्त्रियां स्तम्बशाखाविस्तारपल्लवे । विटाधिपे ना॑ इति मेदिनी । विशत्तेरिति.विश प्रवेशने । आदेः प इति । एतच्च उज्ज्वलदत्तरीत्योक्तम् । अनये तु सूत्रे विष्टपेति दन्त्यादौष्ठआदिमेव पठन्ति । युक्तं चैतत् ।अत्र ब्राध्नस्य विष्टपम् इत्यादौ तथा दर्शनात् । अमरकोशेऽपि॒विष्टपं भुनं जगत् इति प्रचुरपाठाच्च । वलवल्ल संवरणे संचरणे च ।उलपो न स्त्री गुल्मिन्यां ना तृणान्तरे॑ इति मेदिनी ।वृतेः । वृतु वर्तने । कृतिभिदि । कृती छेदने, भिदिर् विदारणे, लतिः सौत्रो धातुः । इष्यशि । इष इच्छायाम्, अशू व्याप्तौ,आभ्यां तकन् कित्स्यात् । इष्टकेति ।इष्टकेषीकामालाना॑मिति निर्देशात्प्रत्ययस्था॑ दिति नेत्त्वम् । केचित्तु प्रत्ययस्थादितीत्वमिह न भवति, अनित्यत्वात् । तज्ज्ञापकं तुमृदस्तिकन्इति इकारोच्चारणित्याहुः । इणस्तश । एतशा इति ।अत्वसन्तस्ये॑ति दीर्घः । एतशसौ । एतशसः । वीपति । पत्लृ गतौ ।॒पत्तनं पुटभेदन॑मति पुरीपरर्यायेष्वमरः । दृदलि । दृ विदारणे, दलविकसने । अर्तिगृ । ऋ गतौ । इयर्तीति अर्भः शिशुः ।संज्ञायां कनिअर्भख- ।॒गर्भो भ्रूणेऽर्भके कुक्षौ सन्धौ पनसकण्टके॑ इति मेदिनी । इणः । इण् गतौ,अस्माद्भन् कित्स्यात् ।इभः स्तम्बेरमः पद्मी॑ इत्यमरः । असि । असु क्षेपणे,षञ्ज सङ्गे ।कीकसं कुल्यमस्थि च॑ इत्यमरः,॒सक्थि क्लीबे पुमानूरुः इति च । प्लुषि । प्लुष दाहे, कुष निष्कर्षे, शुष शोषणे । अशेः । अशू व्याप्तौ, अस्मात् क्सिन्, नित्स्यात् । अक्षि नयनम् । इष इच्छायाम् ।रसाल इक्षुः॑ इत्यमरः । अवि । अव रक्षणादौ, तृ प्लवनतरमयोः, स्तृञाच्छादने,तत्रि कुटुम्बधारणे, चुरादिण्यन्तः । तरीरिति ।स्त्रियां नौस्तरणिस्तरिःर॑ इत्यमरः । यापोः । या प्रापणे, पा पाने, आभ्यामीः कित्स्याद्दवित्वं च धातोः । लक्षेः । लक्ष दर्शनाङ्कनयोश्चुरादिण्यन्तः । अस्मादीप्रत्ययः स्यात्तस्य मुडागमो णिलोपश्च ।लक्ष्मीः पद्मा विभूतिश्च ।कृदिकारा॑दिति ङीषि लक्ष्मीत्यपि भवतीपि रक्षितः ।लक्ष्मीः संपत्तिशोभयोः । ऋद्ध्योषधौ च पद्माया॑मिति मेदिनी । इत्युणादिषु तृतीयः पादः । अथ चतुर्थः पादः ।माधातोरिति । मा माने, कित्त्वात्आतो धातोः॑ इत्यालोपः ।वातप्रमीर्वातमृगः॑ इत्यमरः । अयं स्त्रीपुंसयोः अयमिति ।द्विचतुः षट्पदोरगाः॑इत्यमरेण चतुष्पाद्वाचिनामुभयलिङ्गतोक्तेः, सुभूतिचन्द्रादिभिरपि वातप्रमीशब्दस्य द्विलिङ्गतोक्तेश्चेति भावः । तत्रकृदिकारा॑दिति पाक्षिकोऽपि ङीष् कैश्चिदिष्यते । न च ह्यस्वादेवकृदिकारा॑ दिति ङीष् भवति न तु दीर्घादिति शङ्क्यं, वर्णनिर्देशे कारप्रत्ययस्य विधानेन दीर्घादपिकृदिकारा॑दिति ङीषः संभवात् । अत एव वातप्रमीश्रीलक्ष्मीति पक्षे ङ्यन्ताः सुसाधव इति रक्षितः । एतच्च दुर्घटग्रन्थे स्पष्टम् ।आशीराश्यहिदंष्ट्रायां लक्ष्मीर्लक्ष्मी हरिस्त्रिया॑मिति द्विरुपकोशः । अत एवआशीविषो विषधरः॑ इत्यमरकोश सङ्गच्छते । अश भोजन इत्यस्मात्इणजादिभ्यः॑ इति इण् प्रत्यये उपधावृद्धौकृदिकारा॑दिति ङीषः स्वीकारात् ।आशीमिव कलामिन्दोः॑ इति राजशेखरः ।आशीर्हिताशंसाऽहिदंष्ट्रयो॑रिति सान्तेऽमरात्सान्तोऽप्याशीः शब्दोऽस्तीत्यन्यदेतत् । ऋतनि । ऋ गतौ, तनु विस्तारे, अञ्जू व्यक्त्यादौ, वनु याचने, अञ्जू स एव, ऋ गतौ ण्यन्तः, मदी हर्षे, अत सातत्यगमने अगि गत्यर्थः, कु शब्दे, यु मिश्रमे, कृश तनूकरणे । प्रसङ्गादाह — अरत्निरिति । न रत्निः अरत्निरिति नञ्समासः । प्रसृताङ्गुलिः स = हस्तः अरत्निरित्यर्थः । दशपादीवृत्तौ तु कत्निजित्यत्र ककारमपठित्वा अर्तेरत्निचमकितं विधाय अरत्निः साधितः । उज्ज्वलदत्तानुसारेणाह — वायू रात्रिश्चेति । तन्यतुः शब्दो मेघः अशनिश्चेत्यपि बोध्यम् ।आविस्माऽस्य तन्यतोरिव द्यौः॑ इति मन्त्रेदिवश्चित्रं न तन्यतुः॑मिति मन्त्रे च तन्यतुरशनिरिति वेदभाष्ये व्याख्यातत्वात् ।अञ्जलिस्तु पुमान् हस्तसंपुटे कुडवेऽपि चे॑ति मेदिनी । स्थविरान्त्रमिति ।वनिष्ठोह्मदयादधि॑ इति मन्त्रस्य भाष्ये तथोक्तत्वात् । अञ्जिष्ठ इति । केचिदञ्जेरिष्णुचमिच्छनति तेषामञ्जिष्णुरुदाहरण् । अर्पिस इति ।अर्तिह्यी॑ त्यादिना पुक् ।णरेरनिटी॑ ति णिलोपः । मदेरिति ।मत्स्यो मीनेऽथ पुंभूम्नि देशे॑ इति मेदिनी ।अतिथिः कुशपुत्रे स्यात्पुमानागन्तुके त्रिषु॑ इति च ।अङ्गुलिः करशाखायां कर्णिकायां गजस्य चे॑ति च । कवसः सन्नाहः कङ्कटजातिश्च । अच इति॒कवचो गर्दभाण्डे च संनाहे पर्पटेऽपि च॑ इति मेदिनी । योतेरिति ।दुरालभाकटुस्पर्शा यासो धन्वयवासकः॑ इति धन्वन्तरिनिघण्टुः ।कृशानुः पावकोऽनलः॑ इत्यमरः ।श्रः । शृ हिंसायाम् ।शर्करा खण्डविकृतौ उपलाकर्परांऽशयोः । शर्करान्वितदेशे च रुग्भेदे शकलेऽपि च॑ इति मेदिनी । पुषः । पुष पुष्टौ, अस्मात्करन्स्यात्स च कित् ।पुष्करं खेऽम्बुपद्मयोः । तूर्यवक्रेखङ्गफले हस्तिहस्ताऽग्रकाण्डयोः । कुष्ठौषधिद्वीपतीर्थभेदयोश्च नपुंसकम् । ना रोगनागविहगनृपभेदेषु वारुणौ॑ इति मेदिनीं । कलंश्च । पुष्यतेः कलन् स च कित् ।पुष्कलस्तु पूर्णे श्रेष्ठे॑ इति हेमचन्द्रः । गमेः । गम्लृ गतौ ।भविष्यति गम्यादयः॑ इत्याशयेनाह — गमिष्यतीति ।आगामीति इनि प्रत्ययस्य णित्त्वादुपधावृद्धिः । आगमिष्यतीत्यर्थः ।#भुवश्च । भू सत्तायाम् । अस्मादिनिः स च णित्स्यात् । भविष्यतीति भावी । प्रे स्थः । ष्टा गति निवृत्तौ, प्रपूर्वादस्मादिनिः स च णित् । णित्तवात्आतो युक् ॑ इति युक् । प्रस्थायी गन्तुकामः । परमे । परमशब्दे उपपदे तिष्टतेरिनिः कित्स्यात् । कित्त्वादातो लोपः ।हलदन्ता॑दित्यलुक् ।परमेष्टी पितामहः॑ इत्यमरः । मन्थः । मन्थ विलोडने । मन्था इति ।पथिमथि॑ इत्यात्वम् ।इतोऽत्सर्वनामस्थाने॑ ।मन्था मन्थनदण्डे च वज्रे वातेऽपि च स्मृतः॑ । पतः । पत्लृ गतावित्यस्मादिनिः स्थश्चान्तादेशः । पथे गतावित्यस्मात्पचाद्यचि अकारान्तोऽप्यस्ति ।वाटः पथश्च मार्गश्चे॑ति सुभूतिचन्द्रः ।त्वचि त्वचः किरोऽपि स्यात्किरौ प्रोक्तः पथ पथि॑ इति द्विरुपेषु विआः । इह ऋभवो देवाः क्षयन्त्यस्मिन्निति विग्रहेअन्येब्योऽपि दृश्यते॑ इति डः ।ऋभुक्षः स्वर्गवज्रयोः॑इति विआः । ततो मत्वर्थीयेनिः । ऋभुक्षिन्निति नान्तं प्रातपदिकम् ।पथिमथी॑त्यात्वेइतोऽटदित्यत्वे च ऋभुक्षा इन्द्रः, ऋभुक्षाणौ ऋभुक्षाण इत्युज्ज्वलदत्तः । दशपाद्यां तुअर्तेः भुक्षिनक् इति सूत्रमुपन्यस्य तस्य ऋभुक्षिन्नित्युदाह्मतम् ।ऋभुक्षिणमिन्द्रमाहुव ऊतये॑ इति मन्त्रस्य वेदभाष्ये तत्सूत्रमुदाह्मतम् । अत्रायं विवेकः — - इनिप्रत्ययान्ता इति मते अन्तोदात्तत्वं न्याय्यं, प्रत्ययस्वरेण इनेरिकारस्योदात्तत्वात् । अवग्रहाऽभावो बाहुलकात् । द्वितीयमते त्ववग्रहाऽभावो न्याय्यः, परन्तु प्रत्ययस्वरेणोकारस्योदात्ततया भुक्षिनक्प्रत्ययान्तस्य मध्योदात्तत्वे प्रसक्ते बाहुलकादन्तोदात्तः स्वीकर्तव्य इति । खजेः । खज मन्थे । बलाका.बल प्राणने, शलगतौ, पत्ल गतौ,एते आकप्रत्ययान्ता निपात्यन्ते ।बलाका बकपङ्किः स्याद्बलाका बिसकण्ठिका । बलाका कामुकी प्रोक्ता बलाकश्च बको मतः॑ इति विआशाआतौ ।शलाकाऽञ्जनयष्टिका॑ ।पताका वैजयन्त्यां च सौभाग्येऽङ्के ध्वजेऽपि च॑ इति विआः ।पताका वैजयन्त्यां च सौभाग्ये नाटकाङ्कयोः॑ इति मेदिनी । पिनाका । एतेआकप्रत्ययान्ता निपात्यन्ते । पा रक्षणे,पिनाकोऽस्त्री रुद्रचापे पांशुवर्पत्रिशूलयोः॑ इति मेदिनी । अमरोक्तिमाह क्लीबपुंसोरिति । किञ्च पिष्लृ संचूर्णने, षकारस्यणत्वं दातोर्यगागमः ।पिण्याकोऽस्त्री तिलकल्के हिङ्गुबाह्लीकसिह्लके॑ इति मेदिनी । कषि । कष खषेति दण्डके हिंसार्थकः । दुष वैकृत्ये ण्यन्तः ।दोषो णौ॑ इत्युपधाया ऊकारः । अमरोक्तिमाह — दूषिकेति । किञ्च अकृतेऽपि ईकनि दूषयतेःअचः इः॑इति इप्रत्यये दूषिः ।कृदिकारा॑दिति ङीषि दूषी । उभाभ्यामपि स्वार्थे कनि दूषिका ह्यस्वमध्यैव ।केऽणः॑ इति ङीषोऽपि ह्यस्वादेशात् ।पिचण्डी दूषिका दूषी पिचाटं च दृशोर्मल॑मिति विक्रमादित्यकोशः ।दूषिका तूलिकायां च मले स्याल्लोचनस्य चे॑ति मेदिनी ।ह्मषीकं विषयीन्द्रिय॑ मित्यमर । चङ्कणः । कणधातोर्यङ्लुकि प्रत्ययलक्षणन्यायेनसन्यङोः॑ इति द्वित्वेकुहोश्चुः॑ इत्यभ्यासस्य चुत्वेनुगतोऽनुनासिकान्तस्य॑ इति नुकि चङ्कण् । ङसिङसोस्तु चङ्कणः । धातोरिति । चङ्कणित्यस्य । शृ पृ ।शृ हिंसायाम्, पृ पालनादौ, वृञ् वरणे, एब्य ईकन्, एषां द्विर्वचनमभ्यासस्य रुगागमश्च । शर्शरीक इत्यादि । उरदत्वे रपरत्वम् ।पर्फरीका । ईकन्नन्ता एते निपात्यन्ते । पर्फरादेश इति । एतच्चोज्ज्वलदत्तरीत्योक्तं, वस्तुतस्तु धातोर्द्वित्वमुकारस्याऽकारः, सलोपः, रुक् चाभ्यासस्येति दशपाद्यां यदुक्ततदेव न्याय्यम् ।चरेर्नुम् चे॑त्युत्तरग्रन्थानुरोदेनद्वे रुक् चे॑त्याद्यनुवृत्तेन्र्याय्यत्वात् । किसलयमिति ।नैतोशव तुर्फरीपर्फरीकौट इति शत्रूणां विदरयितारौ,स्तोतृणां पालकौ, इष्टार्थस्य पूरयितारौ चेति व्याख्यातम् । दर्दरीकमिति । दृ विदारणे, अस्मादीकन्धातोर्दर्दरादेशः । झर्झरीकमिति । झृष् वयोहानो, अस्मादीकन्थातोर्झर्झरादेशः । वस्तुतस्तु दर्दरीक झर्झरीकावपि पर्फरीकवद्धातोद्र्वत्वं रुक् चाभ्यासस्येति व्याख्येयौ । उत्तरखण्डे ऋकारस्य गुणे रपरत्वम् । तित्तिडीक इति । तिम ष्टिम ष्टीम आद्र्रीबावे,मकारस्योकारः, अभ्यासस्य तुक् च ।तित्तिडी चिञ्चाऽम्लिका॑ इत्यमरे तु शब्दान्तरं बोध्यम् । तथा चतित्तिडी त्वम्लिका चिञ्चा तित्तिडीका कपिप्रिया॑ इति वाचस्पतिः ।अम्लीका चाम्लीका चिञ्चा तित्तिडीका च तित्तिडा॑ इतिचन्द्रः ।अम्लीका चुकक्रिकाचुक्रा साम्ला शुक्राथ शुक्लिका.अम्लिका चिञ्चका चिञ्चा तित्तिडीका सुतिन्तडा॑इति धन्वन्तरिनिघण्टुः । चरेरिति । चर गतिभक्षमयोरस्मादीकन् द्विर्वचमभ्यासस्य नुमागमश्च ।भ्रमरश्चञ्चरीकः । स्याद्रोलम्बो मधुसूदनः । इन्दिन्दिरः पुषपकीटो मधुद्रो मधुकेशटः॑ इति त्रिकाण्डशेषः । मर्मरीक इत्यादि । मृङ् प्राणत्यागे, डुकृञ् करणे, आभ्यामीकन् धातोर्द्वित्वम् अभ्यासस्य रुक् ।कर्कर्यालुर्गलन्तिका॑ इत्यमरः । पुण कर्मणि शुभे, णस्य डः, प्रत्ययस्य रुडागमश्च ।पुण्डरीकंसिताम्भोजे सितच्छत्रे न भेषजे । पुंसि व्याघ्रेऽग्निदिङ्नागे कोशकारान्तरेऽपि चे॑ति मेदिनी ।इषेः । ईष गतावस्मादीकन् ह्यस्वश्च ।कित्त्वाद्गुमाऽभावः । ह्यस्वविदानसामथ्र्यादेव गुणाऽभावे सिद्धेऽप्युत्तरार्थं कित्तवमित्याहुः ।इषीकास्यादीषिकापि वानायुजवनायुजौ॑ इति द्विरुपकोशः । ऋजेः । ऋज गतौ । सर्तेः । सृ गतावस्मादीकन्कित्स्याद्धातोर्नुमागमश्च ।सृणिकास्यन्दिनी लाला॑ इत्यमरः । मृडः कीकच् । मृड सुखने । मृडः कीकन्नितयुज्ज्वलदत्तादिपाठः प्रामादिकः । मृडीकशब्दस्य चित्स्वरेणान्तोदात्तत्वात् ।मृडीके अस्य सुमतौ स्याम॑ इत्यादौ चित्स्वरस्यैव दर्सनात् । अलीकाद ।अलीकसप्रियेऽपि भाले वितये॑ इति हेमचन्द्रः । तथा चाऽभियुक्तैः प्रयुज्यते — ते दृष्टिमात्रपतिता अपि कस्य नाऽत्र क्षोभाय पक्ष्मलदृशामलकाः खलाश्च । नीचाः सदैव सविलासमलीकलम्ना ये कालत॑ कुटिलतां च न संत्यजन्ति॑ इति । इहाऽलीकलम्नाः = भाललम्नः, अप्रिये लम्ना इत्याद्यर्थो यथायोग्यं बोध्यः ।व्यलीकमप्रियाऽकार्यवैलक्ष्येष्वपि पीडने । ना नागरे॑ इति मेदिनी । वल संवरणे ।वलीकनीध्रे पटलप्रान्ते॑ इत्यमरः । वलतेर्मुगागमे वल्मीकन् ।॒वामलूरश्चनाकुश्चवल्मीकं पुनपुंसक॑मित्यमरः । वहतेर्वद्धिस्च । वाहीको गोरस्वश्च ।सुप्रपूरमवादिणस्तुट् च । सुप्रतीकः । शामय्तेः शमीक ऋषिः । एवमन्येऽप्यूह्रा इत्याशयेनाह — इत्यादीति । शृपृ । शृ हिंसायाम्, पृ पालनादौ , आभ्यामीषन् कित्स्यात् ।ऋत इद्धातोः॑ इति इत्व रपरत्वम् । शिरीषो वृक्षभेदः ।उदोष्ठपूर्वस्य॑ इत्युत्वम् ।पुरीषं गूथं वर्चस्कमस्त्री विष्टाविशौ स्त्रियाम् इत्यमरः । अर्जेः । अर्ज पर्ज अर्जने, अस्मादीषन् कित्स्यात्, धातोरृजादेशश्च । अमरोक्तिमाह — ऋजीषमिति । किंच उद्धृतरसः । सोमलतायाः शेषोऽपि ऋजीषम् । एतच्चऋजीषिण॑ वृषणसश्चत श्रिये॑असत्यो पातु मघवाँऋजीषी॑ इत्यादिमन्त्रे भाष्ये स्पष्टम् । अयमिति । ईषन्प्रत्ययस्य अरुडागमश्चेत्यर्थः । वोपालितोक्तिमाह — अम्बरीषमिति ।क्लीबेऽम्बरीषं भ्राष्ट्रो ना॑इत्यमरः ।अम्बरीषो रणे भ्राष्ट्रे क्लीबं पुंसि नृपान्तरे । नरकस्य प्रभेदे च किशोरे भास्करेऽपि च । आम्रातकेऽनुपाते च॑ इति मेदिनी । कृशृपृ । कृ विक्षेपे, शृ हिंसायाम्, पृ पालनपूरणयोः, कटे वर्षावरणयोः, इट किट कटी गतौ, चुरादौ पट पुटेति दण्डके भाषार्थः, शौटृ गर्वे ।वंशाङ्कुरे करीरोऽस्त्री वृक्षमिद्धद्वयोः पुमान् ।करीका चीरिकायां च दन्तमूले च दन्तिना॑ मिति मेदिनी । शीर्यत इति शरीरम् ।शरीरं वर्ध्म विग्रहः॑ इत्यमरः । अद्र्धर्चादित्वाच्छरीर इति पुंलिङ्गोऽपि । परीरमिति । पूर्यतेऽनेनेति विग्रहः । बाहुलकात् हिडि गत्यनादरयोः । हिण्डते इतस्ततो गच्चतीति हिण्डीरः ।हिण्डीरोऽब्धिकफः फेनः॑ इत्यमरः ।डिण्डिरोऽपि च हिण्डीरः॑ इति द्विरुपकोशः । किर्मीरजम्बीरतूणीरादयोऽपि बाहुलकादेव बोध्याः ।किर्मीरो नागरङ्गेच कर्बुरे राक्षसान्तरे॑ इति मेदिनी ।॒जम्बीर । प्स्थपुष्पे स्यात्ततता दन्तशठद्रुमे॑ इति च । वशेः । वशकान्तौ, अस्मादीरन्कित्स्यात् । कित्त्वात्संप्रसारणादि । उशीरं वीरणनूलमुशीरोऽपि ।मूलेऽस्योशीरमस्त्रियाम् । अभयं नलदं सेव्य॑मित्यमरः । कशेः । कश इति सौत्रो धातुः, अस्मादीरन् तस्य मुडागमश्च । पृषोदरादित्वात्काश्मीरः । कृञः । डुकृञ् करणे अस्मादीरन्, धातोरन्त्यस्यौदादेशो रपरः । घसेः । घस्लृ अदने । अस्मादीरन् कित्स्यात् ।गमहनेत्युपधालोपे कत्वं षत्वं च ।क्षीरं दुग्धे च नीरे च॑ इति विआः । गभीर् । गम्लृ गतौ । अस्मादीरन् भकारोऽन्तादेशः । पक्षे नुमागमश्च निपात्यते ।॒निम्नं गभीरं गम्भीर॑ मित्यमरः । विष । षोऽन्तकर्मणि, ओहाक् त्यागे, आभ्यां विपूर्वाभ्यानाप्रत्ययो निपात्यते । पचः । डुपचष् पाके, अस्मादेलिमच् स्यात् । कर्तरि अयम् । कृत्यप्रत्ययेषु तु केलिमर् उपसङ्ख्यातः । शीङः । शीङ् स्वप्ने । शेरतेऽनेनति शीघुर्मद्यविशेषः ।मैरेयमासवः शीधुः॑इत्यमरः । अर्धर्चादिपाठात् क्लीबं च ।पुंनपुंसकयोर्दारुजीवातुस्थाणुशीधवः॑इति त्रिकाण्डशेषः ।शीलं स्वभावे सद्वृते॑ इति मेदिनी ।जलनीली तु शेवालं शैवलः॑इत्यमरः ।शैवलं पद्मकाष्ठे स्यात् शैवाले तु पुमानय॑मिति मेदिनी । शब्दार्णवोक्तिमाह — शैवालं शेवल इति । मृकणि । मृङ् प्राणत्यागे, कण शब्दार्थः । ऊकश्च उकण् च ऊकोकणौ एतौ प्रत्ययौ यथाक्रमं भवतः । वल संवरणे । ॒उलूकः पुंसि काकाराविन्द्रे भारतयोधिनि॑ इति मेदिनी । वदेर्यङ्लुगन्तादूकः ।वाचोयुक्तिपटुर्वाग्मी वावदूकोऽतिवक्तरि॑ इत्यमरः । भल्लूक इति । भल्ल परिभाषणे इत्यस्मादूकः । शमेः । शम उपशमे अस्मादूकः । धातोर्बुगागमश्च । शम्बूको गजकुम्भान्ते घोण्टे च शूद्रतापसे॑ इति मेदिनी । बाहुलकादुकप्रत्यये ह्यस्वमध्योऽपि ।जम्बूकं जम्बुकं प्राहुः शम्बुकमपि शम्बुक॑मिति द्विरुपकोशः । जम्बूकबन्धूकादयोऽप्यत्रैव द्रष्टव्यः । जम्बूकः फेरवे नीचे पश्चिमाशापतावपि॑ इति मेदिनीविआप्रकाशौ ।बन्धूकं बन्धूकं बन्दुजीवे स्याद्बन्धूकः पीतसारके॑ इति च । शलिमण्डि । शलगतौ, मडि भूषायां हर्षे च ।सौगन्धिकं तु कह्लार॑मित्याद्युपक्रम्य्सालूकमेषां कन्दः स्यात् इत्यमरः । एषां च सौगन्धिकादीनां कुमुदकैरवान्तानां कन्दो मूलं शालूकमित्यर्थः । मण्डते वर्षासमयमिति मण्डूको भेकः । नियो मिः । णीञ् प्रापणे । नयति चक्रमिति नेमिश्चक्रावयवः ।नेमिर्ना तिनिशेकूपत्रिकाचक्रान्तयोः स्त्रिया॑मिति मेदिनी । बाहुलकादन्यतोऽपि । या प्रापणे ।यामिः स्वसकूलस्त्रियोः॑ इत्यन्तस्थादौ रभसः ।जामिः स्वसृकुलस्त्रियोः॑इति चवर्गतृतीयादावजयकोशः ।चवर्गादिरपि प्रोक्तो जाभिः स्वसृकुलस्त्रियोः॑ इति द्विरूपेषु विआः । अर्तेरुच्च । ऋ गतावित्यस्मन्मिः, धातोरुकारादेशश्च । उचेति वक्तुमुचितम्,रपरत्वेहलिचे॑ति दीर्गसंभवात् ।ऊर्मिः स्त्रीपुंसयोर्वाच्यां प्रकाशे वेगभङ्गयोः । वस्त्रसंकोचरेखायां वेदनापीडयोरपि॑ ति मेदिनी । भुवः । भवतेर्मिः कित्स्यात् । भवन्ति भूतान्यस्यामिति भूमिः ।भूमिर्वसुन्धरायां स्यात्स्थानमात्रेऽपि च स्त्रिया॑मिति मेदिनी ।बूर्भूमिरचलाऽनन्ता॑ इत्यादिस्त्वमरः । अश्नोतेः । अशू व्याप्तौ, अस्मान्मिः, धातो रशादेशश्च ।रश्मिः पुमान् दीधितौ स्यात्पक्षप्रग्रहयोरपी॑ति मेदिनी । वीज्या । वी गतौ, ज्या वयोहानौ,ज्वर रोगे । अमरोक्तिमाह — वेणिः स्यादित्यादि ।कृदिकारा॑दिति ङीष् ।वेणी केशस्य बन्धने । नद्यादेरन्तरे देवताडे॑ इति मेदिनी ।वेणी खरा गरी देवताडेजीमूत इत्यपि॑ इत्यमरः ।ज्यानिर्हानौ रुआवन्त्यां च॑ इति विआः ।ज्वरत्वरे॑ त्युपधाया वकारस्य च ऊठ् । जूर्णिः स्त्रीरोगः । सृवृषि । सृगतौ, वृषु सेचने, आभ्यां निः कित्स्यात् ।अङ्कुशोऽस्त्री सृणिः स्त्रिया॑मित्यमरः ।सृणिः स्याङ्कुशे पुमा॑निति कोशान्तरम् । अत एवआरक्षमग्नमवमत्य सृणिं शिताग्न॑ इति माघे पुंलिङ्गप्रयोगः ।वृष्णिस्तु यादवे मेषे वृष्णिः पाखण्डमेषयोः॑ इति विआः ।ऐन्द्रे वृष्णिं षोडशिनि तृतीय॑मिति श्रुतौ वृष्णिं मेषमित्यर्थः । अङ्गेः । अगिर्गत्यर्थः ।अग्निर्वैआआनरेऽपि स्याचित्रकाख्यौषधौ पुमाटमिति मेदिनी । वहि । वह प्रापणे, श्रिञ् सेवायाम्,श्रु श्रवणे,युमिश्रणे, द्रु गतौ, ग्लै म्लै हर्षक्षये,ओहाक् त्यागे, ञित्वरा संभ्रमे, एभ्यो निः प्रत्ययः स्यात्स च नित् ।वहिर्वैआआनरेऽपि स्याचित्रकाख्यौषधौ पुमा॑निति मेदिनी । श्रेणिः । पङ्क्तिः ।निः श्रेणिस्त्यधिरोहिणी॑ । श्रेणिः स्त्रीपुंसया । पङ्क्तौ समाने शिल्पिसहतौ॑ इति मेदिनी । श्रोणिः कटिप्रदेशः ।कटिः श्रोणिः कुकुद्योनी॑त्यमरः । योनिर्भगम् ।योनिः स्त्रीपुंसयोश्च स्यादाकरे स्मरमन्दिरे॑इति मेदिनी । द्रोणिः सेचनौ ।कृदिकारा॑दिति ङीषि द्रोणी ।द्रोणोऽस्त्रीयामाढके स्यादाढकादिचतुष्टये । पुमान् कृपीपत्तौ कृष्णकाके स्त्री नीवृदन्तरे॑ इति मेदिनी । ग्लानिर्दौर्बल्यम् । हानिरपचयः क्षयश्च । तूर्णिर्मानः ।घृणि.घृ सेचने, स्पश संस्पर्शने, पृषु सेचने, चर गतौ, डुभृञ् धारणपोषणयोः । निप्रत्ययो गुणाभावश्च निपात्यते । घृणिः पुनः । अंशुज्वालातरङ्गेषु॑ इति हेमचन्द्रः ।पृश्निरल्पतनौ॑ इत्यमरः ।पाष्णिःस्यादुन्मदस्त्रियाम् । स्त्रियां द्वयोः सैन्यपृष्ठे पादमग्रन्थ्यधरेऽपि चे॑ति मेदिनी । भूर्णिरिति ।तक्वा न भूर्णिः॑ इति मन्त्रभाष्ये तु भूर्णिर्धारकः पोषको वेति व्याख्यातम् । वृदृ । दृञ् वरणे, दृङ् आदरे । स्त्रियांकृदिकारा॑दिति ङीष् । दर्वी । जृशृ । जृ वयोहानौ, शृ हिंसायाम्, स्तृञ् आच्छादने, जागृ निद्राक्षये । क्विनः कित्त्वात्ऋत इद्धातोः॑ इति इत्वे रपरत्वे जीविरित्यादि । दिवो । दिवु क्रीडादौ अस्मात् क्विन् । कित्त्वाद्गुणाऽभावः ।दीदिविर्धिशषणाऽन्नयोः॑ इति विआः ।दीदिविनां धिषणेऽन्नेतदस्त्रिया॑मिति मेदिनी । धिषणो बृहस्पतिः ।दीदिविद्र्वादशकरश्चक्षुः सुरगुरुर्गुरुः॑ इति त्रिकाण्डशेषः ।दीदिविद्र्वादशाचिः स्याज्जीवः प्राक्फल्गुनीसुतः॑ इति हारावली ।ओदनोऽस्त्री सदीदिविः॑ इत्यमरः । अत्रसदीदिविदीदिविसहित इति व्याख्यानं न्याय्यम् । अत्र स इति विशेषणाद्दीदिविः पुंलिङ्ग इति केषांचिद्व्याख्यान नादर्तव्यम् । स इति छेदने तु अस्त्रियामिति न लभ्येत । ततश्चान्ते॑ तदस्त्रिया॑मिति पूर्वोक्तमेदिनीग्रन्थो विरुध्येतेति ध्येयम् ।गोपामृतस्य दीदिविम् इति मन्त्रे तु द्योतमानमित्यर्थः । कृवि घृष्वि । डुकृञ् करणे, वृषु सेचने,छो छेदने , ष्ठा गतिनिवृत्तौ, दिवु क्रिडादौ, एते क्विन्नन्ता निपात्यन्ते । घृष्विर्वराह इति ।उग्रस्य द्यूनः स्थविरस्य घृष्वेः॑ इति मन्त्रे तु घृष्वेः = कामानां वर्षकस्येत्यर्थ इति व्याख्यातम्, घृषु सेचने इति धात्वर्थानुगमात् ।छविः शोभारुचोर्योषित् इति मेदिनी ।अथ चाषः किकीदिविः॑इत्यमरः । विनिमय इति ।किकिदीविः किकीदिवौ॑ इति द्विरूपकोशः । पातेः । पा रक्षणे डित्त्वाट्टिलोपः ।पतिर्धवे ना त्रिष्वीशे॑ इति मेदिनी । शकेः । शक्लृ शक्तौ ।उच्चाराऽवस्करौ शमलं शकृतम् । गूथं पुरीषं वर्चस्कमत्री विष्ठाविशौ स्त्रिया॑ मित्यमरः । अमेः । अम गतौ ।अथाऽमतिः पुंसि हिमदीधितिकालयोःर॑ इति मेदिनी । अमितिश्चामतिः काले॑ इतिद्विरुपेषु विआः । वहि । वह प्रापणे,वस निवासे, ऋ गतौ ।वहतिः सचिवे गवि॑ इति विआः ।वसतिः स्यात् स्त्रियां वासे यामिन्यां च निकेतन् इति मेदिनी । अञ्चेः । अञ्चु गतौ, अस्मादतिः स्यात्ककारश्चान्तादेशो विकल्पेन ।हन्तेः । दृन हिंसागत्योः । अमरोक्तिमाह — प्रादेशनमित्यादि । रमेः । रमेतरतिः स्यात्स च नित् ।रमतिर्नायके नाके पुंसि स्यात् इति मेदिनी । नित्त्वमाद्युदात्तार्थम् ।रन्तिरसि रमतिरसि॑ । सूङः । षूङ् प्राणिप्रसवे । कित्त्वाद्गुणाऽबावः ।दीमान् सूरिः कृती कृष्टिर्लब्धवर्णो विचक्षणः॑इत्यमरः । दशपाद्यां तुसुञोरिन् दीर्घश्च॑ इति पाठः । तत्र रिनी नकारो नानुबन्धः, उत्तरसूत्रे क्रिन् प्रत्ययारम्भात् । अनुबन्धत्वे हि लाघवादिहैव क्रिन्नुच्येत । तथा च सूरिणौ सूरिण इत्यादि रूपम् । अत एवाभिधानमालायां सूरीति नान्तमुदाह्मतमित्यभिधेयम् । दशपादीवृत्तिकारैस्तु नित्वं स्वीकृत्य सूरिरित्युदाह्मतं , तदेतेन प्रयुक्तम् । स्वरविरुद्धमपिसदा पश्यन्ति सूरयः॑विसूरयो दधतो विआमायुः॑ इत्यादौ सूरिशब्दस्यान्तोदात्तत्वदर्शनात् । अदि । अद भक्षणे, शद्लृ शातने, भू सत्तायाम्, शुभ शुम्भ शोभार्थे ।अद्रयो द्रुमशैलाऽर्काः॑इत्यमरः ।भूरिर्ना वासुदेवे च हरे च परमेष्ठिनि । नपुंसकं सुवर्णे च प्राज्येस्याद्वाच्यलिङ्गकः॑ इति मेदिनी । वह्क्यादयश्च । वकि कौटल्ये, टुवप् बीजसन्ताने । निपातनात्संप्रसारणाऽभावः । अहिर्भाषार्थश्चुरादिण्र्यन्तः । अधि गतौ गत्यारम्भे च । ञिभी भये । तन्द्रिरिति ।कृदिकारा॑दिति पक्षे ङीष् ।तन्द्री निद्राप्रमालयोः॑ इति मेदिनी ।तन्द्री तन्द्रिव तन्द्राया॑मितिद्विरुपकोशः ।विभज्य नक्तंदिवमस्ततन्द्रिणा॑ इति भारविः । प्रत्ययस्य कित्त्वाद्गुणाऽभावमाशङ्क्याह — बहुलकादिति । राशदि । रा दाने, शद्लृ शातने ।शत्रिर्नाम्भोधरे विष्णौ॑ इति मेदिनी ।शत्रिमग्र उपमां केतुमर्थः॑ इति मन्त्रस्य वेदभाष्ये तु उपमाम्- उपमानभूतं केतुं = प्रख्यातं , शत्रिम् = एतन्नामकं राजषिमिति व्याख्यातम् । अदेः । अद भक्षणे । अब्राई भक्षकः, अत्रिर्मुनिभेदः । उज्ज्वलदत्तस्तु अदेस्त्रिन्निति पठित्वा अत्रिरित्युदाजहार । तन्न । त्रिचैवेष्टसिद्धौ प्रत्ययान्तरवैयथ्र्यात् । गोवद्र्धनस्तु अदेस्त्रिन्निचेति पठित्वा निदिति वचनान्नकारस्य नेत्संज्ञा, अब्राई अग्निणौ अग्निण इत्याह । तदपि न । नित्त्वे सत्याद्युदात्तत्वापत्तेः । न चेष्टापत्तिः । जहीन्या । १ अब्रिआणं पणिं॑ । [दूरे वा ये अन्ति वा केचिदब्रिआणः॑ ।]अग्ने हंसिन्या २ अत्रिणम् इत्यादावन्तोदात्तस्य निर्विवादत्वात् । अतएवन लुमताङ्गस्य॑ इति सूत्रेअदेस्त्रिनिश्चे॑त्येव कैयटोऽप्याहेति दिक् । पतेः । पत्लृ गतौ । पतत्रिरिति । पक्षवाचकात्पतत्रशब्दान्मत्वर्थे इनि तु नान्तः । पतव्री पतव्रिणौ पतव्रिण इत्यादि । मृकणि । मृङ् प्राणत्यागे, कण शब्दार्थः ।कणीचिः कृपणे दीप्तौ ऋषिभेदे च दृश्यते॑ इति विआः ।मरोचिर्मुनिभेदे ना भगस्तावनपुंसक॑मिति मेदिनी ।कणीचिः पुष्पितलतागुञ्जयोः शकटे स्त्रिया॑मिति च । आयतेः । टुओइआ गतिवृद्ध्योः, अस्मादीचिप्रत्ययश्चित्स्यात् । वेञः । वेञ् तन्तुसन्तानेऽस्मादीचिर्डित्स्यात् ।वीचिः स्वल्पे तरङ्गे स्यावकाशेसुखे द्वयोः॑ इति विआमेदिन्यौ । ऋहनि । ऋ गतौ,हन हिंसागत्योः ।पुरः । कुष निष्कर्षे । कित्त्वाद्गुणाऽभावः ।पुरुषं पुरुषे साङ्ख्यज्ञे च पुंनागपादपे॑ इति विआमेदिन्यौ । पृनहि । पृ पालनपूरणयोः, णह बन्धने, कल शब्दसङ्ख्यानयोः ।परुषं कर्बुरे रुक्षे निष्ठुरोक्तौ च वाच्यवत्इति मेदिनी ।बहुषो राजविशेषे नागभिद्यपि॑ इति हेमचन्द्रः । उवचश्चित्त्वान्नहुषशब्द्सयान्तोदात्तत्वे प्राप्ते ग्रामादित्वाद्वृषादित्वाद्व । आद्युदात्तत्वमित्याहुः । एतच्चदेवा अकृण्वन्नहुषस्य विआ॑मिति मन्त्रस्य भाष्ये स्पष्टम् ।कलुषं त्वाविलैनसोः॑ इति विआः । पीयेः ।पीयुषममृतं सुधा॑ इत्यमरः ।पीयूषं सप्तदिवसावधि क्षीरे तथाऽमृते॑ इति मेदिनी । अमरोक्तिमाह — पेयूष इत्यादि । मस्जेः । टुमस्जो शुद्धौ, अस्मादूषन्स्यान्नुमागमश्च धातोः ।मिदचोऽन्त्यात्परः॑ । सस्य श्चुत्वेन शः । तस्य जश्त्वेन जः । तस्यझरो झरी॑ति वा लोपः । लोपाऽभावपक्षे जकारद्वयम् । मञ्जूषा काष्ठमयं द्रव्यम् । पेटक इति यावत् ।पिटकः पेटकः पेटा मञ्जूषा॑ इत्यमरः । गडेः । गडि वदनैकदेशे ।गण्डूषो मुखपूरणः॑[॒गण्डूषो मुखपर्तीभपुष्करप्रसृतोन्मिते॑ इति मेदिनी] । अर्तेः । ऋ गतौ, उकारान्तोऽयं प्रत्ययो न तु सकारान्त इति स्फोरयति — अररू अररव इत्यनेन । न चोकारान्तत्वे विवक्षितत्वात् ।कश्चिद्यावीरररु शूरमत्र्यम्अपाररुमदेवयजनो जहि॑ इत्यादिमन्त्रेषु तथा दर्शनात् । अत्र व्याचक्षते — मा नः शंसो अररुषःरट इति मन्त्रस्य बाष्येसान्तोऽयमिति माधवेनोक्तं, यत्तत्प्रौढिवादमात्रं, न तु वास्तवम् । अररुष इति पदस्य आद्युदात्तत्वापत्तिप्रसङ्गात् । तस्माद्रातेर्लिटः । क्वसुश्चेति क्वसोररिवानित्यनेन नञ्समासे ङस्यररुष इति व्याख्येयम् । ततश्चतत्पुरुषे तुल्यार्थे॑ त्यादिना पूर्वपदप्रकृतिस्वरे सत्याद्युदात्तत्वं॑ सिध्यति ।गुरुद्वेषो अररुषे दधन्ति॑ इत्यत्र स्वयमेव रातेः । क्वसन्तस्य नञ्समास इत्यादि व्याख्यानात् ।यो नो अग्ने अररिवाँ अत्रायुः॑ इत्यादिमन्त्रान्तरसंवादाञ्चेति । कुटः । कुट कौटिल्येऽस्मादरुः स्यात्सच कित् । चिन्त्यमिति ।गाङ्कुटादिभ्यःर॑ इति ङित्त्वेनैव गुणाऽभावुसिद्धेरिति भावः ।शकादि । शकिगत्यर्थ इति । शक्लृ शक्तावित्स्मादटन्नित्येके ।क्लीबेऽयः शकटोऽस्त्री स्यात् इत्यमरः ।करटो कजगण्डे , कटेवर्षावरणयोः ।करम्बो मिश्रिते वान्तो, भान्तु दधिसक्तुषु॑ इति विआः ।कदम्बं निकुरम्बेस्यान्नीपसर्षपयोः पुमान् इतिच । कदेः ।कादम्बः स्यात्पुमान्पक्षिविशेषे सायकेऽपि चे॑ति मेदिनी । कलि । कल सङ्ख्याने, कर्द कुत्सिते शब्दे ।कलमः पुंसि लेखन्यां शालौ पाटचरेपि च॑ इति मेदिनी । कुणिपुल्योः । पुल महत्वे । कुपेः । कुप क्रोधेऽस्मात्किन्दच् स्यात्, वकारश्चान्तादेशो विकल्पेन ।तन्तुवायः कुविन्दः स्यात् इत्यमरः । बाहुलकात् अल भूषणादौ । अलिन्दम् ।यस्यामलिन्देषु च चक्ररेव मुग्धाह्गनागोमयगोमुखानि॑ इति भावः । नौ षञ्जेः । षञ्ज सङ्गे । निपूर्वादस्मात् घयिन्स्यात् ।उपसर्गात्सुनोती॑त्यादिना षत्वम् ।चजोरिति॑कुत्वम् ।आभुरस्य निषङ्गथिः॑ । रथकूवर इत्यर्थः । उद्यत्र्ते । ऋ गतावुत्पूर्वादस्मात् घथिन् स्यात्, स च चित् । सर्तेः । सृ गतावस्माद्धथिन् णित्स्यात् ।नियन्ता प्राजिता यन्ता सूतः क्षत्ता च सारथिः॑ इत्यमरः । खर्जि । खर्ज मार्जने, पिञ्ज हिंसायाम् । खर्जादिभ्यः, पिञ्जादिभ्यश्च यथाक्रमं ऊरौउलचौ स्तः ।॒खर्जुरं रूप्यफलयोः खर्जूरः कीटवृक्षयोः॑ इति मेदिनीहेमचन्द्रौ । कृपू सामर्थ्ये । बाहुलकात्कृपो रो लः॑ इति लत्वाऽभावः ।अथ कर्पूरमस्त्रियाम् । घसारश्चन्द्रसंज्ञः सिताऽभो हिमवालुका॑ इत्यमरः । वल्ल संवरणे । वल्लूरम् ।उत्त्प्तं शुष्कमांसं स्यात्त्तद्वल्लूरं त्रिलिङ्गक॑मित्यमरः । एवं शालूरादयो द्रष्टव्याः ।भेके मण्डूकवर्षाबूशालूरप्लवदर्दुराः॑इत्यमरः । लङ्गेः । लगिर्गत्यर्थः । लाङ्गूलं पुच्छशेफसोः॑ इति मेदिनी । कुसूल इति । कुस श्लेषणे दन्त्यसकारवान् ।कुसूलं च कुसीदं च मध्यदन्त्यमुदाह्मत॑मिति विआः । ताम्बूलादयोऽप्यत्र द्रष्टव्याः । तमु ग्लानौ, वुग् दीर्घत्वं च ।ताम्बूली नागवल्यां स्त्री क्रमुके तु नपुंसक॑मिति मेदिनी । शृ हिंसायाम्, धातोर्वृद्धर्दुगागमश्च ।शार्दूलो राक्षसान्तरे । व्याघ्रे च पशुभेदे च सत्तमे तूत्तरस्थितः॑ इति मेदिनीविआप्रकाशौ । उत्तरस्थितः = उत्तरपदभूतः शार्दूलशब्दस्तु श्रेष्ठवाची ।राजशार्दूल॑ इति यथा । दु गतौ, कुङ् शब्दे, अनयोः कुक् च ।दुकूलं श्लक्ष्णवस्त्रे स्यात् क्षौमे चे॑ति मेदिनी ।क#उकूलं शङ्कसङ्कीर्णे आश्रे ना तु तुषाऽनले॑ इति विआमेदिन्यौ ।शिरीषादपि मृद्वङ्गी क्वेयमायतलोचना । अयं क्व च कुकूलाऽमिकर्कशो मदनानलः॑ इति प्रोयगश्च । कुषः । कु शब्दे । कुचः = स्तनः ।कुचकूचौ स्तनौ मतौ॑इति विआः । कूचीति । टित्त्वान्ङीप् । समीणः । इण् गताविस्मात्सम्युपपदे चट् स्याद्दीर्घश्च धातोः । सिवेः । षिवु तन्तुसन्तानेऽस्माचट् प्रत्ययः स्याट्टेकत्वं च । टित्त्वान्ङीप् । सूची तु सीवनद्रव्येऽप्याङ्गिकाभि नयान्तरे॑ इति मेदिनी । शमेः । शम उपशमे । शम्बः स्यान्मुसलाऽग्रस्थलोहमण्डलके पव । शुभान्विते त्रिषु॑ इति विआमेदिन्यौ । उल्वा । उल्वमिति ।गर्भाशयो जरायुः स्यादुल्यं च कललोऽस्त्रिया॑मित्यमरः । शुच शोके । चस्य लत्वं, गुणाऽभावश्च प्राग्वत् ।शुल्वं ताम्रे यज्ञकर्मण्याचारे जलसंनिधौ॑ इतिमेदिनीहेमचन्द्रौ । वी गतिप्रजनकान्त्यसनखादनेषु । अस्य मुमागमो ह्यस्वत्वं च । ववयोरभेदाद्विम्बम् ।विम्बस्तु प्रतिबिम्बे स्यान्मडले पुंनपुंसकम् । बिम्बिकायाः फले क्लीबं कृकलासे पुनः पुमान् इति मेदिनी । स्थः स्तः । ष्ठा गतिनिवृत्तौ ।स्तम्बो गुल्मे तृणादीनामप्रकाण्डद्रुमेऽपि च॑ इति विआः ।स्तम्बोऽप्रकाण्डद्रुमगुच्छयोः॑ इति मेदिनी ।स्याद्गुच्छकस्तु स्तम्बकःर॑ इत्यमरः । शाशपि । शो तनूकरणे, शप आक्रोशे ।शादो जम्बालशष्पयोः॑ इत्यमरः ।शष्पं बालतृणं घासः॑ इति च ।शादः स्यात्कर्दमे शष्पे॑ इति मेदिनी । शब्दो = निनादः । अब्दादयः । एते दनन्ता निपात्यन्ते । अव रक्षणे । वस्य वः ।अब्दः संवत्सरे वारिवाहमुस्तकयोः पुमान् इति मेदिनी । कौतेः । कु शब्दे ।कुन्दौ माध्येऽस्त्री मुकुन्दभ्रमिनिद्यन्तरेषु ना॑ इति च मेदिनी । वलिमलि । वल संवरणे ॑[संचरणे च],मल मल्ल धारणे, तनु विस्तारे ।वलयः कण्ठरोगे ना कङ्कणे पुंनपुंसक॑मिति मेदिनी ।मलयः पर्वातन्तरे । शैलांशे देशाअरामे त्रिवृत्तायां तु योषिति ॑ इति च ।आत्मजस्तनयः सूनुः सुतः पुत्रः स्त्रिया॑मित्यमरः । वृह्रोः । वृञ् वरणे,ह्मञ् हरणे, आभ्यां कयन् स्यात्, यथाक्रमं षुग्दुकावागमौ च भवतः । कयनः कित्त्वं त्विह गुणाऽभावर्थम् । ह्यियते विषयैरिति ह्मदयं मनः । मिपीभ्याम् । डुमिञ् प्रक्षेपणे, पीङ् पाने ।मेरुः सुमेरुर्हेमाद्रिः॑ इत्यमरः । पीयते रसनिति पेरुः । पिबतेरिति । पा पाने । हट्टचन्द्रोक्तिमाह — संवत्सरवपुरित्यादि । जत्र्वादयः । रुप्रत्यान्ता निपात्यन्ते ।जनी प्रादुर्भावे । नकारस्य तकारः । जत्रुः स्कन्धसन्धिः ।सन्दी तस्यैव जत्रुणी॑ इत्यमरः । तस्य= पूर्वोक्तस्य स्कन्धस्य सन्दी इत्यर्थः । असु क्षेपणे, अशू व्याप्तौ सङ्घाते च । अरुआउ अश्रु च नयनजलम् । बाहुलकात् शीङो ह्यस्वत्वं गुगागमस्च ।शिग्रुर्ना शाकमात्रेऽपि शोभाञ्जनमहीरुहे॑ इति मेदिनी । रुशाति.रु शब्दे, शद्लृ शातने ण्यन्तः ।कृष्णसाररुरुन्यङ्कुरकुङ्कुशम्बररौहिषाःर॑ इत्यमरः । रुरुर्दैत्ये मृगेऽपि च इति मेदिनी । जनिदा । जनी प्रादुर्भावे, डुदाञ् दाने, च्युङ् गतौ, सृ गतौ, वृञ् वरणे, मदी हर्षे, षम ष्टम अवैकल्ये,णम प्रह्वत्वे शब्द च, डुमृञ् धारणपोषणयोः । एभ्यो नवभ्यो यथासङ्ख्यं नव स्युः । जनेरित्वन् । जनेरिडागमेनापि जनित्वेति रुपसिद्धाविकारोच्चारणमुत्तरार्थम् । च्यौत्न इति । त्नणो णित्त्वाद्वृद्धिः । सृणिरिति । क्निनः कित्त्वान्न गुणः । नित्त्वं तु आद्युदात्तार्थम् ।सृवृषिभ्यां कि॑दिति निप्रत्यये त्वन्तोदात्तः साधितः । वृश इति । शकः कित्त्वान्न गुणः । मत्स्य इति । स्यप्रत्यये चर्त्वेन दस्य तः । अन्तोदात्तोऽयम् ।ऋतत्यजी॑ति सूत्रे तु आद्युदात्तः साधितः । षण्ढ इति । बाहुलकाद्धात्वादेः षस्य सकारो न । प्रत्ययादेर्ढस्य तु प्रयोजनाऽभावान्नेत्संज्ञा ।शमेर्ढः॑ इति सूत्रे तु तालव्यादिः साधितः ।सायं सायो भवेत्कोशः कोषः षण्ढश्च शण्डवदि॑ति द्विरूपकोशः ।षण्ढो वर्षवरः॑इत्यमरः ।नटी नल्यौषधी स्त्री स्याच्छैलूषाऽशोकयोः पुमान् इति मेदिनी । भरट इति । विभर्तेटच् । नट इति । नमतेर्डट् । अन्येभ्योऽपि । इत्वन्नादयोऽनुवर्तन्ते । पेत्वमिति । पा पानेऽस्मादित्वन् । भृशमिति । भृञः शक् ।कुसेः । कुस संश्लेषणेऽस्मादुम्ब उम ईद इत एते प्रत्यया स्युः ।कुसुम्भं हेमनि महारजने ना कमण्डलौ॑ इति मेदिनी ।कुसुमं स्त्रीरजोनेत्ररोगयोः फलपुष्पयोः॑ इति च ।कुसीदं जीवने वृद्ध्यां क्लीबं त्रिषु कुसीदके॑ इति च । इह सूत्रे तृतीयो ह्यस्वादिर्दीर्घादिश्च तन्त्रेणोपात्तः ।वृषाकप्यग्नी॑ति सूत्रे ह्यस्वादिरेवेति वृत्तिकारहरदत्तादिग्रन्तोपष्टम्भेन निर्णीतम् ।पारलौकिककुसीदमसीद॑दिति श्रीहर्षप्रयोगात्तु दीर्घादिरपि । सानसि । सनोतेरिति । षणु दाने । वृञो नुक् चेति । वृञ् वरणेऽस्मादसिः । दशपाद्यां तु — सानसिधर्णसी॑ति पठित्वा धृञो नुक् च । धर्णसिर्लोकपाल इति व्याख्यातम् । युक्तं चैतत् ।धर्णसिं भूरिधायस॑मित्यादिमन्त्रानुगुणत्वात् । पर्णसिरिति । पृ पालनपूरणयोरस्मादसिप्रत्ययो नुक् च । तण्डूला इति । उलच्प्रत्ययो नुमागमश्च धातोः ।त्रेधा तण्डुलान्विभजेत् । इह चित्स्वरः ।तण्डुलः स्याद्विडङ्गे च धान्यादिनिकरे पुमा॑निति मेदिनी । अङ्कुश इति । अयमपि चित्स्वरेणान्तोदात्तः । तथाच मन्त्रःदीर्घ ह्रङ्कुशं यथा॑ इतिअङ्कुशोऽस्त्री सृणिः स्त्रिया॑ मित्यमरः । चषेराल इति । चष भक्षणे । प्रत्ययस्वरेणाद्युदात्तः । उज्ज्वलदत्तस्त्वालनात् । अमरोक्तिमाह — चषाल इति । इल्वल इति । इल स्वप्नप्रेरणयोः । वलच् । गुणाऽभावः ।इल्वलस्तारका राजभेदे ना दैत्यमत्स्ययोःर॑ इति मेदिनी ।इल्वलास्तच्छिरोदेसे तारका निवसन्ति याः॑ इत्यमरः । पा पाने अस्माद्वलच्, लुगागमो ह्यस्वत्वं च । पिबन्त्यस्मिन्निति पल्वलमल्पसरः ।वेशन्तः पल्वलं चाल्पसरः॑ इत्यमरः । इकार इति । रपरत्वाऽभावो ण्यप्रत्ययश्चेति बोध्यम् ।धिष्ण्यं स्थाने गृहे भेऽग्नौ इत्यमरः ।धिष्ण्यं स्थानाग्निसद्मसु । ऋक्षे शक्तौ च॑ इति मेदिनी ।धिष्ण्यं स्थाने च ऋक्षे च धिष्ण्योऽग्नौ धिष्ण्यमालये॑ इति धरणि । शलेः । शल गतौशल्यं तु न स्त्रियां शङ्कौ क्लीबं क्ष्वेडेषुतोमरे । मदनद्रुआआविधोर्ना॑ इति मेदिनी । मूशकि । मूङ् बन्धने, शक्लृ शक्तौ, अवि शब्दे ।मूलं शिफाऽ‌ऽद्ययोः ।मूलं वित्तेऽन्तिके॑ इति मेदिनी ।शक्लः प्रियंवदेः॑ इति विशेष्यनिद्नेऽमरः । अमेरिति । अम रोगे चुराणित्यन्तः । बाहुलकादेवोपधाह्यस्वः ।अम्लो रसविशेषे स्यादम्ली चाङ्गेरिकोषधौ॑ इति मेदिनी । माछा । मा माने, छो छेदने, षस स्वप्ने ।माया स्याच्छाम्बरीबुद्ध्योर्मायः पीताम्बरेऽसुरे॑ इति मेदिनी ।छाया स्यादातपाऽभावे प्रतिबिम्बार्कयोषितोः । पालनोत्कोचयोः कान्तिच्छोभापङ्क्तिषु स्त्रिया॑मिति विआमेदिन्यौ ।वृक्षादीनां फलं सस्य॑ मित्यमरः । सुनोतेरिति । षुञ् अभिषवे ।सद्यं वामे प्रतीपे चे॑ति मेदिनी । जनेः । जन जनने । यकः कित्त्वमुत्तरार्थम् ।जन्यं हट्टे परीवादे सङ्ग्रामे च नुपंसकम् । जन्या मातृवयस्यायां जन्यः स्याज्जनके पुमान् । त्रिषूत्पाद्यजनित्रोश्च नवोढाज्ञातिभृत्ययोः ।स्निग्धे॑ इति मेदिनी । आत्वपक्षे रुपमाह — जायेति ।अध्न्यादयश्च । अध्न्य इति । यकः कित्त्वात्गमहने॑त्युपधालोपेहो हन्ते॑रिति कुत्वेन हस्य घः । अडागममनुक्त्वा नञ्पूर्वाद्धन्तेर्यगित्यन्ये । अध्न्येति । स्त्रियां टाप् ।माहेयी सौरभेयी गौरुरुआआ माता च शृङ्गिणी । अर्जुन्यघ्न्या रोहिणी स्या॑दित्यमरः । संपूर्वाद्धाञो यक् आतो लोपश्च ।संध्या पितृप्रसूद्यन्तरयोर्युगसन्धिषु॑ इति मेदिनी ।कन्या कुमारिकानार्योरोषधीराशिभेदयोः॑ इति विआमेदिन्यौ । बन्ध्येति । बन्ध बन्धने ।बन्द्यस्त्वफलवृक्षादौ स्त्रियां स्यादप्रजस्त्रिया॑मिति मेदिनी । कौतेर्यति डुक् । कुडमित्युज्ज्वलदत्तः ।यतोऽनावः॑ इत्याद्युदात्तः । डक्प्रत्ययान्तोऽयमन्तोदात्त इत्यन्ये इति ।निवाते वातत्राणे॑ इति सूत्रे वृत्तिः । डित्त्वाट्टिलोपे सति कित्करणं व्यर्थं स्यादिति गुणप्रतिषेधार्थात्ककाराड्कारस्येत्त्वं नेति तत्रैव हरदत्तः । एवं स्थितेऽध्न्यादयो यगन्ता इति प्रायोवादः । स्नामदि । ष्णा शौचे । मदी हर्षे , पद गतौ, ऋ गतौ, पृ पालनपूरणयोः, शक्लृ शक्तौ ।अर्वा तुरङ्गमे पुंसि कुत्सिते वाच्यलिङ्गकःर॑ इति मेदिनी ।पर्व क्लीबं महे ग्रन्थौ प्रस्तावे लक्षणान्तरे । दर्शप्रतिपदोः सन्धौ विषुवत्प्रभृतिष्वपी॑ति च । ङीव्राविति ।वनो रचे॑ त्यनेन । अङ्गुलिरिति । एतच्चआरोहतं दर्शतं शक्वरीर्ममे॑त्यादिमन्त्रव्याख्यायां स्पष्टम् ।शक्वरी छन्दसो भेदे नदीमेखलयोरपी॑ति मेदिनी । शीङ् । शीङ् स्वप्ने, क्रुश आह्वाने रोदने च, रुह बीजजन्मनि प्रादुर्भावे च, जि जये, क्षि निवासगत्योः, सृ गतौ,धृञ् धारणे ।ध्याप्योः । ध्यै चिन्तायाम्, प्यैङ् वृद्धौ, आभ्यां क्वनिप्स्यात्संप्रसारणं च । धातोर्हल इति दीर्घः । अदेः । अद भक्षणेऽस्मात्क्वनिप्, धकारश्चान्तादेशः । अध्वा मार्गः । प्र ईर । ईर गतौ, शद्लृ शातने, आभ्यां प्रपूर्वाभ्यां क्वनिप्स्यात्तस्य तुडागमश्च । प्रेत्र्वरीति । स्त्रियींवनो र चे॑ति ङीब्राऔ । सर्वधातुभ्य इन् । डुपचष् पाके, तुडि तोडने, तोडनं दारणं हिंसन च , वल संवरणे, वट वेष्टने, यज देवपूजादौ, काशृ दीप्तौ, यती प्रयत्ने ।यतिः स्त्री पाठविच्छेदे निकारयतिनोः पुमान् इति मेदिनी । मल मल्ल धारणे, केलृ चलने भ्वादिः, केला विलासे कणड्वादिः, किल स्वैत्यक्रीडनयोः तुदादिः, कुट कौटिल्ये, हिल भावकरणे, बुध अवगमने,टुनदि समृद्धौ,कल शब्दसङ्ख्यानयोः ।गाङ्कुटादिभ्यः॑ इति ङित्त्वाद्गुणाऽभावमाशङ्क्याह — बाहुलकादिति ।कोटिः स्त्री धनुषोऽग्नेऽश्रौ संख्याबेदप्रकर्षयोः॑ इति मेदिनी ।बोधिः पुंसि समाधेश्च भेदे पिप्पलपादपे॑ इति च ।नन्दिद्र्यूताङ्ग आनन्दे स्त्री नन्दिकेआरे पुमान् इति च । इह इन्नित्येव सूत्रम् ।सर्वधातुभ्य॑ इति तु प्रक्षिप्तं व्यर्थं च । एवंसर्वदातुभ्यष्ट्रन्निटत्यादावपि बोध्यमित्याहुः । अतएव दशपाद्यांष्ट्र॑ न्नित्येव पठितमिति दिक् । ह्मपिषि.ह्मञ् हरणे, पिष्लृ संचूर्णने, रुह बीजजनमनि प्रादुर्भावेच, वृतु वर्तने । वर्तिर्दीपोपकरणम् । विद सत्तायाम् । विद्यते पुण्यमस्यामिति वेदिः ।वेदिः परिष्कृता भूमिः॑ । छिदिर् द्वैधीकरणे, कृत संशब्दने, हरतेः कीर्तयतेश्चअच इः॑ इति प्राप्ते, इतरेषां तुइगुपधा॑दिति कप्रत्यये प्राप्ते वचनमिदम् ।यमानिलेन्द्रचन्द्रार्कविष्णुसिंहांसुवाजिषु । शुकाहिकपिभेकेषु हरिर्ना कपिले त्रिषु॑ इत्यमरः ।हरिश्चन्द्रार्कवाताआशुकभेकयमाहिषु । कपौ सिंहे हरेऽर्जेऽशौ शक्रे लोकान्तरे पुमान् । वाच्यवत्पिङ्गहरितोः॑ इतिमेदिनी ।वर्तिर्भेषजनिर्माणे मुद्रायां स्यात्परिष्कृतभूतले॑ इति च ।कीर्तिः प्रसादयशसोर्विस्तारे कद्र्दमेऽपि चे॑ति विआः ।इगुपधात् । कृष विलेखने, ऋषी गतौ,शुच शोके, लिप उपदेहे इत्यादेरिगुपधाद्धातोरिन्स्यात्स च कित् । केचित्तु इगुपधातिकंरितिअग्निः पूर्वेभिरृषिभिः॑ऋषिर्विप्रः काव्येन॒॑ शुचिर्विप्रः शुचिः कविः॑ इत्यादौ ऋषिशुचिप्रभृतीनामाद्युदात्तत्वदर्शनात् । न चैवम्अक्षैर्मा दीव्यः कृषिमित्कृषस्वे॑त्यादौ कृषिशब्दस्यान्तोदात्तता न सिध्येदिति वाच्यम्,इग्लृष्यादिभ्यःर॑ इतीक्प्रत्यये सत्यन्तोदात्तत्वसिद्धेः ।ऋषिर्वेदे वसिष्ठादौ दीधितौ च पुमानय॑मिति मेदिनी ।शुचिग्र्रीष्माग्निशृङ्गारेष्वाषाढे शुद्धमन्त्रिणी॑ति च ।भ्रमेः । भ्रमु अनवस्थानेऽस्मादिन्स्यात्, सच कित्, संप्रसारणं च ।भृमिं चिद्यथा वसवः पुषन्ति॑ इति मन्त्रे भृमिं = भरणशीलं दरिदिंर जनमिति वेदभाष्यम् । क्रमि । क्रमु पादविक्षेपे, तमु काङ्क्षायाम्, शतिस्तम्भौ सौत्रौ, एभ्य इन्स्यात्स च कित् । एषामत इकारादेशश्च । क्रिमिः क्षुद्रजन्तुः ।कृमिर्ना किमिवत्कीटे लाक्षायां क्रिमिले खरे॑ इति विआमेदिन्यौ ।पारतं पारदं वारुआओ वासरः, क्रिमिवत्कृमिः॑ इति द्विरुपकोशः । तिमिरिति ।अस्ति मत्स्यस्तिमिर्नाम तता चास्ति तिमिङ्गिलः । तिमिङ्गिलगिलोऽप्यस्ति, तद्गिलोऽप्यस्ति लक्ष्मणे॑ति रामायणे सप्तमे काण्डे रामवाक्यम् । केचित्तुतद्गिलोऽप्यस्ति राघवे॑ति पठित्वा राघवं प्रति लक्ष्मणवाक्यमित्याहुः ।शितिः कृष्णे सिते भूर्जे॑ इति विआः ।शितिर्भूर्जे ना सिताऽसितयोस्त्रिषु॑ इति मेदिनी ।मनेः । मन ज्ञाने, अस्मादिन्स्यात्स च किदकारस्योकारदेशश्च स्यात् । मन्यते जानातीति मुनिः । मुनिः पुमान्वसिष्ठादौ वङ्गसेनतरौ जिने॑ इति मेदिनी । वर्णेः । अस्मादिन्स्यात्स च कित् । [॒बलिर्दैत्यप्रभेदे च करचामरदण्डयोः । उपहारे पुमान्स्त्री तु जरया श्लक्ष्णचर्मणि । गृहदारुप्रभेदे च जठरावयवेऽपि चे॑ति मेदिनी] । वसि । वस निवासे, डुवप् बीजसन्ताने, यज देवपूजादौ,राजृदीप्तौ, व्रज गतौ, षद्लृ विशरणादौ, हन हिंसागत्योः, वाशृ शब्दे, वद व्यक्तायां वाचि ण्यन्तः, वृञ् वरणे ण्यन्तः । वासिरिति दन्त्यसकारवान् । सूत्रेऽष्टमस्तु तालव्यशकारवान् । द्वयमपि छेदनसाधने प्रयुज्यते ।वास्यादीनामिव करणानां कर्तृव्यापार्यत्वनियमा॑दिति वैशेषिकाः ।वास्यर्थमित्यत्रस्कोः॑ इतिसलोपः प्राप्नोती॑ति भाष्यम् । वापिरुदकाधारः । वापी प्रसिद्धा ।राजिः स्त्री पङ्क्तिरेखयोः ॑ इति मेदिनी । इह वादीति ण्यन्तनिर्देशेऽपि बाहुलकादण्यन्तादपि इञ्, तथा च भूवादिसूत्रे वदन्तीति वादयो वाचका इति न्यासकारादयः ।वारिः स्मृता सरस्वत्यां वारि ह्यीबेरनीरयोः । वारी घटीभबन्ध्नयोः॑इति विआः । ह्मञ् हरणेऽस्मादिञ् ।हारिः पथिकसन्तानद्यूतादिभङ्गयोः स्त्रियाम् इति मेदिनी । नहः । णह बन्धनेऽस्मादिञ् स्याद्भवश्चान्तादेशः । स्त्रियामिति । लिङ्गानुशासने स्त्रियामित्यधिकारेनाबिरक्षत्रिये॑ इति सूत्रितत्वादिति भावः । पुंस्यपीति । तथा च मेदिनी — नाभिर्मुख्यनृपे चक्रमध्यक्षत्रिययोः पुमान् । द्वयोः प्राणिप्रतीके स्यात्स्त्रियां कस्तूरिकामदे॑ इति । भारविश्च पुंसि प्रायुङ्क्त — ॒समुच्छ्वसत्पङ्कजकोशकोमलैरुपाहितश्रीण्युपनीविनाभिभिः॑ इति । कृषेः । कृष विलेखनेऽस्मादिञ्, वृद्धिश्च ।इको गुणवृद्धी॑ इतीकः स्थाने एव वृद्धिरित्युदाहरति — कार्षिरिति । भाषायां तु कृषिरित्येव । श्रः । शृ हिंसायामस्माच्छकुनौ वाच्ये इञ्स्यात् । शारिर्नाऽक्षोपकरणे स्त्रियां शकुनिकान्तरे । युद्धार्थगजपर्याणे व्यवहारान्तरेऽपि चे॑ति मेदिनी । कपिलकादित्वाल्लत्वम् ।शालिस्तु कलभादौ चगन्धमार्जारके पुमान्दिति मेदिनी । कृञः । करोतेरञ्स्यादुदीचां मते कारुषु वाच्येषु ।कारिः स्त्रियां क्रियायां स्याद्वाच्यलिङ्गस्तु शिल्पिनी॑ति मेदिनी । जनि । जनी प्रादुर्भावे, घस्लृ अदने, आभ्यामिण् ।जनिवध्योश्चे॑ति वृद्धिप्रतिषेधः । जनिरिति स्त्रीलिङ्गम् ।कृदिकारा॑दिति पक्षे ङीष् ।जनी सीमन्तिनीवद्वोरुत्पत्तावौषधीभिदि॑ इति मेदिनी । अजि । अज गतिक्षेपणयोः, अत सातत्यगमने ।बाहुलकादजेर्वोभावो न । पादे च । पादे चोपपदे अज्यतिभ्यामिण् स्यात् ।पादस्य पदाज्यातिगोपहतेषु॑ इति पदादेशः । पदाजिः पादचारी ।पदातिपत्तिपदगपदातिकपदाजयः । पद्गश्च पदिकश्च॑ इत्यमरः । अशिपणाय्योः । अशिश्च पणायिश्चाऽसिपणायी,तयोरिति विग्रहः । अशू व्याप्तौ,पण व्यवहारे आयप्रत्ययान्तः, आभ्यामिण् स्यादनयोर्यथाक्रमं रुडायप्रत्ययलुकौ च भवतः ।राशिर्मेषादिपुञ्जयोः॑इति मेदिनी । ॒वातेः । वा गतिगन्धनयोरस्मादिण् स्यात् । डित्त्वाट्टिलोपः । प्रे हर । प्रपूर्वाद्धरतेः कूपे वाच्ये इण् ।पुंस्येवाऽन्धुः प्रहिः कूप उदपानं तु पुंसि वा ॑ इत्यमरः । नौ व्यो । व्येञ् संवरणे ।स्त्रीकटीवरुआबन्धेऽपि नीवी परिपणेऽपि च॑ इत्यमरः । परिपणो = मूलधनम् । समाने । ख्या प्रकथने । इञ् स्यादिति । यत्तूज्ज्वलदत्तेनोक्तमिञ् स्यात्स चोदात्त इति ।नौ व्यः॑इति पूर्वसूत्रे उक्तम् — इञत्रानुवर्तते न त्विण्ुत्तरसूत्रे उदात्तवचनाज्ज्ञापका॑दिति । तदपि न ।स इञ् उदात्त॑ इति व्याख्याय समानस्य सभाव इति प्रक्रियास्मरणमात्रं कृतं, तदपि न, सभावविधायकस्याऽभावात् । यदपि स्वरमञ्जरीकारादिभिरुक्तंसमानस्य च्छन्दसी॑ ति सूत्रेण सभाव इति, तदपि न,लोके सखिशब्दस्याऽसाधुत्वापत्तेः । अपि चसखासखायमब्रावीत् [॒सखा सख्ये अपचन्]सखायस्त्वा ववृमहे॑ ।सखा सखिभ्य ईडः॑ इत्यादिमन्त्रेषु सर्वत्र सखिशब्द आद्युदात्त एवेति निर्विवादम् । एवं च इञुदात्त इत्युज्जवलदत्तादिव्याख्यानं वेदवार्तानभिज्ञत्वप्रयुक्तमेवेति दिक् । ङि । श्रिञ्, सेवायाम्, हन हिंसागत्योः । अमरोक्तिमाह — स्त्रिय इति । एवं चसुप्राप्तसुओ॑ति सूत्रे चतुरश्चेति तालव्यपाठः सङ्गच्छत एव । तत्सूत्रे केषाञ्चिद्दन्त्यपाठस्तु एतत्सूत्राऽपर्यालोचनामूलक एवेत्यबधेयम् । नन्वेवं चतुररुआमितिदन्त्यप्रयोगस्तु कथं निर्वाह इति चेदत्राहुः — अकारान्तेन दन्त्यगर्भिणाऽरुआशब्देन विग्रहे तत्प्रयोगः साधीयानन् । न च तादृशे शब्दे विप्रतिपत्तव्यम्,अरुआः कोणे कचे पुंसि क्लीबमश्रुण शोणिते॑ इति मेदिनीकोशादिति ।अहिर्वत्राऽसुरे सर्पे॑ इति मेदिनी ।अच इः । अजन्ताद्धातोरिः स्यात् । रु शब्दे, पूञ् पवने, पविर्वज्रम् । तृ प्लवनतरणयोः । तरिर्वरुआआदिस्थापनभाण्डम् ।स्त्रियां नौस्तणिस्तरिः॑ इत्यमरः । कु शब्दे ।कविर्वाल्मीकिशुक्रयोः ।सूरौ काव्यकरे पुंसि स्यात्खलीने तु योषिति॑इति मेदिनी । ऋ गतौ । अरिः शत्रुः । कपिलकादित्वाद्वैकल्पिकं लत्वम् । अलिभ्र्रमरः । खनि । खनु अवदारणे ।कष खषेति दण्डके हिंसार्थकः । अज गतिक्षेपणयोः, असु क्षेपणे,वस आच्छादने, वन षण संभक्तौ, वनु याचने, षणु दाने । ध्वन शब्दे, ग्रन्थ बन्धने उभौ चुरादी । चल कम्पने, एभ्य इः स्यात् ।खनिः स्त्रियामाकरः स्यात् इत्यमरः । ण्यन्तात्अच इः॑ इति इप्रत्यये खानिरपि ।कनिरेव मता खानिः॑ इति द्विरूपकोशः ।ग्रन्थिस्तु ग्रन्थिपर्णे ना बन्धे रुग्भेदपर्वणोः॑ इति मेदिनी ।ग्रन्थिर्ना पर्वपरुषी॑ इत्यमरः । वनिरग्निरिति । वनु याचने इत्यस्मादिप्रत्यये वनिर्याच्ञा इत्याहुः । चलिः पशुरिति ।चरिभ्यश्चे॑ति पाठान्तरम् । चर गतौ, चरतिर्भक्षणेऽपि । चरिः पशुः ।वृतेः । वृतु वर्तनेऽस्मादिः स्यात् । बाहुलकाल्लोकेऽपि — -साज्यं च वर्तिसंयुक्त॑मिति प्रयोगः ।वर्तिर्भेषजनिर्माणे नयनाञ्जलनलेखयोः । गात्रानुलेपननीदीपदशादीपेषु योषिति॑ इति मेदिनी । भुजेः । भुज पालनाभ्यवहारयोरस्मादिः स्यात्स च कित् । भुजिरग्निः ।कृगृशृ । कृ विक्षेपे, गृ निगरणे, शृ हिंसायाम्, पृ पालनपूरणयोः, कुट कौटिल्ये, भिदिर् विदारणे, छिदिर् द्वैधीकरणे ।वराहः सूकरो घृष्टिः कोलः पोत्री किरिः किटिः॑इत्यमरः ।इगुपधज्ञाप्रीकिरः॑ इति कप्रत्यये किर इत्यकारान्तोऽपि ।त्वचिः त्वचः, किरोऽपि स्यात्किरौ प्रोक्तः, पथ पथि॑ इति द्विरूपकोशः ।गिरिर्ना नेत्ररुग्भिदि । अद्रौ गिरिजकेयोषिद्गीर्णौ पूज्ये पुनरिउआषु॑ इति मेदिनी । कुटरिति । ङीषि तु कुटी ।कुटीशमीशुण्डाभ्यो रः॑ । कुटीरः ।कुटिः कोटे पुमानस्त्री घटे स्त्रीपुंसयोर्गृहे । कुटी स्यात्कुम्भदास्यां च सुरायां चित्रगुच्छके॑ इति मेदिनी । कुडि । कुडि दाहे, कपि चलने, आभ्यामिः कित्स्याद्धातोर्नलोपश्च ।कपिर्ना सिंहके शाखामृगे च मधुसूदने॑ इति च । सर्वधातुभ्यः । डुकृञ् करणे, चर गतौ, चरतिर्भक्षणेऽपि, जन जनने, भस भत्र्सनदीप्त्योः, शृ हिंसायाम्, शर्म सुखे, ष्ठा गतिनिवृत्तौ,छद अपवारणे चुरादिः, त्रैङ् पालने । सुष्ठु त्रायते इति सुत्रामा इन्द्रः ।कर्म व्याप्ये क्रियायां च पुंनपुंनसकयोर्मतम् इति रुद्रः ।चर्म कृत्तौ च फलके॑ इति मेदिनी । बृंहेः । बृहि वद्धावस्मान्मनिन्, नुमो नकारस्याकारे ऋकारस्य यणादेशः ।ब्राहृ तत्त्वं तपो वेदे न द्वयोः पुंसि वेधसि । ऋत्विग्योगभिदोर्विप्रे॑ इति मेदिनी । अशि । अशू व्याप्तौ सङ्घाते च, शक्लृ शक्तौ । शक्मा इन्द्रः । छन्दसीत्यस्य शकिना सम्बन्धो न त्वशिना । अतएवअश्मानमारोपयतः स्मरारेः॑ इति प्रयोगः । ह्मभृ । ह्मञ् हरणे डुभृञ् धारणपोषणयोः, धृ धारणे,सृ गतो, स्तृञ् आच्छादने, शृ हिंसायाम् । शरिमेति । एतच्चोज्ज्वलदत्तरीत्योक्तम् । दशपाद्यां तु शृणातिर्न पठते, तत्स्थाने सृधातुं प्रक्षिप्य प्रत्ययं च दीर्घादिं नितं च कृत्वा, स्तृसृभ्यामीमन्निति पठते, छन्दोग्रहणं चानुवर्तिनम् । युक्तं चैतत् ।पिपृतां नो भरीमभिः॑ ।वातस्य सर्गे अभवत्सरीमणि ।स्तर्णं बर्हिः सुष्टरीमा जुषाणा॑यस्मामतिर्भा अदिद्युतत्सवीमनि हिरण्यपाणिः॑ इत्यादिमन्त्राणां, तद्भाष्यस्य चानुगुणत्वात् । उक्तप्रयोगाणां भाषायामदर्शनेन च्छन्दोऽनुवृत्तेन्र्याय्यत्वाच्च । अतएववेञः सर्वत्रे॑ति सूत्रे सर्वत्रग्रहणं करिष्यति ।जनि । जन जनने, मृङ् प्राणत्यागे । वेञः । वेञ् तन्तुसन्ताने । निपात्यन्त इति ।मनिनन्ता॑ इति शेषः । म्रा अभ्यासे । मलोपो, नाभावो वा । नाम = संज्ञा । षिञ् बन्धने ।सीमसीमे स्त्रिया मुभे॑ इत्यमरः । व्येञ् संवरणे, रु शब्दे । रोम गात्रकेशः । लूञ् छेदने । लोम स एव । पा पाने । पुगागमः । ध्यै चिन्तायाम् । बाहुलकाणयोः ।धाम देहे गृहे रश्मौ स्ताने जन्मप्रभावयोः॑ इति मेदिनी । मथुने । शृ हिंसायाम् । सुष्ठु शृणाति इति सुशर्मा राजविशेषः । कृदुत्तरपदप्रकृतिस्वरेणान्तोदात्तं पदम् । मनिनि तु मध्योदात्तं स्यात् । साति । षोऽन्तकर्मणि, अत सातत्यगमने, आभ्यां यथासंख्यमेतौ स्तः । स्यति दुःखयति दुरध्येयत्वात्साम ।साम क्लीबमपायस्य भेदे वेदान्तरेऽपि च॑ इति मेदिनी ।आत्मा पुंसि स्वभावे स्यात्प्रयत्नमनसोरपि । धृतावपि मनीषायां शरीरब्राहृणोरपि॑ इति च ।हनि । हन हिंसागत्योः, मश शब्दे रोषकृते च ।मक्षिका भम्भराली स्यात् इति हारावली । कोररन् । कु शब्दे । कवरः — पावकः । बवयोरैक्यात्कबरी केशविन्यास- ।जानपदे॑ति ङीष् ।अन्यत्र कबरा । गिरः । गृ निगरणे । केचित्तु सूत्रमिदं परित्यज्य गरुता डयत इति विगृह्र डीङो डप्रत्यये पृषोदरादित्वाद्गरुतस्तकारलोपे गरुडशब्दं क्लेशेन व्युत्पादयन्ति । इन्देः । इदि परमैआर्ये ।उज्ज्वलदत्तस्तु कमिन्निति नितं पपाठ, तच्चिन्त्यम् ।इदं त्यत्पात्रमिन्द्रपानम् ।इदं ते सोम्यं मधु॑ इत्यादौ नित्स्वराऽभावात् । दशपाद्यां तुइणो दमक् इति सूत्रितम् । इदमिति । सर्वनामशब्दोऽयं संनिहितपरामर्शी । कायतेः । कै गै शब्दे । प्रयोजनाऽभावादेव मकारस्येत्संज्ञाविरहे सिद्धे डिमेरिकार उच्चारणार्थः । डकारस्तु टिलोपाऽर्थः । दशपाद्यां तु मान्तमेव डिमिति सूत्रितम् । किमिति सर्वनाम । सर्वधातुभ्यः । दशपाद्यां तु अर्थात्सर्वधातुभ्यो भविष्यतीत्याशयेनष्ट्र॑ न्नित्येव सूचितम् । अतएवाधिकं प्रक्षिप्तमित्याहुः । वस निवासे, असु क्षेपणे, शसु हिंसायाम्, छद अपवारणे ण्यन्तः ।अस्त्रं प्रहरणे चापे करवाले नपुंसक॑मिति मेदिनी । पत्लृ गतौ ।॒पत्रं तु वाहने पर्णे स्यात्पक्षे शरपक्षिणोः॑ इति मेदिनी । पा पाने । पात्रम् । षित्वान् ङीष् ।पात्राऽमत्रे त्रिषु क्लीबं रुआउवादौ राजमन्त्रिणि । तीरद्वयान्तरे योग्ये॑इति मेदिनी । दंश दशने । व्रश्चादिना षत्वे ष्टुत्वं । षितां ङीषोऽनित्यत्वाट्टाप् । दंष्ट्रा । भ्रस्जि । भ्रस्ज पाके, गम्लृ गतौ, णम प्रह्वत्वे शब्देच, हन हिंसागत्योः, विश प्रवेशने,अशू व्याप्तौ,एभ्यः ष्ट्रन् स्यादेषां वृद्धिश्च । भ्राष्ट्र इति । संयोगादिलोपः ।व्रश्चे॑ति षत्वे ष्टुत्वम् ।क्लीबेऽम्बरीषं भ्राष्ट्रो ना॑ इत्यमरः ।वैष्टंर = विष्टपम् ।दिवेः । दिवु क्रिडाद, अस्मात् ष्ट्रन् स्यात् । द्युदादेशो वृद्धिश्च धातोः । उषि । उष दाहे, खनु अवदारणे, आभ्यां ष्ट्रन् कित्स्यात् । उष्ट्रः क्रमेलकः ।उष्ट्रे क्रमेलकमयमहाङ्गाः॑इत्यमरः । सिवि । षिवुतन्तुसन्ताने,मुच्लृ मोक्षणे,आभ्यां ष्ट्रन्कित्स्यात्,टेरूकारादेशश्च । सूत्रिमूत्रिभ्यां चुरादिण्यन्ताभ्यामेरचा रूपसिद्धेराद्युत्तार्थमिदं सूत्रम् । नच धञा तत्सिद्धिःएर॑जित्यस्य घञो बाधकत्वात् ।सूत्रंतुसूचनाग्रन्थे सूत्रतन्तुव्यवस्थयोः॑इति विआः । अमि.अमगतिशब्दसंभक्तिषु,चिञ् चयने,ञिमिदा स्नेहने,शसु हिंसायाम् । आन्त्रमिति ।अनुनासिकस्ये॑ति दीर्घः ।श्रोणिलम्बिपुरुषाऽ‌ऽन्त्रमेखला॑मिति कालिदासः ।आख्याश्चर्यश्चित्र॑मित्यमरः ।मित्रं सुह्मदि न द्वयोः । सूर्ये पुंसि॑इति मेदिनी ।शस्त्रं लोहाऽस्त्रयोः क्लीबं क्षुरिकायां तु योषिति॑ इति च प्रत्ययस्वरेणैतेऽन्तोदात्ताः ।शुन आन्त्राणि पेचे॑ ।चित्रं देवानाम् ।मित्रं नयनम् ।शस्त्रस्य शस्त्रमसि॑ इत्यादि । पुवः । पूञ् पवनेऽस्मात्रः स्यात्,धातोह्र्यस्वत्वं च । पुनाति स्ववंशानिति पुत्रः । पुंनामा नरकस्तस्मात् त्रायते इत्यर्थे॑आतोऽनुपसर्गे कः॑ इति कप्रत्यये पुत्र इति व्युत्पत्त्यन्तरम् । स्त्यायतेः । स्त्यै ष्टऐ शब्दसङ्घातयोः । स्त्रीति । डित्वाट्टिलोपः ।लोपो व्यो॑रिति यलोपः । टित्त्वान्ङीप् ।स्त्री योषिदबला योषा नारी सीमान्तिनी वधूः॑ इत्यमरः ।गृधृ । गुङ् अव्यक्ते शब्दे, धृञ् धारणे, वी गतिप्रजनादौ, डुपचष् पाके, वच परिभाषणे, यम उपरमे, षद्लृ विशरणगत्यादौ, क्षद इति सौत्रः ।गोत्रा भूगव्ययोर्गोत्रः शैले गोत्रं कुलाख्ययोः । संभावनीयबोधे च काननक्षेत्रवत्र्मसु॑इति मेदिनी ।सत्र्माच्छादने यज्ञे सदादाने धनेऽपि च॑ इत्यमरः ।सत्रं यज्ञसदादानच्छादनाऽरण्यकैतवे॑इति मेदिनी । क्षत्रं ब्राआहृणानन्तरजातिः । हुयामा । हु दानादनयोः, या प्रापणे, मा माने, श्रु श्रवणे,भस भत्र्सनदीप्त्योः । होत्रमाहुतिः । होत्राशब्द ऋत्विक्ष्वपि स्त्रीलिङ्ग इतिहोत्राभ्यश्छः॑इति सूत्रे हरदत्तादयः ।यात्रा तु यातनेऽपि स्याद्गमनोत्सवयोः स्त्रिया॑मिति मेदिनी ।मात्रा कर्णविभूषायां वित्ते माने परिच्छदे । अक्षराऽवयवे स्वल्पे क्लीबं कार्त्स्न्येऽवधारणे॑ इति च ।कर्णशब्दग्रहौ श्रोत्रं श्रुतिः स्त्री श्रवणं श्रवः इत्यमरः ।भरुआआ चर्मप्रसेविका॑इति च । गमेः । गम्लृ गतावस्मात्रन्स्याद्धातोराकारन्तादेश्च ।गात्रमङ्गे॒कलेवरेः । स्तम्बेरमाग्रजङ्घादिविभागेऽपि समीरित॑मिति विआः । दादिभ्यः । दाप् लवने एवमादिभ्यरुआन् । दात्रं धान्यादिच्छेदनसाधनम् । पा पाने ।योग्यभाजनयोः पात्रमित्यमरः । क्षि निवासगत्योः । क्षित्रमित्यादि योज्यम् ।भूवादि । भू सत्तायाम् । भावित्रं त्रैलोक्यम् । वद व्यक्तायां वाचि ण्यन्तः । वादित्रं तूर्यादि । गृ निगरणे । चरेः । चर गतौ, अस्माण्णित्रन्स्याद्वृत्ते वाच्ये ।वृत्तं पद्ये चारित्रे च॑ इत्यमरः । ननु इत्रन्प्रत्यये चरित्रमित्युक्तं ततश्च प्रज्ञाद्यणि चारित्रमितिसिद्धौ किमनेनेति चेत् । मैवम् ।स्वरे विशेषात् । अशू व्याप्तावेवमादिभ्य इत्रः, त्रैङ् पालनेएवमादिभ्य उत्रश्च स्यात् । वहित्रमिति । वह प्रापणे । धरित्रीति । धृञ् धारणे, गौरादित्वात् ङीष् । अमेः । अम गतौ,अस्मादित्रः स्यात्स च चित् । उत्रस्तु नानुवर्तते, अस्वरितत्वात् । मित्रं नेति विग्रहे त्वमित्रमिति नपुंसकम् । आः समिण् । इण् गतौ । अस्मादाप्रत्यये गुणे सत्ययादेशः । केषरिति । कष खषेति दण्डकः । समयानिकषाशब्दौ समीपवाचकौ । बाहुलकात् दुषेः । दोषा । दिवेराप्रत्यये बाहुलकादेवाऽस्य गुणाऽभावे दिवा । स्वदेराप्रत्यये बाहुलकादेव धातोर्धान्तादेशश्च॥ स्वधेत्यादि । चितेः । चिती संज्ञानेऽस्मात्कणः प्रत्ययः स्यात्कश्चाऽन्तादेशः । अमरोक्तमाह — चिक्कणमिति । सूचेः । सूचपैशुन्येचुरादिस्मात्स्मन्,णिलोपः । कुत्वषत्वे ।सूक्ष्मं स्यात्कण्टकेऽध्यात्मे पुंस्यणौ त्रिषु चाल्पके॑इति मेदिनी । पातेः ।पा रक्षणेऽस्माड्डुम्सुन्स्यात् । डित्त्वाट्टिलोपः ।उकारौच्चारणार्थ॑इत्युज्ज्वलदत्तः । वस्तुतस्तूगित्कार्यार्थः — सुपुंसीति ।उगितश्चे॑ति ङीप् । नकारः स्वरार्थः ।पुंसोऽसु॑ ङिति सूत्रे न्यासरक्षिताभ्यां पुनातेर्मक्सुन् ह्यस्वश्चेति पठितम् । पूञो डुम्सुन्नत्यन्ये । भाष्ये तु सूतेः सप्रत्यये पुमानित्युक्तम् ।उपेयप्रतिपत्त्यार्था उपाया अव्यवस्थिताः॑इति तत्त्वम् । रुचि । रुचदीप्तावभिप्रीप्तौ च, भुज पालनदौ ।भुजिष्यस्तु स्वतन्त्रेच हस्तसूत्रकदासयोः । स्त्रियां दासीगणिकयोः इति मेदिनी । वसेः । वस निवासे,वस आच्छादने ।बस्तिद्र्वयोर्निरूहे नाभ्यदोभूदिशासु च॑इति मेदिनी । शास इति । शासु अनुशिष्टौ । अस्यतीति । असु क्षेपणे ।अगस्तिः कुम्भयोनौच वङ्गसेनतरौ पुमान्इति मेदिनी । सावसेः । अस् भुविअस्मात्सावुपपदे तिः स्यात् । बहुवनान्न भूभावः । वौ । तसु उपक्षयेऽस्माद्विपूर्वात्तिः स्यात् ।अङ्गुष्ठे सकनिष्ठे स्याद्वितस्तिद्र्वादशाङ्गुलः॑ इत्यमरः ।स्त्रीपुंसयोर्वितस्तिः स्या॑दित्यमरमाला । पदि । पदगतौ,प्रथ प्रख्याने,आभ्यां तिः स्यात्स च नित् । पत्तिरिति पदातिः । प्रथितिरिति । प्रख्यातिः । तितुत्रेष्विति । ग्रहादित्वादिडागमनिषेधो नेतिभावः । दृणातेः । दृ विदारणे । अस्मात्तिः स्याद्धातोह्र्यस्वत्वं च नात् ।दृतिश्चर्मपुटे मत्स्ये ना॑ इति मेदिनी । कृतृ ।कृ विक्षेपे, तृ प्लवनतरणयोः, कृपू सामर्थ्ये ।किरीटं मुकुटे न स्त्रीति चन्द्रगोमी ।कृपीटमुदरे नीरे॑ इति विआः । दशपाद्यां तुकृतृकृपिकपिभ्य॑ इति पठित्वा कम्पीट इतिचतुर्थमुदाह्मतम् । [कृपो रो लः॑ इत्यत्र न्यासे तुकृकृपिभ्या॑मिति पठते । अतस्तरतिरत्र प्रक्षिप्त इति कश्चित् ।तरतेश्चे॑ति पृथक्पठित्वा तिरीटः कूलवृक्ष॑इति कश्चिद्वाख्यात्] । रुचिवचि । रुच दीप्तावभिप्रीतौ,च , वच परिभाषणे,कुच शब्देतारे, अथवाकुञ्च कौटिल्याल्पीभावयोः । इकः कित्त्वात्सूत्रे नलोपेन निर्देशः । कुट कौटिल्ये । उचितमिति ।वचिस्वपी॑त्यादिना संप्रसारणम् । कुटिकुषि ।कुङ्मलो मुकुले पुंसिन द्वयोर्नरकान्तरे॑ इतिमेदिनी । कुष निष्कर्षे । कुष्मलं छर्दनम् । विकसतिमित्यन्ये । सर्वधातुभ्योऽसुन् । दशपाद्यां तु असुन्नित्येव सूत्रम् । चिती संज्ञाने, चित संचेतने चुरादिः, सृ गतौ । गौरादित्वान्ङीष् ।सरसी तु महासरः॑इति शब्दार्णवः ।हमान्ति सरांसि सरस्यः॑इति भाष्यम् । पय गतौ, पीङ् पाने ।पयः स्यात्क्षीरनीरयोः॑इति मेदिनी । षद्लृ विशरणादौ । सदः सभा । वर्च दीप्तौ ।वर्चो नपुसकं रूपे विष्ठायामपि तेजसि । पुंसि चन्द्रस्य तनये॑ इति मेदिनी । रुदिर् अश्रुविमोचने ।रोदश्च रोदसी चापि दिवि भूभौ पृथक् पृथक् । सहप्रयोगेऽप्यनयो रोदस्यावपि रोदसी इति॑ विआः । वी गत्यादिषु ।वयः पक्षिणि बाल्यादौ यौवने च नपुंसक॑मिति मेदिनी । अन प्राणने । अनो भक्तम् । अनोऽश्मायःसरसां जातिसञ्जयोः॑रिति टचि तु अनसम् ।पाकस्थानं महानस॑ मित्यमरः । तमु ग्लानौ ।तमः क्लीबं गुणे शोके सैहिकेयाज्योतिषि च पुंसि हेमन्तमार्गयोः॑ इति मेदिनी । तप संतापे ।तपो लोकान्तरेऽपि च । चान्द्रायणादौ धर्मे च पुमान् शिशिरमाघयोः॑ इति रभसः ।तमो ध्वान्ते गुणे शोके क्लीबं वा ना विधुंतुदे॑ इति मेदिनी । षह मर्षणे ।सहो बले शिशिरमाघयोः॑ इति च । मह पूजायाम् ।मह उत्स्वतेजसोः॑ इति मेदिनी । नभ हिंसायां भौवादिकः क्रैयादिकश्च ।नभोऽन्तरिक्षं गगन॑मित्यमरः ।नभं तु नभसा सार्धं तपं तु तपसा सह । सहं च सहसा सार्धं महं च महसा सह । तमेन च तमः प्रोक्तं सहं तममित्याद्यजन्ता अपि सिध्यन्ति, परन्तु रज इति अकारान्तसकारान्तौ नलोपवच्छब्दौ न सिध्यत इतिरजेनाऽपि रजः सम॑मिति कोशश्चिन्त्य एवेति चेदत्राहुः — रञ्ज रागे इत्यस्मादसुनिभूरञ्जभ्यां कि॑दिति वुक्ष्यमाणेनाऽसुनः कित्त्वान्नलोपे रज इति सिध्यति ।घञर्थे कविधान॑मिति कप्रत्यये तु रज इत्यदन्तोऽपि सिध्यतीति । सपेः । रप व्यक्तायां वाचि, अस्मादसुन्स्यादत एकारश्च । रेपोऽवद्यमिति ।अरेपसा तन्वा॑ इति मन्त्रे निरवद्ययेति भाष्ये उक्तं, नञ्पूर्वकरेपःशब्दस्याऽनवद्यवाचकत्वात् । अशेः । अशू व्याप्तौ सङ्घाते च , अस्मादसुन्स्याद्धातोर्युडागमश्च । यशः कीर्तिः । उब्जेः । उब्जआर्जवे अस्मादसुन्स्याद्बले वाच्ये, बकारस्य लोपश्च ।ओजो दीप्ताववष्टम्भे प्रकाशबलयोरपि इति मेदिनी । श्वेः । टु ओइआ गतिवृद्भ्योः । अस्मादसुन्स्यात्सम्प्रसारणं च । श्रयतेः । श्रिञ् सेवायामस्मात्स्वाङ्गे वाच्येऽसुन्स्यात्स च किद्धातोः शिरादेशश्च ।उत्तमाङ्गं शिरः शीर्ष॑मित्यमरः । घञर्थे कप्रत्यये तु शिर इत्यदन्तोऽपि ।शिरोवाची शिरोऽदन्तो रजोवाची रजस्तथा॑ इति कोशान्तरम् ।पिण्डं दद्याद्गयाशिरे॑ इति वायुपुराणे ।कुण्डलोद्वृष्टगण्डानां कुमाराणां तरस्विनाम् । निचकर्त शिरान्द्रौणर्नालेभ्य इव पङ्कजान् इति महाभारतम् । अर्तेः । ऋ गतावस्मादसुन् कित्स्याद्धातोरुत्वं च । रपरत्वम् ।उरोवत्सं च वक्षश्च॑ इत्यमरः । व्याधौ । अर्तेरेव व्याधौ वाच्येऽसुन्, तस्य सुडागमश्च स्यात् । अर्ण इति । पानीयमित्यर्थः । इणः । इण् गतौ अस्मात्पापे वाच्येऽसुन् स्यात्तस्य नुडागमश् । एनः पापम् । रिचेः । रिचिर् विरेचने, रिच वियोजनसंपर्चनयोरित्यस्माद्वा धने वाच्येऽसुन् । रेक्ण इति ।चजो॑रिति कुत्वेअटकुप्वा॑ङिति णत्वम् । इह दशपादीवृत्तौ नुटं नानुवत्र्य रेकः रेकसी इत्युदाह्मतम् । तन्न । उत्तरसूत्रे नुडनुवृत्तेर्निर्विवादत्वात्, मण्डूकप्लुतौ मानाऽभावनाल्लक्ष्यविसंवादाच्च । उज्ज्वलदत्तेन तुरिचेर्धने चित्किच्चे॑ति पठित्वा नुटं चानुवत्र्य कित्त्वाद्गुणाऽभावे नुटश्चुत्वेन ञकारे रिञ्चमिति साधितं तल्लोकवेदयोरप्रसिद्धत्वादुपेक्ष्यम् ।नित्यं रेक्णो अमत्र्यः परिषद्यं ह्ररणस्य रेक्णः॑ इत्यादिमन्त्रेषु रेक्ण इति प्रयोग एव साधीयानिति दिक् । चायतेः । चायृ पूजानिशामनयोः । अस्मादन्ने वाच्येऽसुन्स्यात्तस्य नुट् च धातोह्र्यस्वत्वं च । यलोपः ।चनो दधिष्वपवता॑सुते दधिष्व नश्चनः॑ इत्यादिमन्त्रेषु प्रसिद्धोऽयं चनशब्दः । एतेन चणोऽन्नमित्युदाह्मत्य बाहुलकाण्णत्वमिति वदन्तो दशपादीवृत्तिकारास्तदनुसारिणः प्रसादकारादयश्च परास्ताः । वृङ् । वृङ संभक्तौ, शीङ् स्वप्ने, आभ्यां यथाक्रमं रूपे स्वाङ्गे च वाच्येऽसुन्स्यात्तस्य पुडागमश्च । वर्पो रूपमिति ।घ्नञ्छिश्नदेवा अभिवर्पसाऽभूत् इत्यादिमन्त्रेषु प्रसिद्धमिदम् ।शेपः स्याद्वषणं पेल॑मिति सुभूतिचन्द्रः । अकारान्तोऽप्ययम् ।शेपपुच्छलाङ्गूलेषु शुनः॑ इति वार्तिके शेप इति निर्देशात्,यस्यामुशन्तः प्रहराम शेप॑मिति वैदिकप्रयोगाच्च । [॒शेपः शेपौ च शेवश्च शेवं प्रोक्तं च शेरसि॑ इति द्विरूपकोशः] । रुआउरीभ्याम् । रुआउ गतौ, रीङ् रुआवणे, आभ्यामसुन्स्यात्तस्य तुट् च ।रुआओतोऽम्बुवेगेन्द्रिययोः॑ इति विआः । रेतः शुक्रे पारदे च॑ इति मेदिनी । पातेः । पा रक्षणेऽस्माद्बले वाच्येऽसुन् जुडागमश्च [वर्गतृतीयादिः] । युट् चेत्यन्तस्तादिपाठस्तूज्ज्वलदत्तस्य प्रामादिकः ।पृथुपाजा अमत्र्यः॑ इत्यादिमन्त्रतद्भाष्यविरोधात् । उदके । पातेरुदके वाच्येऽसुन्स्यात्तस्य थुडागमश्च ।कबन्धमुकदकं पाथः॑ इत्यमरः ।अदेः । अद भक्षणे ।भिस्सा स्त्री भक्तमन्धोऽन्नम् इत्यमरः ।द्विजातिशेषेम यदेतदन्धसा॑ इति भारविः । स्कन्देः । स्कन्दिर् गतिशोषणयोः । अस्मात्स्वाङ्गे वाच्येऽसुन्, धश्चान्तादेशः । आपः । आप्लृ व्याप्तौ । अस्मात्कर्माख्यायामसुन्, ह्यस्वश्च धातोः । प्रत्ययस्य नुडागमस्तु वा स्यात् ।अप्नस्वतीमइआना॑ अपासि यस्मिन्नधि संदधुः॑ बाहुलकादिति । उपलक्षणं, ह्यस्वनुटौ वा स्त इति व्याख्यानस्यापि संभवात् । तथा चब्राउवते कतमेऽपि नपुंसकमापः॑ इति कोशमुदाह्मत्यसर्वमापोमयं जग॑दिति प्रयोगो दुर्घटवृत्तौ समर्थितः । रूपे । रूपे वाच्ये आप्नोतेरसुन्, ह्यस्वत्वं च धातोः, प्रत्ययस्य जुडागमश्च स्यात् । अब्ज इति ।झलां जश् झशी॑ति पकारस्य बकारः । उदके । उदके वाच्ये आप्नोतेरसुन्, ह्यस्वत्वं, नुमागमो भश्चान्तादेशः । नहेः । णह बन्धने अस्माद्गमने वाच्येऽसुन्भश्चान्तादेशः स्यात् ।नभो व्योम्नि नभो मेघे श्रावणे च पतद्ग्रहे । घ्राणे मृणालसूत्रे च वर्षासु च नभः स्मृत॑मिति विआः ।नभः क्लीबं व्योम्नि पुमान्धने । घ्राणश्रवणवर्षासु बिसतन्तौ पतद्ग्रहेर॑ इति मेदिनी ।नभः खं श्रावणो नभाः॑ इत्यमरः ।नभं तु नभसा सार्ध॑मिति द्विरूपकोशादकारान्तोऽपि । इणः । इणोऽसुन्स्यादपराधे वाच्ये, धातोरागादेशश्च । विआओक्तिमाह — आग इति । अमेः । अम गत्यादौ । अस्मादसुन्, हुगागमश्च धातोः स्यात् । अमन्ति गच्छन्त्यनेनाऽधस्तादित्यंहो दुरितम् । रमेश्च । रमेरसुन्स्यात्, हुगागमश्च धातोः । रहो वेगः । अहिरहिभ्यामसुना सिद्धे अघिरघिभ्यामसुनि अङ्घो रङ्घ इति माभूदिति सूत्रद्वयमिति गोवद्र्धनः । तथा चस्यान्मघ्योष्मचतुर्थत्वमंहसो रंहसस्तथा॑ इति द्विरुपकोशः । एवं चतत्तार्घाः सिद्धसङ्घैर्बिदधतु घृणयः शीघ्रमङघ्घोविघात॑मिति,रङ्घःसङ्घः सुराणां जगदुपकृतये नित्ययुक्तस्य यस्य स्तौति प्रीतिप्रसन्नोऽन्वहमहिमरुचेः सोऽवतात्स्यन्दनो वः॑ इत्यत्र अङ्घो रङ्घ इति घकारपाठोऽनुप्रसारसिकानां प्रामादिक इति वदन्ति । देशेः । देशे वाच्ये रमेरसुन्, हकारश्चान्तादेशः स्यात् ।रहस्तत्त्वे रते गुह्रे॑ इति मेदिनी । अञ्चि । अञ्चू गतिपूजनयोः, अञ्जू व्यक्तिम्रक्षणकान्तिगतिषु, युजिर् योगे , युज समाधौ, भृजी भर्जने । अङ्कः अङ्कसी अङ्कांसि । अङ्गः अङ्गसी अङ्गांसि । योगः योगसी योगांसि । भर्गस्तेज इति ।हरः समहरो भर्गः॑ इत्यत्र तु भर्गशब्दो घञन्तः पुंलिङ्ग इति बोध्यः । उच समवायेऽस्मादसुनि बाहुलकात्कुत्वम् । न्यङ्क्वादित्वाद्वा ।ओक आश्रयमात्रेऽपि मन्दिरेऽपि नपुंसक॑मिति मेदिनी । भूरञ्जि । भू सत्तायाम्, रञ्ज रागे, आभ्यामसुन्कित्स्यात् । भुवोऽन्तरिक्षम् । षष्ठन्तप्रतिरूपकमव्ययमिदम् । रजो रेणुः ।रजः क्लीबं गुणान्तरे । आर्तवे च परागे च रेणुमात्रेऽपि दृश्यते॑ इति मेदिनी । घञर्थे कप्रत्यये तु अकारान्तोऽप्ययम् ।रजोऽयं रजसा सार्द्धं स्त्रीपुष्पगुणधूलिषु॑ इत्यजयकोशः । वसेः । वस निवासेऽस्मादसुन् स्यात्स च णित् । णित्वाद्वृद्धिः । च्नदेः । चदि आह्लादने, अस्मादसुन्, आदेः छकारश्च ।छन्दः पद्यप्रभेदेऽपि स्वैराचाराभिलाषयोः॑ इति मेदिनी । अकारान्तोऽप्ययम् ।अभिप्रायवशौ छन्दौ॑ इत्यमरद्विरूपकोशौ । पचि । डुपचष् पाके, वच परिभाषणे, आभ्यामसुन्स्यात्तस्य सुडागमस्च । चस्य कुत्वे सस्य षत्वम् । पक्षः पक्षसी पक्षांसि ।यथा शालायै पक्षसी॑ इति श्रुतिः ।पूर्वोत्तरे द्वे पक्षसी॑ इति अनीकाधिकरणे शाबरभाष्यम् । माधवस्तु पक्ष परिग्रह इत्यस्मादसुन्नित्याह । वहि । वह प्रापणे, ओहाक् त्यागे, डुधाञ्धारणादौ, एभ्योऽसुन्स्यात् । अत्र पूर्वसूत्रात्सूटमनुवर्तयतामुज्ज्वलदत्तादीनां मतेनोदाहरणमाह — वक्षाः हासाः धासा इति । प्राञ्च इति । सकलवृत्तिकृतः, प्रसादकारादयश्चेत्यर्थः । एतञ्चाऽयुक्तम् । उक्तोदाहरणानि हि न तावल्लोके दृश्यन्ते न वा संभवन्ति । सूत्रेऽस्मिन्छन्दसीत्युक्तत्वात् । वेदे तु विपरीतान्येवोदाहरणानि दृश्यन्त इत्याह — वस्तुतस्त्विति । वेदभाष्यकारादयश्चेहानुकूला इत्यवधेयम् । इणः । इण्गतौ, अस्मादासिः स्यात् । मिथुने । सुयशा इति ।अशेर्देवने युट् चे॑ त्यादि पूर्ववत् । सुपयाः सुरुआओता इत्याद्युदाहार्यम् । नञि । हन्तेर्नञ्युपपदेऽसिः स्याद्धातोरेहादेशश्च ।ऋदुशनस्परुदंसे॑ त्यादिना सावनङ् । विधाञः । डुधाञ् धारणादौ, विपूर्वादस्मादसिः स्याद्वेधादेशश्च सोपसर्गाधातोः ।वेधाः पुंसि ह्मषीकेसे बुधे परमेष्ठिनी॑ति मेदिनी ।नुवः । णु स्तुतौ, अस्मादसिः स्यात्तस्य धुडागमश्च । नोधा इति ।सद्यो भवद्वीर्याय नोधाः॑ इति मन्त्रेनोदा ऋषिर्भवती॑ति निरुक्तम् । नवं दधातीति तु नैरुक्तं व्युत्पत्त्यन्तरं बोध्यम् । गति । गतौ कारके चोपपदेऽसिः स्यात् । तप संतापे, विद ज्ञाने, विद्लृ लाभे । चनद्रे । चन्द्रं रजतममृतं च , तदिव मीयतेऽसौ चन्द्रमा इति हरदत्तः । स च डिदिति । डित्त्वाट्टिलोपे चन्द्रमसौ चन्द्रमस इत्यादि सिध्यति । वयसि । डुधाञ् धारणे अस्माद्वयस्युपपदेऽसिः स्यात्स च डित् । पयोधा इति । पयः शब्द उपपदे उधाञः पूर्ववत् । पुरसि च । पुरः शब्दे उपपदे पूर्ववत् ।पुरोधास्तु पुरोहितः॑ इत्यमरः । रौतेरिति । रु शब्दे ।पुरूरवा बुधसुतो राजर्षिश्च पुरूरवाः॑ इत्यमरः । चक्षेः । चक्षिङ् व्यक्तायां वाचि, अस्मादसिः स्यात्स च बहुलं शित् । शित्त्वात्सार्वधातुकसंज्ञायां ख्याञ् न । नृचक्षाः राक्षसः । शित्त्वाऽभावपक्षे तु ख्याञ्यादेशः । प्रख्याः प्रजापतिः ।उषः । उष दाहेऽस्मादसिः स्यात्स च कित् । उषः प्रभातम् । दशपाद्यां तुवसः कि॑दिति पाठः । वसति सूर्येण सहेति उषाः देवताविशेषः ।अपो भि॑ इति सूत्रेउषसश्चेष्यते॑ इति वार्तिकस्थसमुषद्भिरित्युदाहरणं विवृण्वद्भर्हरदत्तादिभिरयं पाठः पुरस्कृतः । दमेः । दमु उपशमे ।सप्तार्चिर्दमुनाः शुक्रः॑ इत्यमरः । पक्षेअन्येषामपि दृश्यये॑ इति दीर्घः ।जुष्टो दमूनाः॑दमूनसं गृहपतिं वरेण्यम् । दशपाद्यां तुदमेरूनसिः॑ इति सूत्र एव दीर्घः पठन्ते तन्मते बाहुलकाद्ध्रस्वो बोध्यः । अगिर्गत्यर्थः । अङ्गिरा ऋषिभेदः । सर्तेः । सृ गतौ । प्रायेणेति ।स्त्रियां बहुष्वप्सरसः प्रार्थितयोर्विवादः॑ इति रघुः । विदि । विद ज्ञाने, भुज पालनाभ्यवहारयोः, आभ्यां विआशब्दे उपपदेऽसिः स्यात् । शब्दस्वरूपपरत्वाद्विधे इत्यत्र स्मिन्नादेशो न कृतः । उदाहरणे विआं वेत्ति, भुङ्क्ते इति विग्रहः । यत्तुतत्पुरुषे कृती॑ति सप्तम्या अलुक् विओवेदाः = अग्निः, विओभोजाः इन्द्र॑ इत्युज्ज्वलदत्तेनोक्तं, तन्न, तथा सति स्मिन्नादेशस्य दुर्वारत्वापत्तेः ।सुमृलीको भवतु विआवेदाः॑पूषा भगः प्रमृथे विआभोजाः॑ #इत्यादिमन्त्रेषु सुपो लुक एव दर्शनात्, वृत्त्यन्तरे तथैवोदाहरणाच्च । वशेः । वश कान्तौ ।उशना भार्गवः कविः॑ इत्यमर । इत्युणादिषु चतुर्थः पादः ।अथ पञ्चमः पादः ।अदि भुवो ।अ॑ दित्यव्ययमाकस्मिकार्थे । अस्मिन्नुपपदे भूधातोर्डुतच्स्यात् । डित्त्वाट्टिलोपः । अद्भुतमाश्चर्यम् । गुधेः । गुध परिवेष्टने । गुध्यते परिवेष्टते प्राणिभिरिति ।गोधूमो नागरङ्गे स्यादौषधिब्राईहिभेदयोः॑ इति मेदिनी ।मसेः । मसी परिणामे । स्थः । ष्ठा गतिनिवृत्तावस्मादूरन् । कित्त्वादालोपः । स्थूरो मनुष्य इति ।स्थूरस्य रायो बृहतो य ईशे॑ इति मन्त्रे तु योगपुरस्कारात्स्थिरस्येत्यर्थ इति व्याख्यातम् । पातेः । पा रक्षणे । वातेः । वा गतिगन्धनयोः । रभसकोशस्थमाह — वातिरिति । अर्तेः । ऋ गतौ, अस्मादतिः स्यात्स च नित् । तृहेः । तृह हिंसायाम्, क्नस्य कित्त्वाद्गुणाऽभावः । वृञ् । वृञ् वरणे, लुट विलोडने, तनु विस्तारे, तड आगाते, चुरादि एभ्य उलच्स्यात्, तण्डादेशश्च धातो- । यद्यपिसानसिधर्णसी॑ति सूत्रे तण्डुलशब्दो निपातिस्तथापि प्रत्ययस्वरेण मध्योदात्तः सः, अयं तु चित्स्वरेणाऽन्तोदात्त इति विवेकः । दंसेः । दसि दंशनदर्शनयोः, अस्माट्टटनौ स्यातां नकारस्याऽ‌ऽकारश्च । टनो नकार आद्युदात्तार्थः ।दासः शूद्रे दानपात्रे भूत्यधीबरयोरपि॑ इति विआः । दंशेः । दंश दशनेऽस्मादपि टटनौ स्तो, नकारस्य चात्वं स्यात् ।कैवर्ते दाशधीवरौ॑ इत्यमरः । उदि । चिञ् चयने । डैसो डित्त्वाट्टिलोपः । सौ रमेः । रमु क्रीडायाम् । पूञः । पूञ् पवने ।पुण्यं मनोज्ञेऽभिहितं तथा सुकृतधर्मयोः॑ इति विआः ।रुआंसेः । रुआंसु अधः पतने, कित्त्वं गुणाऽभावार्थम् । अर्तेः । ऋ गतावस्मात्कुप्रत्ययः स्याद्धातोरुत्वं च । रपरत्वम् ।युवोरनाकौ॑ ।मेढ्रोरभ्रोरणोर्णायुमेषवृष्णय एडके॑ इत्यमरः । हिंसेः । हिसि हिंसायाम् । उदि । दृ विदारणे । डित्खनेः । खनु अवदारणे, अस्मादजलौ स्तः ।मुखं निःसरणे वक्रेप्रारम्भोपाययोरपि । सन्ध्यन्तरे नाटकादेः शब्देऽपि च नपुंसक॑मिति मेदिनी । अमेः । अम गतौ ।स्कन्धो भुजशिरोंसोऽस्त्री॑ इत्यमरः ।अंसः स्कन्धे विभागे च॑ इति दन्त्यान्ते विआः ।मुहेः । मुह वैचित्यऽस्मात्खप्रत्ययो धातोर्मूरादेशश्च । मुह्रतीति मूर्खः ।अज्ञे मूढथाजातमूर्खवैधेयबालिशाः॑ इत्यमरः । नहेः । णह बन्धने । अस्मात्खः स्यात् ।नखी कररुहे षण्ढे गन्धद्रव्ये नखं नखी॑ इति विआः ।नखी स्त्रीक्लीबयोः शुक्तौ नखरे पुंनपुंसकम् इति मेदिनी । शीङः । शीङ् स्वप्नेऽस्मात्खः स्याद्धातोह्र्यस्वश्च । ह्यस्वविधानसामथ्र्याद्गुणाऽभावः ।शिखा शाखाबर्हिचूडालङ्गालिक्यग्रमात्रके । चूडामात्रे शिफायां च ज्वालायां प्रपदेऽपि च॑ इति मेदिनी । माङः । माङ् माने ।मयूखस्त्विटकरज्वालासु॑ इत्यमरः ।कलि । कल शब्दसङ्ख्यानयोः, गल अदने, आभ्यां फक्स्यात्, धातोरकारस्योत्वं च । गुल्फ इति ।तद्ग्रन्थी घुटिके गुल्फौ॑ इत्यमरः । तयोः पादयोग्र्रन्थी इत्यर्थः । स्पृशेः । स्पृश संस्पर्शे ।पार्ां कक्षाऽधरे चक्रोपान्ते पर्शुगमेऽपि च ॑ इति विआमेदिन्यौ । श्मनि । श्रिञ् सेवायाम्, अस्मात् श्मन्युपपदे डुन्स्यात् । डित्त्वाट्टिलोपः ।तद्वृद्धौ श्मश्रु पुंमुखे॑इत्यमरः । पुरुषस्य मुखे तेषां रोम्णां वृद्धौ श्मश्रुशब्दो वर्तत इत्यर्थः ।अआआदयः । अशू व्याप्तावस्माद्रुन्प्रत्ययो, नञ्पूर्वात् श्रयतेर्डुन् च । यत्तूज्ज्वलदत्तेनोक्तम् — अश्नातेर्डुन् रुट् चे॑ ति, तदयुक्तम्, डित्त्वाट्टिलोपे सति धातोरश्रवणप्रसङ्गात् । न च टिलोपाऽभावो निपात्यत ति वाच्यं, तथा सति डित्त्वोप्रेक्षमस्य निष्फलत्वापत्तेरिति दिक् । जनेः । जनी प्रादुर्भावे अस्माट्टन्प्रत्ययः स्याद्धातोरन्त्यलोपश्च ।जटा लग्नकचे मूले मांस्यां प्लक्षे पुनर्जटी॑ति मेदिनी ।जङ्घेति । जनेरच्प्रत्यये सतिअजाद्यतः॑ इति टाप् । देहावयवे वाच्ये हन्तेरच्प्रत्ययः स्याद्द्वित्वं च धातोः । अभ्यासकार्यम् ।अभ्यासाच्चे॑ति कुत्वम् । अमरोक्तिमाह — पश्चान्नितम्ब इति । जघनं च स्त्रियाः श्रोणिपुरोभागे कटावपि॑ इति मेदिनी । क्लशेः । क्लिशू विबाधनेऽस्मादन्स्यात् ।केशः स्यात्पुंसि वरुणे ह्यीबेरे कुण्डलेऽपि च॑ इति मेदिनी । फलेः । फल निष्पत्तौ ।पलितं जरसा शौक्ल्य॑मित्यमरः ।पलितं शैलजे तापे केशपाशे च कर्दमे॑ इति मेदिनी । कृञादिभ्यः । डुकृञ् करणे । करकः कमण्डलुः ।करकस्तु पुमान्पक्षिविशेषे दाडिमेऽपि च । द्वयोर्मेघोपले न स्त्री करके च कमण्डलौ॑ इति मेदिनी । करका वृष्टिपाषाणः । कटे वर्षावरणयोः ।कटको वलये सानौ॑ ।क्वुन् शिल्पसंज्ञयोः॑ इति क्वुनाप्ययं सिद्धः । तथा च गुणभाज इहैव वुनि उदाहार्याः, गुणनिषेधभाजस्तु क्वुनि । उदासीनास्तु यत्र कुत्रचिदिति भावः । नृ नये ।स्यान्नारकस्तु नरको निरयो दुर्गतिः स्त्रिया॑मित्यमरः ।नरकः पुंसि निरये देवाऽरातिप्रभेदयोः॑ इति मेदिनी । उदयनाचार्यास्तु — नच नरकाण्येव सन्ती॑ति क्लीबं प्रयुञ्जते, तन्निर्मूलमित्याहुः । सृ गतौ ।सरकोऽस्त्री शीधुपात्रे शीधुपानेक्षुशीधुनोः॑ इति मेदिनी । कुर शब्दे ।कोरकोऽस्त्री कुड्मले स्यात्कक्कोलकमृमालयोः॑इति मेदिनी ।विचकार कोरकाणी॑ति माघः ।कोरकः पुमान् इत्यमरोक्तिस्तु नादर्तव्येत्याहुः । अपवरकादयोऽपि इहैव बोध्याः । चीकयतेः । चिक आमन्त्रणे, चीक च चुरादिः । अस्याद्यन्तविपर्ययः । पचिमच्योरित्वं चानुपदं वक्ष्यमाणं बाहुलकबललभ्यं बोध्यम् ।कीचको दैत्यभिद्वाताहतसस्वनवशयोः॑ इति मेदिनी । डुपचष् पाके ।उलूके करिणः) पुच्छमूलोपान्ते च पेचकः॑ इत्यमरः ।॒पचको गजलाङ्गूलमूलोपान्ते च कौशिके॑ इति मेदिनी । मचि मुचि कल्कने ।मेचकस्तु मयूरस्य चन्द्रके श्यामले पुमान् । तद्युक्ते वाच्यबक्त्लीबं रुआओतोऽञ्जनान्धकारयोः॑ इति मेदिनी । जनेः । जन जनने, जनी प्रादुर्भावे वा ।जठरः कठिनेऽपि स्या॑दित्यमरः ।जठरो न स्त्रियां कुक्षौ वृद्धकर्कटयोस्त्रिषु॑ इति मेदिनी । वचि । वच परिभाषणे, मन ज्ञाने, आभ्यामरप्रत्ययः स्यात्स च चित् । रश्चान्तादेशः । वठरः कुक्कुटे वण्टे शठे च॑ इति मेदिनी ।ऊर्जि । दृ विदारणेऽस्मादूर्ज्युपपदे अलचौ प्रत्ययौ स्तः ।हन्तेः ।हन हिंसागत्योः । क्रमि । क्रमु पादविक्षेपि, गम्लृ गतौ, क्षमूष् सहने, एभ्यस्तुन्स्यादेषां वृद्धिश्च॥हयतेः । हर्य गतिकान्त्योः ।हिरण्यं रेतसि द्रव्ये शातकुम्भवराटयोः । अक्षये मानभेदे स्यादकुप्ये च नपुंसक॑मिति मेदिनी । कृञः ।डुकञ् करणे ।जने ।तु॑ इत्यविभक्तम् । जनेस्तुप्रत्ययो रेफश्चान्तादेशः स्यात् । ऊर्णोतेः । ऊर्णुञ् आच्छादनेऽस्माड्डः स्यात् । डित्त्वाट्टिलोपः । टाप् ।ऊर्णामेषादिलोम्नि स्यादावर्ते चान्तरा भ्रुवोः॑ इत्यमरः । भ्रुवोर्मध्ये य आवर्तस्तत्रेत्यर्थः ।अन्तररान्तरेणे॑ति द्वितीया । दधातेः । डुधाञ् धारणादौ । अस्माद्यत् प्रत्ययः स्यात्तस्य नुडागमश्च ।धान्यं व्रीहिषु धान्याके॑ इति मेदिनी । जीर्यतेः । जृ वयोहानावस्मात् क्रिन्स्यात् । ऋत इद्धातोः ॑ । रपरत्वम् । रेफस्य वकारादेशः । मव्यतेः । मव्य बन्धने । अन्त्यस्येति । वकारस्येत्यर्थः । ऋजेः । ऋजी गतौ । तनोतेः । तनु विस्तारेऽस्माड्डौः प्रत्ययस्तस्य सन्वद्भावाद्द्वित्वमभ्यासस्येत्वं च । डित्त्वाट्टिलोपः । पृथगुच्चारणसामथ्र्याद्गुणो न । तितौः चालनी ।सक्तुमिव तितौना पुनन्तो यत्र धीरा मनसा वाचमक्रत॑ ।तितौः परपवनं भवति॑ इति पस्पशायां भाष्यम् ।चालनी तितौः पुमा॑नित्यमरः ।चालनं तितौन्युक्त॑मिति कोशान्तरम् ।स्याद्वास्तु हिङ्गु तितौ॑ इति पुंनपुंसकवर्गे त्रिकाण्डशेषः । अर्भक । एते निपात्यन्ते । निपातनप्रकारमेवाह — ऋधु वृद्धावित्यादि । प्रथेरिति । प्रथ प्रख्याने, पा पाने । पिवति स्तनादिकमिति पाकः ।पोतः पाकोऽर्भको डिम्भः पृथुकः शावकः शिशुः॑ इत्यमरः । अर्भकः कथितो बाले मूर्खेऽपि च कृशेऽपि च॑ ।पृथुकः पुंसि चिपिटे शिशौ स्यादभिधेयवत् ।पाकः परिणतौ शिशौ । केशस्य जरसा शौक्ल्ये स्थाल्यादौ पचनेऽपि च॑इति मेदिनी । अवद्य । एते कुत्सिते । निपात्यन्ते । वद व्यक्तायां वाचि, अव रक्षणादौ, ऋ गतौ,रिफ कत्थनयुद्धनिन्दाहिंसादानेषु ।निकृष्टप्रतकृष्टार्वरेफयाप्याऽवभाऽधमाः॑ इत्यमरः ।कुपूयकुसिताऽवद्यखेटगह्र्राऽणकाः समाः॑ इति च ।अधमः स्याद्गह्र्र ऊनेऽपि॑ इति मेदिनी ।अर्वा तुरङ्गमे पुंसि कुत्सिते वाच्यलिङ्गकः॑ ।रेफो रवर्णे पुंसि स्यात्कुत्सिते पुरन्यव॑दिति च मेदिनी । लीरीङोः । लीङ् श्लेषणे । रीङ् श्रवणे । क्रमादिति । श्लेषणे वाच्ये तप्रत्ययः, कुत्सिते वाच्ये रप्रत्यय इत्यर्थः ।लिप्तं विषाक्ते भुक्ते च वाच्यवत्स्याद्विलेपिते॑ इति विआः । क्लिशेः । क्लिशू विबाधने । नामागमश्चेति ।प्रत्ययस्ये॑ति शेषः । चिन्त्यमिति । ईत्वविधानसामथ्र्यादेव गुणाऽभावसिद्धेरिति भावः ।कीनाशः कर्षकः क्षुद्रोपांशुघातिषु वाच्यवत् । यमे ना॑ इति मेदिनी । अश्नोतेः । अशू व्याप्तौ अस्माद्वरट् स्यात् । ईआरी । आशुकर्म वरदानादिक्रिया यस्य तस्मिन्वाच्ये । शीघ्रदातरीत्यर्थः । ईआर इति । स्त्रियां तु टित्त्वान्ङीप् । ईआरी प्रत्ययस्वरेण मध्योदात्ता । ईशेर्वनिपिवनो र चे॑ति ङीब्रायोस्तु धातुस्वरेणाद्युदात्ता । पुंयोगलक्षणे ङीषि अन्तोदात्ता ।स्थेशभासपिसकसः॑इति वरचि तदन्ताट्टापि ईआरेति विवेकः ।ईआरो मन्मथे शम्भौ नाटए स्वामिनि वाच्यवत् । ईआरी चेआरोमाया॑मिति मेदिनी । ईआरा — उमायामिति छेदः ।ईआरः शङ्करेऽधीशे तत्पत्न्यामीआरीआरा॑ इति बोपालितः ।विन्यस्तमङ्गलमहौषधिरीआरायाः॑ इति भारविः । दशपादायं तु सूत्रान्तरमपिहन्ते रन् घश्चेति । हन हिंसागत्योरस्माद्रन्प्रत्ययः स्याद्धश्चान्तादेशः । हन्यते गम्यतेऽतिथिभिरिति घरः = गृहम् । चतेः । चते याचनेऽस्मादुरन्स्यात् । अकार उच्चारणार्थः ।चतुरनडुहोरामुदात्तः॑ इत्याम् । चत्वारः । प्राततेः । अत सातत्यगमने प्रपूर्वादस्मादरन्स्यात् । रेफादकार उच्चारणार्थः । स्वरादिपाठादव्ययत्वम् । प्रातर् । अमेः । अम गतिशब्दसंभक्तिषु, अस्मादरन्स्यात्तस्य तुडागमश्च । अन्तःशब्दोऽपि प्रातः शब्दवदव्ययम् । दहेः । दह भस्मीकरणे ।नगो महीरुहे शैले भास्करे पवनाऽशने॑ इति मेदिनी । सिचेः । षैच क्षरणे । हकारादेश इति । धातोरन्त्यस्येत्यर्थः ।सिंहः कण्ठीरवे राशौ सत्तमे चोत्तरस्थितः । सिंही क्षुद्रवृहत्योः स्याद्वासके राहुमातरि॑ इति विआः । व्याङि । घ्रा गन्धोपादानेऽस्माज्जातौ वाच्यायां कः स्यात् । कित्त्वादातो लोपः ।व्याघ्र स्यात्पुंसि शार्दूले रक्तौरण्डकरञ्जयोः । श्रेष्ठे नराद्युत्तरस्थः कण्टकार्यां च योषिति॑ इति मेदिनी । हन्तेः । हन्तेरच्स्याद्धातोर्घुरादेशश्च ।घोरं भीमे हरे॑ इति विआः । क्षमेः । क्षमूष् सहने ।क्ष्माऽवनिर्मेदिनी मही॑त्यमरः । तरतेः । तृ प्लवनतरणयोरस्मात् ड्रिः स्यात् । डित्त्वाट्टिलोपः । ग्रहेः । ग्रह उपादाने । ङीषिति ।कृदिकारा॑दित्यनेन ।ग्रहणी रुक् प्रवाहिका॑ इत्यमरः । प्रथेः । प्रथ प्रख्याने ।प्रथमस्तु भवेदादौ प्रधानेऽपि च वाच्यवत्, इति मेदिनी ।प्रथमचरमे॑ति वैकल्पिकसर्वनमत्वात्पक्षेः जसः शीभावः । प्रथमे प्रथमाः ।चरेश्च । चर गतिभक्षमयोरस्मादमच्स्यात् । चरमे चरमाः । योगविभागश्चिन्त्यप्रयोजनः ।प्रथिचरिभ्या॑मित्येव सुचवचम् । मङ्गेः । उख उखीत्यादिदण्डके गत्यर्थको मागः पठते ।कल्याणं मङ्गलं शुभम् । मङ्गलो ग्रहभेदः ।मङ्गला सितदूर्वायामुमायां पुंसि भूमिजे । नपुंसकं तु कल्याणे सर्वार्थे रक्षणेऽपि च॑ इति मेदिनी । भावे ष्यञि — माङ्गल्यम् ।तत्र साधुः॑ इति यत् ।मङ्गल्यः स्यात्रायमाणाऽआत्थबिल्वमसूरके । स्त्रियां शम्यामधःपुष्प्यां मिसिशुक्लवचासु च । रोचनायामथो दध्नि क्लीबं शिवकरे त्रिषु॑ इति मेदिनी । इत्युणादिषु पञ्चमः पादः ।उणादिप्रत्ययाः सन्ति पादोत्तरशतत्रयम् (३२५) । तेषां विवेचनं त्वत्र ज्ञानेन्द्रस्वामिभिः कृतम्॥१॥प्राचा तु कतिपयानामेवोणादीनामुपन्यासः कृतो न तु सर्वेषां , सोऽप्युपन्यासो नैकप्रघट्टकतया कृतः, किंतु विच्छिद्येति स्पष्टम् । तत्रापि केचित्प्रमादा मनोरमायां प्रदर्शितास्तेष्वेव कांश्चित्प्रमादान्दर्शयामः । [ द्वितीयपादे — ] ।भजो ण्वि#उ#ः॑ इति ण्विप्रकरणेछन्दसि सहः॑वहश्चे॑त्युपन्यस्यपरौ व्रजेः षः पदान्ते॑ इति ण्विस्तेनैव षः, परिव्राडित्ययं हि प्राचो ग्रन्थः । तद्व्याख्यायां तत्पौत्रेणपचपाद्युणादिसूत्रे इदं पठते॑ इत्युक्तं, तदुभयमपि प्रामादिकम् ।क्विब्बवची॑ति क्विब्दीर्घौ हि प्रक्रम्यपरौ व्रजे॑ रिति सूत्रस्य पाठात् । अस्मिन्नंशे पञ्चपादीदशपाद्योरेकवाक्यत्वात् ।[यदपि प्राचो ग्रन्तोऽपि प्रयुक्तः । सूत्रारूढे सर्वसंमते चार्थे केचिदित्युक्तेरप्रामाणिकत्वात् । ] । यदपिधनर्तिचक्षिङ्वपितपिजनियजेरुस् इति पठितं, तदप्यनाकरम् । तथा हि — जनेरुसिःरटअर्तिपृवपियजितनिधनितपिभ्यो नित् ।एतेर्णिच्च॑ ।चक्षेः शिच्चे॑ति सर्वसंमतः पाठः,तपूंषि तस्मै वपुषो वपुष्टर॑मित्यादिमन्त्रेषु आद्युदात्तताया अनुकूलश्च । वेदबाष्ये एवमेव स्थितम् । इत्यादयो द्वितीयपादे प्रमादाः । तृतीयपादेऽपि — ॒स्तनिदूषिपुष#इगदिमदिह्मदिभ्यो णेरित्नु॑ञिति प्राचा पठितं , तत्र दूषिह्मदी केषामपि वृत्तिकृतां ग्रन्थे न पठितौ । दूषयित्नुः ह्मदयिन्नुरिति प्रयोगोऽप्याकरे न दृष्टः ।स्तनिह्मषिपुषिमुदिगदिमदिभ्य॑ इति हि पञ्चपादीपाठः ।घुषिगन्धिमण्डिजनिनमिभ्यः॑ इति दशपाद्यामधिकं पठितमित्यन्यदेतत् । यदपिश्रुदक्षिस्पृहिद्दृगृहिजृभ्य आय्यः॑ इति पठित्वा दराय्य जराय्य इति प्राचोक्तं, तदपि न, दृजृग्रहणस्याऽकरानारूढत्वात् । [यदपिजृविशिभ्यां झच्गण्डिमण्डिजनिनन्दिभ्यस्चे॑त्युक्त्वा गण्डयतो जनयन्त इत्युदाह्मतं प्राचा, यच्च गण्डयन्त इति प्रतीकमुपाया मेघनामेदमिति व्याख्याय गडि वदनैकदेशे इति व्याख्यातृभिर्विवृतं, तत्सर्वं प्रामादिकम् । तथाहि उणादिषु गडीति निरनुषङ्गं पठित्वा गड सेचने इति विवृतं,अयामन्ते॑ ति सूत्रे वृत्तिन्यासहरदत्तादिसकलग्रन्थेष्वेवं , माधवग्रन्थेष्वेवं, माधवग्रन्थेऽप्येवमेव.युक्तं चैतत् । मेघ इति व्याख्यानं प्रति सेचनार्थस्यैवाऽनुगुणत्वात् । जनेः पाठोऽप्यप्रामाणिकः । जिधातुं पठित्वाजयन्तः पाकशासनि॑ रिति सर्वैर्विवृतत्वात्, जनयन्त इति लक्ष्यस्य कैरपि अप्रदर्शितत्वात् । अप्रसिद्धत्वाच्च] इत्यादयस्तृतीयपादे प्रमादाः ।अथ चतुर्थे — यदपिकृगृस्तृजागृभ्यः क्विन् । कीर्विः गीर्विः स्तीर्वि॑रिति प्राचोक्तं, तदपि लिपिभ्रमप्रयुक्तमेव । कृ विक्षेपे, गृ निगरणे, स्तृञ् आच्छादने इति प्राचो ग्रन्थं विवृण्वतामुक्तिरपि मूलाऽशुद्ध्यैवाऽशुद्धा ।जृशृस्तृजागृभ्यः क्विन् इति हि पाठ उणादिवृत्तिकृतां माधवादीनां च संमतः । जीर्विः पशुः । शीर्विर्हिरुआः । स्तीर्विरध्वर्युरिति च तद्ग्रन्थेषूपपादितम् । स्तृ इत्यस्य दीर्घान्तत्व एवहिऋत इद्धातोः॑ इतीत्वं लभ्यते न तु ह्यस्वान्तत्वेऽपि , तस्माद्यथाकरमेव हि ग्रहीतुमुचितमिति दिक् । यदपि प्राचोक्तं — ॒ग्लाज्याहात्वरिभ्यो निः॑ इति, तदप्यनाकरम् । आकरे हिवीज्याज्वरिभ्यो निः॑ इति पठित्वा सूत्रद्वयानन्तरंवहिश्री॑ति सूत्रेग्लाहात्वरिभ्यो निः॑ इति, तदप्यनाकरम् । आकरेहिवीज्याज्वरिभ्यो निः॑ इति पठित्वा सूत्रद्वयानन्तरंवहिश्री॑ ति सूत्रेग्लाहात्वरिभ्यो नि॑दिति सूत्रितत्वात् ।तूर्णी॑रथः सदानवः॑ इत्यादावद्युदात्तदर्शनाच्च । नचस्त्रियां क्ति॑ न्नित्यधिकारस्थं वार्तिकमेवेदं प्राचोदाह्मतं न तूणादिसूत्रस्तमिति वाच्यम्, एवमपि त्वरतेः पाठस्याऽनुचितत्वात् । न ह्रसौ वार्तिकेऽस्तीति दिक् । एवंसंस्त्याने स्त्यायतेर्ड्र॑ डित्यपि प्राचोदाह्मतमनाकरम् ।स्त्यायतेर्ड्र॑ डित्येव सूत्रस्याकरे पञ्चपाद्यां दशपाद्यां चोपलम्भात् ।संस्त्याने स्त्यायतेर्ड्रट् स्त्री सूतेः सप्प्रसवे पुमान्इति भाष्ये श्लोकपाठः, [स एव माधवेनोपन्यस्तो] न तु सूत्रपाठस्य तथात्वं दृश्यते, एवं तद्ग्रन्थव्याख्यातृणामपि प्रमादा ऊह्राः । तद्यथापाणिन्यादिमुनी॑ति व्याचक्षाणैरुक्तम्मनेरुच्चोपधायाः॑ इति, न ह्रेवंविधं सूत्रं पञ्चपाद्यां दशपाद्यां वास्ति, अत इत्यनुवर्तमानेमनेरुच्च॑ इत्येव सूत्रितत्वादिति दिक् । इति चतुर्थपादे प्राचः प्रमादाः । इत्युणादयः ।इति तत्त्वबोधिन्याम् उणादयः॥अथ उत्तरकृदन्तम् ।उणादयो बहुलम् ।वर्तमाने ल॑डित्यतो वर्तमानग्रहणं,पुवः संज्ञाया॑मित्यतः संज्ञाग्रहणं चानुवर्तते । तदाह — एते इति । अत्र हि सूत्रेधातोःर॑प्रत्ययः॑कृदिति॑ङति चानुवर्तते, तेनकृवापाजिमी॑त्यादिना विहितानामष्टाध्यायीबहिर्भूतानामप्युणादीनां प्रत्ययसंज्ञा, कृत्संज्ञा च सिध्यति । तथा चोणादिप्रत्ययाः सर्वे धातोः परत्रकर्तरि कृ॑दिति कत्र्रर्थे भवन्ति । उणादिप्रत्ययान्तस्यकृत्तद्धिते॑ति प्रातिपदिकसंज्ञायां खाद्युत्पत्तिरित्यादिसर्वमपीष्टं सिध्यति । अपरिपूर्णानामुणादीनां परिपूरणार्थं बहुलग्रहणम् । तस्य फलमाह — केचिदविहिता अपीति । ह्मषेरुलज्विहितः, स तु शङ्केरपि भवति, शङ्कुलेति प्रयोगदर्शनात् । किच्च फिडफिड्डप्रत्ययौ कुत्रापि न विहितौ अर्तेरुह्रेते ऋफिडः ऋफिड्ड इति, तयोः कित्तवं च कल्प्यते । तथा षण्ढ इत्यत्र सत्वाऽभावश्चेत्यादि । संज्ञास्विति । अनादिसंज्ञास्वेव, न तु सर्वास्वित्याहुः ।ह्मषेरुल॑जिति प्रत्ययं दृष्ट्वा शङ्किः प्रकृतिरुह्रते । तेन शङ्कुलेति सिद्धम् । ऋ गतावित्यादिभ्यः फिडाफिड्डादिप्रत्यया गृह्रन्ते । कार्याद्विद्यादिति ।ऋफिड॑ इत्यादौ गुणप्रतिषेधादिकार्यानुरोधादनुबन्धं ककारादिकं विद्यात् । अनूबन्धमित्यत्रउपसर्गस्य घञी॑ति दीर्घः । एतदुणादिषु शास्त्रं = शासितव्यमित्यर्थः ।
लघुसिद्धान्तकौमुदी
-
महाभाष्यम्
Text Unavailable. Please use feedback link below to provide the text if you have.