Page loading... Please wait.
8|3|106 - पूर्वपदात्‌
॥ तस्मै पाणिनये नमः ॥
8|3|106
SK 3643
पूर्वपदात्‌   🔊
सूत्रच्छेदः
पूर्वपदात् (पञ्चम्येकवचनम्)
अनुवृत्तिः
-
अधिकारः
पूर्वत्रासिद्धम्  8|2|1 संहितायाम्  8|2|108 अपदान्तस्य मूर्धन्यः  8|3|55 इण्कोः  8|3|57
सम्पूर्णसूत्रम्
Will be updated soon
सूत्रार्थः
Will be updated soon.
One-line meaning in English
Will be updated soon.
काशिकावृत्तिः
छन्दसि इति वर्तते, एकेषाम् इति च। पूर्वपदस्थान्निमित्तात् परस्य सकारस्य मुर्धन्यादेशो भवति छन्दसि विषये एकेषामाचार्याणां मतेन। द्विषन्धिः। द्विसन्धिः। त्रिषन्धिः, त्रिसन्धिः। मधुष्ठानम्, मधुस्थानम्। द्विषाहस्रं चिन्वीत, द्विसाहस्रं चिन्वीत। असमासे ऽपि यत् पूर्वपदं तदपि इह गृह्यते। त्रिः षमृद्धत्वाय, त्रिः समृद्धत्वाय।
`द्विषन्धिः` इति। षष्ठीतत्पुरुषः, बहुव्रीहिर्वा। `मधुष्ठानम्? इति। षष्ठीसमासः। `द्विवाहरुआम्` इति। द्वयोः सहरुआयोर्भव इति तद्धितार्थे समासः। `तत्र भवः` 4|3|53 इत्यण्; `संख्यायाः संवत्सरसंख्यस्य च` 7|3|15 इत्युत्तरपदवृद्धिः। अथेह कथं षत्वम्--त्रिः षमुद्धत्वायेति? यावता समासे यत्? पूर्वपदं तत्र पूर्वपदशब्दो रूढः; न चायं समासः; किं तर्हि? वाक्यम्? इत्यतद आह--`असमासेऽपि` इत्यादि। कथं पुनरेतल्लभ्यते? व्यवस्थावचनस्येह पूर्वपदस्याश्रयणात्। यथैव हि पूर्वशब्दो लोको रूढिभादाय क्वचित्? तु समुदाये वत्र्तते--पूर्वपञ्चाला इति, क्वचिद्व्यवस्थायाम्--अस्मात्? पूर्वं इति वा; तथा शास्त्रेऽपि। तत इह व्यवस्थाशब्दो गृह्रते। कुतः? व्याप्तेः। रूढिशब्द एव गृह्रमाणे समास एव स्यात्? नासमासे। व्यवस्थाशब्दे तु सर्वत्र भवति॥
गोषा इति । ठ्जनसनखनक्रमगमो विट्ऽ, ठ्विड्वनोरनुनासिकस्यात्ऽ । क्वचित्विदमपि वृतावेवास्ति । गोसनिमिति । ठ्च्छन्दसि वनसनरक्षिमथाम्ऽ इतीन्प्रत्यः । सिसानयिषतीति । यद्यप्यण्यन्तः सूत्र उपातः, तथाप्यण्यन्तस्य प्रतिषेधवचने प्रयोजनं नास्तीति कृत्वा ण्यर्थो विज्ञास्यते । इह तु सिसनीयतीति स्तौतिण्योरेव षणीत्येतस्मान्नियमादप्रसङ्गः षत्वस्य । सिसनीरिति । क्विप्यतो लोपः, ततः सुः, हल्ङ्यादिलोपः, सनः सकारस्य षत्वं प्राप्नोति रुत्वं च, तत्र षत्वस्यासिद्धत्वाद्रुत्वम्, र्ठ्वोरुपधाया दीर्घःऽ इति दीर्घत्वम् । अत्र सन् षत्वभूतो न भवतीति स्तौतिण्योरेवेत्यस्य नियमस्यायमविषय इति षत्वं प्रसक्तम्, अस्मान्नियमान्न भवति । एतस्मिंश्च प्रयोजने सति सामर्थ्याभावाद् ण्यन्तस्य नियमाभावात् सिषाणयिवतीति षत्वं भवत्येव ॥
सिद्धान्तकौमुदी
पूर्वपदस्थान्निमित्तात्परस्य सस्य षो वा । यदिन्द्राग्नी दिविष्ठः (यदि॑न्द्राग्नी दि॒विष्ठः) । युवं हि स्थः स्वर्पती (यु॒वं हि स्थः स्व॑र्पती) ।
Text Unavailable. Please use feedback link below to provide the text if you have.
Text Unavailable. Please use feedback link below to provide the text if you have.
लघुसिद्धान्तकौमुदी
-
महाभाष्यम्
Text Unavailable. Please use feedback link below to provide the text if you have.