Page loading... Please wait.
8|2|23 - संयोगान्तस्य लोपः
॥ तस्मै पाणिनये नमः ॥
8|2|23
SK 54
संयोगान्तस्य लोपः   🔊
सूत्रच्छेदः
संयोगान्तस्य (षष्ठ्येकवचनम्) , लोपः (प्रथमैकवचनम्)
अनुवृत्तिः
-
अधिकारः
पदस्य  8|1|16 पूर्वत्रासिद्धम्  8|2|1
सम्पूर्णसूत्रम्
संयोगान्तस्य पदस्य लोपः
सूत्रार्थः
संयोगान्तम् यत् पदम् तस्य अन्तिमवर्णस्य लोपः भवति ।
यत्र द्वयोः व्यञ्जनयोः स्वरस्य विरामस्य वा व्यवधानं विना उच्चारणम् "संयोगः" नाम्ना ज्ञायते । यदि कस्यचन पदस्य अन्ते संयोगः अस्ति, तर्हि तस्य संयोगस्य अन्तिमवर्णस्य लोपः भवति । यथा -

1) विद्वस्-शब्दस्य पुँल्लिङ्गस्य प्रथमैकवचनस्य रूपम् -
विद्वस् + सुँ [प्रथमैकवचनस्य प्रत्ययः]
→ विद्व् न् स् + सुँ [उगिदचां सर्वनामस्थाने अधातोः 7|1|70 इति नुमागमः]
→ विद्वान् स् सुँ [सान्तमहतः संयोगस्य 6|4|10 इति नकारस्य उपधावर्णस्य दीर्घः]
→ विद्वान् स् [हल्ङ्याब्भ्यो दीर्घात् सुतिस्यपृक्तं हल् 6|1|68 इत्यनेन सकारस्य लोपः]
→ विद्वान् [संयोगान्तस्य लोपः 8|2|23 इत्यनेन सकारस्य लोपः]

2) पठ्-धातोः लङ्लकारस्य प्रथमपुरुषबहुवचनस्य रूपम् -
पठ् + लङ्
→ अट् + पठ् + लङ् [लुङ्लङ्लृङ्क्ष्वडुदात्तः 6|4|78 इति अडागमः]
→ अ + पठ् + झि [प्रथमपुरुषबहुवचनस्य विवक्षायाम् झि-प्रत्ययः]
→ अ + पठ् + शप् + झि [कर्तरि शप् 3|1|68 इति औत्सर्गिकं गणविकरणम् शप् ]
→ अ + पठ् + शप् + झ् [इतश्च 3|4|100 इति इकारस्य लोपः]
→ अ + पठ् + अ + अन्त् [झोऽन्तः 7|1|3 इति झकारस्य अन्त्-आदेशः]
→ अपठन्त् [अतो गुणे 6|1|97 इति पररूप-एकादेशः अकारः]
→ अपठन् [संयोगान्तस्य लोपः 8|2|23 इत्यनेन तकारस्य लोपः]
One-line meaning in English
The last letter of a पद that ends in a संयोग is removed.
काशिकावृत्तिः
संयोगान्तस्य पदस्य लोपो भवति। गोमान्। यवमान्। कृतवान्। हतवान्। इह श्रेयान्, भूयानिति रुत्वम् परम् अपि असिद्धत्वात् संयोगान्तसय् लोपं न बाधते। जश्त्वे तु नाप्राप्ते तदारभ्याते इति तस्य बाधकं भवति, यशः, पयः इति। दध्यत्र, मध्वत्र, इत्यत्र तु यणादेशस्य बिहिरङ्गलक्षणस्य असिद्धत्वात् संयोगान्तलोपो न भवति।
`संयोगान्तस्य` इति। संयोगोऽन्तो यस्य तत्तथोक्तम्। अन्तग्रहणं विस्पष्टार्थम्। `पदस्य` 8|1|16 इति हि वत्र्तते, तत्र संयोगेन पदे विशिष्यमाणे `येन विधिस्तदन्तरस्य` 1|1|71 इत्येव संयोगान्तता पदस्य लभ्यते। `गोमान्` इति। हल्ङ्यादिलोपे कृतेऽलोऽन्त्यस्य लोपः 1|1|51 , `अत्वसन्तस्य चाधातोः` 6|4|14 इति दीर्घः। `क्षेयान्, भूयान्` इति। अत्र संयोगान्तलोपे न प्राप्नोति; परत्वाद्रुत्वेन बाध्यत इति यो मन्येत, तं प्रत्याह--`श्रेयान्, भूयान्` इत्यादि।यदि तर्हि परमपि रुत्वमसिद्धत्वात्? संयोगान्तसय बाधकं न भवति, एवं सत्यत एव हेतोर्जश्त्वस्यापि बाधकं न स्यात्, ततश्च यशः, पय इति जशत्वमेव स्यात्, न रुत्वम्? इत्यत आह--`जश्त्वे तु` इत्यादि। संयोगान्तलोपे हि प्राप्ते चाप्राप्ते च रुत्वमारभ्यते। श्रेयानित्यादौ प्राप्ते, पय इत्यत्र त्वप्राप्त इति युवतं यद्रुत्व न बाधते। जश्त्वे तु सर्वत्र प्राप्त एव तदारभ्यते। श्रेयानित्यादौ प्राप्ते, पय इत्यत्र त्वप्राप्त इति युक्तं यद्रूत्व न बाधते। जश्त्वे तु सर्वत्र प्राप्त एव तदारभ्यते। तस्माद्बाधकलक्षणयोगाद्रुत्वं जश्तवस्य बाधकं भवत्येव। श्रेयानिति--`प्रहशस्यस्य श्रः` 5|3|6 ) इतीयसुनि श्रभावः, `आद्गुणः` 6|1|84 , `सान्तमहतः` 6|4|10 इति दीर्घः। भूयानिति--`बहोर्लोपो भू च बहोः` 6|4|158 इतीयसुनि ईकारस्य लोपः, बहोश्च भूभावः। अथ दध्यत्र, मध्वत्रेत्यत्र संयोगान्तलोपः कस्मान्न भवति? इत्याह--`दध्यात्र` इत्यादि। बहिरङ्गत्वं तु यणादेशस्य द्विपदाश्रयत्वात्। संयोगान्तलोपस्य त्वेकपदाश्रयत्वादन्तरङ्गत्वम्। पदस्येति किम्? गोमन्तौ, गोमन्तः॥
इह श्रेयान्, भूयानिति संयोगान्तलोपो न प्राप्नोति, परत्वाद्रुत्वेन बाध्यमानत्वात् ? इत्याशङ्क्याह---इहेति । यथैव तर्हि रुत्वमसिद्धत्वात्संयोगान्तलोपं न बाधते, तथा जश्त्वमपि न बाधेत; ततश्च पयः, यश इति जश्त्वमेव स्याद् ? अत आह---जश्त्वे त्विति । संयोगान्तलोपे हि प्राप्तेऽप्राप्ते च रुत्वमारभ्यते---श्रेयानित्यादौ प्राप्ते, पय इत्यादौ त्वप्राप्ते । जश्त्वे तु सर्वत्र प्राप्ते एव । तस्माद्येननाप्राप्तिन्यायेन जश्त्वमेव बाध्यते, न संयोगान्तलोपः । दध्यत्रेत्यादि । यणादेशो हि द्विपदाश्रयत्वाद्वहिरङ्गः, संयोगान्तस्य लोपस्तु एकपदाश्रयत्वादन्तरङ्गः । अन्तग्रहणं शक्यमकर्तुम् । ठ्पदस्यऽ इति वर्तते, संयोगेन हि पदे विशेष्यमाणे तदन्तविधिना ठ्संयोगान्तस्यऽ इति लभ्यत एव ॥
सिद्धान्तकौमुदी
संयोगान्तं यत्पदं तदन्तस्य लोपः स्यात् । इति यलोपे प्राप्ते ॥यणः प्रतिषेधो वाच्यः (वार्तिकम्) ॥ ।यणो मये द्वे वाच्यो (वार्तिकम्) ॥ मय इति पञ्चमी यण इति षष्ठी इति पक्षे यकारस्यापि द्वित्वम् । तदिह धकारयकारयोर्द्वित्वविकल्पाच्चत्वारि रूपाणि ॥ एकधमेकयम् । द्विधं द्वियम् । द्विधमेकयम् । एकधं द्वियम् । सुद्ध्युपास्यः । मद्ध्वरिः । धात्रंशः । लाकृतिः ।
संयोगान्तस्य लोपः - तदाह — प्रसक्तस्येति । तत्र श्रवणाऽभावात्मके लोपे विहिते श्रवणार्थमुच्चारणमपि नास्तीत्यर्थाल्लभ्यते । प्रसक्तस्य किम् दधीत्यादौ क्विपोऽश्रवणात्मकलोपस्य प्रत्ययलक्षणमाश्रित्य ह्यस्वस्य पिति कृतीति तुग्मा भूत् । संयोगान्तस्य लोपः । पदस्येत्यधिकृतम् । संयोगोऽन्तो यस्येति विग्रहः । संयोगान्तस्य पदस्य लोप इत्यन्वयः । न च कृत्स्नपदस्य लोपः किन्त्वलोऽन्त्यस्येति परिभाषया तदन्तस्यैव । तदाह — संयोगान्तमित्यादिना । अत्र अन्तग्रहणं स्पष्टार्थमेव । संयोगस्य पदविशेषणतया येन विधिरित्येव तदन्तलाभात् । यत्तु संयोगावन्तौ यस्येति विग्रहलाभार्थमन्तग्रहणम् । अन्यथा सुदृषत्प्रासाद इत्यत्र पकारात् पूर्वस्यतकारस्य लोपः स्यादिति, तन्न, संयोगसंज्ञाया व्यासज्यवृत्तित्वात्, प्रत्येकवृत्तित्वमब्युपगम्या.ञन्तग्रहणप्रयोजनवर्णनस्य व्यर्थत्वादिति शब्दरत्ने विस्तरः ।इति यलोप इति । सुध् य इति यकारस्याऽनेन सूत्रेण लोपे प्राप्ते तत्प्रतिषेध आरभ्यते । यणः प्रतिषेधो वाच्यः । यणः संयोगान्तलोपप्रतिषेधो वक्तव्य इत्यर्थः ।अनेन वार्तिकेन यकारस्य संयोगान्तलोपो न भवती॑ति शेषः । इदं वार्तिकमाकरे प्रत्याख्यातम् । अथात्र यकारस्याऽचः परत्वाऽभावादच्परकत्वाच्चाऽनचि चेति द्वित्वाऽप्राप्तौ द्वित्वविधिमाह — यणो मयो द्वे वाच्ये । अनेन वार्तिकेन यकारस्य द्वित्वमित्यन्वयः । ननु यदि यण इति पञ्चमी मय इति षष्ठी तर्हि यणः परस्य मयो द्वित्वमिति लभ्यते । प्रकृते च यकारो न यणः परो नापि मय् । अतः कथमनेन वार्तिकेन तस्य द्वित्वमित्यत आह — मय इतीति । "पक्षे" इत्यनेन उभयथा व्याख्यानमिष्टमिति सूचि तम् । विनिगमनाविरहादिति भावः । अत्रापि वार्तिके "यरोऽनुनासिक" इत्यतो "वा" ग्रहणमनुवर्तते । ततश्च फलितमाह — तदिहेति ।त॑दित्यव्यम् । इयता संदर्भेण यत्प्रपञ्चितं तेन इह=सुध् यित्यत्र यकारधकारयोर्द्वित्वविकल्पाच्चात्वारि रूपाणि सम्पद्यन्ते इत्यर्थः । एकधमेकयमिति । एको धकारो यस्य तदेकधम् । एवमेकयमित्यपि । धकारयकारयोरुभयोरपि द्वित्वाऽभावे एकधकारमेकयकारं च प्रथमं रूपमित्यर्थः । द्विधं द्वियमिति । द्वो धाकारौ यस्य द्विधम् । एवं द्वयमित्यपि । धकारयकारयोरुभयोरपि द्वित्वे द्वियकारं द्विधाकारं च द्वितीयं रूपमित्यर्थः । द्विधमेकयमिति । धकारस्य द्वित्वे यकारस्य द्वित्वाऽभावे द्विधमेकयं च तृतीयं रूपमित्यर्थः । एकधं द्वियमिति । धकारस्य द्वित्वाऽभावे यकारस्य द्वित्वे एकधं द्वियं च चतुर्थं रूपमित्यर्थः । सुद्ध्युपास्य इति । इहन भूसुधियो॑रिति निषेधस्तु न भवति, तस्याऽजादौ सुपि विधानात् । "इकोऽसवर्ण" इत्यपि न,न समासे इति तन्निषेधात् । मद्ध्वरिरिति । मधुर्नाम असुरविशेषः तस्यारिश्शत्रुः — मद्ध्वरिः । हरिरित्यर्थः । अत्र धकारादुकारस्य स्थानत आन्तर्याद्यथासंख्यपरिभाषया वा वकारः । न चात्र वकारस्य द०न्तस्थानाधिक्यान्न स्थानसाम्यमिति वाच्यं, यावत्स्थानसाम्यस्य सावण्र्यप्रयोजकत्वेऽपि आन्तरतम्ये यत्किञ्चित्स्थानसाम्यस्यापि प्रयोजकत्वात् । अन्यथा चेता स्तोतेत्यादौ इकारादेरेकाराद्यनापत्तेः । धात्रंश इति । अत्र तकारस्यैव द्वित्वं न तु रेफस्येत्यनुपदमेव अचोरहाब्यामित्यत्र वक्ष्यते । लाकृतिरिति । लृवर्णस्य आकृतिरिव आकृतिर्यस्येति विग्रहः । अत्र आकारे परे लृवर्णस्य दन्तस्थानसाम्याल्लकारः । न च दन्तस्थानसाम्यात्प्रथमातिक्रमे कारणाऽभावाच्च तस्य वकार एवास्तु । आन्तरतम्ये यत्कचित्स्थानसाम्यस्य प्रयोजकताया मध्ध्वरिरित्यत्रोक्तत्वादिति वाच्यम्, त्र हि चत्वारो यणो यवरला विधेयाः । तत्र वकारविधिरुकारे ओष्ठस्थानसाम्यान्निस्सपत्नः सावकाशः, तत्र लकारस्य दन्तरूपस्थानभेदादप्राप्तेः । लाकृतिरित्यत्र लृवर्णे तु वकारो लकारश्चेत्युभयमपि प्राप्तम् । अत्र शब्दपरविप्रतिषेधमाश्रित्य लकारविधिः परत्वादपवादत्वाच्च वकारविधिं बाधते । यदि हि प्रथमातिक्रमे कारणाऽबावादत्रापि वकार एव स्यात्तर्हि लकारविधिर्निरवकाश एव स्यात् । अतोऽत्र लृवर्णस्य लकार एवेत्यास्तां तावत् ।
संयोगान्तस्य लोपः - संयोगान्तस्य । तदन्तस्येति । अलोऽन्त्यस्ये॑ति परिभाषयेति भावः । यद्यपि विशेषणेन तदन्तविधिवलाभात्संयोगस्येत्येव सूत्रयितुमुचितं तथापिप्रत्येकं संयोगसंज्ञे॑ति पक्षेदृष्टत्करोती॑त्यादौ लोपं वारयितुं संयोगावन्तौ यस्येति द्विवचनान्तेन समासलाभार्थमन्तग्रहणमिति मनोरमायां स्थितम् ।संयोग॑ इति महासंज्ञाकरणसामथ्र्यादेकस्य संयोगसंज्ञा न भविष्यतीति अन्तग्रहणमिह त्यक्तुं शक्यम् । यणः प्रतिषेधः इति । वाचनिकमिदम् । यद्वा वाच्यो=व्याख्येयः । व्याख्या च द्वेधा,झलो झली॑त्यतो झल्ग्रहणमपकृष्य झल एव लोपो विधीयत इति, अन्तरङ्गे लोपे कर्तव्ये बहिरङ्गस्य यणोऽसिद्धत्वमिति वा । न च षाष्ठी परिभाषा त्रैपादिकमन्तरङ्गलोपं न पश्यतीति वाच्यम्; कार्यकालपक्षाभ्युपगमात् । न चनाजानन्तर्ये॑ इति निषेधः, उत्तरकालप्रवृत्ते लोपेऽजानन्तर्याभावात् । तदुक्तम्-॒संयोगान्तलोपे यणः प्रतिषेधः॑ ।न वा झलो लोपात्बहिरङ्गलक्षणत्वाद्वे॑ति । चत्वारि रूपाणीति । इह धकारस्य द्वित्वे जश्त्वे च कृतेपूर्वत्रासिद्धीयमद्वित्वे॑ इति जशोऽसिद्धत्वाभावेन लक्ष्यभेदात्पुनर्दकारे द्वित्वप्रवृत्तौ रूपाधिक्यमस्ति । अत्र केचिदाहुः-॒उकारात्पर्सय यरो द्वित्वे कृते पुनरुकारात्परस्य यरो द्वित्वं न भवति, निमित्तभादेभावादित्याशयेनेदमुक्तमिति । तेषां तु तुदादिगणेवव्रश्चेत्यत्र उरदत्त्वस्य, अचः परस्मिन्निति स्थानिवद्भावान्न संप्रसारणे इति वस्योत्वं ने॑ति समाधानग्रन्थो मूलस्थो विरुध्येत, तन्निमित्तस्य लिटो भेदाऽभावादिति दिक् । अन्ये तु धकारस्य जश्त्वे कृतेपूर्वत्रासिद्धीयमद्वित्वे॑ इति जशोऽसिद्धत्वाबावाद्दकारे पुनर्द्वित्वं भवत्येव, व्यक्तिभेदात् । अत एव सय्यँन्तेत्यादौ परसवर्णद्वित्वं भाष्यकृता उदाह्मतम् ।षट्ट्स्सन्त॑ इत्यत्र सकारद्वित्वसिद्धयेपूर्वत्रासिद्धीयमद्वित्वे॑ इति मनोरमायामप्युक्तम् । एवं यकारेऽपि द्वित्वस्य पुनः प्रवृत्तौ क्षत्यभावः, आष्टमिकद्विर्वचनस्य स्थाने द्विर्वचनरूपत्वात्स्थान्यादेशव्यत्तयोश्च भेदात् । यत्तूक्तं मनोरमायायम्-॒एकस्यां व्यक्तौ एकं लक्षणं सकृदेव प्रवर्तते॑ इतिएकः पूर्वपरयोः॑ इति सूत्रे भाष्ये सिद्धान्तितत्वात्कथं पुनर्द्वित्वप्रवृत्तिः, अन्यथा द्वित्वानन्त्यापत्ते॑-रित्यादि, तदनवधाननिबन्धनम्,तत्राधानादिशास्त्रदृष्टान्तेन प्रयोगान्तरेऽपि गुणादिशास्त्रप्रवृत्तेरेव सिद्धान्तितत्वात्, न तु सकृच्छास्त्र प्रवृत्तेः । आनन्त्यापत्तिरपि प्रकृते न दोषः । सा हि अनन्तकार्यसहितप्रयोगस्याशक्यत्वात्तच्चास्त्रकत्र्तव्यस्य परिनिष्ठितप्रयोगस्याऽभावात्तच्छास्त्रस्याननुष्ठापकत्वापत्त्या दोषः । प्रकृते तु नास्ति, द्वित्वस्य वैकल्पिकत्वेन यावच्छक्ति द्वित्वप्रयोगसहितस्य परिनिष्ठितत्वेन तेनैव शास्त्रस्य कृतार्थत्वात् ।लिटि धातो॑रिति द्वित्वस्य तु नित्यत्वादानन्त्यापत्तेः क्वचिद्विश्रान्तौ कल्पनीयायां लाघवात्प्रथमप्रवृत्तावेव विश्रान्तिकल्पनादनभ्यासग्रहणं प्रत्याख्यातम् । अत एवसर्वस्य द्वे॑ इत्यस्यापि न पुनः पुनः प्रवृत्तिरित्याहुः । नन्वत्रइकोऽसवर्णे॑ इति शाकल्यमतेन रूपान्तरमस्त्विति चेन्मैवम्; समासे तन्निषेधात् । न च नित्यसमास एव तन्निषेध इति वाच्यम्;सिन्नित्यसमासयोः शाकलप्रतिषेधः॑ इति वार्तिकस्थनित्यग्रहणस्य भाष्ये प्रत्याख्यतत्वात् । मनोरमायां तु जश्त्वेन दकारे कृते तस्य द्वित्वं नेत्याद्य#आशयेन सकारद्वित्वेनाष्टौ, विसर्गाद्वित्वेन षोडशेत्युक्तम् । द्विधमिति । यद्यपि धस्य जश्त्वेन दकारे धद्वय नास्ति, तथापि भूतपूर्वगतिमाश्रित्यैवमुक्तम् । सुध्युपास्य इति ।कर्तृकरणे कृता बहुल॑मिति तृतीयासमासः । नन्विह यणेव दुर्लभः,सुधी॑शब्दस्य ध्यायतेः संप्रसारणेन निष्पन्नत्वेनसंप्रसारणाच्चे॑ति पूर्वरूपापत्तेरिति चेन्मैवम्,संप्रसारणपूर्वत्वे समानाङ्गग्रहण॑मिति वार्तिकोक्तेः । न चैवमपि न भूसुधियो॑रिति यण्निषेधः शङ्क्यः ; आङ्गत्वेन प्रत्यये परत एव तन्निषेधप्रवृत्तेः ।सुपी॑त्यनुवर्त्त्य सुपि परत एव यण्निषेधाच्च । धात्रंश इति । अत्र रेफस्य द्वित्वं न, द्वित्वप्रकरणेरहाभ्या॑मिति साक्षाच्छतेन निमित्तभावेन रेफस्य कार्यित्वबाधनात् ।सुध्युपास्य॑ इत्यादौ तु स्थानित्वेन निमित्तत्वमिको न बाध्यते,तस्मादित्युत्तरस्य॑वाय्वृतुपित्रुषसः॑ इत्यादिनिर्देशाज्ज्ञापकात् । तकारस्य तु द्वित्वं भवत्येव । तच्च वेत्यतो रूपद्वयम् ।
लघुसिद्धान्तकौमुदी
संयोगान्तं यत्पदं तदन्तस्य लोपः स्यात्॥
महाभाष्यम्
संयोगान्तस्य लोपः ।। संयोगान्तस्य लोपे यणः प्रतिषेधः।। संयोगान्तस्य लोपे यणः प्रतिषेधो वक्तव्यः। दध्यत्र मध्वत्रेति।। संयोगादिलोपे चझ्र्काक्यर्थं(2) वास्यर्थम्ट।। संयोगादिलोपे च यणः प्रतिषेधो वक्तव्यः।। किमर्थम्(3)?।।काक्यर्थं वास्यर्थम्। ।। न वा झलो लोपात्।। न वा वक्तव्यम्।। किं कारणम्?।। झलो लोपात्।। झलो लोपः संयोगान्तलोपो वक्तव्यः।। बहिरङ्गलक्षणत्वाद्वा।। अथ वा बहिरङ्गो यणादेशोऽन्तरङ्गो लोपः। असिद्धं बहिरङ्गमन्तरङ्गे। ।। संयोगान्तलोपे सग्रहणम्।। संयोगान्तलोपे सग्रहणं कर्तव्यम्। संयोगान्तलोपः सस्य चेति वक्तव्यम्। इहापि यथा स्यात् ‐ श्रेयान् भूयान् ज्यायान्।। किं पुनः कारणं न सिध्यति?।। परत्वाद्रुः प्राप्नोति।। असिद्धो रुस्तस्याऽसिद्धत्वाल्लोपो भविष्यति।। न सिध्यति।। किं कारणम्?।। रुविधानस्याऽनवकाशत्वात्।। अनवकाशो(1) रुर्लोपं बाधेत।। सावकाशो रुः।। कोऽवकाशः?।। पयः शिरः।। ननु चात्रापि जश्त्वं प्राप्नोति, स यथैव रुर्जश्त्वं बाधते एवं लोपमपि बाधेत।। न बाधते।। किं कारणम्?।। येन नाऽप्राप्ते तस्य बाधनं भवति न चाऽप्राप्ते जश्त्वे रुरारभ्यते,लोपे पुनः प्राप्ते चाप्राप्ते च ।। झ्र्अथवा(2)ट योगविभागात्सिद्धम्(3)।।अथवा योगविभागः करिष्यते। एवं वक्ष्यामि ‐ संयोगान्तस्य लोपोऽरात्। संयोगान्तस्य लोपो भवत्यरात्।। ततः सस्य। सस्य च लोपो भवति संयोगान्तस्य।। किमर्थम्पुनरिदमुच्यते?।। प्रतिषिद्धार्थं रुबाधनार्थं च।। अथ वा यदेतद्रात्सस्येति सग्रहणं तत्पुरस्तादपक्रक्ष्यते(1) ‐ संयोगान्तस्य लोपः। ततः सस्य। सस्य च संयोगान्तस्य लोपो भवति। ततः ‐ रात्। रात्सस्यैव संयोगान्तस्य लोपो भवतीति(2)। अथ वा रात्सस्येत्यत्र संयोगान्तस्य लोप इत्येतदनुवर्त्तिष्यते।। झ्र्संयोगान्तस्य लोपःट।