Page loading... Please wait.
8|2|51 - शुषः कः
॥ तस्मै पाणिनये नमः ॥
8|2|51
SK 3030
शुषः कः   🔊
सूत्रच्छेदः
शुषः (पञ्चम्येकवचनम्) , कः (प्रथमैकवचनम्)
अनुवृत्तिः
-
अधिकारः
पदस्य  8|1|16 पूर्वत्रासिद्धम्  8|2|1
सम्पूर्णसूत्रम्
Will be updated soon
सूत्रार्थः
Will be updated soon.
One-line meaning in English
Will be updated soon.
काशिकावृत्तिः
शुषेः धातोरुत्तरस्य निष्ठातकारस्य ककारादेशो भवति । शुष्कः । शुष्कवान् ॥
`शुष शोषणे` (धातुपाठः-1183) इत्यस्मात्? परस्य निष्ठातकारस्य ष्टुत्वे प्राप्ते ककारो विधीयते। अकार उच्चारणार्थः। `शुष्कः, शुष्कवान्` इति। युक्तं शुष्वानित्येतदुदाहरणम्, शुष्क इत्येतत्त्वयुक्तम्; न ह्रेतदर्थेऽस्य सूत्रस्यारम्भो युज्यते, `शुष्कधृष्टौ` 6|1|206 इति निपातनेनैव सिद्धत्वात्? नैतदस्ति; निपातनेन हि ककारे सति शुष्किकेत्यत्र `उदीचामातः स्थाने यकपूर्वायाः` 7|3|46 इति विभाषेत्वं स्यात्, शुष्कजङ्घेत्यत्र च `न कोपधायाः` 6|3|36 इति पुंवद्भावप्रतिषेधः स्यात्; इह तु ककारस्य विधाने सति तस्यासिद्धत्वादेतदुभयं न भवति। तस्माच्छुष्क इत्येतदर्थोऽप्यस्यारम्भो युक्तः॥
Text Unavailable. Please use feedback link below to provide the text if you have.
सिद्धान्तकौमुदी
निष्ठात इत्येव । शुष्कः ॥
शुषः कः - शुषः कः । निष्ठात इति । शुषः परस्य निष्ठातस्य कः स्यादिति फलितम् ।
शुषः कः - शुष्क इति । शुष शोषणे ।
लघुसिद्धान्तकौमुदी
निष्ठातस्य कः॥ शुष्कः॥
महाभाष्यम्
Text Unavailable. Please use feedback link below to provide the text if you have.