Page loading... Please wait.
8|2|10 - झयः
॥ तस्मै पाणिनये नमः ॥
8|2|10
SK 1898
झयः   🔊
सूत्रच्छेदः
झयः (पञ्चम्येकवचनम्)
अनुवृत्तिः
-
अधिकारः
पदस्य  8|1|16 पूर्वत्रासिद्धम्  8|2|1
सम्पूर्णसूत्रम्
Will be updated soon
सूत्रार्थः
Will be updated soon.
One-line meaning in English
Will be updated soon.
काशिकावृत्तिः
झयन्तादुत्तरस्य मतोः वः इत्ययम् आदेशो भवति। अग्निचित्वान् ग्रामः। विद्युत्वान् बलाहकः। इन्द्रो मरुत्वान्। दृषद्वान् देशः।
`अग्निचित्वान्` इति। `तसौ मत्वर्थे` 1|4|19 इति भसंज्ञा। तेन पदसंज्ञानिबन्धनं `झलां जशोऽन्ते` 8|2|39 इति जश्त्वं न भवति॥
अग्निचित्वानिति । पूर्ववद्भत्वाज्जश्त्वाभावः ॥
सिद्धान्तकौमुदी
झयन्तान्मतोर्मस्य वः स्यात् । अपदान्तत्वान्न जश्त्वम् । विद्युत्वान् ॥
झयः - अथविद्युत्वा॑नित्यत्र मकाराऽकारान्तत्वाऽभावान्मकाराऽकारोपधत्वाऽभावान्न मादुपधाया इति वत्वाऽप्राप्तावाह — झयः । अपदान्तत्वादिति । तसौ मत्वर्थे॑ इति भत्वेन पदत्वबाधादिति भावः ।
झयः - झयः । इदमपि मतुबाक्षिप्तस्य प्रातिपदिकस्य विशेषणम् । तदाह — — झयन्तादिति । विद्युत्वानिति । एतेनवह्निमद्वा॑निति नैयायिकप्रयोगो निरस्तः । उक्तरीत्या जश्त्वस्याऽप्रवृत्तेः । मत्वन्तान्मतुपो निषेधाच्च । ननु गोधुङ्भान् मधुलिण्मानित्यत्र हस्य घत्वे ढत्वे च कृतेझयः॑इति वत्वप्रवृत्त्याऽनुनासिकपरत्वाऽभावात्प्रत्यये भाषायां नित्य॑मित्यनेन धकारढकारयोरनुनासिकाऽप्रवृत्तेर्गोधुग्वान् मधुलिड्वानित्यनिष्टं प्रसज्येत । मैवम् । घत्वढत्वयोरसिद्धत्वेनझयः॑इति वत्वाऽप्रवृत्तेः ।
लघुसिद्धान्तकौमुदी
झयन्तान्मतोर्मस्य वः। कुमुद्वान्। नड्वान्॥
महाभाष्यम्
Text Unavailable. Please use feedback link below to provide the text if you have.