Page loading... Please wait.
8|2|36 - व्रश्चभ्रस्जसृजमृजयजराजभ्राजच्छशां षः
॥ तस्मै पाणिनये नमः ॥
8|2|36
SK 294
व्रश्चभ्रस्जसृजमृजयजराजभ्राजच्छशां षः   🔊
सूत्रच्छेदः
व्रश्च-भ्रस्ज-सृज-मृज-यज-राज-भ्राज-च्छ-शाम् (षष्ठ्येकवचनम्) , षः (प्रथमैकवचनम्)
अनुवृत्तिः
झलि  8|2|26 (सप्तम्येकवचनम्) , च  8|2|29 (अव्ययम्) , अन्ते  8|2|29 (सप्तम्येकवचनम्)
अधिकारः
पदस्य  8|1|16 पूर्वत्रासिद्धम्  8|2|1
सम्पूर्णसूत्रम्
व्रश्च-भ्रस्ज-सृज-मृज-यज-राज-भ्राज-च्छ-शाम् झलि पदस्य अन्ते च षः
सूत्रार्थः
व्रश्च्, भ्रस्ज्, सृज्, मृज्, यज्, राज्, भ्राज् - एतेषां शब्दानाम् , शकारान्तशब्दानाम् च्छकारान्तशब्दानाम् च झलि परे पदान्ते वा षकारादेशः भवति ।
अनेन सूत्रेण निर्दिष्टः षकारादेशः अलोऽन्त्यस्य 1|1|52 इत्यनेन स्थानिनः अन्तिमवर्णस्य स्थाने विधीयते ।

उदाहरणानि -
1) व्रश्च् + तुमुन् → व्रष्टुम् । षकारादेशात् परम् अत्र ष्टुना ष्टुः 8|4|41 इति ष्टुत्वम् अपि भवति ।
2) भ्रस्ज् + तृच् → भ्रष्टा । अत्र स्कोः संयोगाद्योरन्ते च 8|2|29 इत्यनेन सकारलोपे कृते, वर्तमानसूत्रेण षकारादेशः भवति । ततश्च ष्टुना ष्टुः 8|4|41 इति ष्टुत्वम् अपि भवति ।
3) सृज् + क्त → स्रष्ट । अत्र सृजिदृशोर्झल्यमकिति 6|1|58 इत्यनेन अमादेशे कृते, वर्तमानसूत्रेण षकारादेशः भवति । ततश्च ष्टुना ष्टुः इति ष्टुत्वम् अपि भवति ।
4) मृज् + तिप् → मार्ष्टि । प्रक्रिया इयम् -
मृज् + तिप् लट्-लकारस्य प्रथमपुरुषैकवचनस्य विवक्षायाम् "ति" प्रत्ययः
→ मृज् + शप् + ति [कर्तरि शप् 3|1|68 इति औत्सर्गिकं विकरणम् शप् ]
→ मृज् + ति [अदिप्रभृतिभ्यः शपः 2|4|72 इत्यनेन शप्-इत्यस्य लुक्]
→ मार्ज् + ति [मृजेर्वृद्धिः 7|2|114 इति ऋकारस्य वृद्धि-आदेशः । सः च उरण् रपरः 1|1|51 इति रपरः]
→ मार्ष् + ति [ व्रश्चभ्रस्जसृजमृजयजराजभ्राजच्छशां षः 8|2|36 इति षकारादेशः]
→ मार्ष् टि [ष्टुना ष्टुः 8|4|41 इति ष्टुत्वम्]
→ मार्ष्टि
5) यज् + तृच् → यष्टा । षकारादेशात् परम् अत्र ष्टुना ष्टुः 8|4|41 इत्यनेन ष्टुत्वम् विधीयते ।
6) सम्राज् + भ्याम् → सम्राड्भ्याम् । अत्र वर्तमानसूत्रेण पदान्ते जकारस्य षत्वम्, ततः च झलां जशोऽन्ते 8|2|39 इति जश्त्वे डकारः भवति ।
7) भ्राज् + भ्याम् → भ्राड्भ्याम् ।
8) च्छकारान्तशब्दाः - यथा - प्रच्छ् + तुमुन् → प्रष्टुम् । वर्तमानसूत्रेण "च्छ्" इति समुदायस्य षत्वं भवति, यतः सूत्रे "च्छ्" इत्यस्य निर्देशः कृतः अस्ति ।
9) शकारान्तशब्दाः - यथा - विश् + भ्याम् → विड्भ्याम् । अत्र वर्तमानसूत्रेण पदान्ते शकारस्य षत्वम्, ततः च झलां जशोऽन्ते 8|2|39 इति जश्त्वे डकारः भवति ।
One-line meaning in English
The laster letter of the word व्रश्च्, भ्रस्ज्, सृज्, मृज्, यज्, राज्, भ्राज् and शकारान्त / च्छकारान्त words gets षकारादेश at पदान्त, or when झल् letter is in front.
काशिकावृत्तिः
व्रश्च भ्रस्ज सृज मृज यज राज भ्राज इत्येतेषाम्, छकारान्तानाम्, शकारान्तानां च षकारः आदेशो भवति झलि परतः पदान्ते च। व्रश्च व्रष्टा। व्रष्टुम्। व्रष्टव्यम्। मूलवृट्। भ्रस्ज भ्रष्टा। भ्रष्टुम्। भ्रष्टव्यम्। धानाभृट्। सृज स्रष्ट। स्रष्टुम्। स्रष्टव्यम्। रज्जुसृट्। मृज मार्ष्टा। मार्ष्टुम्। मार्ष्टव्यम्। कंसपरिमृट्। यज यष्टा। यष्टुम्। यष्टव्यम्। उपयट्। राज सम्राट्। स्वराट्। विराट्। भ्राज विभ्राट्। राजभ्राजोः पदान्तार्थं ग्रहणम्, झलादिराभ्यामिटा पर्यवपद्यते। केचित् तु राष्टिः, भ्राष्टिः इति क्विन्नन्तम् इच्छन्ति। छकारान्तानाम् प्रच्छ प्रष्टा। प्रष्टुम्। प्रष्टव्यम्। शब्दप्राट्। च्छ्वोः शूडनुनासिके च 6|4|19 इत्यत्र क्ङिति इत्यनुवर्तते इति छग्रहणम् इह क्रियते। शकारान्तानाम् लिश् लेष्टा। लेष्टुम्। लेष्टव्यम्। लिट्। विश् वेष्टा। वेष्तुम्। वेष्टव्यम्। विट्।
`ओ व्रश्चू छेदने` (धातुपाठः-1292), `भ्रस्जो पाके` [`भ्रस्ज` इत्येव धातुपाठः] (दा।पा।1284), `सृज विसर्गे` (धातुपाठः-1178), मृजू शुद्धौ` (धातुपाठः-1066), `यज देवपूजासङ्गतिकरणदानेषु` (धातुपाठः-1002), `राजू दीप्तौ` (धातुपाठः-822), `टु भ्राजृ टृभ्राशृ टुभ्लाशृ दीप्तौ` (धातुपाठः-823,824,825)। छ इति च्छकारान्तावां ग्रहणम्; श इति शकारान्तानाम्। अत्र च शकारस्य जश्त्वे प्राप्ते, इतरेषां तु कत्वे तदपवादः षकारो विधीयते। `व्रष्टा` इति। `स्कोः संयोगाद्योः` 8|2|29 इति सकारलोपः, ऊदित्त्वात्? पक्ष इडभावः। `मीलबृट्, धानाभृट्? इति। `ग्रहिज्या` 6|1|16 इति सूत्रेण सम्प्रसारणम्। `रुआष्टा` इति। `सृजिदृशोर्झल्यमकिति` 6|1|57 इत्यमागमः। `मार्ष्टा` [मार्ष्टीति का। मुद्रितपाठ] इति। `मृजेर्वृद्धिः` 7|2|114 । `उपयट्` ति। यदेः `विजुपे छन्दसि` 3|2|73 इति विच्। `सम्राट्` इति। `मो राजि समः क्वौ` 8|3|25 इति समो मकारस्य मकारादेशः।किं पुनः कारणं राजभ्राजोर्झल्युदाहरणं न प्रदर्शितम्? इत्याह--`राजभ्राजोः` इत्यादि। झलत्वं कस्मान्न भवतीत्याह--`झलादिराभ्याम्` इत्यादि। आभ्यां परो यो झलादिः स इटा पर्यवपद्यत इतीङ्विधीयते; सेट्त्वादनयोः। इतरेष्वाद्यचतुर्थे। विभाषितेटौ, स्वरतीत्यादिसूत्रेम 7|2|44 शेषास्त्वानिटः; `एकाचः` 7|2|10 इतीटृप्रतिषेधात्। तस्मात्? तेषामुभयार्थमेव ग्रहणम्। `राष्टिः भ्राष्टिः` इति। `क्वितन्नाबादिभ्यश्च` (वा।307) इति क्तिन्प्रत्ययः, `तितुत्र` 7|2|9 इत्यादिनेट्प्रतिषेधः। `शब्दप्राट्` इति। शब्दं पृच्छतीति `क्विव्वचि` (वा।288) इत्यादिना क्विप्, दीर्घश्च।अथ किमर्थं छग्रहणम्, यावता `च्छ्वोः शूडनूमासिके च` 6|4|19 इति च्छकारस्य शकारे कृते शकारान्तत्वादेव पृष्ट इत्यादौ षत्वं भविष्यति? इत्यत आह--`च्छदोः शूट्` इत्यादि। `अत्र` इत्यादि। इतिकरणौ हेतौ। तत्र हि `अनुनासिकस्य क्विझलोः क्ङिति` 6|4|15 इत्यनुवत्र्तते, तेन च्छग्रहणं क्रियते; अन्यथा पृष्टः, पृष्टवानित्याद्येव सिध्यत्; न तु प्रष्टा, प्रष्टुमित्यादि; तृजादावक्ङिति शत्वाभावात्। एतच्च सूत्रकारमतेनोत्तम्। केचिदाचार्याः छग्रहणमिह सूत्रे प्रत्याचक्षत एव। तथा हि--`च्छ्रवो शूडनुनासिके च` 6|4|19 इत्यत्रोक्तम्--`केचिदिह क्ङितीत्येतन्नानुवरत्तयन्ति। कथं द्युभ्याम्, द्युभिरित्यूठि कृते? `दिव उत्` 6|1|127 इति तपरकरणान्मात्राकालो भविष्यतीति। `छशां षः` 8|2|36 इत्यत्र च्छग्रहणं न कत्र्तव्यम्, अनेनैव हि सर्वत्र शकारो विधीयते` इति।`लेष्टा` इति। `लिश अल्पीभावे` (धातुपाठः-1179) `वेष्टा` इति। `विश प्रवेशने` (धातुपाठः-1424)॥
अत्र शकारान्तस्य जश्त्वे प्राप्ते, इतरेषां तु कुत्वे तदपवादः षत्वं विधीयते । मूलवृट्, धानामृडिति । ग्रहिज्यादिना सम्प्रसारणम्, ठ्स्कोः संयोगाद्योःऽ इति सलोपः, षकारस्य जश्त्वम्---डकारः, ठ्वावसानेऽ इति पक्षे टकारः । झलादिराभ्यामित्यादि । पर्यवपद्यतेउव्यवधीयते । राष्टिः, भ्राष्टिरिति । ठ्गुरोश्च हलःऽ इत्यकारे प्राप्ते ठ्क्तिन्नाबादिभ्यःऽ इति क्तिन्प्रत्ययः, ठ्तितुत्रतथऽ इत्यादिनेट्प्रतिषेधः । शब्दप्राडिति । ठ्क्विब्वचिऽ इत्यादिना क्विप्, दीर्घत्वम्, सम्प्रसारणाभावश्च । च्छग्रहणमनर्थकम्; ठ्च्छ्वोः शूड्ऽ इत्यादिना च्छस्य शत्वे कृते शान्तानामित्येव षत्वं सिद्धम् ? अत आह---च्छ्वोः शूडित्यादि ॥
सिद्धान्तकौमुदी
व्रश्चादीनां सप्तानां छशान्तयोश्च वकारोऽन्तादेशः स्याज्झलि पदान्ते च । षस्य जश्त्वेन डकारः । निड्भ्याम् । निड्भिः । सुपि डः सीति पक्षे धुट् । चर्त्त्वम् । तस्यासिद्धत्वाच्चयो द्वितीया इति टतयोष्ठथौ न । न पदान्ताट्टोः इति ष्टुत्वं न । निट्त्सु । निट्सु ॥
व्रश्चभ्रस्जसृजमृजयजराजभ्राजच्छशां षः - ब्राश्चभ्रस्ज । व्रश्चादयः सप्त धातवः । छशौ वर्णौ, ताभ्यां शब्दरूपविशेष्यमादाय तदन्तविधिः ।झलो झली॑त्यतोझली॑त्यनुवर्तते ।पदस्ये॑त्यधिकृतम् ।स्कोःसंयोगाद्योरन्ते चे॑त्यतोऽन्ते इत्यनुवर्तते । तदाह — व्रश्चादीनामिति । अन्तादेश इत्यलोऽन्त्यसूत्रलभ्यम् । षस्य जश्त्वेनेति । प्रकृतसूत्रेण शस्य षत्वे तस्य षकारस्य "स्वादिषु" इति पदत्वाज्झलाञ्जशोऽन्ते॑ इति जश्त्वेन स्थानसाम्याड्डकारे निड्भ्यामित्यादि रूपमित्यर्थः । सुपीति । निश्-सु इति स्थितेव्रश्चे॑ति षत्वे तस्य जश्त्वेन डकारे "ङसि धुट्" इति कदाचिद्धुडागमः । चत्र्वमिति ।डधयो॑रिति शेषः । स्थानसाम्याड्डस्य टः, धस्य तः । तस्येति । चत्र्वस्येत्यर्थः । ठथौ नेति । धुडभावपक्षे टस्य ठो न, धुट्पक्षे तस्य थो नेत्यर्थः । "नादिन्याक्रोशे" इति सूत्रस्थभाष्ये "चयो द्वितीया" इत्यस्य पाठदर्शनात्तदपेक्षया चत्र्वस्य परत्वम् । अथ तकारस्य ष्टुत्वेन टकारमाशङ्क्य आह — न पदान्तादिति । "स्वादिषु" इति पदत्वं बोध्यम् । निट्त्सु इति । धुट्पक्षे रूपम् । तदभावपक्षे तु निट्सु ।
व्रश्चभ्रस्जसृजमृजयजराजभ्राजच्छशां षः - टतयोष्ठथौ नेति । धुडभावे टस्य ठो न, धृट्पक्षे तु तस्य थो नेति विवेकः । न भवतीति । जशत्वात्प्राक् षस्य कुत्वं न भवतीत्यर्थः ।
लघुसिद्धान्तकौमुदी
झलि पदान्ते च। जश्त्वचर्त्वे। राट्, राड्। राजौ। राजः। राड्भ्याम्॥ एवं विभ्राट्, देवेट्, विश्वसृट्॥ (परौ व्रजेः षः पदान्ते)। परावुपपदे व्रजेः क्विप् स्याद्दीर्घश्च पदान्ते षत्वमपि। परिव्राट्। परिव्राजौ॥
महाभाष्यम्
Text Unavailable. Please use feedback link below to provide the text if you have.