Page loading... Please wait.
8|2|66 - ससजुषो रुः
॥ तस्मै पाणिनये नमः ॥
8|2|66
SK 162
ससजुषो रुः   🔊
सूत्रच्छेदः
ससजुषोः (षष्ठीद्विवचनम्) , रुः (प्रथमैकवचनम्)
अनुवृत्तिः
-
अधिकारः
पदस्य  8|1|16 पूर्वत्रासिद्धम्  8|2|1
सम्पूर्णसूत्रम्
पदस्य ससजुषोः रुँः
सूत्रार्थः
पदान्तसकारस्य सजुष्-शब्दस्य च रुँत्वं स्यात् ।
पदान्ते विद्यमानस्य सकारस्य तथा सजुष्-शब्दस्य षकारस्य च रुँत्वं भवति । यथा -

1) राम + सुँ [प्रथमैकवचनस्य प्रत्ययः]
→ राम + स् [उकारस्य उपदेशेऽजनुनासिक इत् 1|3|2 इति इत्संज्ञा, तस्य लोपः 1|3|9 इति लोपः। अग्रे सुप्-तिङन्तम् पदम् 1|4|14 इत्यनेन "राम+स्" इत्यस्य पदसंज्ञा भवति ।]
→ राम + रुँ [ससजुषो रुँ 8|2|66 इति रुँत्वम् ]
→ रामः [खरवसानयोर्विसर्जनीयः 8|3|15 इति विसर्गः]

मुनिः, मतिः, साधुः एते शब्दाः अपि अनेनैव प्रकारेण सिद्ध्यन्ति ।

2) "सजुष्" ( = सह) इति षकारान्तशब्दः । "जुषीँ प्रीतिसेवनयोः" अस्मात् धातोः "सह जुषते" अस्मिन् अर्थे सहस्य सः संज्ञायाम् 6|3|78 अनेन सूत्रेण सह-इत्यस्य सकारादेशः भवति । अग्रे स+जुष् इत्यस्मात् क्विप् च 3|2|76 इत्यनेन क्विप्-प्रत्यये कृते "सजुष्" इति प्रातिपदिकम् सिद्ध्यति । "सहयोगी" इति तस्य अर्थः । अस्य शब्दस्य षकारस्य पदान्ते रुत्वँ भवति । यथा -
सजुष् + सुँ [प्रथमैकवचनस्य प्रत्ययः]
→ सजुष् + स् [उकारस्य उपदेशेऽजनुनासिक इत् 1|3|2 इति इत्संज्ञा, तस्य लोपः 1|3|9 इति लोपः। ]
→ सजुष् [हल्ङ्याब्भ्यो दीर्घात् सुतिस्यपृक्तं हल् 6|1|68 इति सकारस्य लोपः । लोपे सत्यपि प्रत्ययलोपे प्रत्ययलक्षणम् 1|1|62 इत्यनेन सुँ-प्रत्ययान्तस्य लक्षणम्, इत्युक्ते सुप्तिङ्गन्तं पदम् 1|4|14 इत्यनेन पदत्वम् विधीयते ।]
→ सजुर् [ससजुषो रुँ 8|2|66 इति रुँत्वम् ]
→ सजुः [खरवसानयोर्विसर्जनीयः 8|3|15 इति विसर्गः]

ज्ञातव्यम् - झलां जशोऽन्ते 8|2|39 इत्यनेन विहितस्य जश्त्वस्य अयं अपवादः अस्ति । झलां जशोऽन्ते 8|2|39 इत्यनेन पदान्त सकारषकारयोः जश्त्वे दकारडकारौ आदेशौ दीयेते । परन्तु अनेन सूत्रेण सकारान्तस्य सजुष्-शब्दस्य च अपवादरूपेण रुँ-आदेशः उच्यते ।
One-line meaning in English
The सकार at end of a पद, and the षकार at end of the सजुष् पद get a रुँ-आदेश ।
काशिकावृत्तिः
सकारान्तस्य पदस्य सजुषित्येतस्य च रुः भवति। सकारान्तस्य अग्निरत्र। वायुरत्र। सजुषः सजूरृतुभिः। सजूर्देवेभिः। जुषेः क्विपि सपूर्वस्य रुपम् एतत्।
`सजूः` इति। `जुषी प्रीतिसेवनयोः` (धातुपाठः-1288), सह जषत इति क्विप्, उपपदसमासः, `सहस्य सः संज्ञायाम्` 6|3|77 इति सभावः। रुत्वे कृते `र्वोरुपधायाः` 8|2|76 इति दीर्घः। सजुवो ग्रहणमसकारान्तार्थम्। योगश्चायं जश्त्वापवादः॥
सजूरिति । पूर्ववद्भावे क्विप्, रुत्वे कृते र्ठ्वोरुपधायाःऽ इति दीर्घत्वम्, बहुव्रीहौ सहस्य सभावः । सप्रीतिरित्यर्थः ॥
सिद्धान्तकौमुदी
॥ अथ स्वादिसन्धिप्रकरणम्‌ ॥ स्वौजसमौड् (कौमुदी-183) इति सुप्रत्यये शिवस् अर्च्य इति स्थिते

पदान्तस्य सस्य सजुष्शब्दस्य च रुः स्यात् । जश्त्वापवादः ॥
ससजुषो रुः - ससजुषो रुः । ससजुषो रु रिति छेदः ।रो रि॑इति रेफलोपः । सश्च सजूश्च ससजुषौ, तयोरिति विग्रहः । रुविधौ उकार इत् । तत्फलं त्वनुपदमेव वक्ष्यते । "स" इति सकारो विविक्षितः । अकार उच्चारणार्थः । पदस्येत्यधिकृतं सकारेण सजुष्शह्देन च विशेष्यते । ततस्त दन्तविधिः । सकारान्तं सजुष्शब्दान्तं च यत् पदं तस्य रुः स्यादित्यर्थः । सचअलोऽन्त्ये॑त्यन्त्यस्य भवति । तत्फलितमाह-पदान्तस्य सस्येति । सजुष्शब्दस्य चेति । सजुष्शब्दान्तं यत् पदं तदन्तस्य षकारस्येत्यर्थः । ततश्च सजुषौ सजुष इत्यत्र षकारस्य न रुत्वम्, पदान्तत्वाभावात् ।सजुष्शब्दान्तं यत् पदं तदन्तस्य षकारस्येत्यर्थः । ततस्च सजुषौ सजुष इत्यत्र षकारस्य न रुत्वम्, पदान्तत्वाभावात् ।सजुष्शब्दान्तं यत्पद॑मिति तदन्तविधिना परमसजूरित्यत्र नाव्याप्तिः । न च सजूरित्यत्राव्याप्तिः शङ्क्या, व्यपदेशिवद्भावेन तदन्तत्वात् ।व्यपदेशिवद्भावो ।ञप्रातिपदिकेन॑ इतिग्रहणवता प्रातिपदिकेन तदन्तविधिर्न॑ इति च पारिभाषाद्वयंप्रत्ययग्रहणे यस्मा॑दितिविषयं, नतु येन विधिरितिविषयमितिअसमासे निष्कादिभ्यः॑ इति सूत्रे भाष्ये स्पष्टम् । ननु शिवसिति सकारस्य "झलाञ्जशोन्ते" इति जश्त्वेन दकारः स्यात्, जश्त्वं प्रति रुत्वस्य परत्वेऽपि असिद्धत्वादित्यत आह — जश्त्वापवाद इति । तथा च रुत्वस्य निरवकाशत्वान्नासिदधत्वमिति भावः । तदुक्तं भाष्येपूर्वत्रासिद्धे नास्ति विप्रतिषेधोऽभावादुत्तरस्ये॑ति ,अपवादो वचनप्रामाण्यादि॑ति च ।
ससजुषो रुः - ससजुषो रुः ।पदस्ये॑त्यनुवृतं ससजूभ्र्यां विशेष्यते, विशेषणेन तदन्तविधिः । न च सजूःशब्दांशेग्रहणवता प्रतिपदिकेन तदन्तविधिर्ने॑ति निषेधः शङ्क्यः, तस्य प्रत्ययविधिविषयकत्वात् । सान्तं सजुष्शब्दान्तं च यत्पदं तस्य रुः स्यात्स चाऽलोन्त्यस्य । एवं स्थिते फलितमाह-पदान्तस्य सस्येति । सजुष्शब्दस्येति । तदन्तस्य पदस्येत्यर्थः । तेनसुजुषौ॑सजुष॑ इत्यत्रापि नातिव्याप्तिः । नचसजू॑रित्यत्राऽव्याप्तिः,व्यपदेशिवद्भावोऽप्रातिदिकेने॑ति निषेधादिति वाच्यं, तस्यापि प्रत्ययविधिविषयकत्वात् । अतएवव्यपदेशिवद्भावोऽप्रातिपदिकेने॑तिग्रहणवते॑ति च परिभाषाद्वयमपि प्रत्ययविधिविषयकमितिदिव उ॑त्सूत्रे हरदत्तेनोक्तम् । कैयटहरदत्ताभ्यामिति तु मनोरमायां स्थितम् । तत्र कैयटेनानुक्तत्वात्कैयटग्रहणं प्रमादपतिततमिति नव्याः । केचित्तुदिव उ॑त्सूत्रं यस्मिन्निति बहुव्रीहिरयं, सूत्रसमुदायश्चान्यपदार्थः । तथाचदिव उ॑त्सूत्रशब्देनद्वन्द्वे चे॑ति सूत्रस्यापि क्रोटीकारात्तत्र च कैयटेनोक्तत्वान्नोक्तदोष इति कुकविकृतिवत्क्लेशेन मनोरमां समर्थयन्ते ।
लघुसिद्धान्तकौमुदी
पदान्तस्य सस्य सजुषश्च रुः स्यात्॥
महाभाष्यम्
Text Unavailable. Please use feedback link below to provide the text if you have.