Page loading... Please wait.
8|2|79 - न भकुर्छुराम्
॥ तस्मै पाणिनये नमः ॥
8|2|79
SK 1629
न भकुर्छुराम्   🔊
सूत्रच्छेदः
(अव्ययम्) , भकुर्छुराम् (षष्ठीबहुवचनम्)
अनुवृत्तिः
-
अधिकारः
पदस्य  8|1|16 पूर्वत्रासिद्धम्  8|2|1
सम्पूर्णसूत्रम्
Will be updated soon
सूत्रार्थः
Will be updated soon.
One-line meaning in English
Will be updated soon.
काशिकावृत्तिः
रेफवकारान्तस्य भस्य कुर् छुरित्येतयोस् च दीर्घो न भवति। धुरं वहति धुर्यः। धुरि साधुः धुर्यः। दिव्यम्। कुर् कुर्यात्। छुर् धुर्यात्। रेफवकाराभ्यां भविशेषणं किम्? प्रतिदीव्ना। प्रतिदीव्ने।
`हालि च` 8|2|70 इति दीर्घत्वे प्राप्ते प्रतिषेधोऽयमारभ्यते। `धुर्यः` इति। `धुरं वहतीति `धुरी यङ्ढकौ` 4|4|77 इति यत्। `कुर्यात्` इति। करोतेलिङ्, `तनादिकृञ्भ्य उ` 3|1|79 , धातोर्गुणः, रपरत्वम्, `अत उत्? सार्वधातुके` 6|4|110 इत्युत्त्वम्, `ये च` 6|4|109 इत्युकारलोपः। `कुर्यात्` इति। आशिषि लिङ्। करोतेर्विकरणेन निर्देशश्चिकीर्षतीत्यत्र प्रतिषेधो मा भूवित्येवमर्थः॥
छुर्यादिति । ठ्छुर छेदनेऽ, आशिषि लिङ् । प्रतिदीव्नेति । योऽत्र वकारान्तो नासौ भसज्ञकः, यश्च भसंज्ञो नासौ वकारान्तः, किं तर्हि ? नकारान्तः ॥
सिद्धान्तकौमुदी
भस्य कुर्च्छुरोश्चोपधाया दीर्घो न स्यात् । धुर्यः । धौरेयः ॥
न भकुर्छुराम् - न भकुर्छुराम् । "र्वोरुपधायाः" इत्यत "उपधाया" इति दीर्घ इति चानुवर्तते । तदाह — भस्येत्यादिना ।धूर्वहे धुर्यधौरेयधुरीणाः॑ इत्यमरः ।
Text Unavailable. Please use feedback link below to provide the text if you have.
लघुसिद्धान्तकौमुदी
भस्य कुर्छुरोश्चोपधाया इको दीर्घो न स्यात्। धुर्यः। धौरेयः॥
महाभाष्यम्
Text Unavailable. Please use feedback link below to provide the text if you have.