॥ तस्मै पाणिनये नम: ॥
Page loading... Please wait.
8|2|39
SK 84
8|2|39
झलां जशोऽन्ते   🔊
SK 84
सूत्रच्छेद:
झलाम् - षष्ठीबहुवचनम् , जशः - प्रथमाबहुवचनम् , अन्ते - सप्तम्येकवचनम्
अनुवृत्ति:
-
अधिकार:
पदस्य  [8|1|16] , पूर्वत्रासिद्धम्  [8|2|1]
सम्पूर्णसूत्रम्
पदस्य अन्ते झलाम् जश:
सूत्रार्थ:
पदान्ते विद्यमानस्य झल्-वर्णस्य जश्-आदेशः भवति ।
झल् = वर्गचतुर्थाः + वर्गतृतीयाः + वर्गद्वितीयाः + वर्गप्रथमाः + ऊष्माणः ।
जश् = वर्गतृतीयाः ।

पदान्ते विद्यमानस्य झल्-वर्णस्य स्थाने अनेन सूत्रेण अन्तरतमः जश्-वर्णः आदेशरूपेण आगच्छति । यथा - वाक् → वाग् । षष् → षड् ।

अन्तरतमः इत्युक्ते यस्य उच्चारणस्थानम् आभ्यन्तरप्रयत्नश्च स्थानिनः समानः अस्ति तादृशः वर्णः । अतः अनेन सूत्रेण -

1) कवर्गीयवर्णस्य स्थाने गकारः विधीयते । यथा - वाक् → वाग् ।
2) चवर्गीयवर्णस्य स्थाने जकारः विधीयते । परन्तु एतादृशम् जश्त्वम् न सम्भवति, यतः चोः कुः 8|2|30 इत्यनेन पदान्तचवर्गस्य स्थाने कुत्वम् भवति ।
3) टवर्गीयवर्णस्य स्थाने डकारः विधीयते । यथा - लिढ् → लिड् ।
4) तवर्गीयवर्णस्य स्थाने दकारः विधीयते । यथा - तत् → तद् ।
5) पवर्गीयवर्णस्य स्थाने बकारः विधीयते । यथा - त्रिष्टुप् → त्रिष्टुब् ।
6) शकारस्य स्थाने जकारः विधीयते । परन्तु एतादृशम् जश्त्वम् न सम्भवति, यतः पदान्तशकारस्य व्रश्चभ्रस्ज... 8|2|36 इत्यनेन षकारादेशः भवति ।
7) षकारस्य स्थाने डकारः विधीयते । यथा - षष् → षड् ।
8) सकारस्य स्थाने दकारः विधीयते । परन्तु एतादृशम् जश्त्वम् न सम्भवति, यतः पदान्तसकारस्य ससजुषो रुँः 8|2|66 इत्यनेन रुँत्वम् भवति । (ज्ञातव्यम् - परत्वादपि अत्र ससजुषो रुँः 8|2|66 एतत् सूत्रम् झलां जशोऽन्ते 8|2|39 अस्य कृते असिद्धम् नास्ति ।)
9) हकारस्य स्थाने गकारः विधीयते । परन्तु एतादृशम् जश्त्वम् न सम्भवति, यतः पदान्तहकारस्य हो ढः 8|2|31 इत्यनेन ढकारादेशः भवति ।

ज्ञातव्यम् -
1) अनेन सूत्रेण पदान्ते विद्यमानस्य झल्-वर्णस्य (यथासम्भवम्) जश्-वर्णादेशः नित्यम् भवति, विकल्पेन न ।
2) अनेन सूत्रेण पदान्ते विद्यमानस्य झल्-वर्णस्य (यथासम्भवम्) जश्-वर्णादेशः अग्रे विरामः अस्ति चेदपि भवति, कश्चन अन्यः वर्णः अस्ति चेदपि भवति ।
3) झल्-वर्णस्य जश्-वर्णादेशः एव "जश्त्वम्" नाम्ना ज्ञायते । अष्टाध्याय्यां जश्त्वविधायके द्वे सूत्रे स्तः - झलां जशोऽन्ते 8|2|39 तथा झलां जश् झशि 8|4|53 । एतयोः प्रथमम् सूत्रम् पदान्ते जश्त्वं विधीयते, द्वितीयं सूत्रम् च अपदान्तस्य झल्-वर्णस्य जश्त्वम् कारयति ।
One-line meaning in English
A झल् letter occurring at end of a पद is converted to the corresponding जश् letter.
काशिकावृत्तिः
झलां जशः आदेशा भवन्ति पदस्यान्ते वर्तमानानाम्। वागत्र। श्वलिडत्र। अग्निचिदत्र। त्रिष्टुबत्र। अन्तग्रहणं झलि इत्येतस्य निवृत्त्यर्थम्। वस्ता। वस्तव्यम्।
`आलिट्` इति। ढत्वे कृते जश्त्वम्। अथान्तग्रहणं किमर्थम्, ननु `स्कोः संयोगाद्योरन्ते च` 8|2|29 इत्यतोऽन्तग्रहणमनुवत्र्तत एव? इत्यत आह--`अन्तग्रहणम्` इत्यादि। तद्ध्यन्तग्रहणं झलीत्यनेन सम्बद्धम्, अतस्तदनुवृत्तौ झलीत्येतदप्यनुवत्र्तत, तस्मादेतन्निवृत्त्यर्थमन्यदेवान्तग्रहणं क्रियते। तेन च वसतेः--वस्ता, वस्तुमित्यत्र न भवति॥
Text Unavailable. If you can help in fixing this issue by providing this text, please let us know using the feedback link at the bottom of this page. Thank you!
सिद्धान्तकौमुदी
पदान्तेझलां जशः स्युः । पटत्पटदिति ॥
झलां जशोऽन्ते - अथ पररूपाऽभावपक्षे पटत्पटत्-इतीत्यत्र तकारस्य दकारं विधत्ते-झलां जशोन्ते । पदस्येत्यधिकृतं । तदाह — पदान्त इति । पटत्पटदितीति । स्थानसाम्यात्तकारस्य दकारो जशिति भावः । अत्राच्छब्दस्य पररूपनिषेधाऽभावे तकारमात्रस्य पररूपैकादेशविकल्पविधौ तस्य पररूपाभावपक्षेऽच्छब्दस्य पूर्वसूत्रेण पररूपापत्तौ पटत्पटितीति स्यादिति ध्येयम् ।
Text Unavailable. If you can help fixing this issue by providing this text, please let us know using the feedback link at the bottom of this page. Thank you!
लघुसिद्धान्तकौमुदी
पदान्ते झलां जशः स्युः। वागीशः॥
महाभाष्यम्
Text Unavailable. If you can help in fixing this issue by providing this text, please let us know using the feedback link at the bottom of this page. Thank you!