Page loading... Please wait.
8|2|64 - मो नो धातोः
॥ तस्मै पाणिनये नमः ॥
8|2|64
SK 341
मो नो धातोः   🔊
सूत्रच्छेदः
मः (षष्ठ्येकवचनम्) , नः (प्रथमैकवचनम्) , धातोः (षष्ठ्येकवचनम्)
अनुवृत्तिः
-
अधिकारः
पदस्य  8|1|16 पूर्वत्रासिद्धम्  8|2|1
सम्पूर्णसूत्रम्
मः धातोः पदस्य नः
सूत्रार्थः
धातोः पदान्ते विद्यमानस्य मकारस्य नकारादेशः भवति ।
अस्य सूत्रस्य अर्थम् ज्ञातुम् अस्मिन् शब्दे उपस्थितानां शब्दानाम् परस्परसम्बन्धः कथम् कर्तव्यः तत् आदौ पश्यामः -

अ) "मः धातोः" इत्यत्र येन विधिस्तदन्तस्य इत्यनेन 1|1|72 इत्यनेन "मकारान्तधातोः" इति अर्थः जायते ।
आ) "धातोः पदस्य" इत्यत्र पदाङ्गाधिकारे तस्य च तदन्तस्य च इत्यनेन "धात्वन्तस्य पदस्य" इति अर्थः जायते ।
इ) "पदस्य नः" इत्यत्र अलोऽन्त्यस्य 1|1|52 इत्यनेन "पदस्य अन्तिमवर्णस्य नकारादेशः" इति अर्थः जायते ।

अतः अस्य सूत्रस्य सम्पूर्णः अर्थः अयम् - यस्य पदस्य अन्ते धातोः मकारः अस्ति, तस्य मकारस्य नकारादेशः भवति ।

यथा, "प्र+शम्" अस्मात् धातोः क्विप्-प्रत्यये परे अनुनासिकस्य क्विझलोः क्ङिति 6|4|15 इत्यनेन अङ्गस्य उपधादीर्घे कृते "प्रशाम्" इति प्रातिपदिकं सिद्ध्यति । अत्र "शाम्" इत्यस्य क्विबन्तः धातुत्वं न जहति इत्यनेन धातुसंज्ञा अपि अस्ति । अस्य शब्दस्य प्रथमैकवचनस्य प्रक्रियायाम् "प्रशाम् + सुँ" इत्यत्र हल्ङ्याब्भ्यो दीर्घात् सुतिस्यपृक्तं हल् 6|1|68 इत्यनेन सुँलोपे कृते, प्रत्ययलोपे प्रत्ययलक्षणम् 1|1|62 इत्यनुसृत्य सुप्तिङन्तं पदम् 1|4|14 इत्यनेन "प्रशाम्" इत्यस्य पदसंज्ञा भवति । अस्याम् अवस्थायाम् वर्तमानसूत्रेण अस्य अन्ते विद्यमानस्य मकारस्य नकारादेशः भवति, अतः "प्रशान्" इति प्रथमैकवचनस्य रूपं सिद्ध्यति ।

तथैव प्र+दम्+क्विप् → प्रदाम् इत्यस्य प्रथमैकवचनम् प्रदान्, तथा प्र + तन् + क्विप् → प्रताम् इत्यस्य प्रथमैकवचनम् प्रतान् - एते अपि सिद्ध्यतः ।

अन्यानि उदाहरणानि -

1. प्रशाम् + भ्याम् → प्रशान् + भ्याम् → प्रशान्भ्याम्
2. प्रशाम् + सुप्
→ प्रशान् सु [मो नो धातोः 8|2|64
→ प्रशान् सु / प्रशान् ध् सु [नश्च 8|3|30 इति वैकल्पिकः धुडागमः]
→ प्रशान्सु / प्रशान्त्सु [खरि च 8|4|55 इति चर्त्वम्]

ज्ञातव्यम् - प्रशान्, प्रदान्, प्रतान् इत्यत्र नलोपः प्रातिपदिकान्तस्य 8|2|7 इत्यस्य असिद्धत्वात् नकारलोपः न भवति ।
One-line meaning in English
A मकार occurring at end of a धातु which in turn occurs at end of a पद is converted to नकार.
काशिकावृत्तिः
मकारन्तस्य धातोः पदस्य नकारादेशो भवति। प्रशान् प्रतान्। प्रदान्। शमितमिदमादीनां क्विप्, अनुनासिकस्य क्विझलोः क्ङिति 6|4|15 इति दीर्घत्वम्। नत्वस्य असिद्धत्वान् नलोपो न भवति। मः इति किम्? भित्। छित्। धातोः इति किम्? इदम्। किम्। पदस्य इत्येव, प्रतामौ। प्रतामः।
`पदस्य` इति वत्र्तते। तच्च धातुसमानाधिकरणं मकारेण विशेष्यते--मकारान्तस्य पदस्य धातोरिति। `प्रशान्, प्रतान्? इति। `शमु उपशमे` (धातुपाठः-1201), `तमु काङ्क्षायाम्` (धातुपाठः-1202), क्विप्, `अनुनासिकस्य क्विझलोः क्ङिति` 6|4|15 इत्युपधादीर्घत्वम्, हल्ङ्यादिलोपः 6|1|66 । अथेह `नलोपः प्रातिपदिकान्तस्य` 8|2|7 ति नकारलोपः कस्मान्न भवति? इत्याह--`नत्वस्य` इत्यादि॥
नलोपो न भवतीति ॥ नत्वं तु लोपार्थमेव स्यादिति मन्यते ॥
सिद्धान्तकौमुदी
धातोर्मस्य नः स्यात्पदान्ते । नत्वस्यासिद्धत्वान्नलोपो न । प्रशाम्यतीति प्रशान् । प्रशामौ । प्रशामः । प्रशान्भ्यामित्यादि ॥
मो नो धातोः - अथ मकारान्ताः । अथ प्रपूर्वात्शमुधातोः क्विपिअनुनासिकस्य क्वझलोः क्ङिति॑ इति दीर्घे सति निष्पन्ने प्रशाम्शब्दो विशेषमाह — मो नो धातोः । "म" इति षष्ठन्तंधातो॑रित्यस्य विशेषणं, ततस्तदन्तविधिः । पदस्येत्यधिकृतं, "स्कोः संयोगाद्योः" इत्यतोऽन्ते इत्यनुवर्तते । तदाह-मान्तस्येत्यादिना ।अलो ।ञन्त्यस्ये॑ति मकारस्य भवति । तत्र सोर्हल्ङ्यादिलोपे सति नकारस्य प्रातिपदिकान्तत्वात्पदान्तत्वाच्चन लोपः प्रातिपदिकान्तस्ये॑ति नलोपमाशङ्क्याह — नत्वस्येति । प्रशानिति । स्वरादिपाठेऽप्यस्य नाव्ययत्वं, सत्त्ववाचित्वात् । असत्त्ववाचित्वे तु स्वरादिपाठाद्वययत्वमेवेति भावः । प्रशान्भ्यामिति । भ्यामादो हलिस्वादिष्वसर्वनामस्थाने॑ इति पदत्वान्नत्वमिति भावः । इत्यादीति । प्रशान्भिः । प्रशामे । प्रशान्भ्यः । प्रशामः । प्रशामः । प्रशामोः । प्रशामाम् । प्रशामि प्रशान्त्सु-प्रशान्सु ।नश्चेति॑धृड्विकल्पः । अथ कायतेर्ङिमिरिति निष्पन्नः किम्शब्दः प्रष्टव्ये वर्तते ।
मो नो धातोः - प्रशानिति ।शम उपशमे॑क्विप् ।अनुनासिकस्य क्वी॑ति दीर्घः ।
लघुसिद्धान्तकौमुदी
धातोर्मस्य नः पदान्ते। प्रशान्॥
महाभाष्यम्
Text Unavailable. Please use feedback link below to provide the text if you have.