Page loading... Please wait.
8|2|29 - स्कोः संयोगाद्योरन्ते च
॥ तस्मै पाणिनये नमः ॥
8|2|29
SK 380
स्कोः संयोगाद्योरन्ते च   🔊
सूत्रच्छेदः
स्कोः (षष्ठीद्विवचनम्) , संयोगाद्योः (षष्ठीद्विवचनम्) , अन्ते (सप्तम्येकवचनम्) , च (अव्ययम्)
अनुवृत्तिः
लोपः  8|2|23 (प्रथमैकवचनम्) , झलि  8|2|26 (सप्तम्येकवचनम्)
अधिकारः
पदस्य  8|1|16 पूर्वत्रासिद्धम्  8|2|1
सम्पूर्णसूत्रम्
संयोगाद्योः स्कोः पदस्य अन्ते झलि च लोपः
सूत्रार्थः
पदस्य अन्ते यः संयोगः, झलि परतो वा यः संयोगः, तस्य आदिभूतयोः सकारककारयोः लोपः भवति ।
"भृस्ज्" अयम् जकारान्तशब्दः । अस्य शब्दस्य अन्ते संयोगः अस्ति, तस्य च संयोगस्य आदिवर्णः सकारः च अस्ति । अतः पदान्ते अस्य सकारस्य लोपः भवति । यथा - भृस्ज् + भ्याम् इत्यत्र अङ्गस्य पदसंज्ञायां प्राप्तायाम् अनेन सूत्रेण सकारस्य लोपः जायते । अग्रे भृज् + भ्याम् अस्याम् अवस्थायाम् व्रश्चभ्रस्जसृजमृजयजराजभ्राजच्छशां षः 8|2|36 इत्यनेन जकारस्य षकारः, ततः झलां जशोऽन्ते 8|2|39 इत्यनेन षकारस्य जश्त्वे डकारं कृत्वा "भृड्भ्याम्" इति रूपं सिद्ध्यति ।

तथैव, "तक्ष्" अयं षकारान्तशब्दः । अस्य शब्दस्य अन्ते क् + ष् अयं संयोगः अस्ति । अस्य संयोगस्य आदिवर्णः ककारः अस्ति । अतः पदान्ते अस्य सकारस्य लोपः भवति । यथा - तक्ष् + सुँ इत्यत्र हल्ङ्याभ्यो दीर्घात् सुतिस्यपृक्तं हल् 6|1|168 इत्यनेन सुँलोपे कृते प्रत्ययलोपे प्रत्ययलक्षणम् 1|1|62 इत्यनेन तक्ष् इत्यस्य पदसंज्ञायां प्राप्तायाम् अनेन सूत्रेण ककारस्य लोपः भवति । अग्रे "तष्" इत्यस्य जश्त्वचर्त्वे "तट् / तड्" एते द्वे रूपे सिद्ध्यतः ।

ज्ञातव्यम् - इदं सूत्रं विधानसामर्थ्यात् संयोगान्तस्य लोपः 8|2|23 इत्यस्य अपवादः अस्ति ।
One-line meaning in English
If there is a संयोगः at end of a पद, or if there is a संयोगः which is followed by a झल्-वर्ण, and if the first letter of that संयोगः is either स् or क् , then this letter is omitted.
काशिकावृत्तिः
पदस्य अन्ते यः संयोगः, झलि परतो वा यः संयोगः, तदाद्योः सकारककारयोर् लोपो भवति। लस्जेः लग्नः। लग्नवान्। साधुलक्। मस्जेः मग्नः। ककारस्य तक्षेः तट्। तष्टः। तष्टवान्। काष्ठतत्। झलि सङीति वक्तव्यम्। किम् इदं सिङि इति? सनः सप्रभृति महिङो ङकारेण प्रत्याहारः। इह मा भूत्, कष्ठशक्ष्थाता इति। थकारे झलि ककारस्य संयोगादेर् लोपः प्राप्नोति। तदत्र शकेः क्विबन्तस्य प्रयोग एव न अस्ति इत्याह काष्ठशगेव न अस्ति, कुतो ऽयं काष्ठशकि तिष्ठेतिति। वास्यर्थम्, काक्वर्थम् इत्यत्र अपि बहिरङ्गलक्षणस्य यणादेशस्य असिद्धत्वात् संयोगादिलोपो न भवति। स्कोः इति किम्? नर्नर्ति। वर्वर्ति। संयोगाद्योः इति किम्? पयःशक्। अन्ते च इति किम्? तक्षितः। तक्षकः।
झलोति वत्र्तते। `संयोगाद्योः` इति षष्ठीसमासः। अत्र यद्यपि संयोग उत्तरपदार्थो गुणभूतः, तथापि संयोगाद्योः स्कोरन्तग्रहणं विशेषणं न भवतीति गुणभूतोऽपि तेन संयोग एव विशिष्यत इति विज्ञायते, इत्याह--`पदस्यान्ते यः संयोगः` इति। `अन्ते` इति। अवसान इत्यर्थः। `झलि परतः` इति। पदस्येत्यपेक्षते। `तदाद्योः` इति। तस्यैवम्भूतस्य संयोगस्यादिभूतयोरित्यर्थः। `लग्नः` इति। `ओलजो ओलस्जीव्रीडे` (धातुपाठः-1290, 1291), निष्ठा। अत्र जकारे झलि परतः सकारजकारयोर्यः संयोगः पदस्यादयवस्तदादेः सकारस्य लोपः, `ओदितश्च` 8|2|45 इति नत्वम्, `आईदितो निष्ठायाम्` 7|2|14 इतीट्प्रतिषेधः, `चोः कुः` 8|2|30 इति कुत्वम्--गकारः। `साधुलक्` इति। साधु लज्जात इति क्विप्। अत्र पदस्यादसाने संयोगः। 7|1|60 इति नुम्, स च भवत्? `मस्जेरन्त्यात्? पूर्वो नुमनुषङ्गसंयोगादिलोपार्थम्` (वा। 7) इति वचनादन्त्याज्जकारात्? पूर्वो भवति, तस्य च `अनिदिताम्` 6|4|24 इत्यनुनासिकलोपः। `तष्टः` इति। `तक्षू त्वक्षू तनूकरणे` (धातुपाठः-655,656) ऊदित्त्वात्, स्वरत्यादिसूत्रेण 7|2|44 विभाषितेट्; तेन निष्ठायां `यस्य विभाषा` 7|2|15 इतीट्प्रतिषेधः। `काष्ठशवस्थाता` इति। काष्ठं शक्नोतीति क्विप्; काष्ठशकि स्थातेति `सप्तमी` 2|1|39 इति योगविभागात्समासः।`तदत्र` इत्यादिना `झलि सङीति वक्तव्यम्` (वा 917) इति यदुक्तम्, तत्? प्रत्याचष्टे। तदिति वाक्योपन्यासार्थः। `शकेः क्विबन्तस्य प्रयोग एव नास्ति` इति। शकेः `अन्येभ्योऽपि दृश्यते` 3|2|178 इति क्विप्? स्यात्, इह च `दृश्यते` इत्यस्य ग्रहण एवायमर्थः--यत्र लौकिके प्रयोगे क्विबन्तस्य प्रयोगो दृश्यते तत्र यथा स्यादिति, न च लोके काष्ठशगित्येवंविधः शकेः क्विबन्तस्य प्रयोगो दृश्यते। ततः शकेः क्विबन्तस्य प्रयोग एव नास्ति, अतो हेतोः `झलि सङीति वक्तव्यम्` (वा।917) इत्येतत्? प्रत्याख्यातुमाह भाव्यकारः--`काष्ठाशगेव नास्ति; कुतोऽयं काष्ठशकि तिष्ठेत्` इति। आधारपरतन्व उद्घनादावस्य वृत्तिः, अतो यत्र काष्ठशगाधार एव नास्ति, तत्र तदाधेयः स्थाता सुतरामेव नास्ति तस्मान्न झलि सङीति वक्तव्यम्; व्यावर्त्त्याभावात्। इह कस्मान्न भवति--वाक्स्थातेति? संयोगादिलोपे कुत्वम्यासिद्धत्वात्। अथेह कस्मान्न भवति--वास्यार्थम्? काक्यर्थम्? इत्याह--`दास्यर्थम्, काक्यर्थम्` इत्यादि। अथ स्कोरिति किमर्थम्? नर्नर्तीत्यत्र मा भूत्। नृतेर्यङ्लुगन्तस्य `रुग्रिकौ च लुकि` 7|4|91 इत्यभ्यासस्य रुकि कृते रूपमेतत्। `संयोगाद्योरिति किम्? `पयःशक्` इति। क्विबन्तमेतत्। सोपपदस्य हि शकेः क्विबन्तस्य प्रयोग एव नास्ति। केवलस्य तु स्यादेव। अन्ते चेति किम्? तक्षिता, तक्षकः॥
गुणभूतोऽपि संयोगो झलन्ताभ्यां विशेष्यते । संयोगाद्योः पदस्यान्ते स्कोर्यस्मान्नास्ति सम्भवः ॥ इति मत्वाऽऽह---पदस्यान्त इति । झलि च परत इति । पदस्य यः संयोग इत्यपेक्षते । लग्न इति । ठोलस्जी व्रीडेऽ, निष्ठा, ईदित्वादिट्प्रतिषेधः । अत्र तकारे झलि परतः सजयोर्यस्संयोगः तदादिः सकारः, ठोदितश्चऽ इति निष्ठानत्वम्, तस्यासिद्धत्वात् कुत्वम् । साधुलगिति । साधु लज्जत इति क्विप् । मग्न इति । ठ्मस्जिनशोर्झलिऽ इति नुम्, स च जकारात्पूर्वः, ठ्मस्जेरन्त्यात्पूर्वं नुममिच्छन्तिऽ इति वचनात् । तेन ठनिदिताम्ऽ इति नलोपः, सलोपादि पूर्ववत् । तष्ट इति । ठ्तक्षू तनूकरणेऽ, ऊदितावद्विकल्पितेट्, ठ्यस्य विभाषाऽ इतीट्प्रतिषेधः । झलि सङीति वक्तव्यमिति । सङीत्ययं प्रकरणशेषः । किं प्रयोजनम् ? गिरोऽभोधिर्द्विष्टरां च दृषत्स्थः काष्टशक्स्थिरः । क्रुञ्चा धुर्येति मा स्मैषु सत्वादीनि भवन्त्विति ॥ गिर इति---अत्र ठचि विभाषाऽ इति लत्वं मा भूत् । अभोधिरिति---ठ्धि चऽ इति सलोपो न भवति । द्विष्टरामिति---ठ्ह्रस्वादङ्गात्ऽ इति न भवति । दृषत्स्थः---ठ्झलो झलिऽ इति न भवति । काष्ठशक्स्थिरः---ठ्स्कोः संयोगाद्योःऽ इति न भवति । क्रुञ्चा---ठ्चोः कुःऽ इति कुत्वं न भवति । धुरं वहतीति धुर्येति---ठ्हलि चऽ इति दीर्घत्वं न भवति । तथा च वार्तिकम्---ठ्सङ् लित्वलोपसंयोगादिलोपकुत्वदीर्घत्वानिऽ इति । सङीति प्रकृत्य लत्वादीनि वक्तव्यानीत्यर्थः । तदेवं वार्तिककारमतेऽपि चकाधीत्येव भवितव्यम्; सङीति वचनात् । सनः प्रमृतीति । धातुप्रत्ययानां ग्रहणमित्यर्थः । अत्र संयोगादिलोपं प्रयोजनं प्रत्याचष्टे---तदिति । तदिति वाक्योपन्यासे । शकेरिति । ककारान्तोपलक्षणमेतत्, तेन ठ्कक लौल्येऽ, ठ्कुक वृक आदानेऽ इत्यादेरपि क्विबन्तस्य प्रयोगो नास्त्येव । आहुरिति । भाष्यकारादयः । तत्र भाष्यं तावत् पठति---काष्ठशगेवेति । वाक्यर्थमित्यत्र स्थानिवद्भावोऽपि शक्यो वक्तुम् ठ्तस्य दोषः संयोगादिलोपऽ इत्युक्तत्वात् ॥
सिद्धान्तकौमुदी
पदान्ते झलि च परे यः संयोगस्तदाद्योः सकारककारयोर्लोपः स्यात् । भृट् । भृड् । सस्य श्चुत्वेन शः । तस्य जश्त्वेन जः । भृज्जौ । भृज्जः । ऋत्विग् (कौमुदी-373) इत्यादिना ऋतावुपपदे यजेः क्विन् । क्विन्नन्तत्वात्कुत्वम् । ऋत्विक् । ऋत्विग् । ऋत्विजौ । ऋत्विजः । रात्सस्य (कौमुदी-280) इति नियमान्न संयोगान्तलोपः । ऊकर्‌ । ऊगर्‌ । ऊर्जौ । ऊर्जः । त्यदाद्यत्वं पररूपत्वं च ॥
स्कोः संयोगाद्योरन्ते च - तत्र विशेषमाह — स्कोः संयोगाद्योः ।पदस्ये॑त्यधिकृतम् । चकारात्झलो झली॑त्यतोझली॑त्यनुवर्तते । पदस्यान्ते इति झलीति च संयोगेत्यनेन संबध्यते ।संयोगे॑ति लुप्तषष्ठीकं पृथक्पदम् । स् च क् च स्कौ, तयोरिति विग्रहः "संयोगान्तस्य लोपः" इत्यतो "लोप" इत्यनुवर्तते । तदाह — पदन्ते इत्यादिना । अत्र काष्ठशक् स्थातेत्यत्र झल्परसंयोगादित्वात्ककारस्य लोपप्राप्तौ तन्निवृत्त्यर्थं वार्तिकं पठितं-झलीत्यपहायसङीति वक्तव्य॑मिति । सनः सकारमारभ्य आमहिङो ङकारेण प्रत्याहारः । तदिदं वार्तिकं बाष्ये प्रत्याख्यातं-॒काष्ठशगेव नास्तिकुतः काष्ठशक् स्थाते॑ ति । ककारान्तेब्यो नास्ति क्विप्, अनभिधानादित्याशयः । नच पृथक्स्थातेत्यत्र ककारस्य लोपनिवृत्तयेसङी॑ति वार्तिकमावश्यकमिति वाच्यं, तत्प्रत्याख्यानपरभाष्यप्रमाण्यादेवंजातीयकसंयोगादिलोपप्राप्तियोग्योदाहरणानामप्रयोगावगमादिति शब्देन्दुशेखरे स्पष्टम् । भृट्-भृडिति । भृस्ज् स् इति स्थिते हल्ङ्यादिलोपेस्को॑रिति सकारलोपे जकारस्य व्रश्चादिना षत्वे जश्त्वचर्त्वे इति भावः । यद्यपि जकारस्य संयोगान्तलोपेऽपि सकारस्यव्रश्चे॑ति षत्वे जश्त्वचत्र्वयोर्भृट्-भृड् इति सिध्यति तथापि न्याय्यत्वादिह संयोगादिलोप एव भवति । सस्येति । भृस्ज-औ इत्यादावचि पदान्तझल्परसंयोगादित्वाऽभावान्न संयोगादिलोपः ।झलां जस् झशी॑ति जश्त्वस्या.ञसिद्धत्वात्सकारस्य श्चुत्वमिति भावः । तस्येति । शकारस्येत्यर्थः । तालुस्थानकत्वात्शकारस्य जकारः । नच जश्त्वस्यासिद्धत्वात्शकारस्य व्रश्चेति षत्वं शङ्क्यं, षत्वं प्रति श्चुत्वस्याऽसिद्धत्वात् । ब्यामादौ तु "स्वादिषु" इति पदत्वात्संयोगादिलोपः । व्रश्चेति षत्वं, जश्त्वं च । भृड्भ्यमित्यादि । ऋत्विगित्यादिनेति । "ऋ गतौ" औणादिकस्तुः । ऋतुः=गमनं, प्रापति, दक्षिणाद्रव्यलाभो विवक्षितः । तस्मिन्निमित्ते यजन्ति=यज्ञियव्यापारं कुर्वन्तीत्यर्थे ऋतावुपपदे यजधातोः क्विन् ।वचिस्वपी॑ति यकारस्य संप्रसारणमिकारः । पूर्वरूपम् । यणादेशश्च । ऋत्विजिति रूपम् । ततः सोर्हल्ङ्यादिलोपः । एतावत्सिद्धवत्कृत्याह — क्विन्नन्तत्वात्कुत्वमिति.॒क्विन्प्रत्ययस्येत्यनेने॑ति शेषः । एतदर्थमेव क्विन्विधानमिति भावः । नच क्विपि "चोः कुः" इति कुत्वेनैवैतत्सिध्यतीति वाच्यं, चोः कुरिति कुत्वं हिव्रश्चे॑ति षत्वेनाऽपवादत्वाद्बाध्येत ।क्विन्प्रत्ययस्ये॑ति कुत्वं तु क्विन्विधिसामथ्र्यादेव न बाध्यते । यष्टेत्यादौ षविधेश्चरितार्थत्वादिति भावः । ऊर्क ऊर्गिति ।ऊर्ज बलप्राणनयोः॑चुरादिण्यन्तात्भ्राजभासे॑त्यादिना क्विप्, णिलोपः । ऊर्जिति रूपम् । ततः सोर्हल्ङ्यादिलोपः । "चोः कुः" इति जस्य कुत्वं गकारः । "वाऽवसाने" इति चत्र्वविकल्पः । नच कुत्वे कर्तव्ये णिलोपस्य स्थानिवत्त्वं शङ्क्यं , पदान्तविधौ तन्निषेधात्, पूर्वत्रासिद्धीये न स्थानिव॑दिति वचनाच्च । इति जान्ताः । अथ दकारान्ता निरूप्यन्ते । त्यद्शब्दस्तद्शब्दपर्यायः । तस्य विशेषमाह — त्यदाद्यत्वं पररूपत्वमिति । सर्वत्र विभक्तावुत्पन्नायां "त्यदादीनाम" इति दकारस्यान्त्यस्य अकारः, "अतो गुणे" इति पररूपं चेत्यर्थः । तथश्चाऽदन्तवद्रूपाणीति भावः । त्य स् इति स्थिते ।
स्कोः संयोगाद्योरन्ते च - स्कोः ।पदस्ये॑त्यनुवर्तते,झलो झलि॑त्यतोझली॑ति च ।संयोगे॑ति लुप्तषष्ठीकं झलन्ताभ्यां विशेष्यते । तदेतदाह — पदान्ते झलि च परे इति । झलि किम्भ्रष्टा । भृज्जतीति भृट् । क्विप् ।ग्रहिज्ये॑ति संप्रसारणम् ।व्रओ॑ति षत्वम् । ऊर्गिति ।ऊर्ज बलप्राणनयोः॑ । अस्माच्चुरादिण्यन्तात्भ्रजभासे॑त्यादिना क्विपि णिलोपः, स च चोः कुत्वे न स्थानिवत्, पदान्तविधित्वात्, पूर्वत्राऽसिद्धत्वाच्च । इह जान्तेषु — अवयाः । अवयाजौ । अवयाजैति नोदाह्मतं,मन्त्रेओतवहोक्थे॑ति पर्कृत्यअव यजः॑इति विहितस्य ण्विनस्तदपवादस्य पदान्ते ङसश्छान्दसत्वेन वैदिकप्रक्रियायामेव वक्तुमुचित्वात् । इति जान्ताः ।
लघुसिद्धान्तकौमुदी
पदान्ते झलि च यः संयोगस्तदाद्योः स्कोर्लोपः। भृट्। सस्य श्चुत्वेन सः। झलां जश् झशि इति शस्य जः। भृज्जौ। भृड्भ्याम्॥ त्यदाद्यत्वं पररूपत्वं च॥
महाभाष्यम्
Text Unavailable. Please use feedback link below to provide the text if you have.