Page loading... Please wait.
8|2|45 - ओदितश्च
॥ तस्मै पाणिनये नमः ॥
8|2|45
SK 3019
ओदितश्च   🔊
सूत्रच्छेदः
ओदितः (पञ्चम्येकवचनम्) , च (अव्ययम्)
अनुवृत्तिः
-
अधिकारः
पदस्य  8|1|16 पूर्वत्रासिद्धम्  8|2|1
सम्पूर्णसूत्रम्
Will be updated soon
सूत्रार्थः
Will be updated soon.
One-line meaning in English
Will be updated soon.
काशिकावृत्तिः
ओकारेतो धातोरुत्तरस्य निष्ठातकारस्य नकारादेशो भवति। ओलस्जी लग्नः। लग्नवान्। ओविजी उद्विग्नः। उद्विग्नवान्। ओप्यायी वृद्धौ आपीनः। आपीनवान्। स्वादय ओदितः। षूङ् सूनः। सूनवान्। दूङ् दूनः। दूनवान्। दीङ् दीनः। दीनवान्। डीङ् डीनः। डीनवान्। धीङ् धीनः। धीनवान्। मीङ् मीनः। मीनवान्। रीङ् रीणः। रीणवान्। लीङ् लीनः। लीनवान्। व्रीङ् व्रीणः। व्रीणवान्।
`आपीनः` इति। `प्यायः पी` 6|1|28 इति पीभावः। `स्वादय ओदितः` इति। ते पुनः `षूङ प्राणिप्रसवे` (धातुपाठः-1132) इत्यादयः `व्रीङ्? प्रीणात्यर्थे` [वृणोत्यर्थे-धातुपाठः] (धातुपाठः-1140) इत्येवमन्ता दिवादिषु पठन्ते॥
आपीन इति । ठ्प्यायः पीऽ इति पीभावः । स्वादयः ठ्षूङ् माणिप्रसवेऽ इत्यादयः ठ्ब्रीङ् वृणोत्यर्थेऽ इत्येवमन्ता दिवादौ पठ।ल्न्ते ॥
सिद्धान्तकौमुदी
भुजो । भुग्नः । टुओश्वि । उच्छूनः । ओहाक् । प्रहीणः । (गणसूत्रम् -) स्वादय ओदितः इत्युक्तम् । सूनः । सूनवान् । दूनः । दूनवान् । ओदिन्मध्ये डीङ पाठमर्थ्यान्नेट् । उड्डीनः ॥
ओदितश्च - ओदितश्च । ओकारेतो धातोः परस्य निष्ठातस्य नत्वमित्यर्थः । भुग्न इति । नत्वस्याऽसिद्धत्वाज्जस्य पूर्वं कुत्वम् । ततो नत्वम् । उच्छून इति । उत्पूर्वात् "टु ओ इआ" इति धातोः क्तः, यजादित्वात्संप्रसारणम्, पूर्वरूपम्, "आईदितः" इति नेट्, "हल" इति दीर्घः, निष्ठानत्वम् । प्रहीण इति ।घुमास्थे॑तीत्त्वं, नत्वं, "कृत्यचः" इति णत्वम् । स्वादय इति । "षूङ् प्राणिप्रसवे" इत्याद्या नव धातव ओदित इति दिवादिगणे उक्तमित्यर्थः । सून इति । षूङः क्तः, नत्वं ।श्र्युकः किती॑तीण्निषेधः । दून इति । "दूङ् परितापे" अस्मात् क्तः, स्वादित्वेन ओदित्त्वान्नत्वम् । ननु "डीङ् विहायसा गतौ" इत्यस्य उड्डीन इति कथं रूपं, सेट्कत्वादुगन्तत्वाऽभावेनश्र्युकः किती॑ति निषेधस्याऽप्रवृत्तेरित्यत आह — ओदन्मध्ये डीङः पाठसामथ्र्यान्नेडिति । इटि सति निष्ठातस्य ओदितो डीङः परत्वाऽभावान्नत्वाऽप्रसक्तेस्तस्य ओदित्सु पाठो व्यर्थः स्यादित्यर्थः ।
ओदितश्च - भुग्न इति । भुजो कौटिल्ये । नत्वस्याऽसिद्धत्वाज्झलि परतः कुत्वम् । उच्छून इति । आयतेर्यजादित्वात्संप्रसारणे पूर्वरूपे चहलः॑ इति दीर्घः । प्रहीण इति ।घुमास्थे॑ति ईत्वम् । सून इति । षूङ् प्राणिप्रसवे । दून इति । दूङ् परितापे । ओदिन्मध्ये इति । यदि डीङ इट् स्यात्तर्हि धातोः परो निष्ठातकारो न संभवतीति नत्वार्थः पाठोऽनर्थकः स्यादिति भावः । न च ओदिन्मध्ये पाठसामथ्र्यादिटा व्यवधाने नत्वं बवेदिति वैपरीत्यं किं न स्यादिति शङ्क्यम्, लक्ष्यानुरोधेन इडभावकल्पनाया एव न्याय्यत्वात् । अन्ये तु सत्यपि इडागमे सवर्णदीर्घे चैकादेशस्य पूर्वान्तत्वेन ग्रहणादिटा व्यववधानं नास्त्येवेतीष्टं सिध्यतीत्याहुः ।
लघुसिद्धान्तकौमुदी
भुजो भुग्नः। टुओश्वि, उच्छूनः॥
महाभाष्यम्
Text Unavailable. Please use feedback link below to provide the text if you have.