Page loading... Please wait.
8|2|3 - न मु ने
॥ तस्मै पाणिनये नमः ॥
8|2|3
SK 439
न मु ने   🔊
सूत्रच्छेदः
(अव्ययम्) , मु (लुप्तप्रथमान्तनिर्देशः) ने (सप्तम्येकवचनम्)
अनुवृत्तिः
 असिद्धम्    8|2|1 (प्रथमैकवचनम्) , पूर्वत्र  8|2|1 (अव्ययम्)
अधिकारः
पदस्य  8|1|16 पूर्वत्रासिद्धम्  8|2|1
सम्पूर्णसूत्रम्
मु ने पूर्वत्र असिद्धम् न
सूत्रार्थः
मु-इत्यस्मात् आदेशात् अनन्तरम् "ना" इति आदेशः असिद्धः नास्ति ।
पूर्वत्रासिद्धम् 8|2|1 अनेन सूत्रेण सपादसप्ताध्याय्याः प्रति त्रिपाद्याः असिद्धत्वम् उच्यते । इत्युक्ते, त्रिपादीस्थिताः सर्वे विधयः सपादसप्ताध्यायीं प्रति असिद्धाः सन्ति । एवं स्थिते, वर्तमानसूत्रेण अस्य एकः नियमः उच्यते - "नाभावस्य कृते मुभावः असिद्धः नास्ति" इति ।

अस्य सूत्रस्य अर्थं ज्ञातुम् प्रथमम् "मु-भावः" यथा "ना-भावः" एतयोः शब्दयोः अर्थं पश्यामः -

(अ) मु-भावः इत्युक्ते "मु" अयम् आदेशः । अदसोऽसेर्दाद् उ दो मः 8|2|80 अनेन सूत्रेण अदस् शब्दस्य दकारस्य मकारः भवति, दकारात्-परस्य अकारस्य च उकारादेशः भवति । इत्युक्ते, "द" इत्यस्य मिलित्वा "मु" इति आदेशः भवति । एषः एव मुभावः । स्मर्यताम् - मुभावस्य सूत्रमिदम् त्रिपाद्याम् अस्ति ।
(ब) ना-भावः इत्युक्ते "ना" इत्यादेशः । आङो नाऽस्त्रियाम् 7|3|120 अनेन सूत्रेण घिसंज्ञकात् अङ्गात् परस्य तृतीयैकवचनस्य टा-प्रत्ययस्य "ना" आदेशः भवति । अयम् ना-भावः । नाभावस्य सूत्रमिदम् सपादसप्ताध्याय्याम् अस्ति ।

न मु ने 8|2|3 अनेन सूत्रेण किमुच्यते? अस्मिन् सूत्रे "ने" इति सप्तमी । "ना-भावे सति" इति तस्य अर्थः । "मु" इति प्रथमा । "मु-भावः" इति तस्य अर्थः । अतः ना-भावे सति मु-भावः न असिद्धः इति सम्पूर्णस्य सूत्रस्य अर्थः भवति । इत्युक्ते, मुभावः नाभावस्य सूत्रैः अपि दृश्यते ।

किमस्य प्रयोजनम्? अदस्-सर्वनाम्नः पुँल्लिङ्गे तृतीयायाः एकवचनस्य प्रक्रियां पश्यामश्चेत् स्पष्टं भवेत् -

अदस् + टा [तृतीयैकवचनस्य प्रत्ययः]
→ अद अ + टा [त्यदादीनामः 7|2|102 इत्यनेन अदस्-शब्दस्य अन्तिमसकारस्य विभक्तिप्रत्यये परे अकारादेशः]
→ अद + टा [अतो गुणे 6|1|97 इत्यनेन दकारात् परस्य उभयोः अकारयोः पररूप-एकादेशः अकारः]
→ अमु + टा [अदसोऽसेर्दाद् उ दो मः 8|2|80 इति दकारस्य मकारः, सकारस्य च उकारः । अयं मुभावः ।]

अस्यां स्थितौ "अमु" इदम् उकारान्तम् अङ्गम् अस्ति । शेषो घ्यसखि 1|4|7 इत्यनेन तस्य घिसंज्ञा भवति । (स्मर्यताम् - संज्ञासूत्राणि परिभाषासूत्राणि च त्रिपाद्यामपि प्रयोक्तुं शक्यन्ते ।) इदानीं घिसंज्ञायां प्राप्तायाम् टा-प्रत्ययस्य आङो नाऽस्त्रियाम् 7|3|120 इत्यनेन "ना" आदेशः भवितुमर्हति वा ? - इति प्रश्नः । पूर्वत्राऽसिद्धम् 8|2|1 इत्यनेन तु मुभावः नाभावस्य अपेक्षया असिद्धः अस्ति, परन्तु न मु ने 8|2|3 अनेन नियमसूत्रेण नाभावः मुभावं द्रष्टुं शक्नोति । अतः अमु + टा इत्यत्र आङो नाऽस्त्रियाम् 7|3|120 अनेन टा-प्रत्ययस्य ना-आदेशं कृत्वा "अमुना" इति रूपं सिद्ध्यति ।
One-line meaning in English
The आदेश of मु is not considered असिद्ध by the sutra that gives the आदेश of "ना".
काशिकावृत्तिः
मुभावो नाभावे कर्तव्ये न असिद्धो भवति। किं तर्हि? सिद्ध एव। अमुना। मुभावस्य असिद्धत्वात् घिलक्षणो नाभावो न स्यात्। कृते तु नाभावे मुभावस्य असिद्धत्वात्, सुपि च 7|3|102 इति दीर्घत्वं यत् प्राप्नोति, तत् सन्निपातलक्षणो विधिरनिमित्तं तद्विघातस्य इति न भवति। अथवा योगद्वयम् इदम् उभयार्थं तन्त्रेण उच्चारितम्। अथ वा ने परतो यत् प्राप्नोति तस्मिन् कर्तव्ये मुभावो न असिद्धः इत्येष एव अत्र सूत्रार्थः। ने तु कर्तव्ये मुभावस्य यत् सिद्धत्वं तदर्थात् सङ्गृहीतम्। तेन अत्र मुभावस्य सिद्धत्वात् नाभावश्च भवति, दीर्घत्वं च न भवति। एकादेशस्वरो ऽन्तरङ्गः सिद्धो वक्तव्यः। किं प्रयोजनम्? अयायावेकादेशशतृस्वरैकाननुदात्तसर्वानुदात्तार्थम्। वृक्ष इदम्, प्लक्ष इदम्। अत्र प्रातिपदिकान्तसप्तम्येकवचनयोरुदात्तानुदात्तयोरेकादेशः। स एकादेशस्वरो ऽन्तरङ्गः सिद्धो वक्तव्यः। किं प्रयोजनम्? अयायावेकादेशशतृस्वरैकाननुदत्तसर्वानुदात्तार्थम्। वृक्ष इदम्, प्लक्ष इदम्। अत्र प्रातिपदिकान्तसप्तम्येकवचनयोरुदात्तानुदात्तयोरेकादेशः। स एकादेश उदात्तेन उदात्तः 8|2|5 इत्युदात्तः। तस्य? सिद्धत्वं वक्तव्यम्। आन्तर्यतः अयादेशः उदात्तो यथा स्यात्। आय् कुमार्या इदम्। कथम् इदम् उदाहरणम् यदि उदात्तयणो हल्पूर्वात् 6|1|174 इत्युदात्तत्वे कृते विभक्तेः आटश्च 6|1|90 एकादेशः, तदा भवति इदम् उदाहरणम्। अथ तु कृते एकादेशे उदात्तयणो हल्पूर्वात् 6|1|174 इति स्वरः, तदा न एतदस्य प्रयोजनं भवति। आव् वृक्षाविदम्। प्लक्षाविदम्। एकादेशः स्वरः गाङ्गे ऽनूप इति गाङ्गेशब्दे एकारः एकादेश उदात्तेन उदात्तः 8|2|5 इति उदात्तः। तस्य सिद्धत्वात् य पुनः एङः पदान्तादति 6|1|109 इति एकादेशः स एकादेश उदात्तेन उदात्तः 8|2|5 इति, अत स्वरितो वा ऽनुदात्ते पदादौ 8|2|6 इत्येतद् भवति। शतृस्वरः तुदती। नुदती। अदुपदेशातिति लसार्वधातुकानुदत्तत्वे कृते एकादेशः, तदुदात्तस्य सिद्धत्वात् शतुरनुमो नद्यजादी 6|1|173 अन्तोदात्तातित्येष स्वरो भवति। अनुम इति प्रतिषेधो ज्ञापकः, एकादेशस्वरः शतृस्वरे सिद्धः इति। नहि सनुंकं शत्रन्तं शत्रन्तं किञ्चिदेकादेशस्वरम् अन्तरेण अन्तोदात्तम् अस्ति। एकाननुदात्तः तुदन्ति। लिखन्ति। एकदेशस्वरस्य सिद्धत्वात् तेन अनुदात्तं पदम् एकवर्जम् 6|1|158 इति वर्ज्यमानता भवति। सर्वानुदात्तः ब्राह्मणास् तुदन्ति। ब्राह्मणाः लिखन्ति। एकादेशस्वरस्य सिद्धत्वात् कृते तस्मिन् तिङ्ङतिङः 8|1|27 इति निघातो भवति। अन्तरङ्ग इति वचनाद् बहिरङ्गस्य असिद्धत्वम् एव, पचतीति, प्रपचतीति। संयोगान्तलोपो रोरुत्वे सिद्धो वक्तव्यः। किं प्रयोजनम्? हरिवो मेदिनं त्वा। हरिवः इति मतुबन्तम् एतत्, तत्र छन्दसीरः 8|2|15 इति वत्त्वे, संयोगान्तस्य लोपे च कृते, मतुवसो रु मम्बुद्धौ छन्दसि 8|3|1 इति रुत्वम्, तस्य संयोगान्तस्य लोपस्य असिद्धत्वात् हशि च 6|1|114 इति उत्वं न प्राप्नोति। सिज्लोप एकादेशे सिद्धो वक्तव्यः। अलावीत्। अपावीत्। इट ईटि 8|2|29 इति सिज्लोपस्य सिद्धत्वात् सवर्णदीर्घत्व भवति। निष्ठादेशः षत्वस्वरप्रत्ययेड्विधिषु सिद्द्ः वक्तव्यः। वृक्णः। वृक्णवान्। निष्ठादेशस्य सिद्धत्वात् झलि इति षत्वं न भवति। कुत्वं तु प्रति असिद्ध एव इति तद् भवति। स्वरप्रत्ययविधीड्विधिषु क्षीबशब्द उदाह्रियते। तत्र च निपातनम् अनेकधा समाश्रीयते। यदा क्षीबेर् निष्ठायाम् इटि कृते इत्शब्दलोपो निपात्यते, तदा क्षीबः इति संज्ञायाम् इत्शब्दलोपस्य असिद्धत्वात् निष्ठा च द्व्यजनात् 6|1|205 इत्येष स्वरो न प्राप्नोति, क्षीबेन तरति क्षीबिकः इति द्व्यजलक्षणष्ठन् न प्रप्नोति। यदा तु तकारलोपो निपात्यते, तदा तस्य असिद्धत्वातिडागमः प्राप्नोति। प्लुतविकारस्तुग्विधौ छे सिद्धो वक्तव्यः। अग्ना3इच्छत्रम्। पटा3उच्छत्रम्। प्लुतविकारस्य असिद्धत्वत् छे च 6|1|73 इति ह्रस्वलक्षणो नित्यस् तुग् न प्राप्नोति। श्चुत्वं धुटि सिद्धं वक्तव्यम्। श्च्युतिर् क्षरणे इत्ययं धातुः सकारादिः पठ्यते, तस्य श्चुत्वस्य असिद्धत्वातट् श्च्योतति, रट् श्च्योतति इति डः सि ढुट् 8|3|21 इति प्राप्नोति। अटति इति अड्, रटति इति रड्, क्विबन्तो ऽयम्। किमर्थं पुनः सकारादिः पठ्यते? इह मधु श्च्योतति इति मधुश्च्युत्, क्विबन्तः, मधुश्च्युतम् आचष्टे इति णिच्, मधुश्च्ययति, मधुश्च्ययतेः पुनः क्विपि कृते संयोगादित्वात् सलोपः, संयोगान्तत्वाद् यलोपः, चकारस्य कुत्वम्, मधुगिति सिद्धम्। शकारादौ पुनरेतस्मिन् संयोगान्तलोपेन यकारचकारयोः लुप्तयोः शकारस्य षत्वे सति मधुडिति स्यात्। अभ्यासजश्त्वचर्त्वे एत्वतुकोः सिद्धे वक्तव्ये। बभणतुः। बभणुः। अभ्यासजश्त्वस्यासिद्धत्वातनादेशादेः इति एत्वं प्राप्नोति। छिदेः विचिच्छित्सति, उच्छेः उचिच्छिषति इति अभ्यासादेशस्य असिद्धत्वात् छे च 6|1|73 इति तुक् न प्राप्नोति। द्विर्वचने परसवर्नवं सिद्धं वक्तव्यम्। सय्म्̐ य्म्̐ यन्ता, सव्म्̐ व्म्̐, वत्सरः, यल्म्̐ ल्म्̐, लोकम्, तल्म्̐ ल्म्̐ लोकम् इति परसवर्णस्यासिद्धत्वाद् यरः इति द्विर्वचनं न स्यात्। पदाधिकारश्चेल् लत्वघत्वढत्वनत्वरुत्वषत्वणत्वानुनासिकछत्वानि सिद्धानि वक्तव्यानि। लत्वम् गलो हलः, गरो गरः। घत्वम् द्रोग्धा द्रोग्धा। ढत्वम् द्रोढा द्रोढा। नत्वम् नुन्नो नुन्नः, नुत्तो नुत्तः। रुत्वम् अभिनो ऽभिनः, अभिनदभिनत्। षत्वम् मातुःष्वसा मातुःष्वसा, मातुःस्वसा मतुःस्वसा। पितुःष्वसा पितुःष्वसा, पितुःस्वसा पितुःस्वसा। णत्वम् माषवापाणि माषवापाणि, माषवापानि माशवापानि। अनुनासिकम् वाङ्नयनं बाङ्नयनम्, वाग्नयनं वाग्नयनम्। छत्वम् वक्च्छयनं वाक्च्छयनम्, वाक्शयनं वाक्शयनम्। लत्वादीनां विकल्पितानाम् असिद्धत्वात् कृते द्विर्वचने सत्युपरिष्टद् विकल्पे सिति गरो गलः, गलो गरः इत्येवं रूपम् अपि द्विरुक्तं स्यात्। तदेतत् सर्वं न मु ने इति योगविभागेन साध्यते। न इत्येतावदनिष्टे विषये पूर्वत्र असिद्धस्य प्रतिषेधार्थम्। ततो मु ने इति। नेत्येतदनुवर्तते।
`मु` इत्यविभक्तिकोऽयं निर्देशः। `अमुना` इति। अदसस्त्यदाद्यत्वम्, `अदसोऽदेर्दादु दो मः` 8|2|80 इत्युत्वमत्वे, `अच्च घेः` 7|3|118 इत्यतः `घेः` इत्यनुवत्र्तमान `आङी नास्त्रियाम्` 7|3|119 इति नाभावः। यदि मुभावो नाभावे कत्र्तव्ये नासिद्धो भवति--इत्येव सूत्रार्थः स्यात्, एवं सति नाभावे कृते यत्? कार्यं प्राप्नोति तत्र तस्यासिद्धत्वं न स्यात्, ततश्चामुनेत्यत्राकारान्तस्याङ्गस्य `सुपि च` 7|3|102 इति विधीयमानं दीर्घत्वं प्रसज्येत? इत्यत आह--`कृते तु नाभावे` इत्यादि। ह्यस्वसन्निपातेन हि नाभावो ह्यस्वस्य विघातं प्रति निमित्तं न भवतीति सत्यप्यसिद्धत्वे न भवति दीर्घत्वप्रसङ्गः। `अथ वा` इत्यादि। यथैकेन हि क इतो धावतीति पृष्टोऽपरेणापि किंवर्णो धावतीति प्रश्ने कश्चिन्निपुणमतिस्तन्त्रेण वाक्यद्वयमुत्तरयति--ओतो धावतीति, तथेहापि योगद्वयमेतत्? तन्त्रेणोच्चरितम्। तत्र द्वितीयस्य योगस्य न परतो यत्? प्राप्नोति तस्मिन्? कत्र्तव्यं भुभावो नासिद्ध इत्येव सूत्रार्थः। तेन दीर्घत्वं न भविष्यति।एकस्मिन्नेव योगे दीर्घत्वप्राप्तिमपाकर्त्तुमाह--`अथ वा` इत्यादि। ननु चास्मिन्? सूत्रार्थे ने कर्त्व्ये मुभावस्य यत्? सिद्धत्वं तत्? सूत्रेण संगृहीतं स्यात्, ततश्च नाभाव एव तावन्न प्राप्नोति, कुतः पुनस्तस्मिन्? परतो यत्? प्राप्नोति तस्मिन्? कत्र्तव्ये मुभावस्यासिद्धत्वम्? इत्याह--`ने तु कत्र्तव्ये` इत्यादि। यथा पुत्रा मे बहुक्षीरघृतमोदनं सुवर्णापात्र्यां भुञ्जोरन्निति वरं प्रार्थयमानया वृद्धकुमार्या अर्थतः पतिः पुत्रा गावो धनं संगृहीतम्, एवमिहापि ने परतो यत्? कार्यं प्राप्नोति तस्मिन्? कत्र्तव्ये मुभावस्य सिद्धत्वं ब्राउवता ने कत्र्तव्ये मुभावस्यासिद्धत्वं नाश्रितम्। `तेन` इत्यष्दि। यस्मादेव एव वाक्यार्थः--ने कत्र्तव्ये मुभावस्य यत्? सिद्धत्वं तदर्थतो गृहीतम्, तेन हेतुना नाभावश्च भवति, दीर्घत्वञ्च न भवतीति। `एकदेश` इति। `प्रातिपदिकान्तसप्तम्येकवचनयोरुदात्तानुदात्तयोः` इति। वृक्षशब्दः प्रातिपदिकस्वरेणान्तोदात्त इति तस्यान्तो योऽकारः स उदात्तः। सप्तम्येकवचनम्, `अनुदात्तौ सुप्तितौ` 3|1|4 इत्यनुदात्तम्, तयोः `आद्गुणः` 6|1|87 इत्येकादेश आन्तरतम्यात्? स्वरिते प्राप्ते `एकादेश उदात्तेनोदात्तः` असिद्धत्वे हि सति तस्य स एकादेशः स्वरित एवायादेशे कत्र्तव्ये स्यादिति तस्य स्थानेऽयादेश आन्तर्यतः स्वरित एव प्रसज्येत। अन्तरङ्गत्वं पुनरेकादेशस्यान्तरश्रितत्वात्। आद्गुणो ह्रवान्तरङ्गः; एकपदाश्रितत्वात्। अयादेशस्तु बहिरङ्गः; तद्विपर्वयात्। `कुमार्या इदम्` इति। कुमारशब्दो वृक्षशब्दवदन्तोदात्तः। तस्मात्? `वयसि प्रथमे` 4|1|20 इति ङीप्, `यस्येति च` 6|4|148 इत्यकारलोपः, `अनुदात्तस्य च य्रोदात्तलोपः` 6|1|155 इतीकारस्योदात्तत्वम्, चतुर्थ्येकवचनम्; कुमारी+ए इति स्थिते `आण्नद्याः` 7|3|112 इत्याट्? यणादेशः 6|1|74 , `उदात्तयणो हल्पूर्वात्` 6|1|168 इति विभक्तेरुदात्तत्वम्। तच्च `आदेः परस्य` 1|1|53 इति विभक्तिभक्तस्याट एव भवति, `आटश्च` 6|1|87 इति वृद्धिरेकादेशः। स च पूर्ववत्? स्वरिते प्राप्ते `एकादेश उदात्तेनोदात्तः` 8|2|5 इत्युदात्तः क्रियते। तस्य सिद्धत्वं वक्तव्यम्--कुमार्या इदमित्यत्रायादेश उदात्ते यथा स्यात्, अन्यथा हि पूर्ववत्? स्वरितः [वास्ति--कांउ।पुस्तके] स्यातद्। `यदि` इत्यादि। यदि पूर्वमुदात्तत्वं क्रियते, पश्चादेकादेशः, यथादर्शितमनन्तरायां रूपसिद्धावेवायादेश कत्र्तव्ये सिद्धो भवतीति युज्यत इदमुदाहरणम्। `अथ तु` इत्यादि। कुमारी+ए इति स्थित आट्, यणादेशः। `तत्रैकादेशे `उदात्तयणो हल्पूर्वात्` 6|1|168 इति विभक्तिस्वरः` इति। यदि कृत एकादेशे विभक्तिस्वरः क्रियते तदा नैतदस्योपसंख्यानस्य प्रयोजनम्। अस्यां हि रूपसिद्धावेकादेशस्य यदुदात्तत्वं तस्यायादेशे कत्र्तव्ये सिद्धत्वादनेन प्रकारेणोपसंख्यानस्येदं प्रयोजनं न भवतीत्याचष्टे। युक्तञ्चैतत्। तथा हि--अन्तरङ्गवादेकादेशेनैव तावद्भवितव्यम्, पश्चद्विभक्तिस्वरेण। वर्ण ह्राश्रित्यैकादेशो भवतीति तस्यान्तरङ्गत्वम्। उदात्तत्वं विभक्तेराश्रितत्वात्? पदस्य भवतीति तस्य बहिरङ्गत्वम्। `वृक्षाविदम्` इति। वृक्ष इदमित्येतदनुसारेणानुगन्तव्यम्, एकादेशः पुनरत्र `वृद्धिरेचि` 6|1|85 इति वृद्धिः। प्रथमयोः पूर्वसर्वदीर्घः 6|1|98 इत्येतत्त न प्रवत्र्तते; `नादिचि` 6|1|100 इति दीर्घप्रतिषेधात्। `गाङ्गेऽनूपः` इति। गङ्गायां जात इत्यणि कृते प्रत्ययस्वरेणान्तोदात्तो गाङ्गशब्दः। अनुगता आपोऽस्मिन्निति बहुव्रीहिः, `ऊदनीर्देशे` 6|3|97 इत्यूत्त्वम्, ऋक्पूरब्धूःपथामानक्षे` 5|4|74 इत्यकारप्रत्यये कृतेऽनूपशब्दोऽपि प्रत्ययस्वरेणान्तोदात्तः, शेषमस्यानुदात्तम्। `तस्य सिद्धत्वात्` इति। योऽसावेकारो गाङ्गशब्दे सप्तम्यकवचने परतः `आद्गुणः` 6|1|84 इत्यनेनाभिनिर्वृत्तः, तस्य सिद्धत्वाद्यः पुनः `एङः पदान्तादति` 6|1|105 इत्येकादेशोऽनूपशब्दाकारेण सह सः `एकादेश उदात्तेनोदात्तः` 8|2|5 इति भवति। अतो हेतोः `स्वरितो वानुदात्ते पदादौ` 8|2|6 इति पक्षे स्वरितो भवति। यदि पुनरसिद्धत्वं स्यात्? तदासावेकार उदात्तानुदात्तस्थानित्वादान्तर्यतः स्वरितः स्यात्। यः पुनः `एङः पदान्तादति` 6|1|105 इत्येकादेशः, स उदात्तनानुदात्तस्य न भवतीति `स्वरितो वानुदात्ते पदादौ` 8|2|6 इति पक्षे स्वरितो न स्यात्, अपि तु स्वरितानुदात्तयोः स्थाने भवन्नान्तरतम्यान्नियमेन स्वरितः स्यात्। `शतृस्वरः` इति। शत्राश्रयः स्वर इति शाकपार्थिवादित्वादुत्तरपदलोपो (वा।83) समासः। `तुदती, नुक्ती` इति। तुदिनुदिभ्यां (धातुपाठः-1281,1282) लट्; तुदादित्वाच्छः, स च प्रत्ययस्वरेणान्तोदात्तः, लसार्वधातुकस्यानुदात्ते कृते `अतो गुणे` 6|1|94 पररूपत्वमेकादेशः। स च `एकादेश उदात्तनोदात्तः` 8|2|5 ; तदुदात्तसय सिद्धत्वात्। `अन्तोदात्तादुत्तरपदात्` 6|1|163 इत्यन्तोदात्तादित्यनुवत्र्तमाने `शतुरनुमो नद्यजादी` 6|1|167 इति शत्रन्तादन्तोदात्तादीकारस्योदात्तत्वं भवति। असिद्धत्वे त्वेकादेशेऽस्योदात्तत्वं न स्यात्; अन्तोदात्तादित्यधिकारात्? 6|1|163 । `अनुमः इत्यादिना ज्ञापकमाश्रित्यैतत्प्रयोजनमपाकरोति। कथं पुनरेतज्ज्ञापकम्? इत्याह--`न हि` इत्यादि। हिशब्दो हेतौ। अनुम इति प्रतिषेधस्यैतत्? प्रयोजनम्--तुदन्ती, नुदन्तीत्यत्र `आच्छीनद्योर्नुम्` 7|1|80 इति नुमि कृते सनुम उदात्तत्वं मा भूदिति। यदि च शतृस्वरे, एकादेशस्वरोऽसिद्धः स्यात्, प्रतिषेधस्य वैयध्र्यं स्यात्; यस्मादेकादेशस्वरमन्तरेण नास्ति शतुरन्तोदात्तत्वम्। अतः प्रतिषेधादवसीयते--सिद्ध एकादेशस्वरः। न हि एकादेशस्वरमन्तरेण शत्रन्तं सनुम्क#ं किञ्चिदन्तोदात्तमस्ति। तस्मादनुम इति प्रतिषेधवचनं ज्ञापकमेव।`तुदन्ति, लिखन्ति` इति। अत्रापि पूर्ववल्लसार्वधातुकानुदात्तत्वे कृत उदात्तत्वे कृत उदात्तानुदात्तयो रेकादेश उदात्तः। `तेन` इति। एकादेशस्वरेण सिद्धेन। `वज्र्यमानता` इति। `अनुदात्तं पदमेकवर्णम्` 6|1|152 इत्येषोऽर्थोऽनेन लक्ष्यते। एकं वजंयित्वा शेषस्यानुदात्तत्वं भवतीत्यर्थः। यदि पुनरसिद्धत्वं स्यात्? `अनुदात्तं पदेमकवर्जम्` 6|1|158 इत्यस्मिन्? कत्र्तव्ये सत्येकादेशस्वरस्यासिद्धत्वादसत्यां च वज्र्यमानतायां द्वयोरुदात्तयोः श्रवणं प्रसज्येत। ननु चासिद्धवचनमुत्सर्गलक्षणभावार्थमित्युक्तम्, अस्य च स्थानी स्वरितः; तथा हि `अतो गुणे` 6|1|94 पररूपत्व इत्यनेनैवान्तयैतो यो विहितः स्वरितस्यस्य स्थाने `एकदेश उदात्तेनोदात्तः` 8|2|5 इत्यनेनोदात्त आदेशो विधीयते, तत्र यद्युदात्तस्यादेशस्यासिद्धत्वात्? तन्निमित्ता वज्र्यमानता न भवति मा भूत्; यस्त्वस्य स्वरितस्य स्थानी तन्निमित्ता भविष्यति, तत्कथमेतत्? प्रयोजनमुपपद्यते? यथोपपद्यते तथाख्यायते--`एकादेश उदात्तेनोदात्तः` 8|2|5 इत्यत्र चत्वारि दर्शनानि। `आद्गुणः` 6|1|87 इत्येवमादिभिरुदात्तानुदात्तयोरेकादेश आन्तरतम्यात्? स्वरितगुणयोर्निवृत्तः, तस्य `एकादेश उदात्तेनोदात्तः` 8|2|5 इत्यनेन स्वरितस्य स्थान उदात्तगुण आदेशो विधीयत इत्येकं दर्शनम्। स्वरितगुणस्यैवाभिनिर्वृत्तस्य गुणान्तरापसिद्वारेण शब्दान्तरं प्रतिपद्यत इति द्वितीयम्। परिभाषेयमनुदात्तानुदात्तयोरेकादेश उदात्त इति तृतीयम्। अस्मिन्? दर्शने परिभाषायाः पराङ्गभूतत्वादेकादेशशास्त्रैः सहास्यैकवाक्यता भवति, तत्रायमर्थः सम्पद्यते--आद्गुणो भवति, उदात्तानुदात्तयोस्तु `आद्गुणः` 6|1|84 भवतीति। चतुर्थं तु दर्शनम्--उदात्तानुदात्तयीर्य एकादेशः स उदात्तो भवति, न स्वरितगुणयुक्त इति। स्वरितस्यापवादभूतस्तूदात्तत्वमारभ्यते। येन नाप्राप्तिब्यायेनेदं (व्या।प।49) दर्शनमाश्रित्येवं प्रयोजनमुपन्यस्तम्। उपपद्यते च तदेतस्मिन्? दल्शने। अत्र हि नाम विधान समकालमेवोदात्तत्वं विधीयते, न तु स्वरितगुणविहितस्य पुनरुदात्तत्वगुण आदेश इति न सम्भवति स्वरितेन स्थानिना वज्र्यमानता; एकादेशस्वरस्य सिद्धत्वात्।`कृते तस्मिन्? तिङङतिङ इति निघातः` इति। असति तु तस्य सिद्धत्वे पश्चादेकादेशस्वरः स्यात्, ततश्च मध्योदात्तता प्रसज्येत। `पचति` इति। अत्र तिशब्दे य इकारः स सतिशिष्टत्वादनुदात्तः, इतिशब्दः `निपाता आद्युदात्ताः` (फि।सू।4।80) इत्याद्युदात्तः; तयोरकः सवर्णदीर्घत्वमेकादेशो द्विपादश्रयत्वाद्वाहिरङ्गः, तस्य बहिरङ्गत्वात् तदाश्रयोऽपि स्वरो बहिरङ्गः, तत इकारस्यासिद्धतवमेव भवति। ततश्च तेन `अनुदात्तं पदमेकवर्जम्` 6|1|152 इति वज्र्यमानता न भवति। `प्रपचति` इति। अत्रापि बहिरङ्गत्वेनासिद्धत्वात्? तिङि चोदात्तवति` 8|1|71 इति गतेरनुदात्तत्वं न भवतति `तिङङतिङः 8|1|28 इति निघात एवात्र भवति। `हरिवो मेदिनम्` इति। हरिशब्दान्मतुप्, सुः, नुम्? हल्ङ्यादि 6|1|66 लोपः, संयोगान्तलोपश्च 8|2|23 , तस्मिन्? कृते रुत्वम्, `हशि च` 6|1|110 इत्यस्योत्वम्, `आद्गुणः` 6|1|84 । `संयोगान्तलोपस्यासिद्धत्वात्? हशि चेत्युत्वं न प्राप्नोति` इति। संयोगान्तलोपस्यासिद्धत्वे सति तकारेक इशो मकारस्य व्यवधानात्, तकारस्याहक्त्वात्। `अलादीत्` इति। लुङ्, च्लेः सिच्, इट्, `अस्तिसिचोऽपृक्ते` 7|3|96 इतीट्, सिज्वृद्धिः, `इट ईटि` 8|2|28 इति सिचो लोपेऽकः सवर्णदीर्घत्वम्। `वृक्णः, वृक्णवान्` इति। `ओव्रश्चू छेदने` (धातुपाठः-1292) निष्ठा, ग्रहिज्यादिसूत्रेण 6|1|16 सम्प्रसारणम्, `चोः कुः` 8|2|30 इति कुत्वम्, `ओदितश्च` 8|2|45 इति नत्वम्, `अट्कुप्वाङ्` 8|4|2 इति णत्वम्। षत्वे चासति `स्कोः संयोगाद्योः` 8|2|29 इति सलोपः। `कुत्वं प्रत्यासिद्ध एव` इति। षत्वस्वरपरत्ययविधीङ्विधिग्रहणस्य व्यावर्त्त्य दर्शयति--`स्वरप्रत्ययविधीडविधिषु क्षीबशब्द उदाह्यियते` इति। कथं पुनस्त्रिषु विधिषु क्षीबशब्द एक एवोदाहरणमुपपद्यते? इत्याह--`तत्र` इत्यादि। `अनुपसर्गात्? फुल्लक्षीव` 8|2|55 इत्यत्र `क्षीब्? मदे` (धातुपाठः-382) इत्यस्मात्? क्तप्रत्यये परभूते क्षीबशब्दो निपातितः। तत्र चानेकपरकारं निपातनमाश्रितम्। तत्र क्वचिन्निपातने प्रत्ययविधौ स्वरविधौ च क्षीबशब्द उदाह्यियते, क्वचिदिङ्विधौ। कथम्? इत्याह--`यदा` इत्यादि। संज्ञायामित्यादिग्रहणम्; `संज्ञायामुपमानम्` 6|1|198 इत्यतः संज्ञाग्रहणानुवृत्तेः। `एष स्वरः` इति। आद्युदात्तः। तत्र हि `कर्षात्वतो घञोऽन्त उदात्तः` 6|1|153 इत्यतः उदात्तग्रहणमनुवत्र्तते, `ञ्नित्यादिर्नित्यम्` 6|1|191 इत्यत आदिग्रहणञ्च प्राप्नोतीति; इच्छब्दलोपस्यासिद्धत्वे सति क्षीबशब्दस्याद्व्यच्कत्वात्। न होच्छब्दलोपस्यासिद्धत्वे सति क्षीबशब्दो द्व्यच्को भवति, किं तर्हि? त्र्यच्कः। `क्षीबिकः` इति। `नौद्व्यचष्ठन्` 4|4|7 । `इडागमः प्राप्नोति` इति। तकारलोपस्या सिद्धत्वे सति; आर्धधातुकस्य बलादित्वात्। `अग्नात्रि [अग्नात्रि इच्छत्रमिति] इच्छत्रम्, पटात्रि उच्छत्रम्` इति। अग्निपटुशब्दयोः सम्बुद्धौ ह्यस्वस्य गुणे कृते एङ्? ह्यस्वात्? सम्बद्धेः` 6|1|67 इति सम्बुद्धिलोपे `एचोऽप्रगृह्रस्यादूराद्धते पूर्वस्यार्धस्यादूत्तरस्येदूत्तौ` 8|2|107 इत्येकारौकारयोः पूर्वस्यार्थस्याकारावशः, स च पुनरुत्तरस्य च यथाक्रममिकारोकारौ। `नित्यस्तुग्न प्राप्नोति` इति। नित्यश्चेष्यते; `पदान्ताद्वा` 6|1|73 इत्यनेन विकल्पेन प्राप्नोति, स चातिष्टः। तस्मात्तुग्विधौ प्लुतविकारः सिद्धो वक्तव्यः। छ इति किम्? अन्यत्र तुग्विधौ प्लुतविकारस्यासिद्धत्वमेव यथा स्यात्--खलं पुनाति ब्राहृणकुलमिति। क्विप; `ह्यस्वो नपुंसके प्रातिपदिकस्य` 7|1|23 इति तस्य लुक्, `ह्यस्वस्य गुणः 7|3|108 , पूर्ववत्? प्लुतविकारः। अस्यासिद्धत्वात्? खलपु इत्यत्र `ह्यस्वस्य पिति कृति तुक्` 6|1|69 इति तुग्न भवति। `श्चुत्वं धुटि` इत्यादि। अटश्च्योतति, रट्श्च्योतति` इति। अट रट गतौ` (धातुपाठः-295,297) इत्याभ्यां क्विप; सुः, हल्ङ्यादिलोपः 6|1|66 , `झलां जशोऽन्ते 8|2|39 इति टकारस्य डकारः। तस्मिन्? श्च्योततिशब्दे परतः श्चुत्वस्यासिद्धत्वात्? धुङ्? न प्राप्नोति तस्मात् श्चुत्वं धुट्त्वे कत्र्तव्ये सिद्धं वक्तव्यम्। किमर्थं पुनरयम्` इत्यादि। न त्वस्य सकारस्य क्वचित्? क्वचित्? श्रवणमस्तीत्यभिप्रायः। `मधुश्च्यत्` इति। तत्करोति तदाचष्टे` (वा।209) इति भधुश्च्युतमाचष्ट इति णिचि कृते `णाविष्ठवत्? प्रातिपदिकस्य` (वा।813) इति। णिलोपः, मधुश्च्यित्? इति स्थिते ण्यब्तात्? पुनरपि क्विप्, `णेरनिटि` 6|4|51 इति णिलोपः। श्चुत्वस्यासिद्धत्वात्? `स्फोः संयोगाद्योः` 8|2|29 इति सकारस्य संयोगाद्यस्य लोपः, ततः सयोगन्तस्य लोपः` 8|2|23 इति यलोपः, ततः `चोः कुः` 8|2|30 इति कुत्वम्--मधुगित्येतदिष्टं रूपं भवति। तदर्थं सकारादिः पठतेऽयमित्यभिप्रायः स्यादेतत्। शकारादावप्येतस्मिन्नेतद्रूपं भवत्येव? इत्यत आह--`शकारादौ पुनरेतस्मिन्` इत्यादि। पूर्वं तावद्यकारस्य संयोगान्तस्य लोपः` 8|2|23 इति लोपः, लुप्ते यकारे चकारः संयोगान्तो जात इति तस्यापि लोपः, ततः शकारस्य व्रश्चादिसूत्रेण 8|2|36 षत्वे सति `झलां जशोऽन्ते` 8|2|39 इति षकारस्य डकारे मधुङित्यपि नित्यं स्यात्। `बभणतुः, बभणुः` इति। `अण रण भण` (धातुपाठः-444,445,447) इत्यस्माल्लिट्, तस्य तावद्द्विर्वचने `अभ्यासे चर्च` 8|4|53 इति जश्त्वम्--बकारः, तस्यासिद्धत्वादनादेशादिरेवायमिति, `अत एक हल्मध्येऽनादेशादेलिटि` 6|4|120 इत्येत्त्वं प्राप्नोतीति। `विचिच्छित्सति` इति। छिदेः सन्, द्विरवचनं छिदत्यस्य, `अभ्यासे चर्च` 8|4|53 इति चर्त्वं चकारः, तस्य सिद्धत्वादभ्यासे परे चिशब्दस्य `छे च` 6|1|71 इति तुग्न भवति। `उचिच्छिषति` इति। `उछी विवासे` (दा।पा।216), सन्, अजादेर्द्वितीयस्य 6|1|2 इत्युच्छेरन्तरङ्गत्वात्? तुकि कृते त्छिस्शब्दो द्विरुच्यते, तत्र `खर्पूर्वाः खयः` (वा।878) इति छकारः शिष्यते, पूर्ववच्चत्र्वम्, तस्य सिद्धत्वादुकारस्य तुग्न भवति। `सयँय्यन्ता, सवँव्वत्सरः` इत्यादि। समित्येतस्य यन्तेत्येतस्मिन्? परतः वत्सरशब्दे च परतः, यल्लोकं तल्लोकमित्यत्रापि यत्तदोर्द्वितीयैकवचनान्तयोर्लोकशब्दे परतो मोऽनुस्वारे 8|3|23 , तस्य `अनुस्वारस्य ययि परसवर्णः` 8|4|58 इति परसवर्णे आन्तर्यतः सानुनासिके ययि कृते तस्यासिद्धत्वात्? `यरोऽनुनासिकेऽनुनासिको वा` 8|4|44 इति वत्र्तमाने `अनचि च` 8|4|46 इति यरो द्विर्वचनं न प्राप्नोति। ततश्च पक्षे त्रयाणां यकारादीनां द्वित्वं न स्यात्। `पदाधिकारश्चेत्` इत्यादि। यदि लत्वादिषु `पदस्य` 8|1|16 इति नानुवत्र्तते, तदा पदस्य द्विर्वचनमपदस्य द्विर्वचनेन तुल्यत्वाद्द्विर्वचनस्य् बहिरङ्गत्वम्, लत्वादीनाञ्चान्तरङ्गत्वम्। `असिद्धं बहिरङ्गमन्तरङ्गे` (व्या।प।42) इति लत्वादिषु कत्र्तव्येषु द्विवैचनसिद्धत्वात्? [`द्विर्वचनस्यासिद्धम्`--प्रांउ।पाठः। द्विर्वचनेनेति सिद्धत्वात्--कांउ। पाठ]`पूर्वत्रासिद्धम्` 8|2|1 इत्येतन्न प्रवत्र्तते, ततश्च लत्वादिभिरेव तावद्भवितव्यम्, तेषु सत्सु पश्चाद्द्विर्वचनेनेति सिध्यत्येवेष्टम्। पदाधिकारे सति लत्वादीनामपि बहिरङ्गत्वादसत्या बहिरङ्गपरिभाषया (व्या।प।42) तेषु सत्सु द्विर्वचनं सिद्धम्। लत्वादयस्त्वस्मिन्? कत्र्तव्येऽसिद्धाः, पूर्वत्रासिद्धत्वात्? 8|2|1 ; ततश्च पूर्वं द्विर्वचने कृते पश्चाल्लत्वादिषु विधीयमानेषु परतश्चानिष्टमपि प्रसज्येत। तस्माद्यदि पदाधिकारः ततो लत्वादीनि सिद्धानि वक्तव्यानि। `गलो गलः` इति। `मृ? निगरणे` (धातुपाठः-1410)। `नुन्नः` इति। `मुदविव` 8|2|56 इत्यादना नकारः, पक्षे तकारश्च। `अभिनोऽफभिनः` ति। भिदेर्लङ्, सिप्, श्नम्, हल्ङ्यादिलोपः, 6|1|66 `सिपि धातोरुर्व#आ` 8|2|74 , `दश्च` 8|2|75 इति वा रुत्वं पूर्ववदेव `अतो रोरप्लुदादप्लुते` 6|1|109 इत्युत्वम्। `आद्गुणः` 6|1|84 । `मातृष्ष्वसा, पितृष्षवसा` इति। `मातुःपितृभ्यामन्यतरस्याम्` 8|3|85 इति पक्षे षत्वम्। `माष वापाणि` इति। `वा भावकरणयोः` 8|4|10 इत्यनुवत्र्तमाने `प्रातिपदिकान्तनुम्बिभक्तिषु` 8|4|11 इति पक्षे णत्वम्। `वाङनयनम` इति। `यरोऽनुनासिकेऽनुनासिको वा` 8|4|44 इति पक्षेऽनुनासिकः। `वाक्छयनम्` इति। `झयो होऽन्यतरस्याम्` 8|4|61 इति वत्र्तमाने `शश्छोटि` 8|4|62 इति वा छत्वम्। `लत्वादीनाम्` इत्यादि। एतेनासिद्धत्वे सति लत्वादीनां यो दोषस्तं दर्शयति। लत्वादीनामसिद्धत्वात्? पूर्वं द्विर्वचने कृते सत्युत्तरत्र काले विकल्पविधित्वादयमर्थः प्रवत्र्तमानो यथा पूर्वत्र वत्र्तते, तथा नियोगातः परत्रापि न प्रवत्र्तत [`प्रवत्र्तेत`--कांउ।पाठः] इत्यनियोगो लभ्यते; नियमकारणाभावात्। ततश्चानिष्टो विकल्पः स्यात्--पूर्वपरयोरेकत्र प्रवृत्तेः, अपरत्राप्यप्रवृत्तेः। नेषेटोऽनिष्टो विकल्पः। तथा सति गरो गलः, गलो गर इत्येवमाद्यनिष्टमापद्यते। तत्र `न` इत्येतावदनिष्टविषये सूत्रं कत्र्तव्यम्। किमर्थम्? अनिष्टविषये पूर्वत्रासिद्धत्वस्य प्रतिषेधार्थम्। यत्र पूर्वत्रासिद्धत्वस्यानिष्टविषयः। ततः `भु ने` इत्येतद्ध्यत्र वचनेऽनुवत्र्तते। यद्येदम्, किमर्थमिदम्, पूर्वसूत्रेणैव सिद्धा प्रतिषेधः? सर्वत्र तत्? सूत्रं नास्तीति ज्ञापनार्थम्। तेन यत्रासिद्धत्वमिष्यते तत्रैदासौ प्रवत्र्तते। तदन्यत्र विपर्ययस्तु न भवति; योगविभागादस्मिन्? सूत्रे॥
ठ्मुऽ इत्यविभक्तिको निर्देशः । घिलक्षणो नाभावो न स्यादिति । यद्येतन्नारभ्येतेति शेषः । अनेन सूत्रारम्भस्य प्रयोजनमुक्तम् । कृते तु नाभावे इत्यादि । यद्यत्र दीर्घत्वं स्यात् भाव्यमानोऽप्युकारः सवर्णान् गृह्णातीति, यथा---अमूभ्यामित्यादौ दीर्घस्य स्थानिनो दीर्घोकारो भवति, तथात्राप्याकारस्य दीर्घोकारः स्यात्, ततश्च ह्रस्वसन्निपातकृतो नाभावस्तं विहन्यादिति भावः । अत्र चोदयन्ति---मुभावस्य सिद्धत्वात्किल दीर्घप्रसङ्गश्चोद्यते, तत् किं मुभावमपश्यद् दीर्घशास्त्रं घिलक्षणं नाभावमपि न पश्यति, वृक्षादिशब्दस्थानीयं ह्यएतद्दीर्घशास्त्रं प्रति, ततश्च यञादेरभावात्कथमत्र दीर्घप्रसङ्ग इति ? अत्राहुः---प्रयोगे तावन्नाभावः श्रूयते, शास्त्रमपि तस्य सिद्धकाण्डे पठितम्, केवलं तन्निदानभूतं मुभावमेव दीर्घशास्त्रं न पश्यतिं, तन्मा द्राक्षीत्, नाभावं तावत्पश्यति, ततश्च दीर्घत्वं प्रवर्तयेदिति । अथ वेति । यथा कश्चित्कुशलमतिः किञ्जातीयो धावति, किंवर्णो धावति---इत्येकेनानेकेन वा पृष्टस्तन्त्रेण प्रतिवक्ति---श्वेतो धावतीति; तथात्रापि योगद्वयमेतत्; तत्रैकं ने कर्तव्ये मुत्वस्यासिद्धत्वं निषेधति, अपरं ने परतो यत्प्राप्तं तत्र । तदिदमुक्तम्---उभयार्थमिति । तन्त्रणेति । साधारणं भवेतन्त्रम्, यथा---तुल्यकक्षयोर्भुञ्जानयोः प्रदीपः, इह तु साधारणप्रयत्नस्तन्त्रम् । इदानीमेकस्मिन्नेव योगे यथोभयं साध्यते, तथा दर्शयति---अथ वेति । अर्थात्संगृहीतमिति । वृद्धकुमारीवाक्यवत्, तद्यथा---वृद्धकुमारीन्द्रेणोक्ता वरं वृणीष्वेति सा वरमवृणोत्---पुत्रा मे बहुक्षीरघृतमन्नं कांस्यपात्र्यां भुञ्जीरन्निति, पतिरेव तावदस्या न भवति कुतः पुत्राः, कुतो गावः, कुतो धान्यम् ! अनेनैव खल्वेकवाक्येन पतिः पुत्राः गावो धान्यमिति सर्वं वृतं भवति; तद्वदत्रापि ने परतो यत्कार्यं तत्र कर्तव्ये मुभावस्यासिद्धत्वस्य प्रतिषेधं ब्रुवता नाभावेऽपि कर्तव्येऽर्थान्मुत्वस्यासिद्धत्वं प्रतिषिद्धं भवति । एकादेशस्वरोऽन्तरङ्ग इति । एकादेशस्वरे चत्वारि दर्शनानि---उदातानुदातयोरेकादेश आन्तर्यतः स्वरितोऽभिनिर्वृतस्य स्थानेऽ एकादेश उदातेनोदातःऽ इत्यनेनोदातगुणादेशः क्रियत इत्येकं दर्शनम् । तथैवाभिनिवृत एकादेशस्वरे स्वरितगुणमात्रस्योदातमात्रं विधीयत इति द्वितीयं दर्शनम् । तृतीयं तु दर्शनम् ठेकादेश उदातेनोदातःऽ इति परिभाषा एकादेशविधिषूपतिष्ठते; तत्रायमर्थो भवति---आद्गुणो भवति, उदातानुदातयोस्त्वाद्गुण उदात इति; एवं सत्येकादेशो विधीयमान एवोदातो भवति । चतुर्थदर्शनमुदातानुदातयोरेकादेशः स्वरितगुणः प्राप्त उदातो भवतीति । तत्र येननाप्राप्तिन्यायेन स्वरितत्वापवाद उदातविधिः सम्पद्यते, तत्र परिभाषापक्षे सिद्धमुदातत्वमयादिषु । इतरेषु तु पक्षेषु असिद्धत्वे प्राप्ते सिद्धत्वमुच्यते, आन्तर्यतोऽयादेश उदातो यथा स्यादिति, अन्यथा स्वरितः स्यात् । कुमार्या इदमिति । कुमारशब्दः प्रातिपदिकस्वरेणान्तोदातः, तस्माद् ठ्वयसि प्रथमेऽ इति ङीप्, ठ्यस्येति चऽ इति लोपः, ठनुदातस्य च यत्रोदातलोपःऽ इति ङीप उदातत्वं चतुर्थ्येकवचनम्, कुमारी अ ए इति स्थितेऽ आण्नद्याःऽ इत्याट्, यणादेशः, ठुदातयणो हल्पूर्वात्ऽ इत्याट उदातत्वम्, ठाटश्चऽ इति वृद्धिरेकादेशः, स आन्तर्यतः स्वरितः प्रसक्तः ठेकादेश उदातेनोदातःऽ इत्यनेनोदातः क्रियते, तत्सिद्धत्वं वक्तव्यम्--अयादेश उदातो यथा स्यात् । यदीत्यादि । पूर्वमुदातत्वं क्रियते पश्चादेकाधेशः । यथानन्तरं दर्शितं तदा भवतीदं प्रयोजनमित्यर्थः । अथ त्वित्यादि । कुमार्या ए इति स्थिते ठाटश्चऽ इति वृद्धिश्च प्राप्नोति, ठुदातयणो हल्पूर्वात्ऽ इति आटः स्वरश्च, द्वावप्यनित्यौ; स्वरः शब्दान्तरप्राप्तेरनित्यः, स हि प्रागाकारस्य प्राप्नोति कृतायां वृद्धावैकारस्य, वृद्धिरपि प्रागनुदातयोः परत्वात्स्वरे, आटस्तु स्वरे कृते उदातानुदातयोः स्वरभिन्नस्य प्राप्नुवन्विधिरनित्यो भवति, उभयोरनित्ययोः परत्वात्स्वरे प्राप्ते वर्णाश्रयत्वेनान्तरङ्गत्वाद्वद्धिः, स्वरस्तु विभक्तेरुच्यमानः पदाश्रयो बहिरङ्गः । गाङ्गेऽनूप इति । गङ्गाया इदमित्यण्, प्रत्ययस्वरेणोन्तोदातः, ततो ङ्ः, सुप्त्वादिनुदातः, तयोरेकादेश उदातः । आपोऽनुगतमनूपमिति प्रादिसमासः, अव्ययपूर्वपदप्रकृतिस्वरे प्राप्ते ठनोरप्रधानकनीयसीऽ इत्युतरपदान्तोदातत्वं शेषनिघातः । तस्य सिद्धत्वादित्यादि । एकादेशस्वरस्य सिद्धत्वे ठेङः पदान्तादतिऽ इत्ययमेकादेश उदातेन सह भवति । ततश्च ठ्स्वरितो वानुदाते पदादौऽ इति पक्षे स्वरितः पक्षे उदातो भवति । यदि त्वसिद्धत्वं स्यात्, तदासावेकार उदातानुदातस्थानिकत्वादान्तर्यतः स्वरितः स्यात् । तथा च सति तस्य ठेङः पदान्तादतिऽ इत्ययमेकादेश उदातेन न भवति, किं तर्हि ? ठ्स्वरितेनऽ इति पक्षे स्वरितो न स्यात् । अपि तु स्वरितानुदातयोः स्थाने भवन्नान्तर्यतो नित्यमेव स्वरितः स्यात् । स उदातेनेत्यत इति पाठः, स एकादेश उदातेन सहेत्यतो हेतोरित्यर्थः । शतृस्वर इति । तुदिवदिनदिभ्यो लट्, तस्य शत्राश्रयो नद्यजाद्योः स्वरः शतृस्वरः, ठ्शतुरनुमो नद्यजादीऽ इत्यत्र ठन्तोदातादुतरपदात्ऽ इत्यन्तोदातादुतरपदादीत्यनुवर्तते । तुदती, नुदतीति । तुदिनुदिभ्यां लट, शत्रादेशः, ठ्तुदादिभ्यः शःऽ, प्रत्ययस्वरेणोदातः । अनुम इति प्रतिषेधो ज्ञापक इति । तेन नैतदर्थं सिद्धत्वं वक्तव्यमिति भावः । कथमेतत् ज्ञापकम् ? इत्याह---नदीति । अनुम इति प्रतिषेध स्येतत्प्रयोजनम्---नुदन्तीत्यत्र ठाच्छीनद्योर्नुम्ऽ इति यदा नुम् भवति, तदा मा भूदिति । असिद्धे चैकादाशस्वरेऽन्तोदातत्वाभावादेव शतृ न भविष्यति, किमनुम इति प्रतिषेधेन ! प्रतिषेधातु सिद्धत्वमनुमीयते । ननु यत्र लसार्वधातुकानुदातत्वस्य निमितं नास्ति, तदर्थः प्रतिषेधः स्यात्; यान्ती, वान्तीत्यत्र हि धातुप्रत्ययोरुदातयोरान्तर्यत एकादेश उदातः, स च शतृस्वरे सिद्धः ? अत्रापि प्रत्ययस्वरे सति तदनन्तरमेव धातोः शेषनिघातो भवति, ततश्चात्रापि नान्तरेणैकादेशस्वरमन्तोदातत्वं भवति । एकानुदातत्वमिति । एवं वर्जयित्वा परिशिष्टस्य यदनुदातत्वं तदेकानुदातत्वम् । भाष्ये त्वेकाननुदातमिति पाठः, तत्रापि ठनुदातं पदमेकवर्जम्ऽ इत्ययमेव स्वरो विवक्षितः, तत्र हि ठेकमेवानुदातमन्यत्सर्वमुदातम्ऽ इत्युच्यते । तथा च तत्रोक्तम्---ठ्सिद्धं त्वेकाननुदातत्वात्ऽ इति । तुदन्तीति । शविकरण उदातः, लसार्वधातुकमनुदातम्, तयोरेकादेशः । अनेनेति । एकादेशस्वरेण सिद्धेन । वर्ज्यमानतेति । ठनुदातं पदमेकवर्जम्ऽ इत्यस्यार्थो लक्ष्यते । यदि त्वसिद्धत्वं स्यात्, ततोऽसत्यां वर्ज्यमानतायां द्वयोरुदातयोः श्रवणं स्यात् । ननु चोदातस्यासिद्धत्वेऽपियोऽसावुदातानुदातयोरेकादेश आन्तर्यतः स्वरितोऽभिनिर्वृतस्तदाश्रया वर्ज्यमानता भविष्यति ? सत्यम्; सिद्ध्यति यदा स्वरितस्योदातो भवतीति पक्षः, यदा तु स्वरितापवाद उदातो विधीयते तदा तस्यासिद्धत्वात् स्थानिनश्च स्वरान्तराभावात्केन वर्ज्यमानता स्यात् ! तस्मात्सिद्धत्वमुच्यते । न च कार्यकालपक्षाश्रयेण परिभाषान्तरवद्वज्यमानपरिभाषाया अपि त्रिपाद्यां प्रवृत्तिः शक्याभ्युपगन्तुम्; अतिप्रसङ्गात् । ठुदातस्वरितयोर्यणः स्वरितोऽनुदातस्यऽ, ठुदातादनुदातस्य स्वरितःऽ इत्यत्रापि शेषनिघातप्रसङ्गात् । यथा तु यान्तीत्यत्र प्रागेवैकादेशाच्छेषनिघातो भवति, तथात्रापीत्यप्रयोजनमित्याहुः । ब्राह्मणास्तुदन्तीति । अत्रापि स्वरितत्वापवाद उदातत्वमिति दर्शने सिद्धत्वमुच्यते, अन्यथोदातस्यानुदातत्वाभावादुदातः प्रयोगे श्रूयेत । बहरिरङ्गस्यासिद्धत्वमेव भवतीति । ठसिद्ध बहिरङ्गमन्तरङ्गेऽ इत्यनेन । पचतीति । इतिशब्दो निपातत्वादाद्यौदातः । अत्र बाह्यपदापेक्षत्वादादेकादेशस्य बहिरङ्गत्वातत्स्वरोऽपि बहिरङ्गः, तस्यासिद्धत्वातेन वर्ज्यमानता न भवति । प्रपचतीति । अत्रापि ठ्तिङ् चोदातिवतिऽ इति गतिनिघातो न भवति । उभयत्रापि पूर्वं प्रत्यन्तवद्भावात्प्रसङ्गः । हरिव इति । यदा ठ्च्छन्दसीवनिपौऽ इति वनिप्प्रत्ययः क्रियते ठ्वन उपसंख्यानम्ऽ इति, तस्य च रुत्वम्, तदा नार्थः सिद्धवचनेन । अलावीदिति । लुङ्, च्लेः सिच्, इट्, ठस्तिसिचोऽपृक्तेऽ इतीट्, सिचि वृद्धिः ननु च ठिट ईटिऽ इत्यत्र इट इति षष्ठी विज्ञास्यते, न पञ्चमी, सस्येत्यनुवर्तते, तत्रेडादेः सस्य लोपो विधीयमान इटो भविष्यतीति सिद्धमलावीदिति ? सत्यं रूपं सिद्धम्; स्वरे तु दोषः स्यात्---यदि लोपेनेकारो निवर्त्येत, अनुदातस्य ईटः श्रवणं प्रसज्येत, उदातनिवृत्तिस्वरे लोपस्यासिद्धत्वाद् । यदा तु सकारमात्रस्य लोपे सवर्णदीर्घत्वं तदा सिचश्चित्करणादिडुदात इत्येकादेशस्वरो भवति । वृक्ण इति । ठोदितश्चऽ इति निष्ठानत्वम् । षत्वस्वरप्रत्ययेड्विधिष्वित्यस्य व्यावर्त्यं दर्शयति---कुत्वं तु प्रतीति । क्षीबशब्द एवोदाह्रियत इति । कथं पुनरेकमेव त्रिषु विधिषूदाहरणम् ? इत्यत आह---तत्र हीति । तत्र क्वचित्पक्षे किञ्चित् प्रयोजनं प्रत्युदाहरणमित्याह---यदेति । संज्ञायामिति वचनम्, तत्र संज्ञायामुपमानम्ऽ इत्यतः ठ्संज्ञायाम्ऽ इत्यनुवृतेः । एष स्वर इति । आद्यौदातत्वम् । क्षीबिक इति । ठ्नौद्व्यचः ष्ठन्ऽ । प्लुतसहितो विकारः प्लुतविकारः । अग्ना3इ, पटा3उ इति । अग्निपटुअशब्दयोः सम्बुद्धिगुणे कृते ठेचोऽप्रगृह्यस्यऽ इत्यादिना पूर्वस्यार्धस्याकारः प्लुतः, उतरस्य त्विदुतौ । नित्यस्तुग्न प्राप्नोतीति । ठ्पदान्ताद्वाऽ इति दीर्घलक्षणो विकल्पः स्यात् । च्छ इति किम् ? अन्यत्र प्लुतविकारस्यासिद्धत्वमेव यथा स्यात्---खलपु ब्राह्मणकुलम्, तत्र सम्बुद्धाविह किञ्चित्रपो इति न्यायेन गुणे खलपा अ उ इति स्थिते ठ्ह्रस्वस्य पिति कृतिऽ इति तुग् न भवति । द्विविधं चात्रासिद्धत्वम्---बहिरङ्गलक्षणम्, पूर्वत्रासिद्धमिति च । किमर्थ पुनरिति । सकारस्य क्वचिदपि श्रवणाभावात्प्रश्नः । उचिच्छितीति । ठुछी विवासेऽ, तुक्, सन्, इट्, ठजादेर्द्वितीयस्यऽ इति च्छिस्शब्दस्य द्विर्वचनम्, ठ्शर्पूर्वाः खयःऽ इति खयः शेषः, च्छस्य ठभ्यासे चर्चऽ इति चकारः । संय्यन्तेत्यादौ ठ्मोऽनुस्वारःऽ, ठनुस्वारस्य ययि परसवर्णःऽ । पदाधिकारश्चेदिति । यदि लत्वादिविधिपु पदस्येत्यपेक्ष्यते, तदा लत्वादीनां द्विर्वचनस्य च समकक्षत्वम्, अनपेक्षायां तु बहिरङ्गं द्विर्वचनमन्तरङ्गेषु लत्वादिष्वसिद्धमिति ठ्पूर्वत्रासिद्धम्ऽ इत्येतन्न प्रवर्तते इति लत्वादिषु कृतेषु द्विर्वचनमिति सिद्धमिष्टम् । गलोगल इति । ठचि विभाषाऽ इति लत्वम् । दोग्धेति । ठ्वा द्रुहऽ इति वा घत्वम्, तदभावे ठ्हो ढःऽ । नुन्न इति । ठ्नुदविदऽ इति वा निष्ठानत्वम् । अभिन इति । भिदेर्लङ्, सिपि श्नमि हल्ङ्यादिलोपः, ठ्सिपि धातो रुर्वाऽ, ठ्दश्चऽ इति वा रुत्वम्, आडागमः । मातुः ष्वसेति । ठ्मातुः पितुर्भ्यामनन्तरस्याम्ऽ इति वा षत्वम् । माषवापाणीति । ठ्प्रातिपदिकान्तऽ इति वा णत्वम् । वाङ्नयनमिति । ठ्यरोऽनुनासिकेऽनुनासिको वाऽ इति वा गकारस्य ङ्कारः । वाक्शयनमिति । ठ्शश्छाएऽटिऽ इति वा च्छत्वम् । लत्वादीनामित्यादिनाऽसिद्धत्वे लत्वादीनां यो दोषस्तं दर्शयति---अनिष्टोऽपि विकल्पः स्यादिति । पूर्वोतरयोः पदयोरेकत्र प्रवृत्तिः, अपरत्राप्रवृत्तिरित्येषोऽनिष्टो विकल्पः । एतत्सर्वमित्यादि । योगविभागार्थमेव च प्रतिषेधाश्रयणम्, अन्यथा लाघवार्थममुनेति निपातनमाश्रयणीयं स्यात्, ततः ठ्मु नेऽ इति द्वितीयो योगः । किमर्थमिदम् ? पूर्वयोगस्यासर्वविषयत्वख्यापनार्थम्, तेनातिप्रसङ्गो नोद्भावनीयः ॥
सिद्धान्तकौमुदी
नाभावे कर्तव्ये कृते च मुभावो नासिद्धः स्यात् । अमुना । अमूभ्याम् 3 । अमीभिः । अमुष्मै । अमीभ्यः 2 । अमुष्मात् । अमुष्य । अमुयोः । अमीषाम् । अमुष्मिन् । अमुयोः । अमीषु ॥। इति हलन्तपुल्लिङ्गप्रकरणम्‌ ।
न मु ने - ननु कृतेऽपि प्रथमं मुत्वे नाभावो न संभवति, तस्मिन् कर्तव्ये मुत्वस्याऽसिद्धतया घेः परत्वाऽभावादित्यत आह — नमुने इति । असिद्धमित्यनुवर्तते । म् च उश्चेति समाहारद्वन्द्वः । "ने" इति ना इत्यस्य सप्तम्येकवचनम् । विषयसप्तमी सत्सप्तमी च एषा । तथाचनाभावे कर्तव्ये कृते चे॑ति लभ्यते । तदाह-नाभावे इत्यादिना । प्रकृते च नाभावे कर्तव्ये मुत्वस्याऽसिद्धत्वाभावाद्धेः परत्वान्नाभावो निर्बाधः । यदि तु नाभावे कर्तव्ये मुभावो नासिद्ध इत्येवाश्रीयते, तर्हि प्रकृते नाभावे कृते "सुपि च" इति दीर्घः प्रसज्येत । दीर्घे कर्तव्ये मुत्वस्याऽसिद्धतयाऽकारस्य सत्त्वात् । अतःकृतेऽपी॑त्याश्रितम् । ततश्च प्रकृते नाभावे कृतेऽपि दीर्घे कर्तव्ये मत्वस्याऽसिद्धत्वाभावादकाराऽभावात् न दीर्घ इति भावः । अमूभ्यामिति । त्यदाद्यत्वे, पररूपे, "सुपि च" इति दीर्घे, दस्य मत्वम्, आकारस्य ऊत्त्वमिति भावः । अमीभिरिति । त्यदाद्यत्वं, पररूपं, "नेदमदसोरकोः" इति ऐस्निषेधः, "बहुवचने झल्येत्" इत्येत्वम्, "एत ईद्बहुवचने" इति ईत्त्वमत्वे इति भावः । अमुष्मै इति । त्यदाद्यत्वं, पररूपं, ङेः स्मै, उत्त्वमत्वे, षत्वमिति भावः । अमीभ्य इति । त्यदाद्यत्वं, पररूपं "बहुवचने झल्येत्" इत्येत्वम्, ईत्त्वमत्वे इति भावः । अमुष्मादिति । त्यदाद्यत्वं, पररूपं, ङसेः स्मात्, उत्वमत्वे, षत्वमिति भावः । अमुष्येति । त्यदाद्यत्वं, पररूपं, ङसः स्यादेशः, उत्वमत्वे, षत्वमिति भावः । अमुयोरिति ओसि त्यदाद्यत्वं, पररूपम्,ओसि चे॑त्येत्त्वम्, अयादेशः, उत्वमत्वे इति भावः । अमीषामिति । आमि त्यदाद्यत्वं, पररूपं,ङेः स्मिन्नादेशः, उत्वमत्वे, षत्वमिति भावः । अमीष्विति । सुपि त्यदाद्यत्वं, पररूपम्, एत्त्वम्, ईत्त्वमत्वे, षत्वमिति भावः । इति सान्ताः ।***** इति हलन्ताः पुंलिङ्गाः ********** अथ हलन्तस्त्रीलिङ्गप्रकरणम् *****
न मु ने - न मु ने ।ने॑इति विषयसप्तमीत्याह — नभावे कर्तव्य इति । अन्यथा घेः परत्वाऽभावान्नाभावो न स्यादिति भावः । नन्वेवमपि कृते नाभावेसुपि चे॑ति दीर्घः स्यात्, दीर्घं प्रति मुत्वस्याऽसिद्धत्वादत आह — कृते चेति । एतच्चने॑इत्यस्यावृत्त्यां लभ्यते । एकत्र विषयसप्तम्यपरत्र तु परसप्मीत्याश्रयणात् । वस्तुतस्तुकृते चे॑चि व्याख्यानं व्यर्थं, संनिपातपरिभाषायासुपि चे॑ति दीर्घस्य सिसमाधेयत्वात् । ननुअधुना॑इति वत्अमुना॑इत्येवोच्यतां किमनेनाऽसिद्धक्वनिषेधेनेति चेत् । अत्राहुः — -॒न मु ने॑इत्युक्तिःन॑इति योगविभागार्था, तेनरामः॒॑रामेभ्य॑इत्यादि सिध्यति । अन्यथा हि रोरसिद्धतयोकारस्येत्संज्ञालोपौ कतं स्याताम् । न चानुनासिकनिर्देशसामर्थादित्संज्ञालोपौ प्रति रुत्वम नासिद्धमिति वाच्यम्,तरुमूलं॑देवरुही॑त्यादौहशि चे॑त्यस्य व्यावृत्तयेअतो रो॑रित्यत्रानुनासिकस्यैव निर्देशेन तत्रैव चरितार्थत्वात् । एवं च स्थानिवत्सूत्रस्यापि प्रवृत्तौ पदत्वाद्विसर्गौ लभ्यते ।पत्र्ययः॒॑परश्चे॑त्यादिनिर्देशाश्चेह लिङ्गमिति दिक् । इति हलन्तपुंलिङ्गप्रकरणम् ।
लघुसिद्धान्तकौमुदी
-
महाभाष्यम्
न मु ने इह ने यत्कार्यं प्राप्नोति तत्प्रति मुभावो नाऽसिद्ध इत्युच्यते नाभावश्चैव तावन्न प्राप्नोति।। एवं तर्हि,-।। न मु टादेशे।। न मु टादेश इति वक्तव्यम्।। किमिदं टादेश इति?।। टाया आदेशः टादेशः।। यदि तर्हि टाया आदेश इत्युच्यते टायामादेशेऽप्रतिषिद्धं(4) भवति।। तत्र को दोषः?।। अमुना इत्यत्र मुभावस्याऽसिद्धत्वादतो दीर्घो यञ्ञि सुपि चेति दीर्घत्वं प्रसज्येत।। नैषः दोषः झ्र्ठटादेश इति(3)ट सर्वविभक्त्यन्तोऽयं समासः-टाया आदेशः टादेशः, टायामादेशः टादेश इति।। सिध्यति। सूत्रं तर्हि भिद्यते।। यथान्यासमेवाऽस्तु।। ननु चोक्तं ने यत्कार्यं प्राप्नोति तस्मिन्मुभावो नासिद्ध इत्युच्यते नाभावश्चैव तावन्न प्राप्नोतीति।। नैषः दोषः। इहेङि्गतेन चेष्टितेन निमिषितेन महता वा(1) सूत्रनिबन्धेनाचार्याणामभिप्रायो लक्ष्यते। एतदेव(2) ज्ञापयत्याचार्यो(3) भवत्यत्र नाभावःथ्द्य;ति यदयं ने परतोऽसिद्धत्वप्रतिषेधं शास्ति।। अथ वा द्विगता(4) अपि हेतवो भवन्ति। तद्यथा-आम्राश्च सिक्ताः पितरश्च प्रीणिता भवन्ति। तथा वाक्यान्यपि द्विगतानि दृश्यन्ते,-श्वेतो धावति, अलंबुसानां यातेति,(5) अथ वा वृद्धकुमारीवाक्यव(4)दिदं द्रष्टव्यम्। तद्यथा-वृद्धकुमारीन्द्रेणोक्ता वरं वृणीष्वेति, सा वरमवृणीत-पुत्रा मे बहुक्षीरघृतमोदनं कांस्यपात्र्यां भुञ्ञ्जीरन्निति। न च तावदस्याः पतिर्भवति कुतः पुत्राः, कुतो वा गावः, कुतो धान्यम्?।। तत्राऽनयैकेन वाक्येन पतिः पुत्रा गावो धान्यमिति सर्वं सङ्गृहीतं भवति। एवमिहापि नेऽसिद्धत्वप्रतिषेधं ब्रुवता नाभावोऽपि सङ्गृहीतो भवति।।झ्र्न मु नेट