Page loading... Please wait.
8|2|40 - झषस्तथोर्धोऽधः
॥ तस्मै पाणिनये नमः ॥
8|2|40
SK 2280
झषस्तथोर्धोऽधः   🔊
सूत्रच्छेदः
झषः (पञ्चम्येकवचनम्) , तथोः (षष्ठीद्विवचनम्) , धः (प्रथमैकवचनम्) , अधः (पञ्चम्येकवचनम्)
अनुवृत्तिः
-
अधिकारः
पदस्य  8|1|16 पूर्वत्रासिद्धम्  8|2|1
सम्पूर्णसूत्रम्
झषः तथोः धः - अधः |
सूत्रार्थः
धा-धातुं विहाय अन्येषाम् धातूनाम् विषये झष्-वर्णात् परस्य तकारस्य थकारस्य च धकारः भवति ।
झष्-प्रत्याहारे सर्वे वर्गचतुर्थाः आगच्छन्ति । एतेषाम् परस्य तकारस्य थकारस्य च अनेन सूत्रेण धकारः भवति । परन्तु धा-धातोः विषये अयम् आदेशः न विधीयते । उदाहरणानि एतानि -

1. लभ्-धातोः क्त-प्रत्ययान्तरूपम् एतादृशम् सिद्ध्यति -
लभ् + क्त [निष्ठा 3|2|102 इति क्त-प्रत्ययः]
→ लभ् + ध [झषस्तथोर्धोऽधः 8|2|40 इति भकारात् परस्य तकारस्य धकारः]
→ लब्ध [झलां जश् झशि 8|4|53 इति भकारस्य बकारः]

2. "लिहँ" (आस्वादने) इति अदादिगणस्य धातुः । अस्य धातोः आत्मनेपदस्य लङ्लकारस्य मध्यमपुरुषैकवचनस्य प्रक्रिया इयम् -
लिह् + लङ् [अनद्यतने लङ् 3|2|111 इति लङ् ]
→ अट् लिह् लङ् [लुङ्लङ्लृङ्क्ष्वडुदात्तः 6|4|71 इति अडागमः]
→ अ + लिह् थास् [तिप्तस्... 3|4|78 इति आत्मनेपदस्य मध्यमपुरुषैकवचनस्य थास्-प्रत्ययः]
→ अ लिह् शप् थास् [कर्तरि शप् 3|1|68 इति औत्सर्गिकं विकरणम् शप् ]
→ अ लिह् थास् [अदिप्रभृतिभ्यः शपः 2|4|72 इति शप्-विकरणस्य लुक्]
→ अ लिढ् थास् [हो ढः 8|2|31 इति हकारस्य झलि परे ढकारः]
→ अ लिढ् धास् [झषस्तथोर्धोऽधः 8|2|40 इति ढकारात् परस्य थकारस्य धकारः]
→ अ लिढ् धारुँ [ससजुषो रुँः 8|2|66 इति सकारस्य रुँत्वम्]
→ अ लिढ् धाः [खरवसानयोर्विसर्जनीयः 8|3|15 इति विसर्गः]
→ अ लिढ् ढाः [ष्टुना ष्टुः 8|4|41 इति ष्टुत्वम्]
→ अ लिढाः [ढो ढे लोपः 8|3|13 इति ढकारस्य ढकारे परे लोपः । एतस्य कृत्वे ष्टुत्वम् सिद्धम् अस्ति ।]
→ अ लीढाः [ढ्रलोपे पूर्वस्य दीर्घोऽणः 6|3|111 इति ढकारलोपे पूर्वस्य इकारस्य दीर्घः । एतस्य कृते ढलोपः सिद्धः अस्ति ।]
→ अलीढाः

3. धा-धातोः विषये अस्य सूत्रस्य प्रसक्तिः नास्ति । यथा, धा-धातोः लट्-लकारस्य प्रथमपुरुषद्विवचनस्य प्रक्रियायाम् -
धा + लट् [वर्तमाने लट् 3|2|123 इति लट्]
→ धा + तस् [तिप्तस्... 3|4|78 इति प्रथमपुरुषद्विवचनस्य तस्-प्रत्ययः]
→ धा + शप् + तस् [कर्तरि शप् 3|1|68 इति औत्सर्गिकं विकरणम् शप् ]
→ धा धा + तस् [जुहोत्यादिभ्यः श्लुः 2|4|75 इति विकरणस्य श्लुः (इत्युक्ते लोपः) । श्लौ 6|1|10 इति धातोः एकाचः अङ्गस्य द्वित्वम्]
→ ध धा तस् [ह्रस्वः 7|4|59 इति अभ्यासस्य ह्रस्वः]
→ ध ध् तस् [श्नाभ्यस्तयोरातः 6|4|112 इति आकारलोपः]
→ द ध् तस् [अभ्यासे चर्च्च 8|4|54 इति अभ्यासस्य जश्त्वम्]
→ धध् तस् [ दधस्तथोश्च 8|2|38 इति दकारस्य धकारः]
→ ध त् तः [अत्र "धध्" इत्यत्र धकारः झष्-वर्णः अस्ति, परन्तु तस्मात् परस्य तकारस्य झषस्तथोर्धोऽधः 8|2|40 इति धकारादेशः न भवति, यतः तस्मिन् सूत्रे "अधः" इति निर्दिष्टः अस्ति । अतः विसर्गं कृत्वा अग्रे खरि च 8|4|55 इत्यनेन धकारस्य तकारः भवति]
→ धत्तः
One-line meaning in English
The तकार and थकार that follows a झष् letter is converted to धकार. But this conversion does not happen for the vern root "धा".
काशिकावृत्तिः
झष उत्तरयोः तकारथकारयोः स्थाने धकारः आदेशो भवति, दधातिं वर्जयित्वा। लब्धा। लब्धुम्। लब्धव्यम्। अलब्ध। अलब्धाः। दुह दोग्धा। दोग्धुम्। दोग्धव्यम्। अदुग्ध। अदुग्धाः। लिह लेढा। लेढुम्। लेढव्यम्। अलीढ। अलीढाः। बुध बोद्धा। बोद्धुम्। बोद्धव्यम्। अबुद्ध। अबुद्धाः। अधः इति किम्? धत्तः। धत्थः।
`अथः` इति। अनेन धातुप्रतिषेधोऽयं न धकारप्रतिषेध इति दर्शयति। यदि हि धकारप्रतिषेधः स्यात्, धकारात्? परयोस्तथोर्धकारो न भवतीति। ततः `मतिबुद्धिपूनार्थेभ्यश्च` 3|2|188 , `वृद्धिर्यस्याचामादिस्तद्वृद्धम्` 1|1|72 इत्येवमादयो निर्देशा नोपपद्येरन्। `अलब्ध, अलब्धाः` इति। लुङ्, तस्य तथासौ, `झलो झलि` 8|2|26 इति सकारलोपः। `अलीढ, अलीढाः` इति। ढत्वष्टुत्वढलोपदीर्घत्वानि कत्र्तव्यानि॥
दधातिं वर्जयित्वेति । अनेनाध इति धातुप्रतिषेधं दर्शयति । यदि धकारप्रतिषेधः स्यात्---धकारात्परयोर्नेति, ततः ठ्गतिबुद्धिऽ इत्यादयो निर्देशा नोपपद्येरन् । अलब्धष अलब्धा इति । लुङि त-थासौ । एवमलीढ, अलीढा इति । धतः, धत्थ इति । धत्वे प्रतिषिद्धे धकारस्य चर्त्वम् । ठधःऽ इति शक्यमवक्तुम् । इह कस्मान्न---धतः, धत्थ इति ? जश्त्वे योगविभागः करिष्यते, ठ्दधस्तथोश्चऽ, ठ्झलां जशःऽ---झलां जशो भवन्ति दधस्तथोः, ततः ठन्तेऽ---अन्ते च झलां जशो भवन्ति, तत्र ठ्पूर्वत्रासिद्धम्ऽ इति भष्भावे जश्त्वस्यासिद्धत्वाज्झषन्तत्वम् । धत्वे परस्मिन् सिद्धं जश्त्वमित्यझषन्तत्वाद्धत्वाभाव इति सिद्धमिष्टम् ॥
सिद्धान्तकौमुदी
झषः परयोस्तथयोर्धः स्यान्न तु दधातेः । जश्त्वम् । सिषेद्ध । सिषेधिथ । सेद्धा । सेधिता । सेत्स्यति । सेधिष्यति । असैत्सीत् ॥
झषस्तथोर्धोऽधः - झषस्तथोः । झष इति पञ्चमी । तश्च थ् चेति द्वन्द्वः । तकारादकार उच्चारणार्थः । तकारथकायोरिति लभ्यते । "धः" इति प्रथमैकवचनम् । अकार उच्चारणार्थः । धकार इति लभ्यते । "अध" इति षष्ठन्तम् । धाधातुभिन्नस्येति लभ्यते । तदाह — झषः परयोरिति । जश्त्वमिति । सिसेध् ध इति स्थितेझलां जस् झशी॑ति प्रथमधकारस्य दकारे सिषेद्धेति रूपमित्यर्थः । सिषिदिव — सिषिध्व । सिषिधिम — सिषिध्म । क्रादिनियमस्तु नेड्वशीति प्रक्रमाननञ्प्रापितस्यैवाऽभावस्य निवर्तको, नतु विभाषादप्रापितस्यापि, अनन्तरस्येति न्यायात् । इट्पक्षे आह — सिषेधिथेति । सेद्धेति । लृट् तास् इडभावः । डा टिलोपः गुणः । धत्वं जश्त्वम् । सेद्धार इत्यादि । सेधितेति । इट्पक्षे रूपम् । सेत्स्यति सेधिष्यतीति । लृटि स्यः । इड्विकल्पः । असैत्सीदिति । लुङस्तिप् । इकारलोपः । च्लिः । सिच् । इडभावः । "अस्तिसिचः" इति ईट् । वदव्रजेति वृद्धिः । धकारस्य चत्र्वम् ।
झषस्तथोर्धोऽधः - ॒अध॑ इति किम् । धत्तः । असैत्सीदिति ।अस्तिसिचः॑इति ईडागमः ।वदव्जे॑ति वृद्धि । ततश्चत्र्वम् ।
लघुसिद्धान्तकौमुदी
झषः परस्योस्तथोर्धः स्यान्न तु दधातेः॥
महाभाष्यम्
झषस्तथोर्धोऽधः अथ इति किमर्थम्?।। धत्तः। धत्थः।। अध इति शक्यमवक्तुम्(1)।। कस्मान्न भवति-धत्तः धत्थ इति?।। ।। जश्त्वे योगविभागः(2)।। झ्र्जश्त्वे(3) योगविभागःट करिष्यते। इदमस्ति दधस्तथोश्चेति। ततो वक्ष्यामि-झलां जशः(4)। झलां जशो भवन्ति दधस्तथोः। ततः अन्ते। अन्ते च झलां जशो भवन्तीति। तत्र जश्त्वे कृतेऽझषन्तत्वान्न भविष्यति।।