Page loading... Please wait.
8|2|76 - र्वोरुपधाया दीर्घ इकः
॥ तस्मै पाणिनये नमः ॥
8|2|76
SK 433
र्वोरुपधाया दीर्घ इकः   🔊
सूत्रच्छेदः
र्वोः (षष्ठीद्विवचनम्) , उपधायाः (षष्ठ्येकवचनम्) , दीर्घ (प्रथमैकवचनम्) , इकः (षष्ठ्येकवचनम्)
अनुवृत्तिः
धातोः  8|2|74 (षष्ठ्येकवचनम्)
अधिकारः
पदस्य  8|1|16 पूर्वत्रासिद्धम्  8|2|1
सम्पूर्णसूत्रम्
पदस्य र्वोः धातोः उपधायाः इकः दीर्घः
सूत्रार्थः
रेफान्तस्य वकारान्तस्य धातोः पदस्य उपधाभूतस्य इक्-वर्णस्य दीर्घादेशः भवति ।
यस्य अन्ते रेफः वकारः वा अस्ति, यस्य च धातुसंज्ञा अपि अस्ति, तादृशस्य पदस्य उपधायाम् विद्यमानस्य इ/उ/ऋ/ऌवर्णस्य दीर्घादेशः भवति । यथा -

1) "गॄ" (निगरणे) धातोः क्विप्-प्रत्यये कृते "गिर्" इति रेफान्तशब्दः सिद्ध्यति । क्विबन्ताः विजन्ताश्च प्रातिपदिकत्वं न जहति, धातुत्वमपि न मुञ्चन्ति अनेन सिद्धान्तेन गिर्-शब्दस्य धातुसंज्ञा अपि अस्ति । अस्य तृतीयाद्विवचनस्य प्रक्रिया इयम् -
गिर् + भ्याम् [तृतीयाद्विवचनस्य प्रत्ययः । अस्मिन् प्रत्यये परे स्वादिष्वसर्वनामस्थाने 1|4|17 इत्यनेन अङ्गस्य पदसंज्ञा भवति ।]
→ गीर् + भ्याम् [र्वोरुपधाया दीर्घ इकः 8|2|76 इति रेफान्तस्य धातुसंज्ञकस्य पदस्य उपधा-ईकारस्य दीर्घः]
→ गीर्भ्याम्

2) "आशिस्" अयम् शब्दः आङ्-उपसर्गपूर्वक-शास्-धातोः क्विप्-प्रत्ययं कृत्वा जायते । क्विबन्ताः विजन्ताश्च प्रातिपदिकत्वं न जहति, धातुत्वमपि न मुञ्चन्ति अनेन सिद्धान्तेन अस्य शब्दस्य धातुसंज्ञा अपि अस्ति । अस्य प्रथमैकवचनस्य प्रक्रिया इयम् जायते -
आशिस् + सुँ [प्रथमैकवचनस्य प्रत्ययः]
→ आशिस् [हल्ङ्याब्भ्यो दीर्घात् सुतिस्यपृक्तं हल् 6|1|68 इति सुँलोपः]
→ आशिर् [ससजुषोः रुँ 8|2|66 इति रुँत्वम्]
→ आशीर् [र्वोरुपधायाः दीर्घः इकः 8|2|76 इति उपधादीर्घः]
→ आशीः [खरवसानयोर्विसर्जनीयः 8|3|15 इति विसर्गः]


ज्ञातव्यम् - अस्मिन् सूत्रे यद्यपि "वकार"ग्रहणम् कृतम् अस्ति, तर्हि वकारान्त-धातुसंज्ञकस्य-पदस्य विषये (यथा - दिव्, सुदिव्) अस्य सूत्रस्य प्रसक्तिः नास्ति । अतः अस्मिन् सूत्रे वस्तुतः वकारग्रहणम् न आवश्यकम् । परन्तु अग्रिमसूत्रे तस्य प्रयोजनं विद्यते अतः अत्र तस्य ग्रहणं कृतमस्ति ।
One-line meaning in English
The उपधा letter of a रेफान्त or a वकारान्त पद which also has a धातुसंज्ञा becomes दीर्घ if that letter belongs to the इक् प्रत्याहार.
काशिकावृत्तिः
रेफवकारान्तस्य धातोः पदस्य उपधायाः इकः दीर्घो भवति। गीः। धूः। पूः आशीः। वकारग्रहणम् उत्तरार्थम्। उपधाग्रहणं किम्? अबिभर् भवान्। अभ्यासेकारस्य मा भूत्। इकः इति किम्? अत्र एव प्रत्युदाहरणे भशब्दाकारस्य मा भूत्। धातोः इत्येव, अग्निः। वायुः। पदस्य इत्येव, गिरौ। गिरः।
पदस्येत्येव, धातोरिति च, तदुभयमिह समानाधिकरणं रेफवकाराभ्यां विशेष्यते, विशे णेन च तदन्तविधिर्भवतीत्याह--`रेफवकारान्तस्य` इति। वकारस्योदाहरणं कसमान्न प्रदर्शितम्? इत्याह--`दकारग्रहणमुतरार्थम्` इति। तेन वकारान्तस्योदाहरणं न प्रदर्शितमिति भावः। एतदर्थं तु तन्न भवति; वकारान्तस्य पदस्य धातोरसम्भवात्। `अबिभः` इति। भृञो लङ्, तिप्, गुणः, रपरत्वम्, `जुहोत्यादिभ्यः श्लुः` 2|4|75 , द्विर्वचनम्, `उरत्` 7|4|66 इत्यत्त्वम्, `भृञामित्` 7|4|76 इतीत्त्वम्, हल्ङ्यादिलोपः 6|1|66
धातोः, पदस्य---इत्युभयं समानाधिकरणं रेफवकाराभ्यां विशेष्यते, विशेषणेन च तदन्तविधिर्भवतीत्याह---रेफवकारान्तस्येति । वग्रहणमुतरार्थमिति । इह तु वकारान्तस्य पदस्य धातोरसम्भवः । अभ्यासेकारस्य मा भूदिति । यदि स्यात्, तस्यासिद्धत्वाद् ठ्ह्रस्वःऽ इति ह्रस्वो न स्यात् ॥
सिद्धान्तकौमुदी
रेफवान्तस्य धातोरुपधाया इको दीर्घः स्यात्पदान्ते । पिपठीः । पिपठिषौ । पिपठिषः । पिपठीर्भ्याम् । वा शरि (कौमुदी-151) इति वा विसर्जनीयः ॥
Text Unavailable. Please use feedback link below to provide the text if you have.
र्वोरुपधाया दीर्घ इकः - ॒षङ्भयो लुक्षट्चतुभ्र्यश्चे॑ति बहुवचननिर्देशात्षडर्थप्राधान्ये एव लुङ्नुटौ भवत इति भावः । पिपठिषतेः क्विप्यतो लोपे कृदन्तत्वात्स्वाद्युत्पत्तौपिपठिष् — सु इति स्थिते सोर्हल्ङ्यादिलोपे प्रत्ययलक्षणेन पदान्तत्वात्सस्य रुर्भवति । न च रुत्वे कर्तव्येऽल्लोपस्य स्थानिवत्त्वं शङ्क्यं, पूर्वत्रासिद्धे तन्निषेधात् ।
लघुसिद्धान्तकौमुदी
रेफवान्तयोर्धात्वोरुपधाया इको दीर्घः पदान्ते। पिपठीः। पिपठिषौ। पिपठीर्भ्याम्॥ ,
महाभाष्यम्
Text Unavailable. Please use feedback link below to provide the text if you have.