Page loading... Please wait.
8|2|81 - एत ईद्बहुवचने
॥ तस्मै पाणिनये नमः ॥
8|2|81
SK 438
एत ईद्बहुवचने   🔊
सूत्रच्छेदः
एतः (षष्ठ्येकवचनम्) , ईत् (प्रथमैकवचनम्) , बहुवचने (सप्तम्येकवचनम्)
अनुवृत्तिः
-
अधिकारः
पदस्य  8|1|16 पूर्वत्रासिद्धम्  8|2|1
सम्पूर्णसूत्रम्
Will be updated soon
सूत्रार्थः
Will be updated soon.
One-line meaning in English
Will be updated soon.
काशिकावृत्तिः
अदसो दकारादुत्तरस्य एकारस्य ईकारादेशो भवति, दकारस्य च मकारः, बहुवचने बहूनामर्थानामुक्तौ। अमी। अमीभिः। अमीभ्यः। अमीषाम्। अमीषु। बहुवचने इत्यर्थनिर्देशो ऽयम्, पारिभाषिकस्य हि बहुवचनस्य ग्रहणे अमी इत्यत्र न स्यात्।
`बहुवचन इत्यर्थविर्देशोऽयम्` इति। अन्वर्थनिर्देश इत्यर्थः। एतदुक्तं भवति--नेदं पारिभाषिकस्य बहुवचनस्य ग्रहणम्, किं तर्हि? अन्वर्थस्य ग्रहणम्--बहुनामर्थानामुक्तिः बहुवचनमिति। किं कारणमेवं व्याख्यातम्? इत्याह--`पारिभाषिकस्य हि` इत्यादि। यदि पारिभाषिकस्य बहुवचनस्येदं ग्रहणं स्यात्, अमी इत्यत्र न स्यात्। न ह्रत्रैकारात्? परं पारिभाषिकं बहुवचनमस्ति। अन्वर्थग्रहणे त्वत्रापि बहुनामर्यानामभिधानमस्तीति सिध्यति। अन्वर्थग्रहणं तु व्याप्तिन्यायाल्लभ्यते--एव इति एकारस्य स्थानिवत्त्वं यथा विज्ञायेत। `एः` इत्युच्यमाने, इकारस्यापि स्थानित्वमाशङ्क्येत। किञ्च स्यात्? अद्रआदेशे कृते तदवयव स्येकारस्य यणादेशो बाधितः स्यात्। ईदिति तकारो मुखसुखार्थः॥
अर्थनिर्दशोऽयमिति । व्याप्तेर्न्यायात् । किं पुनः कारणमेवं व्याख्यायते ? इत्यत आह---पारिभाषिके इति । तदा हि ठ्तस्मिन्निति निर्दिष्टे पूर्वस्यऽ इति परिभाषोपस्थानाद्वहुवचने परत एकारस्येत्वेन भवितव्यम्, न चात्र बहुवचनं परम् ॥
सिद्धान्तकौमुदी
अदसो दात्परस्यैत ईत्स्याद्दस्य च मो बह्वर्थोक्तौ । अमी । पूर्वत्रासिद्धम् (कौमुदी-12)इति विभक्तिकार्यं प्राक् पश्चादुत्वमत्वे । अमुम् । अमू । अमून् । मुत्वे कृते घिसंज्ञायां नाभावः ॥
एत ईद्बहुवचने - तत्र दकारादेकारस्य ऊत्त्वे प्राप्ते एत ईत् ।अदसोऽसेर्दादु दो मः॑ इत्यस्मात्अदसो दा॑दिति "दो मः" इति चानुवर्तते । तदाह-अदस इत्यादिना । बह्वर्थोक्ताविति । सूत्रे बहुवचनशब्दो यौगिकः । पारिभाषिकस्य ग्रहणे तु अमीभिरित्यादिसिद्धावपि अमी इति न सिध्येत्, "अदे" इत्येकारस्य बहुवचनतया तत्परकत्वाऽभावादिति भावः । ननु औजसादिषु त्यदाद्यत्वे पररूपे च उत्त्वमत्वयोः कृतयोरमुऔ अमुअः इत्यादि स्यात् । मुत्वस्याऽसिद्धत्वान्नयणित्याशङ्क्य आह — पूर्वत्रेति । विभक्तिकार्यमिति । त्यदाद्यत्वादिकमित्यर्थः । यदि तु पूर्वत्रासिद्ध मित्यत्रकार्याप्रवृत्तेरावश्यकतया परत्वात्रैपादिके मुत्वे कृते सति उत्वस्थानिनोऽकारस्यापहारे सति, पश्चान्मुत्वेऽभावप्रतियोगित्वारोपेऽपिदेवदत्तस्य हन्तरि हते सति देवदत्तस्य न पुनरुन्मज्जन॑मिति न्यायेन स्थानिभूतस्य दकारादकारस्याऽभावाद्वृद्धिगुणादि न स्यात् । शास्त्राऽसिद्धत्वपक्षे तु यद्यत्रैपादिकं शास्त्रं प्रवृत्त्युन्मुखं तत्तच्छास्त्र एवाऽभावारोपसम्भवात्पूर्वशास्त्रप्रतिबन्धकस्य परशास्त्रस्य उच्छेदबुद्दौ सत्यांविप्रतिषेधे परं कार्य॑मिति न प्रवर्तते । तदुक्तंपूर्वत्रासिद्धे नास्ति विप्रतिषेधोऽभावादुत्तरस्ये॑ति । ततश्च स्थानिनोऽकारस्य निवृत्त्यभावाद्वृद्धिगुणादिप्रवृत्तिर्निर्बाधा । एतच्चपूर्वत्रासिद्ध॑मित्यत्र "अचः परस्मिन्" इत्यत्र "षत्वतुकोरसिद्धः" इत्यत्र च भाष्ये स्पष्टम् । प्रपञ्चितं च शब्देन्दुशेखरे शब्दरत्ने च इत्यास्तां तावत् । अमुमिति । अदस् अम् इति स्थिते त्यदाद्यत्वं, पररूपम्, अमि पूर्वः, उत्वमत्वे इति भावः । अमू इति । द्वितीयाद्विवचनं प्रथमाद्विववचनवत् । अमूनिति । शसि, त्यदाद्यत्वं, पररूपं, पूर्वसवर्णदीर्घः, नत्वम्, उत्वमत्वे इति भावः । तृतीयैकवचने अदस् आ इति स्थिते त्यदाद्यत्वं, पररूपम्, उत्वमत्वे च सिद्धवत्कृत्याह — नाभाव इति ।शेषो घ्यसखी॑ति घिसंज्ञायाम्आङो नाऽस्त्रिया॑मिति नाभाव इत्यर्थः । ननुपूर्वत्रासिद्ध॑मिति विभक्तिकार्यं प्राक्पश्चादुत्वमुत्वे इति प्रागुक्तम् । सम्प्रति तु मुत्वे कृते घिसंज्ञायां नाभाव इत्युच्यते । तदिदं पूर्वाऽपरविरुद्धमिति चेत्सत्यम् । यद्विभक्तिकार्यं प्रति मुत्वं निमित्तं न भवति, तदेव विभक्तिकार्यं प्राक् भवति, न त्वन्यदिति विवक्षितम् । इह च नाभावं प्रति मुत्वं निमित्तमिति प्रथमं मुत्वप्रवृत्तेरविरोधः, "न मु ने" इत्यारम्भसामथ्र्यादित्यलम् ।
एत ईद्बहुवचने - एत ईद्बहुवचने । परिभाषिकस्य बहुवचनस्य ग्रहणेअमीभि रित्यादिसिद्धावपि जसुअमी ति न सिध्येत् । न ह्रत्र एकारस्य बहुवचनपरताऽस्र्ति । अतो व्याचष्टे — बह्वार्थोक्ताविति । विभक्तिकार्य प्रागिति ।त्यदादीनामः॑इत्यादिसपादसप्ताध्यायीं प्रतिअदसोऽसे॑रिति त्रैपादिकसास्त्रस्याऽसिद्धत्वात्, अकृते विभक्तिकार्ये सान्तत्वादुत्वमत्वयोरप्रवृत्तेश्चेति भावः । यदि तुपूर्वत्रासिद्ध॑मित्यत्र कार्याऽसिद्धत्वमिष्येत, तर्हिअमू॒॑अमु॑मित्यादि न सिद्ध्येत् । त्यदाद्यत्वे कृते पररूपात्प्रागेवोत्वमत्वयोः कृतयोः पश्चान्मुत्वकार्यस्याऽसिद्धतयाअतो गुणे॑इति पररूपेअमौ॑इत्यादि रूपसिद्धिपर्सङ्गात् । किंच चर्म वस्तेचर्मवः॑, सुष्टु वस्तेसुवः॑ । अत्र परत्वात्स्कोरिति सलोपे तस्याऽसिद्धत्वा४द्धल्ह्रादिलोपे उक्तरूपं न सिध्यतीति कार्यऽसिद्धि पक्षो हेय एव । अत्र वदन्ति — ॒सपादसप्ताध्याय्यां विहितं कार्यं प्रति त्रिपाद्यां विहितमसिद्ध॑मिति प्रक्रियाग्रन्थोक्तकार्याऽसिद्धिपक्षेमनोरथः॑अमु॑मित्यादि न सिद्ध्येदिति केचुत् । तन्न । प्रक्तियाग्रन्थोक्तेर्हि कार्य प्रति — कार्ये कर्तव्ये, असिद्धं — पूर्वमेव न जातमित्यर्थः । शस्त्राऽसिद्धत्वेऽप्येवमेव फलितोऽर्थः । तदुक्तं कैयटेन — -॒यच्छास्त्रमुच्चारितं तस्याऽसिद्धत्वमशक्यं कर्तुमित्यसिद्धवचनादतिदेश आश्रीयते॑इति । तथा चातिदशेन कार्याऽप्रवर्तकत्वरूपोऽसिद्धधर्मः शास्त्रेऽतिदिश्यमानः कार्याऽसिद्धत्व एव फलति । एवं चमनोरथ॑इत्यत्र उत्वे कर्यव्ये रेफलोपस्य पूर्वमेवाऽप्रवृत्तौ रोरुत्वस्याऽपर्तीघातान्मनोरथसिद्धिरप्त्यूहा । तथाअमु॑मित्यादिसिद्धिरिति कार्याऽसिद्धपक्षे न काप्यनुपपत्तिरिति ।
लघुसिद्धान्तकौमुदी
अदसो दात्परस्यैत ईद्दस्य च मो बह्वर्थोक्तौ। अमी। पूर्वत्रासिद्धमिति विभक्तिकार्यं प्राक् पश्चादुत्वमत्वे। अमुम्। अमू। अमून्। मुत्वे कृते घिसंज्ञायां नाभावः॥
महाभाष्यम्
एत इर्द्बहुवचने ।।ःथ्द्य;र्त्वं बहुवचनान्तस्य।। इर्त्वं बहुवचनान्तस्येति वक्तव्यम्। बहुवचन इतीयत्युच्यमाने इहैव स्यात् ‐ अमीभिः अमीषु। इह न स्यात्-अमी अत्र, अमी आसते इति(5)।। तत्तर्हि वक्तव्यम्?।। न वक्तव्यम्।नेदं पारिभाषिकस्य बहुवचनस्य ग्रहणं ।।किं तर्हि?।। अन्वर्थग्रहणमेतत्। बहूनामर्थानां वचनं बहुवचनं, बहुवचन इति।। झ्र्एत इर्द्बहुट।