Page loading... Please wait.
8|2|74 - सिपि धातो रुर्वा
॥ तस्मै पाणिनये नमः ॥
8|2|74
SK 2485
सिपि धातो रुर्वा   🔊
सूत्रच्छेदः
सिपि (सप्तम्येकवचनम्) , धातोः (षष्ठ्येकवचनम्) , रुः (प्रथमैकवचनम्) , वा (अव्ययम्)
अनुवृत्तिः
-
अधिकारः
पदस्य  8|1|16 पूर्वत्रासिद्धम्  8|2|1
सम्पूर्णसूत्रम्
Will be updated soon
सूत्रार्थः
Will be updated soon.
One-line meaning in English
Will be updated soon.
काशिकावृत्तिः
सिपि परतः सकारान्तस्य पदस्य धातोः रुः इत्ययम् आदेशो भवति, दकारो वा। अचकाः त्वम्, अचकात् त्वम्। अन्वशाः त्वम्, अन्वशात् त्वम्। धातुग्रहणं च उत्तरार्थं रुग्रहणं च।
`अचकास्त्वम्` इति। रुत्वे कृते तस्य विसर्जनीयः, तस्य `विसर्जनीयस्य सः` 8|3|34 इति सकारः। `त्वम्` इति अनुप्रयोगः सिपोऽभिव्यक्तये। अथ धातुग्रहणं किमर्थम्, यावता सकारान्तस्यापि रेफदकारावुच्येते, न च सिपि सकारान्ताद्धातोरन्यदस्ति? इत्यत आह--`धातुग्रहणम्` इत्यादि। उत्तरार्थता चास्व `र्वोरुपधायाः` 8|2|76 इत्यत्र दर्शयिष्यते। क्रियतामुत्तरार्थं धातुग्रहणम्, रुग्रहणं तु न कत्र्तव्यम्; अनर्थकत्वात्; दकारे हि विकल्पिते यथाप्राप्तं रुत्वं पक्षे लभ्यत एव? इत्यत आह--`रुग्रहणं च` इति। उत्तरार्थमित्यपक्षते। `दश्च` 8|2|75 इति वक्ष्यति, तत्र पक्षे रुत्वं यथा स्यादित्येवमर्थम्। असति हि तस्मिन्? यदा दत्वं न भवति, तदा यथाप्राप्तं चत्वं न स्यात्॥
धातुग्रहणमुतरार्थमिति । इह तु सिपि परतो दातोरन्यस्यासम्भवः । रुग्रहणं चेति । उतरार्थमित्यनुषङ्गः, इह तु दत्वे विकल्पिते सान्तत्वादे पक्षे रुः सिध्यति ॥
सिद्धान्तकौमुदी
पदान्तस्य धातोः सस्य रूः स्याद्वा । पक्षे जश्त्वेन दः । अचकाः । अचकात् । 1075 शासु अनुशिष्टौ । शास्ति ॥
सिपि धातो रुर्वा - सिपि धातोः । पदस्येत्यधिकृतम् । "झलां जशोऽन्ते" इत्यतोऽन्ते इत्यनुवृत्तम् ।ससजुषो॑रित्यतः स इति लुप्तषष्ठीकमनुवर्तते ।तदाह — पदान्तस्येति । पक्षे इति । "वसुरुआंस्वि" त्यतस्तदनुवृत्तेरिति भावः । सिपि धातुत्वस्य अव्यभिचाराद्धातोरित्युत्तरार्थम् । अचकासीत् । अचकासिष्यत् । शासधातुरुदित् । सेट् ।
Text Unavailable. Please use feedback link below to provide the text if you have.
लघुसिद्धान्तकौमुदी
पदान्तस्य धातोः सस्य रुः स्याद्वा, पक्षे दः। अहिनः, अहिनत्, अहिनद्॥ उन्दी क्लेदने॥ 13॥ उनत्ति। उन्तः। उन्दन्ति। उन्दाञ्चकार। औनत्, औनद्। औन्ताम्। औन्दन्। औनः, औनत्, औनद्। औनदम्॥ अञ्जू व्यक्तिम्रक्षणकान्तिगतिषु॥ 14॥ अनक्ति। अङ्क्तः। अञ्जन्ति। आनञ्ज। आनञ्जिथ, आनङ्क्थ। अञ्जिता, अङ्क्ता। अङ्ग्धि। अनजानि। आनक्॥
महाभाष्यम्
Text Unavailable. Please use feedback link below to provide the text if you have.