Page loading... Please wait.
8|2|18 - कृपो रो लः
॥ तस्मै पाणिनये नमः ॥
8|2|18
SK 2350
कृपो रो लः   🔊
सूत्रच्छेदः
कृपः (षष्ठ्येकवचनम्) , रः (षष्ठ्येकवचनम्) , लः (प्रथमैकवचनम्)
अनुवृत्तिः
-
अधिकारः
पदस्य  8|1|16 पूर्वत्रासिद्धम्  8|2|1
सम्पूर्णसूत्रम्
Will be updated soon
सूत्रार्थः
Will be updated soon.
One-line meaning in English
Will be updated soon.
काशिकावृत्तिः
कृपेः धातोः रेफस्य लकारादेशो भवति। रः इति श्रुतिसामान्यम् उपादीयते। तेन यः केवलो रेफो, यश्च ऋकारस्थः, तयोर् द्वयोरपि ग्रहणम्। लः इत्यपि सामन्यम् एव। ततो ऽयं केवलस्य रेफस्य स्थाने लकारादेशो विधीयते। ऋकारस्य अप्येकदेशविकारद्वारेण लृकारः, एवं च लुटि च क्लृपः 1|3|93 इत्येवम् आदयो निर्देशा उपपद्यन्ते। कल्प्ता। कल्प्तारौ। कल्प्तारः। चिक्लृप्सति। क्लृप्तः। क्लृप्तवान्। कृपा इत्येततृपेः सम्प्रसारणम् च इति भिदादिषु पाठाद् भवति। तस्य हि कृतसम्प्रसारणस्य लाक्षणिकत्वातिह कृपः इति ग्रहणं न अस्ति। कृपणकृपीटक्रपूरादयो ऽपि क्रपेरेव द्रष्टव्याः। उणादयो बहुलम् 3|3|1 इति वा कृपेरेव लत्वाभावः। वालमूललघ्वसुरालम् अङ्गुलीनां वा रो लमापद्यत इति वक्तव्यम्। वालः, वारः। मूलम्, मूरम्। लघु, रघु। असुरः, असुलः। अलम्, अरम्। अङ्गुलिः, अङ्गुरिः। कपिलकादीनां संज्ञाछन्दसोर् वा रो लमापद्यत इति वक्तव्यम्। कपिरकः, कपिलकः। तिल्पिलीकम्, तिर्पिरीकम्। लोमानि, रोमाणि। पांशुरम्, पांशुलम्। कर्म, कल्म। शुक्रः, शुक्लः। रलयोरेकत्वस्मरणम् इति केचित्। किम् इदम् एकत्वस्मरणमिति? समानविषयत्वम् एव तयोः स्मर्यते इत्यर्थः।
इह र इति वर्ण उपादीयते, ल इत्यस्यादेशस्तादृश एव; ततश्च केवलो यो रेफवरणो नावयवभूतस्तस्यैव तथाभूत एव लकारादेशः स्यात्, ऋकारस्य तु लकारो न स्यात्; तयोः स्थान्यादेशभावेन सूत्रोऽनुपादानात्। ततश्च क्लृप्तः, क्लृप्तवानित्यादि न सिध्येदिति यश्चोदयेत्, तं प्रत्याह--`र इति सामान्यमुपादीयते` इति। वर्णत्वावर्णत्वकृतं भेदमुत्सृज्य यत्? सामान्य वर्णात्मिकायामवर्णात्मिकायां च रेफव्यक्तौ वत्र्तते यतस्तयोर्वर्णत्वावर्णत्वादिभेदभिन्नयोद्र्वयोरपि र इत्यभिधानप्रत्ययावभिन्नौ भवतस्तदुपादीयते, न तु वर्णात्मकः--एवं विशेषः। `तेन` इति। सामान्योपादानेन द्वयोरपि ग्रहणं भवतीति। तस्य सामान्यस्य द्वयोरपि भावात्? `ल इत्यपि सामान्यमेव` इति। उपदीयत इत्यपेक्षते। अत्रापि तेन यश्चकेवलो लकारो यश्च लृकारस्थः, तयोद्र्वयोरपि ग्रहणमित्येतद्वाच्यम्? पूर्वानुसारेण गम्यमानार्थत्वान्नोक्तम्। `ततोऽयम्` इत्यादि। यत एवं द्वयोरपि रेफयोलकारयोश्च ग्रहणम्, तस्मात्? केवलस्य रेफस्य केवलो लकार आदेशो विधीयते। आन्तरतम्यादृकारस्यापि लृकारः। ननु च सत्यपि द्वयोरपि ग्रहणे ऋकारस्य स्थान ऋकारो विधीयत इत्येतन्न लभ्येत, न हि ऋकारस्थो रेफ ऋकारो भवति, किं तर्हि? तदवयवः; तत्र द्वयोरपि ग्रहणे सति ऋकारस्थस्यापि रेफस्य लृकारस्थो लकारस्त त्सदृश एवान्तरतन्याद्भवतीत्येषोऽर्थो लभ्यते, न तु ऋकारस्यापि स्थाने लृकारो भवतीत्येषोऽर्थोऽपि? इत्येतस्य चोद्यस्य निराकरणार्थं `एकदेशविकारहद्वारेण` इत्युक्तम्। एकदेश ऋकारस्यावयवो रेफस्तस्य विकार लृकारावयवो लकारः। अथ वा--एकदेश लृकारस्यावयवो लकारः, स एव विकारः। ऋकारस्य रेफस्यैकदेशविकारः। द्वारम्--मुखम्, उपाय इति यावत्। तेन ऋकारस्य स्थान लृकारादेशो विधीयते। यदि ऋकारलृकारस्थयो रेफलकारयोरृकारलृकाराभ्यां पृथग्भावः सम्भवति। तस्मान्नान्तरीयकत्वादेकदेशविकारद्वारेण समस्तस्यैव ऋकारस्य समस्त एव लृकारादेशो विधीयते। अस्यैवार्थस्य द्रढीकरणायाह--`एवं च` इत्यादि। यत एवमेकदेशविकाद्वारेण ऋकारस्य स्थाने लृकारो विधीयते, एवञ्च `लुटि च क्लृपः` इत्येवमादीनां ग्रहणम्। तदेवं चोद्यं परिहरता यदुक्तम्--`नुङ्विधिलादेशविनामेष्वृकारः [`ऋकारे`--काशिका, पदमञ्जरी च] प्रतिविधातव्यः` [विधातव्यम्--काशिका, पदमञ्जरी च] (वा।1) इति, तत्रावसरे प्राप्ते लादेशे प्रतिविहितम्। `कल्प्ता, कल्प्तारौ, कल्प्तारः` इति। तृच्, अथ वा लुट्। `चिक्लृप्सति` इति। सन्, `हलन्ताच्च` 1|2|10 इति कित्वाद्गुणाभावः। `क्लृप्तः, क्लृप्तवान्` इति। क्तक्तवत्। `कृपा` इति। एतत्कथं सिध्यति? यावताऽत्रापि लत्वेन भवितव्यम्? इत्यत आह--`कृपेत्येतत्` इत्यादि। एतेन `क्रप कृपायां गतौ` (धातुपाठः-771) इत्यस्मात्? `षिद्भिदादिभ्यो॥ऽङ्` 3|3|104 इत्यङि तत्सन्नियोगेन च सम्प्रसारणे कृते कृपेत्येतद्भवतीति दर्शयन्? कृपेत्यस्य रूपस्य लाक्षणिकत्वं दर्शयति। यद्येवम्, ततः किमत्यत्र लत्वं न भवति? इत्याह--`तस्य हि` इत्यादि। यतसतस्य कृतसम्प्रसारणस्य क्रपेः कृपेत्येतद्रूपं भवति, तस्माल्लाक्षणिकत्वम्। अतो लक्षणप्रतिपदोक्तपरिभाषयैव (व्या।प।3) न गृह्रते इति भवति लप्रसङ्गः।कृपण, कृपीट, कर्पूरादिषु ह्रौपदेशिकमेव कृपेत्येसद्रूपम्, न लाक्षणिकम्। तथा हि `रञ्जे क्वुन्` [`रजः क्युन्` इति द।उ।पाठः `रजेः, रञ्जेः` इति पाठान्तरे] (द।उ।5।24) इति यः क्वुन्? विहितः, तस्मिन्? बहुलवचनात्? कृपेरेव विहिते कृपण इति भवति; `कृतृकृपिभ्यः कीटन्` [`कृतृकृपिकम्पिभ्यः कीटन्` इति द।उ।पाठः `कपिकम्पिभ्यः` इति पाठान्तरम्] (द।उ।5।3) इति कृपेरेत कोटनि विहिते कृपीट इति भवत; `खर्जिपिञ्जादिभ्य ऊरोलचौ` (द।उ।10।10) इत्युरप्रत्यये कृते कर्पूर इति भवतीत्याह--`कृपणकृपीट` इत्यादि। एवं मन्यते--बहुलवचनात्? क्रपेरेव क्युन्? [क्वुन्? प्रांउ।पाठः] भवति, तत्र चास्य सम्प्रसारणं कृतम्, `कृ-तृकृपिभ्यः कीटन्` (द।उ।5।3) इत्यत्रापि कृपिग्रहणमपनीय क्लृपिग्रहणं करिष्यते, सम्प्रसारणं तु बहुलवचनादेव भविष्यति; `खर्जिपिञ्जादिभ्य ऊरोलचौ` इत्यत्रापि आदिग्रहणे कृपिरेव ग्रहीष्यते, सम्प्रसारणं च पूर्ववदेव भविष्यतीति। यद्यपि कृपणकृपाणेत्येवमादीनि रूपाणि स्युः, तदास्य दोष इति दर्शयितुमाह--`जणादयो बहुलमिति वा` इत्यादि।अत्यन्तभिन्नरूपयोरभिन्नस्वभावत्वमसम्भावयन्? पृच्छति--`किमिदम्` इत्यादि। `समानविषयत्वम्` इति। अभिन्नविषयत्वमेकशब्देनात्र विवक्षितम्, न त्वभिन्नस्वभावत्वमिति दर्शयति। किमर्थं पुनः कृपिमुद्दिश्य लादेशो विधीयते, न कृपिरेवोद्दिश्येत? गु स्थाने लत्वमात्रं कत्र्तव्यम्, तच्चावश्यमुकत्र्तव्यमुपल्कारीयतीत्येवमर्थम्। तथा च--`ऋदुपधाच्चक्लृपि चृतेः 3|1|110 इत्यत्र क्लृपिप्रतिषेधो न कत्र्तव्यो जायते। तेनैवं शक्यम्--इह ह्रचोक्लृपदिति ऋकारलृकारयोः सवर्णसंज्ञादिधानादृकारस्य विधीयमानमुरत्त्वं लृकारस्यापि स्यात्। तथा च लृकारस्याप ऋवर्णः प्रसज्यते; ऋकारान्तं तूपदिश्य लत्वे विधीयमाने तस्यापि लृकारस्य लत्वं सिद्धं भवति॥
कृपो धातोरिति पाठः । भाष्ये---ठ्कृपो रो लःऽ इति पठितत्वात् । ठ्नुड्विधिलादेशविनामेष्वृकारे प्रतिविधातव्यम्ऽ इत्युक्तम्, तत्रावसरे प्राप्ते लादेशे प्रतिविधते---इति सामान्यमिति । वर्णत्वावर्णत्वकृतभेदतिरस्कारेण वर्णात्मिकायामवर्णात्मिकायां च रेफव्यक्तौ यत्सामान्यं वर्तते यतो द्वयोरपि तयो र इत्यभिन्नाभिधानप्रत्ययौ भवतः, तदुपादीयते; न तु वर्णात्मिकैव रेफव्यक्तिरित्यर्थः । ततः किम् ? इत्यत आह---तेनेति । इत्यपि सामान्यं चेति । उपादीयत इत्यपेक्षते । अत्रापि तेन यश्च केवलो लकारः, यश्च लृकारस्थः, तयोर्द्वयोरपि ग्रहणमिति पठितव्यम्, पूर्वानुसारेण तु गम्यमानत्वान्न पठितम् । यदि द्वयोरपि ग्रहणम्, ततोऽपि किम् ? इत्याह---ततोऽयमिति । केवलस्यौशुद्धस्य । लकार आदेश इति । अत्रापि केवल इति द्रष्टव्यम् । ऋकारस्यापि लृकार इति । आन्तरतम्यात् । ननु सत्यपि द्वयोरपि ग्रहणे ऋकारस्थस्य रेफस्य लृकारस्थो लकार आदेशो भवतु, कथं तु कृत्स्नस्य कृत्स्नो वर्ण आदेशो लभ्यते ? इत्याशङ्क्योक्तम्---एकदेशद्वारेणेति । एकदेशविकारस्थो रेफः, तस्य विकार एकदेशविकारः । यद्वा---अत्र एकदेश लृकारस्थो लकारः, स एव विकार एकदेशविकारः, तद्द्वारेण । तत एतदुक्तं भवति---अज्भक्तिसम्पुटितयो रेफलकारयोर्निष्कृष्य कर्तुमशक्यत्वात्समुदायस्य समुदाय आदेश इति । यदि निष्कर्षोऽशक्यक्रियः, मा भूतयोरुपादानम्, न पुनरेतावता सूत्रेऽनुपातयोः समुदाययोः स्थान्यादेशभावो विद्यते ? इत्यत आह--तथा चेति । एवमादय इति । आदिशब्देन ठ्तासि च क्लृपःऽ, ठृदुपधाच्चाक्लृपि चृतेःऽ ठनवक्लृप्त्यवमर्षयोःऽ इत्यादेर्ग्रहणम् । कल्प्तेति । ऊदित्वात्पक्षे इडभावः । अत्र लत्वस्यासिद्धत्वात् पूर्वं परस्मैपदे ठ्तासि च क्लपःऽ इतीडभावः, अन्यत्र तु गुणे कृते रेफस्य लकारः । चिक्लृप्सतीति । ठ्हलन्ताच्चऽ इति सनः कित्वम् । क्रपेरिति । ठ्क्रप कृपायाम्ऽ । भवतु सम्प्रसारणे कृते रूपम्, तथापि रूपसामान्याद् ग्रहणप्रसङ्गः ? अत आह---तस्य हीति । क्रपेरेव द्रष्टव्या इति । ठ्रञ्जे क्युन्ऽ, बहुलवचनात्क्रपेरपि भवति ठ्कृकृपिभ्यां कीटन्ऽ इत्यत्रापि क्रपिरेव पठितव्यः । ठ्खर्जिपिञ्जादिभ्य ऊरोलचौऽ क्रपेरपि भवतु, सर्वत्र बहुलवचनात् सम्प्रसारणम् । कर्पूरादय इति । आदिशब्देन कृपाणस्य ग्रहणम् । ठ्युधिबुधिदृशेः किच्चऽ इति बाहुलकात् कृपेरपि आनच् । यद्यवश्यं बाहुलकमाश्रयणीयम्, कृपेरपि न दोषः ? इत्याह---उणादय इति । बालेति । ठ्बल वल्ल संवरणेऽ, बल्यत इति बालः । मूलमिति । ठ्मूल प्रतिष्ठायाम्ऽ इत्यस्मादिगुपधलक्षणः कः । ठ्लङ्घिवंह्यएर्नलोपश्चऽ इति कुप्रत्ययान्तो लघुशब्दः । अलमित्यव्ययम् । ठङ्गेः कुलिःऽ अङ्गुलः । ठमेर्गुरी रश्च लो वाऽ इति नाश्रितम् । कपिलकादिषुचारस्य लः । रोमाणीति । रौतेर्मनिन्, ठ्रोमन् नामन् सीमन् स्तोमन् होमन् सोमन् लोमन् व्योमन् विधर्मन् पाप्मन् धामन्ऽ इत्यत्र ठ्लोमन् समान्ऽ इति निपातनं नाश्रितम् । पांसुरमिति । पांसुरस्मिन्नस्तीति ठ्नगपांसुपाण्डुभ्यश्चऽ इति रः । ठ्कृञो मनिन्ऽ कर्म । शुक्रः, शुक्ल इति । ठृज्राग्रऽ इति निपातनं नाश्रितम् । अथ ठ्क्लृपू सामर्थ्ये, इत्येव कस्मान्न पठितम्, एवं हि लत्वं न विधेयं भवति ? नैतदस्ति; अचीक्लृपदिति हि न सिध्येत् । ठृकारलृकारयोः सवर्णविधिःऽ इति लृकारस्य ठुरत्ऽ इति अकारे कृते अचीकृपदिति स्यात्, लत्वविधौ तस्यासिद्धत्वात्पूर्वमृकारः, ततो लत्वमिति सिद्धमिष्टम् । तथा चलीक्लृप्यते इति रीको पि लत्वसिद्धिर्भवति ॥
सिद्धान्तकौमुदी
कृप उ इति छेदः । कृपेति लुप्तषष्ठीकम् । तच्चावर्तते । कृपो यो रेफस्तस्य लः स्यात् । कृपेरृकारस्यावयवो यो रेफसदृशस्तस्य च लकारसदृशः स्यात् । कल्पते । चकिपे । चकिपिषे । चकिप्से इत्यादि स्यन्दिवत् ॥
कृपो रो लः - तङि प्रथमपुरुषैकवचनस्य टेरेत्त्वे शपि लघूपधगुणे रपरत्वे कर्पते इति स्थिते — कृपो रो लः । "कृप" इति लुप्तविभक्तिकम् । षष्ठएकवचने उदिति ऋकरास्य रूपम् । अवयवषष्ठी । कृप उरिति स्थिते आद्गुणे कृपोरिति भवति । "र" इति षष्ठन्तम् । कृपोर् रः इति स्थितेरो री॑ति रेफलोपे "कृपो रः" इति भवति । "ल" इति प्रथमान्तम् । अकार उच्चारणार्थः । तदाह — - कृप उः [रः ल] इति च्छेद इति । एतच्च ऋलृक्सूत्रभाष्ये स्थितम् । ननु कृपेत्यत्र का विभक्तिर्लुप्तेत्यत आह — लुप्तषष्ठीकमिति । पकारादकार उच्चारणार्थः । कृप्धातोरिति लभ्यते । तच्चावर्तते इति । कृप रः लः इति पदत्रयमावर्तत इत्यर्थः । तथा च वाक्यद्वयं संपद्यते — "कृप रः लः" इत्येकं वाक्यम् । तदाह — कृपो यो रेफस्तस्य लः स्यादिति । तथा च "कल्पते" इति भवति । "कृप उः रः लः" इति द्वितीयं वाक्यम् । तत्र कृपेत्वयवषष्ठन्तम् उरित्यत्रान्वेति । उरित्यवयवषष्ठन्तं रेफे अन्वेति । तथाच कृप्धातोरवयवो य ऋकारस्तस्य यो रेफस्तस्य लकारः स्यादिति लभ्यते । तत्र ऋकारादवयवत्वं रेफस्य न संभवतीति रेपशब्दो रेफसदृशे ऋकारांशे लाक्षणिकः । ल इत्यपि लकारसदृशे लृकारांशे लाक्षणिकः । तदाह — कृपेरृकारस्यावयव इत्याद#इना । एवं च लिटि चकृप् ए इतिस्थिते कित्त्वाद्गुणाऽबावे ऋकारैकदेशस्य रेफसदृशस्य लकारसदृशे सति "चक्लृपे" इति रूपम् । "कृपः रः लः" इति च्छेदमभ्युपगम्य कृपधातो रेफस्य लकार इति व्याख्याने तु "चक्लृपे" इति न सिध्येत् । तदर्थमावृत्तिराश्रितेत्यभिप्रेत्याह — कल्पते चक्लृपे इति । ऊदित्त्वादिड्विकल्पं मत्वा आह — चक्लृपिषे चक्लृप्से इति । स्यन्दिवदिति । चक्लृपाथे चक्लृपिध्वे — चक्लृब्ध्वे । चक्लृपे चक्लृपिवहे, चक्लृपिमहे- चक्लृप्महे ।
कृपो रो लः - ॒कृपो रो लः॑ इत्यर्वाचीनपाठस्तु नादर्तव्य इति ध्वनयति — कृपेरृकारस्येत्यादिना । वर्णैकदेशस्य वर्णग्रहणेन ग्रहणादाह — रेफसदृश इति । एवं चात्र कृपेत्यस्यावृत्तिरवश्यं स्वीकर्तव्या । तथा चलुटि च क्लृपः॑ इत्यादिसौत्रनिर्देशोऽप्युपपद्यत इति भावः ।
लघुसिद्धान्तकौमुदी
-
महाभाष्यम्
कृपो रो लः ।। कृपणादीनां प्रतिषेधः।। कृपणादीनां प्रतिषेधो वक्तव्यः। कृपणः। कृपाणः। कृपा(1)। कृपीटम्।। वालमूललघ्वलमङ्गुलीनां(1)(2) वा लो र(त्व) मापद्यते।। वालमूललघ्वलमङ्गुलीनां वा लो र(त्व)मापद्यत इति वक्तव्यम्। वाल(1)-अश्ववारः। अश्ववालः(2)। वाल।। मूल-मूरदेवः। मूलदेवः(2)। मूल।। लघु-वरुणस्य(3) लघुस्यदः। वरुणस्य रघुस्यदः। लघु।। अलम्-अलं भक्ताय(4)। अरं भक्ताय(4)। अलम्।। अङ्गुलि-सुबाहुः स्वङ्गुलिः। सुबाहुः स्वङ्गुरिः।। संज्ञाच्छन्दसोर्वा कपिलकादीनाम्।। संज्ञाच्छन्दसोर्वा कपिलकादीनामिति वक्तव्यम्। कपिरकः। कपिलकः(2)। तिल्पिलिकम्। तिर्पिरिकम्। कल्मषम्। कर्मषम्। रोमाणि। लोमानि। पांसुलम्। पांसुरम्। कर्म। कल्म। शुक्रः। शुक्लः(5)।।