Page loading... Please wait.
8|2|69 - रोऽसुपि
॥ तस्मै पाणिनये नमः ॥
8|2|69
SK 172
रोऽसुपि   🔊
सूत्रच्छेदः
रः (प्रथमैकवचनम्) , असुपि (सप्तम्येकवचनम्)
अनुवृत्तिः
अहन्  8|2|68 (षष्ठ्येकवचनम्, लुप्तषष्ठ्यन्तनिर्देशः)
अधिकारः
पदस्य  8|1|16 पूर्वत्रासिद्धम्  8|2|1
सम्पूर्णसूत्रम्
पदस्य अह्नः असुपि रः
सूत्रार्थः
अहन्-इत्यस्य नकारस्य सुप्-भिन्ने शब्दे परे पदान्ते रेफादेशः भवति ।
अहन् 8|2|68 इत्यनेन अहन्-शब्दस्य पदान्ते रुँत्वे प्राप्ते अनेन सूत्रेण सुप्-भिन्ने शब्दे परे "र्" इति आदेशः भवति । अहन् 8|2|68 इत्यस्य अयम् अपवादः । यथा -
1) अहन् + अहः = अहर् + अहः = अहरहः ।
2) अहन् + गणः = अहर् + गणः = अहर्गणः ।
द्वयोः अपि उदाहरणयोः समासं कृत्वा ततः वर्तमानसूत्रस्य प्रयोगः भवति ।

ज्ञातव्यम् - अस्य सूत्रस्य अनुपस्थितौ अहन् 8|2|68 इत्यनेन रुँत्वे कृते अग्रे हशि च 6|1|114 इत्यनेन उत्वम् अभविष्यत् ।

अत्र वार्तिकद्वयं ज्ञातव्यम् -

1. रूपरात्रिरथन्तरेषु रुत्वं वाच्यम् । "रुप", "रात्रि", "रथ" - एतेषाम् पूर्वस्य अहन्-शब्दस्य रुँत्वं भवति । यथा -

अ) अहन् + रूप = अहोरूप ।

आ) अहन् + रात्रि = अहोरात्र । प्रक्रिया इयम् -
अहश्च रात्रिश्च एतयोः समाहारः
= अहन् + रात्रि + अच् [वर्तमानसूत्रेण अच् इति समासान्तप्रत्ययः।]
→ अहरुँ + रात्रि + अ [रोऽसुपि 8|2|69 इत्यत्र पाठितेन रूपरात्रिरथन्तरेषु रुत्वं वाच्यम् इत्यनेन वार्त्तिकेन अहन्-शब्दस्य नकारस्य रुँत्वं भवति ।]
→ अहर् + रात्रि + अ [उँकारस्य उपदेशेऽजनुनासिक इत 1|3|2 इति इत्संज्ञा । तस्य लोपः 1|3|9 इति लोपः]
→ अह उ + रात्रि + अ [रेफस्य हशि च 6|1|114 इति उकारः]
→ अहोरात्रि + अ [आद्गुणः 6|1|87 इति गुण-एकादेशः]
→ अहोरात्र् + अ [यस्येति च 6|4|148 इति इकारलोपः]
→ अहोरात्र [ रात्राह्नाहाः पुंसि 2|4|39 इत्यनेन पुंस्त्वम् ]

इ) अहन् + रथन्तर = अहोरथन्तर ।


2. अहरादीनां पत्यादिषु वा रेफः । अहरादिगणस्य शब्दानाम् पत्यादिगणस्य शब्देषु परेषु विकल्पेन रेफः भवति ।
यथा - अहन् + पतिः = अहर् + पतिः = अहर्पतिः ।
रेफाभावे -
अहन् + पतिः
→ अहरुँ + पतिः [अहन् 8|2|68 इत्यनेन रूत्वम्]
→ अहः + पतिः [खरवसानयोर्विसर्जनीयः 8|3|15 इत्यनेन विसर्गः]
→ अहः पतिः, अहXपतिः । [कुप्वोः Xक Xपौ च 8|3|37 इति विकल्पेन उपध्मानीयः]

अस्मिन् वार्तिके "अहरादिगण" तथा "पत्यादिगण" एतेषाम् विषये उक्तम् अस्ति । एते गणाः एतादृशाः -
अहरादिगणः = {अहर् , गिर्, धुर् }(अहर्-इत्यनेन अहन्-शब्दः स्वीक्रियते) ।
पत्यादिगणः = { पति, गण, पुत्र }

अतः अनेन वार्तिकेन एतानि पदानि सिद्ध्यन्ति - अहर्पतिः, गीर्पतिः, धूर्पतिः , अहर्गणः, गीर्गणः, धूर्गणः, अहर्पुत्रः, गीर्पुत्रः, धूर्पुत्रः ।
One-line meaning in English
The word अहन् gets a रेफादेश at पदान्त when it is followed by a word that is not a सुप्-प्रत्यय.
काशिकावृत्तिः
अहनित्येतस्य रेफादशो भवति असुपि परतः। अहर्ददाति। अहर्भुङ्क्ते। असुपि इति किम्? अहोभ्याम्। अहोभिः। ननु चत्र अपि प्रत्ययलक्षणेन सुबस्ति, अहर्ददाति, अहर्भुङ्क्ते इति? न एतदस्ति। उक्तम् एतत् अह्नोरविधौ लुमता लुप्ते प्रत्ययलक्षणं न भवति इति। नायमहःशब्दः सुप्परो भवति। यत्र तु लोपशब्देन लुप्यते तत्र प्रत्ययलक्षणं भवत्येव, यथा हे दीर्घहो ऽत्र, दीर्घाहो निदाघ इति। अत्र हि हल्ङ्याब्भ्यः इति लोपेन प्रत्ययस्य निवृत्तिः।
Text Unavailable. Please use feedback link below to provide the text if you have.
पूर्वस्यायमपवादः । ठ्रऽ इत्यकार उच्चारणार्थः । अदर्ददातीति । अत्यन्तसंयोगे द्वितीया । अह्नो रुविधाविति । यथा चैतत्सूत्रेणैव सिद्धम्, तथा ठ्न लुमताङ्गस्यऽ इत्यत्रोक्तम् । दीर्घाहो निदाघ इति । ठसुपिऽ इति प्रसज्यप्रतिषेधः । पर्युदासे तु सुप्सदृशो हल्परोऽस्तीति स्यादेवात्र रेफः । प्रसज्यप्रतिषेधे तु प्रत्ययलक्षणेन प्रतिषेधे सति रुरेव भवति, ततश्च तन्निबन्धने यत्वोत्वे भवतः ॥
सिद्धान्तकौमुदी
अह्नो रेफादेशः स्यान्न तु सुपि । रोरपवादः । अहरहः । अहर्गणः । असुपि किम् । अहोभ्याम् । अत्राहन्निति रुत्वम् ॥ ।रूपरात्रिरथन्तरेषु रुत्वं वाच्यम् (वार्तिकम्) ॥ अहोरूपम् । गतमहोरात्रिरेषा । एकदेशविकृतस्यानन्यत्वादहोरात्रः । अहोरथन्तरम् ॥ ।अहरादीनां पत्यादिषु वा रेफः (वार्तिकम्) ॥ विसर्गापवादः । अहर्पतिः गीर्पतिः । धूर्पतिः । पक्षे विसर्गोपध्मानीयौ ॥
रोऽसुपि - रोऽसुपि । रः-असुपीति छेदः । "अहन्" इति सूत्रमनुवर्तते, तच्च लुप्तषष्ठीकं पदन्तदाह-अह्न इति । नतु सुपीति । पर्युदासाश्रयणे तुनञिवयुक्त॑न्यायेन सुब्भिन्ने प्रत्यये परे इत्यर्थः स्यात्, ततश्च अहर्वानित्यादावेव स्यान्न त्वहर्भातीत्यादावेव स्यान्न त्वहर्भातीत्यादावपि, अतः प्रसज्यप्रतिषेध इहाश्रितः । ननु अह इत्यस्य रुः स्यात् पदान्ते इत्यर्थकेन अहन्निति सूत्रेणैव सिद्धत्वात्किमर्थमिदमित्यत आह — रोरपवाद इति । अहरहरिति ।नित्यवीप्सयो॑रिति द्विर्वचनम् । अहन्-अहन् इति स्थिते रत्वम् ।न लुमते॑ति निषेधात्सुप्परकत्वाऽभावः ।अह॑न्निति रुत्वे तुअतो रोरप्लुता॑दित्युत्वं स्यात् । अहर्गण इति अह्नां गण इति विग्रहः ।अह॑न्निति रुत्वे तुअतो रोरप्लुता॑दित्युत्वं स्यात् । अहर्गण इति । अह्नां गण इति विग्रहः ।अह॑न्निति रुत्वे तुहशि चे॑त्युत्वं स्यात् । अहोभ्यामिति ।अहन्-भ्या॑मिति स्थिते नकारस्य सुप्परकत्वान्न रेफः । अत्रेति । "अह" न्निति रुत्वेहशि चे॑त्युत्वे आद्गुणः ।रूपरात्रि ।अहन्शब्दस्ये॑ति शेषः ।रोऽसुपी॑ति रत्वस्याऽयमपवादः । अहोरूपमिति.अह्नो रूपमिति विग्रहः ।अहन्-रूप॑मिति स्तिते नकारस्य रुत्वम्, उत्वम्, आद्गुणः । रत्वे तु हशि चेत्युत्वं न स्यात् । गतमहो रात्रिरेषेति ।अहन्-रात्रि॑रिति स्थिते, रुत्वम्, उत्वम्ाद्गुणः । रत्वे तु उत्वं न स्यात् । ननु अहश्च रात्रिश्चेति द्वन्द्वे,अहस्सर्वैकदेशे॑त्यादिना समासान्ते अचि,यस्येति चे॑ति लोपे, अहन्-रात्र इति स्थिते, नकारस्य रुत्वे, उत्वे आद्गुणे,रात्राह्नाहाः पुंसी॑ति पुंस्त्वे, "अहोरात्र" इति रूपम् । अत्र नकारस्य रात्रिशब्दपरकत्वाभावात्कथं रुत्वम् , ततश्चरोऽसुपी॑ति रत्वे उत्वं न स्यादित्यत आह-एकदेशेति । अहोरथन्तरमिति । अहश्च रथन्तरं चेति द्वन्द्वः । रथन्तरं = सामविशेषः ।अहरादीनाम् । ननुअहरादीना॑-मिति रेफविसिष्टस्योपादानाद्रेफस्य रेफविधानं व्यर्थमित्यत आह-विसर्गापवाद इति । अहर्पतिरिति । अह्नां पतिरिति विग्रहः । गीर्पतिरिति । गिरां पतिरिति विग्रहः । धूर्पतिरिति । धुरां पतिरिति विग्रहः । उभयत्रापि "र्वोरुपधाया" इति दीर्घः । पक्षे इति । रत्वाऽभावपक्षे विसर्गस्यकुप्वो॑रिति उपध्मानीयविसर्गौ ।इदुदुपधस्ये॑ति षत्वं तु तपरकरणान्नेति भावः ।
रोऽसुपि - रोऽसुपि ।असुपी॑ति यदि पर्युदासः स्यात्ततः सुप्सदृशे प्रत्यय एव स्यादहर्यतीत्यादौ, न त्वहर्भातीत्यादावपि । तस्मात्प्रसज्यप्रतिषेध एवेति व्याचष्टे-न तु सुपीति । अहरहरिति ।नित्यवीप्सयो॑रिति द्वित्वम् । न चात्र रेफादेशस्याऽसिद्धत्वात्पूर्वं नलोपे अकारस्यैव रेफः स्यादिति वाच्यम्,अह॑न्नित्याववर्त्त्य एकेन लोपाभावं निपात्य द्वितीयेन रुर्विधेय इतिअह॑न्निति सूत्रे वक्ष्यमाणतया रुत्वपवादस्यापि रेफादेशस्य नकारस्थानिकत्वलाभात् । अहोरात्र इति ।अहःसर्वैकदेशे॑त्यादिना समासान्तो वक्ष्यते ।रात्राह्नाहाः पुंसी॑ति पुंस्त्वम् । अहोरथन्तरमिति । रथन्तरं साम । तेनाह्नः समाहारद्वन्द्वः । पृथक्पदत्वं वा । अहारादीनामिति । उभयत्राप्यादिशब्दः प्रकारे । तेनस्वर्चक्षा रथिरः,॑कविः काव्येना स्वर्चना॑ इत्यादि ग्राह्रम् ।
लघुसिद्धान्तकौमुदी
अह्नो रेफादेशो न तु सुपि। अहरहः। अहर्गणः॥
महाभाष्यम्
रोऽसुपि ।। असुपि रादेशे उपसर्जनसमासे प्रतिषेधोऽलुकि।। असुपि रादेशे उपसर्जनसमासेऽलुकि प्रतिषेधो वक्तव्यः। दीर्घाहा निदाघ इति। ।। सिद्धं तु सुपि प्रतिषेधात्।। सिद्धमेतत्।। कथम्?।। सुपि प्रतिषेधात्। प्रसज्याऽयं प्रतिषेधः-सुपि नेति।। इहाऽपि तर्हि न प्राप्नोति अहर्ददाति अहर्भुङ्क्त इति।। लुकि चोक्तम्(1)।। झ्र्लुकि चोक्तम्(2)ट।। किमुक्तम्(1)?।। अह्नो रविधौ लुमता लुप्ते प्रत्ययलक्षणं न भवतीति।।