Page loading... Please wait.
8|2|89 - प्रणवष्टेः
॥ तस्मै पाणिनये नमः ॥
8|2|89
SK 3608
प्रणवष्टेः   🔊
सूत्रच्छेदः
प्रणवः (प्रथमैकवचनम्) , टेः (षष्ठ्येकवचनम्)
अनुवृत्तिः
-
अधिकारः
पदस्य  8|1|16 पूर्वत्रासिद्धम्  8|2|1 वाक्यस्य टेः प्लुतः उदात्तः  8|2|82
सम्पूर्णसूत्रम्
Will be updated soon
सूत्रार्थः
Will be updated soon.
One-line meaning in English
Will be updated soon.
काशिकावृत्तिः
यज्ञकर्मणि इति वर्तते। यज्ञकर्मणि तेः प्रणवः आदेशो भवति। क एष प्रणवो नाम? पादस्य वा अर्धर्चस्य वा अन्त्यम् अक्षरम् उपसंगृह्य तदाद्यक्षरशेषस्य स्थाने त्रिमात्रमोकारम् ओङ्कारं वा विदधति तं प्रणव इत्याचक्षते। अपां रेतांसि जिन्वतो3म्। देवान् जिगाति सुम्न्यो3म्। टिग्रहणं सर्वदेशर्थम्। ओकारः सर्वादेशो यथा स्यात्, व्यञ्जनान्ते अन्त्यस्य मा भूतिति। यज्ञकर्मणि इत्येव, आपं रेतांसि जिन्वति।
`क एष प्रणवो नाम` इति। इह शास्त्रे प्रणवस्यापरिभाषितत्वाल्लोके चाप्रसिद्धत्वात्? प्रश्नः। `पादस्य वा` [`पादस्य चेल्यादिना`--प्रांउ।पाठः] इत्यादिना शास्त्रान्तरपरिमाषया प्रणवस्वरूपं दर्शयति। `वान्त्यमक्षरम्` इति। स्वरोऽत्राक्षरशब्देन विवक्षितः। अन्त्यत्वं पुनस्तस्येतरस्वरापेक्षयः। `उपसंगृह्र` इति। गृहीत्वेत्यर्थः। तदन्त्यमक्षरमादौ यस्याक्षरशेषस्य तत्? तदादि। अक्षरञ्च शेषञ्चेति [इति--नास्ति प्रांउ।पाठे] समाहारे द्वन्द्वः। अक्षरं स्वरः, तस्य शेषः व्यञ्जनम्, तदाचि च तदक्षरशेषञ्च, तदक्षरशेषं यत्रान्त्यात्? स्वरात्? परं व्यञ्जनं नास्ति तत्र स एव। तदादि तस्य बहुव्रीहेरन्यपदार्थः। व्यपदेशिवद्भावेन तत्रापि तदादिव्यपदेशो भवति। यत्रान्त्यात्? स्वरात्? परं व्यञ्जनमस्ति तत्र सह स्वरेण व्यञ्जनमन्यपदार्थः; तद्गुणसंविज्ञानस्य बहुव्रीहेरिहाश्रितत्वात्। योऽयमनेन ग्रन्थेन टिसंज्ञक एवोक्तो भवति तद्व्यक्षरशेषस्य ल्थाने यत्? त्रिमात्रनोकारम्, ओङ्कारं वा विदवाति तत्? प्रणवं कथयन्ति। `जिन्वतो3म्` इति। जयतेः परस्य लट्, तस्य शत्रादेशः, व्यत्ययेन श्नुप्रत्ययः, यणादेशः; जिन्वन्निति स्थितेऽन्शब्दस्यान्त्याक्षरादेः प्रणवः। `सुम्नयो3म्` इति। सुम्नशब्दात्? क्यच्, `क्याच्छब्दसि` 3|2|170 इति उप्रत्ययः, `देवसुम्नयोर्यजुषि काठके` 7|4|38 इति आभावः, सुम्नाअयुस्? इति स्थिते उसित्यस्यान्त्याक्षरादेः प्रणवः।ननु च टिस्थानिकयोरेव त्रिमात्रयोरोकारौकारयोः प्रणव इति परिभाषा कृता। तत्रान्तरेणापि टिग्रहणं टेरेव भविष्यति, तत्? किं टिग्रहणेन? इत्यत आह--`टिग्रहणम्` इत्यादि। असत्यत्र टिग्रहणे व्यञ्जनान्तेष्वलोऽन्त्यपरिभाषयाऽ 1|1|51 न्त्यस्यैव स्यात्। अतष्टिग्रहणं क्रियते--सर्वस्यैव टेर्यथा स्यादिति। `अन्त्यस्य मा भूत्` इति। ओङ्कारस्यानेकाल्त्वात्? सर्वादेशो भविष्यतीत्योकारार्थं टिग्रहणम्॥
क एष प्रणवो नामेति । इह शास्त्रेऽपरिभाषितत्वात्प्रश्नः । पादस्येति । शास्त्रान्तरप्रसिद्ध आश्रीयते, देवतावत्, अक्षरमच्, अन्त्यमचं गृहीत्वेत्यर्थः । तदाद्यक्षरशेषस्येति । अक्षरं च शेषश्च हल् अक्षरशेषम्, तदन्त्यमक्षरमादिर्यस्य ततदादि, तदादि च तदक्षरशेषं त तदाद्यक्षरशेषं तस्य टेरिति । त्रिमात्रमिति । केचिन्मकारेण सह त्रिमात्रमिच्छन्ति, अन्ये भागमेव । तत्र आआकारविधिः सामिधेन्यादिषु प्रसिद्धः--स्वरादिमृगन्तमोकारं त्रिमात्रं मकारान्तं कृत्वोतरस्य अर्धे अवस्येदिति; आआकाराविधिस्तु निनर्देअ स्वरादिरन्त ओङ्कारश्चतुर्न्निनर्द इति । आथर्वणिकास्तु सर्वत्र चानयोविकल्पमिच्छन्ति, तेषामेव चेदं सूत्रं पठितम् । जिन्वतो3मिति । ठ्जिविः प्रीणानार्थःऽ, लट्, तिप् । टेरिति वर्तमान इत्यादि । असति टिग्रहणे ठलोऽन्त्यस्यऽ इति वचनाट्टेर्योऽन्त्याल् तस्योकारः स्यात् । व्यभिचाराभावाद्धि प्रणवः प्लुतत्वेन विशेष्यते । संज्ञया विधाने चाच्परिभाषा प्रवर्तते, न वस्तुतस्त्रिमात्रविधाने । तस्माद्धल एव प्राप्नोति । अथाच्परिभाषोपस्थानार्थमेव प्लुतत्वेन प्रणवो विशेष्येत ? तथापि टेर्योऽच् तस्यैव स्यात्, न तु सर्वस्य टेः । आआकारस्त्वझल्समुदायत्वात् प्लुतो न भवतीति सर्वस्य टेः सिध्यति; ठ्वाक्यस्य टेःऽ इत्यधिकारात् ? सत्यम्; टिस्था निकस्यैव त्वोङ्कारस्य प्रणवसंज्ञत्वात् कथमन्त्यस्याचो वा प्रसङ्ग इति चिन्त्यम् ॥
सिद्धान्तकौमुदी
यज्ञकर्मणि टेरोमित्यादेशः स्यात् । अपां रेतांसि जिवन्तो3म् (अ॒पां रेतां॑सि जिवन्तो3म्) । टेः किम् । हलन्ते अन्त्यस्य माभूत् ।
Text Unavailable. Please use feedback link below to provide the text if you have.
Text Unavailable. Please use feedback link below to provide the text if you have.
लघुसिद्धान्तकौमुदी
-
महाभाष्यम्
प्रणवष्टेः प्रणव इत्युच्यते कः प्रणवो नाम?।। पादस्य वाऽर्द्धर्चस्य वाऽन्त्यमक्षरमुपसंहृत्य तदाद्यक्षरशेषस्य स्थाने त्रिमात्रमोङ्कारं त्रिमात्रमोकारं(1) वा विदधति तं प्रणव(2) इत्याचक्षते।। अथ टिग्रहणं किमर्थम्?।। टिग्रहणं सर्वादेशार्थम्।। झ्र्टिग्रहणं(2) क्रियते।। किं प्रयोजनम्?।। सर्वादेशार्थम्ट। यदा ओकारस्तदा सर्वादेशो यथा स्यात्। यदाझ्र्हि(3)ट ॐकारस्तदाऽनेकाल्शित्सर्वस्येति सर्वादेशो भविष्यति।। झ्र्प्रणवष्टेःट