Page loading... Please wait.
8|2|1 - पूर्वत्रासिद्धम्
॥ तस्मै पाणिनये नमः ॥
8|2|1
SK 12
पूर्वत्रासिद्धम्   🔊
सूत्रच्छेदः
पूर्वत्र (अव्ययम्) , असिद्धम् (प्रथमैकवचनम्)
अनुवृत्तिः
-
अधिकारः
पदस्य  8|1|16 पूर्वत्रासिद्धम्  8|2|1
सम्पूर्णसूत्रम्
पूर्वत्र असिद्धम्
सूत्रार्थः
सपादसप्ताध्यायीं प्रति त्रिपादी असिद्धा । त्रिपाद्याम् अपि पूर्वं प्रति परं शास्त्रम् असिद्धम् ।
अस्य सूत्रस्य अर्थम् ज्ञातुम् काचित् पीठिका प्रथमम् ज्ञातव्या ।

सूत्रमिदम् अष्टमाध्यायस्य द्वितीयपादस्य प्रथमम् सूत्रम् । अनेन सूत्रेण अष्टाध्याय्याः भागद्वयं क्रियते । अस्मात् सूत्रात् पूर्वम् यानि सूत्राणि सन्ति, तेषां प्रथमः भागः । तस्य नाम "सपादसप्ताध्यायी", यतः सूत्रपाठस्य आदिमाः सप्त अध्यायाः तथा अष्टमाध्यायस्य प्रथमः पादः अस्मिन् भागे वर्तन्ते । (अष्टमाध्यायस्य प्रथम)पादेन सह सप्ताध्यायी = सपादसप्ताध्यायी ।
द्वितीयः भागः तु अन्तिमानाम् त्रयाणाम् पदानाम् । तस्य नाम त्रिपादी । वर्तमानसूत्रम् सपादसप्ताध्याय्याः-त्रिपाद्याः च सीमारेषायाम् वर्तते । अनेन सूत्रेण सपादसप्ताध्यायीतः त्रिपादी पृथक् क्रियते ।

अधिकारसूत्रमिदम् । अस्य अधिकारः सूत्रपाठस्य अन्तिमम् सूत्रम् यावत प्रचलति ।

कः अर्थः अस्य सूत्रस्य? असिद्धम् इत्युक्ते "अमान्यम्" । त्रिपाद्याः प्रत्येकं सूत्रम् "पूर्वत्र असिद्धम्" अस्ति । इत्युक्ये, पूर्वत्र अमान्यम् अस्ति । पूर्वत्र इत्युक्ते सपादसप्ताध्याय्याः सूत्राणाम् विषये । सामान्यभाषायाम्, सपादसप्ताध्याय्याः सूत्राणां मतेन त्रिपाद्याः सूत्राणाम् अस्तित्वमेव नास्ति । इत्युक्ते, सपादसप्ताध्याय्याः सूत्राणां मतेन अष्टाध्याय्याः अन्तः अष्टमाध्यायस्य प्रथमपादस्य अन्ते एव भवति, अग्रे किमपि नास्ति ।

किम् भवति अनेन असिद्धत्वेन? यत्र कुत्रापि सपादसप्ताध्याय्याः तथा त्रिपाद्याः सूत्रस्य समानस्थले प्रसक्तिः अस्ति, तत्र सपादसप्ताध्याय्याः सूत्रस्य मतेन "विप्रतिषेधः" नास्ति एव, यतः त्रिपाद्याः सूत्रस्य तस्य जगति अस्तित्वमेव नास्ति । अतः एतस्मिन् स्थले सपादसप्ताध्याय्याः सूत्रस्यैव प्रयोगः भवति । विप्रतिषेधे परं कार्यम् 1|4|2 इत्यस्य अत्र प्रयोगः न करणीयः ।
यथा, "मरुत्" शब्दस्य प्रथमा-एकवचनस्य रूपसिद्धौ "मरुत् + स्" इत्यत्र द्वयोः सूत्रयोः प्रसक्तिः अस्ति -
(अ) हल्ङ्याब्भ्यो दीर्घात् सुतिस्यपृक्तं हल् 6|1|68 इत्यनेन सकारस्य लोपः भवितुम् अर्हति,
उत
(आ) संयोगान्तस्य लोपः 8|2|23 इत्यनेन अपि सकारस्य लोपः भवितुम् अर्हति ।
अस्याम् स्थितौ केन सूत्रेण सकारलोपः करणीयः? विप्रतिषेधस्य नियमान् अनुसृत्य तु संयोगान्तस्य लोपः 8|2|23 इत्यस्यैव लोपः साधु भासते । परन्तु सूत्रमिदम् अष्टमाध्यायस्य द्वितीयपादे अस्ति, अतः एतत् सूत्रं त्रिपाद्यां वर्तते । वर्तमानसूत्रेण एतत् सूत्रं सपादसप्ताध्यायीं प्रति असिद्धम् अस्ति । इत्युक्ते, सपादसप्ताध्याय्याः सूत्रेण सूत्रमेतत् न दृश्यते । अतः अत्र हल्ङ्याब्भ्यो दीर्घात् सुतिस्यपृक्तं हल् 6|1|68 इत्यस्यैव प्रयोगः भवति ।

अतः वर्तमानसूत्रेण उक्तः प्रथमः नियमः अस्ति -
(1) यत्र यत्र सपादसप्ताध्याय्याः सूत्रस्य प्रयोगस्य अवकाशः अस्ति, तत्र तत्र त्रिपाद्याः प्रयोगः न करणीयः । सपादसप्ताध्यायीत्रिपाद्योर्मध्ये "विप्रतिषेधः" नास्ति । सर्वदा सपादसप्ताध्याय्याः एव प्रयोगः क्रियते ।

अनेन असिद्धत्वेन अन्यदपि एकः विशेषः उच्यते । यदि त्रिपाद्याः प्रयोगं कृत्वा शब्दे किमपि परिवर्तनं भवति, तर्हि, तत् परिवर्तनम् सपादसप्ताध्याय्याः सूत्रैः न दृश्यते एव, यतः त्रिपादीसूत्रस्यैव तेषां कृते अस्तित्वं नास्ति । अतः त्रिपाद्याः निर्मिते शब्दस्वरूपे सपादसप्ताध्याय्याः सूत्रस्य प्रयोगः न कर्तुं शक्यते ।
यथा - "वने + इति" अत्र सन्धिनियमान् अनुसृत्य -
वने + इति
→ वनय् + इति [एचोऽयवायावः 6|1|78 इति अयादेशः]
→ वन + इति [लोपः शाकल्यस्य 8|3|19 इत्यनेन यकारस्य विकल्पेन लोपः]
→ वन इति ।
अस्यां प्रक्रियायां अन्तिमसोपाने "वन इति" इत्यस्यामवस्थायाम् आद्गुणः 6|1|87 इत्यनेन गुणसन्धिः किमर्थम् न भवति? कारणमेतत् - लोपः शाकल्यस्य 8|3|19 एतत् सूत्रम् त्रिपाद्यां वर्तते, आद्गुणः 6|1|87 इति तु षष्ठाध्याये अस्तीति कारणात् सपादसप्ताध्याय्यां वर्तते । असिद्धाधिकारस्य नियमेन त्रिपाद्याः सूत्रस्य सपादसप्ताध्याय्याः जगति अस्तित्वमेव नास्ति, अतः त्रिपाद्याः सूत्रेण कृतम् परिवर्तनम् सपादसप्ताध्याय्याः केनापि सूत्रेण न दृश्यते । इत्युक्ते, "वनय् + इति" अस्यामवस्थायाम् लोपः शाकल्यस्य 8|3|19 इत्यनेन कृतः यकारलोपः तथा तस्मात् निर्मितः "वन + इति" अयम् प्रयोगः आद्गुणः 6|1|87 इत्यनेन न दृश्यते एव । अतः अत्र आद्गुणः 6|1|87 अस्य प्रसक्तिः नास्ति ।

अतः वर्तमानसूत्रेण उक्तः द्वितीयः नियमः अस्ति -
(2) त्रिपाद्याः प्रयोगात् यत् शब्दस्वरूपं जायते, तस्मिन् अग्रे सपादसप्ताध्याय्याः सूत्राणां प्रयोगेण परिवर्तनम् न भवितुम् अर्हति ।

अस्य सूत्रस्य तृतीयम् अपि एकम् वैशिष्ठ्यम् अस्ति । अयम् अधिकारः सूत्रपाठस्य अन्तिम-सूत्रम् यावत् प्रचलति । इत्युक्ते, त्रिपाद्याः प्रत्येकम् सूत्रम् "पूर्वत्र असिद्धम् अस्ति" । पूर्वत्र इत्युक्ते कुत्र? न केवलं सपादसप्ताध्याय्याः विषये, अपितु त्रिपाद्याः अपि पूर्वसूत्राणां विषये । अतः त्रिपाद्याः सूत्राणां विषये अपि पूर्वसूत्रस्य प्रयोगस्य अवसरः अस्ति चेत् तस्यैव प्रयोगः भवति । तथा च त्रिपाद्याः कस्यचन सूत्रस्य प्रयोगं कृत्वा यत् किमपि शब्दस्वरूपं जायते, तत् त्रिपाद्याः अपि पूर्वसूत्रैः न दृश्यते ।

यथा, यथा, "सत् + चित्" इत्यत्र अनेन प्रकारेण सन्धिः भवति -
सत् + चित्
→ सद् + चित् [झलां जशोऽन्ते 8|2|39 इत्यनेन पदान्त-तकारस्य दकारः]
→ सज् + चित् [स्तोः श्चुना श्चुः 8|4|40 इत्यनेन दकारस्य जकारः]
→ सच् + चित् [खरि च 8|4|55 इत्यनेन जकारस्य चकारः]
→ सच्चित्
अनेन प्रकारेण सच्चित् इति रूपं सिद्ध्यति । अत्र एकः प्रश्नः आगच्छति - "सत् + चित्" इत्यत्र केवलं श्चुत्वं किमर्थं न भवति? स्तोः श्चुना श्चुः 8|4|40 इत्यनेन तकारस्य चकारः भवितुमर्हति किल?
उत्तरम् - "सत् + चित्" इत्यत्र यथा श्चुत्वम् भवितुमर्हति, तथैव जश्त्वम् अपि भवितुमर्हति । एवं सति, श्चुत्वात् पूर्वम् नित्यम् जश्त्वम् करणीयम्, यतः झलां जशोऽन्ते 8|2|39 इत्यनेन निर्दिष्टं जश्त्वं त्रिपाद्यां श्चुत्वात् पूर्वम् आगच्छति । पूर्वत्रासिद्धम् 8|2|1 इत्यनेन त्रिपाद्या परं शास्त्रं पूर्वं प्रति असिद्धम् अस्ति, अतः अत्र जश्त्वस्य दृष्ट्या श्चुत्वस्य अस्तित्वमेव नास्ति । अतः अत्र केवलं जश्त्वं भवितुमर्हति, न श्चुत्वम् । अतः एतत् जश्त्वं कृत्वा प्रथमं तकारस्य दकारः करणीयः । तदनन्तरम् "सद् + चित्" इत्यत्रापि श्चुत्वस्य अवकाशः अस्ति, परन्तु श्चुत्वात् पूर्वस्य कस्यापि सूत्रस्य अवकाशः नास्ति, अतः अत्र निश्चयेन श्चुत्वम् भवितुमर्हति । अतः अत्र श्चुत्वं कृत्वा दकारस्य जकारे प्राप्ते अन्तिमसोपाने खरि च 8|4|55 अनेन चर्त्वं कृत्वा रुपसिद्धिर्भवति ।
अतः वर्तमानसूत्रेण प्रोक्तौ अन्तिमौ द्वौ नियमौ एतौ -
(3) यत्र यत्र त्रिपाद्याः द्वयोः सूत्रयोः समानस्थले प्रसक्तिः अस्ति, तत्र तत्र त्रिपाद्याः पूर्वसूत्रस्य प्रयोगः करणीयः ।
(4) त्रिपाद्याः प्रयोगात् यत् शब्दस्वरूपं जायते, तस्मिन् अग्रे त्रिपाद्याः पूर्वसूत्राणां प्रयोगेण परिवर्तनम् न भवितुम् अर्हति ।

एते चत्वारः असिद्धाधिकारस्य सुवर्णनियमाः, सर्वदा स्मर्तव्याः । सिद्धान्तकौमुद्याम् दीक्षितः एतान् एव साररूपेण वदति - "सपादसप्ताध्यायीं प्रति त्रिपादी असिद्धा, त्रिपाद्यामपि पूर्वं प्रति परं शास्त्रम् असिद्धम्" ।

अस्य सूत्रस्य विषये अत्र अन्येऽपि केचन मुख्याः बिन्दवः ज्ञातव्यः । ते एतादृशाः -

(1) असिद्धाधिकारस्य अर्थः दीक्षितैः "पूर्वं प्रति परं शास्त्रम् असिद्धम्" इति लिखितः अस्ति । किं नाम शास्त्रम् ? सूत्रपाठे ये भिन्नाः भिन्नाः विषयाः पाठिताः सन्ति, यथा - श्चुत्वम्, जश्त्वम्, चर्त्वम्, आदयः - ते सर्वे "शास्त्रम्" नाम्ना ज्ञायन्ते । प्रत्येकस्य शास्त्रस्य एकम् अधिकानि वा सूत्राणि सन्ति । यथा - "श्चुत्वम्" इत्यस्य शास्त्रस्य स्तोः श्चुना श्चुः> 8|4|40 तथा शात् 8|4|44 एतत् सूत्रद्वयम् वर्तते । तथैव "ष्टुत्वम्" अस्य शास्त्रस्य त्रीणि सूत्राणि वर्तन्ते । अत्र एतत् स्मर्तव्यम्, यत् असिद्धाधिकारस्य अर्थः केवलं शास्त्राणि असिद्धानि सन्ति इत्येव अस्ति - प्रत्येकस्य शास्त्रस्य भिन्नानि सूत्राणि परस्परेषु असिद्धानि न सन्ति । यथा, "प्रश् + नः" इत्यत्र स्तोः श्चुना श्चुः 8|4|40 इत्यनेन श्चुत्वे प्राप्ते शात् 8|4|44 इत्यनेन तस्य निषेधः प्रवर्तते । अत्र एषः संशयः न कर्तव्यः यत् शात् 8|4|44 इति सूत्रं परम् अस्तीति कारणात् स्तोः श्चुना श्चुः 8|4|40 अस्य पूर्वसूत्रस्य अपेक्षया असिद्धम् अस्ति । एवं चिन्तयामश्चेत् शात् 8|4|44 सूत्रस्य कदाचिदपि प्रयोगं कर्तुं न शक्नुमः, यतः शात् 8|4|44 सूत्रम् स्तोः श्चुना श्चुः 8|4|40 इत्यस्य विधिसूत्रस्य नियमसूत्रम् अस्ति । अतः यत्र यत्र शात् 8|4|44 इत्यस्य प्रयोगः भवितुमर्हति तत्र तत्र सर्वत्र स्तोः श्चुना श्चुः 8|4|40 अस्यापि प्रयोगः भवत्येव । अतः अत्र असिद्धाधिकारस्य प्रयोगं कुर्मश्चेत् शात् 8|4|44 इत्यस्य अवकाशः एव विनश्यति । एतत् तु न भवति । अतः सर्वदा स्मर्तव्यम् - त्रिपाद्यां पूर्वं प्रति परं शास्त्रम् असिद्धम् अस्ति, न हि सूत्रम्

(2) सपादसप्ताध्याय्यां केवलं विधिसूत्राणि न पाठितानि सन्ति, तत्र संज्ञाः परिभाषाश्चापि सन्ति । एषाः सर्वाः संज्ञाः परिभाषास्तु त्रिपाद्याः सूत्रैः अपि प्रयुज्यन्ते । अतः त्रिपादीसूत्राणां प्रयोगानन्तरम् सपादसप्ताध्याय्याः संज्ञासूत्राणां परिभाषासूत्राणां च प्रयोगः निषिद्धः नास्ति । संज्ञासूत्राणि परिभाषासूत्राणि च यत्र यत्र तेषां प्रयोगः भवितुमर्हति तत्र तत्र आगच्छन्ति । यथा - राम + सुँ इत्यत्र -
राम + सुँ
→ राम + स् [उपदेशेऽजनुुनासिक इत् 1|3|2, तस्य लोपः 1|3|9]
→ राम + रुँ [ससजुषो रुँः 8|2|66]
→ राम + र् [उपदेशेऽजनुुनासिक इत् 1|3|2, तस्य लोपः 1|3|9
→ रामः [खरवसानयोर्विसर्जनीयः 8|3|15]
अस्मिन् उदाहरणे ससजुषो रुँः 8|2|66 अस्मात् त्रिपादीसूत्रात् अनन्तरम् प्रथमाध्यायस्य सूत्रैः इत्संज्ञायाः निदर्शनं लोपश्च कृतः अस्ति। एतत् असिद्धाधिकारस्य उल्लङ्घनं नास्ति, यतः संज्ञासूत्राणि परिभाषासूत्राणि च असिद्धाधिकारे न आगच्छन्ति ।

(3) केषुचन विरलेषु स्थलेषु त्रिपाद्याः सूत्राणाम् प्रयोगेन निर्मितेषु शब्दरूपेषु अग्रे सपादसप्ताध्याय्याः सूत्रैः परिवर्तनम् कृतम् दृश्यते । एतत् यद्यपि असिद्धाधिकारस्य उल्लङ्घनम् अस्ति, तथापि भाष्यकारेणैव एतादृशी प्रक्रिया प्रोक्ता अस्ति । परन्तु तादृशानि उदाहरणानि बहुविरलानि सन्ति, अतः सामान्यरूपेण तु उपरिनिर्दिष्टाः चत्वारः सुवर्णनियमाः एव स्मर्तव्याः ।

अन्ते एकः विशेषः - अनेन सूत्रेण ये चत्वारः नियमाः प्रोक्ताः सन्ति, तेषाम् उल्लङ्घनम् मा भूत् इति हेतम् मनसि निधाय वैयाकरणाः सामान्यरूपेण एकां क्लृप्तिं कथयन्ति । ते वदन्ति - सपादसप्ताध्याय्याः सर्वेषां सूत्राणां प्रयोगात् अनन्तरम् , प्रक्रियायाः अन्ते एव त्रिपाद्याः सूत्राणां प्रयोगः भवेत् । तत्रापि, त्रिपाद्याः सूत्राणां प्रयोगः त्रिपादीक्रमेण एव भवेत् । एतादृशः सूत्रप्रयोगस्य क्रमः यद्यपि वर्तमानसूत्रेण नोच्यते, तथापि अनेन क्रमेण प्रक्रियां कुर्मश्चेत् असिद्धाधिकारस्य नियमानाम् उल्लङ्घनम् न भवति, अतः एषा क्लृप्तिः व्याकरणशास्त्रस्य आरम्भिकच्छात्रैः अवश्यं प्रयोक्तव्या ।
One-line meaning in English
The rules defined in त्रिपादी are non existent with respect to the rules of सपादसप्ताध्यायी. Even within त्रिपादी, the later rules are non existent with respect to the former rules.
काशिकावृत्तिः
पूर्वत्र असिद्धम् इत्यधिकारो ऽयम् आ अध्यायपरिसमाप्तेः। यदित ऊर्ध्वम् अनुक्रमिष्यामः पूर्वत्र असिद्धम् इत्येवं तद् वेदितव्यम्। तत्र येयं सपादसप्ताध्यायी अनुक्रान्ता, एतस्याम् अयं पादोनो ऽध्यायो ऽसिद्धो भवति। इत उत्तरं च उत्तर उत्तरो योगः पूर्वत्र पूर्वत्र असिद्धो भवति असिद्धवद् भवति। सिद्धकार्यम् न करोति इत्यर्थः। तदेतदसिद्धत्ववचनम् आदेशलक्षणप्रतिषेधार्थम्, उत्सर्गलक्षणभावार्थं च। अस्मा उद्धर, द्वा अत्र, द्वा आनय, असा आदित्यः इत्यत्र व्यलोपस्य शसिद्धत्वात्, आद् गुणः 6|1|87 इति, अकः सवर्णे दीर्घः 6|1|101 इति च न भवति। अमुष्मै, अमुष्मात्, अमुष्मिनिति उत्वस्य असिद्धत्वात् स्मायादयो भवन्ति। शुष्किका शुष्कजङ्घा च क्षामिमानौजढत्तथा। मतोर्वत्त्वे झलां जश्त्वे गुडलिण्मान् निदर्शनम्। शुष्किका इत्यत्र शुषः कः 8|2|51 इत्यस्य असिद्धत्वादुदीचामातः स्थाने यकपूर्वायाः 7|3|46 इत्येतन् न भवति। शुष्कजङ्घा इति न कोपधायाः 6|3|37 इति पुंवद्भावप्रतिषेधो न भवति। क्षामिमानिति क्षामस्य अपत्यं क्षामिः, क्षामो वा अस्य अस्ति इति क्षामी, क्षामिः क्षामी वा यस्य अस्ति इति क्षामिमान्। क्षायो मः इत्यस्य असिद्धत्वान् मादुपधायाश्च इति वत्वं न भवति। औजढतिति वहेर्निष्ठायामूढः, तमाख्यतिति णिच्, तदन्ताल् लुङ्, चङि 6|1|11 इति द्विर्वचने कर्तव्ये ढत्वधत्वष्टुत्वढलोपानाम् असिद्धत्वाण् णौ च यः टिलोपः, तस्य स्थानिवद्भावात् थ इत्येतद् द्विरुच्यते। अनग्लोपे इति प्रतिषेधात् सन्वदित्त्वं न अस्ति, तेन औजढतिति भवति। औजिढतित्येतत् तु क्तिन्नन्तस्य उढिशब्दस्य भवति। गुडलिण्मानिति गुडलिहो ऽस्य सन्ति इति मतुप्, तत्र ढत्वजश्त्वयोरसिद्धत्वात् झयः 8|2|10 इति वत्वं न भवति। ये ऽत्र षष्थीनिर्देशाः, सप्तमीनिर्देशाः, पञ्चमीनिर्देशाश्च, तेषां षष्ठी स्थानेयोगा 1|1|49, तस्मिन्निति निर्दिष्टे पूर्वस्य 1|1|60, तस्मादित्युत्तरस्य इति च कर्तव्ये न असिद्धत्व भवति, कार्यकालं हि संज्ञापरिभाषम् इति पूर्वत्वमासां परिभाषाणां न अस्ति इति। विप्रतिषेधे परम् इत्येषा च परिभाषा येन पूर्वेण लक्षणेन सह स्पर्धते, परं लक्षणं तत्प्रति तस्य असिद्धत्वान् न प्रवर्तते। तथा च विस्फोर्यम्, अगोर्यम् इति गुणः परेण हलि च 8|2|77 इति दीर्घत्वेन न बाध्यते। अपवादस्य तु परस्य अपि उत्सर्गे कर्तव्ये वचनप्रामण्यादसिद्धत्वं न भवति। तेन दोग्धा, दोग्धुम् इत्यत्र घत्वस्य असिद्धत्वाद् हो ढः 8|2|31 इति न भवति।
एष योगः परिभाषा वा स्यात्? अधिकारो वेति पक्षद्वयं सम्भाव्यते। तत्र यद्ययं परिभाषा स्यात्? सर्वस्यामष्टाध्याय्याम्पूर्वस्मिन्नुत्तरमसिद्धं स्यात्, ततश्च `अतो भिस ऐस्` 7|1|9 इत्यत्र त्यदाद्यत्वस्यासिद्धत्वात्? तैः, यैः--इत्यत्रैस्भावो न स्यादितीमं परिभाषापक्षे दोषं दृष्ट्वा स्वरितत्वेनाधिकारत्व 1|3|11 मस्येति निश्चित्याह--`पूर्वत्रासिद्धमित्यधिकारोऽयम्` इति। `अध्यायपरिसमाप्तेः` इति। अवधिप्रदर्शनार्थमेतत्। `तत्र` इति वाक्योपन्यासे। `सपादा` इति। सह पादेनानन्तरं प्रक्रान्तेन वत्र्तत इति सपादा। `सप्ताध्यायी` इति। सप्तानामध्यायानां समाहारः, `द्विगोः` 4|1|21 इति ङीप्। क्वचित्? `सपादसप्ताध्यायी` इति पाठः, तत्र सपादा चासौ सप्ताध्यायी चेति विशेषणसमासः, पुंवद्भावः। `अयम्` इति। वक्ष्यमाणः। `पादोनोऽध्यायः` इति। अनन्तरोक्तेन पादेनोनोऽपरिपूर्णः पादोनोऽध्यायः। `असिद्धो भवति` इत्यादि। पादोनाध्यायग्रहणेनोत्तरोत्तरयोगग्रहणेन च शास्त्रासिद्धत्वमिहाश्रीयत इति दर्शयति। कार्यासिद्धत्वाश्रयणे हि यथा देवदत्तस्य हन्तरि हते न पुनर्वेवदत्तस्य प्रादुर्भावो भवति, तथा कार्यस्यासिद्धत्वे तिपादिते न प#उनः प्रकृतेः प्रत्यापत्तिर्भवति। [`प्रादुर्भावो`--प्रांउ।पाठः] ततश्चामुद्धत्वे तुस्मैभावशास्त्रमेव प्रवत्र्तते, न त्वशास्त्रमसिद्धतवामिति न भवत्येष दोषप्रसङ्गः। अपि च शास्त्रस्य मुख्यत्वं पूर्वत्वं कार्यस्यौपचारिकत्वम्। यस्य कार्यस्य शास्त्रं पूर्वं तदप्युपचारेण पूर्वमित्युच्यते, न स्वत एव तसय पूर्वत्वम्; सन्निवेशविशेषाभावात्। कार्यं हि लक्ष्यगतम्, तत्र यथा लक्ष्यस्य सन्निवेशो नास्ति तथा तद्गतस्यापि कार्यस्य। न च मुख्ये पूर्वत्वे सति गौणत्वस्य परिग्रहणं मुक्तम्। तस्माच्छास्त्रं [तस्माच्छास्त्रपूर्वग्रहणेन--प्रांउ।पाठः] पूर्वग्रहणेन गृह्रते। तस्य च पूर्वत्वं परशास्त्रमेवापेक्ष्य भवति। अतो यदपेक्षं तस्य पूर्वत्वं ततः परस्य शास्त्रस्यैवासिद्धत्वमनेन कर्त्तुं युक्तम्। शास्त्रस्यासिद्धौ च कृतायामर्थतः कार्यासिद्धत्वं कृतमेव भवति; तस्य तन्निबन्धनत्वात्। सिद्धशब्दो निष्पन्नवचनः। सिद्धं निष्पन्नमित्यर्थः। न सिद्धमसिद्धम्, अनिष्पन्नमित्युच्यते। परञ्च शास्त्रं यच्च निष्पन्नं तन्न शक्यं वचनशतेनाप्यनिष्पन्नसत्तायामापादयितुम्। अन्यथा न कश्चिद्दुःखविवशां दशामनुभवेतु; असिद्धवचनेनैव न दु#ःखस्यानिष्पन्नतापादानात्। तस्माद्यथा ब्राहृदत्तोऽब्राहृदत्तोऽयमित्युक्तेऽकतिदेशोऽयं गम्यते, तथेहाप्यसिद्धत्वमित्युक्तेऽतिदेशोऽयं गम्यत इत्याह--`असिद्धवद्भवति` इति। एतदेव स्पष्टीकर्तुमाह--`सिद्धकार्यम्` इत्यादि। एवं हि तदसिद्धवद्भवकति यदि सिद्धस्य यत्कार्यं तन्न करोति। `तदेतत्` इत्यादि। तदिति हेतो, यस्मादनन्तरोक्तोऽसिद्धशब्दस्यार्थः, तस्मादेतदसिद्धवचनमादेशलक्षणप्रतिषेधार्थम्। आदेशो लक्षणं निमित्तं यस्य तदादेशलक्षणम्, तस्य प्रतिषेधः। सोऽर्थः प्रयोजनं यस्य तत्तथोक्तम्। `उत्सर्गलक्षणभाववार्थं च` इति। उत्सृज्यते निवत्र्यत इत्युत्सर्गः=स्थानिलक्षणम्, उत्सर्गौ लक्षणं निमित्तं यस्य तदुत्सर्गलक्षणं कार्यम्, तस्य भाव उपजननमुत्सर्गलक्षणभावः, सोऽर्थः प्रयोजनं यस्य तत्तथोक्तम्। `अस्मा उद्धर` इत्यादि। अस्मै इतोदंशब्दाच्चतुर्थी, उद्धरेत्यस्मिन्? परत आयादेशः, `लोपः शाकल्यस्य` 8|3|19 इति वकारलोपः। तत्र कृतेऽकः सवर्णेदीर्घत्वं प्राप्नोति; वकारलोपस्यासिद्धत्वान्न भवति। `व्यलोपस्यासिद्धत्वात्` इति। तादथ्र्याद्व्यलोपशास्त्रं व्यलोपशब्देनोक्तम्। अथ वा--व्यलोपशस्त्रस्यासिद्धत्वाद्व्यलोपस्यासिद्धत्वमित्युच्यते। एवूदाहरणेष्वादेशलक्षणप्रतिषेधोऽसिद्धत्वावचनस्य प्रयोजनम्। इदानीं येषूदाहरणेषूत्सर्गलक्षणभावः प्रयोजनम्, तानि दर्शयितुमाह--`अमुध्मै` इत्यादि। अदसश्चतुर्थीपञ्चमीसप्तम्यैकवचनानि। त्यदाद्यत्वम्? 7|2|102 । अत्रासत्यप्यसिद्धत्वे परत्वात्? `अदसोऽसेर्दादु दो मः` 8|2|80 इत्युत्वम्, ततश्चाकारान्तस्याभावात्? तन्निबन्धनाः `सर्ववाम्नः स्मै` 7|1|14 , `ङसिङ्योः स्मात्स्मिनौ` 7|1|15 इति स्मायादयो न स्युः। असिद्धत्वे सति शास्त्रस्य ते भवन्ति। `उत्वस्यासिद्धत्वात्` इति। अत्रापि तादध्र्यादुत्वशब्देनोत्वशास्त्रमुक्तम्। `शुष्किका` इत्यादिश्लोकः। अत्र `निदर्शनम्` इत्येतत्? शुष्किकेत्यादिभिः प्रत्यकमभिसम्बध्यते। `झलां चश्त्वे` इति। अत्राप्यसिद्ध इति वृत्तभङ्गभयान्नोक्तम्। अनुक्तमपि प्रकरणेन ज्ञायते। `शुष्किका` इति। `शुष शोषणे` (धातुपाठः-1183) इत्येतस्मात्? क्तप्रत्ययः, `शुषः कः` 8|2|51 इति कादेशः, टाप्, अज्ञातार्थे `प्रागिवात्? कः` 5|3|70 , `केऽणः` 7|4|13 ति ह्यस्वत्वम्, ततष्टाप्, `प्रत्ययस्यात्? कात्` 7|3|44 इत्यादिना नित्यमित्त्वं भवति, न तु `उदीचाम्` 7|3|46 इत्यादिना पाक्षिकम्; `शुषः कः` 8|2|51 इत्यस्यासिद्धत्वात्। `शुष्कजङ्घा` इति। शुष्के जङ्घे अस्या इति बहुव्रीहिः, `न कोपधायाः` 6|3|36 इचि पुंवद्भावनिषेधो न भवति। `शुषः कः` 8|2|51 इत्यस्यासिद्धत्वादिति प्रकृतेन सम्बन्धनोयम्। ननु च सत्यप्यसिद्धत्वे नैवात्र पूर्वद्भावप्रतिषेधो न प्राप्नोति, `कोपधप्रतिषेदे तद्धितवुग्रहणं कत्र्तव्य्` (धा।733) इति वचनात्? न; वाक्यकारमतमेतत्, सूत्रकारमतेन तु श्लोकवार्त्तिककारेण च न चात्रैतत्? प्रयोजनमुपन्यस्तम्। एतयोर्हि सामान्येन कोपधप्रतिषेधोऽभिमतः। `क्षामिमान्` इति। `क्षै जै षै क्षये` (धातुपाठः-913,914,915), `आदेच उपदेशेऽशिति` 6|1|44 इत्यात्त्वम्, `क्षायो मः` 8|2|53 इति निष्ठातकारस्य मकारः--क्षाम इति स्थिते `अत इञ्` 4|1|95 इतीञं कृत्वा `अत इनिठनौ` 5|2|115 इतीनिप्रत्ययं वा कृत्वा मतुप्? कत्र्तव्यः। `वहेः` इत्यादि। `वह प्रापणे` (धातुपाठः-1004) इत्येतस्मान्निष्ठा, सम्प्रसारणम्? 6|1|15 , `हो डः` 8|2|31 इति ढत्वम्, `झषस्तथोर्धोऽधः` 8|2|40 इति धत्वम्, `ष्टुना ष्टुः` 8|4|40 इति ष्टुत्वम्, `ढो ढे लोपः` 8|3|13 इति ढलोपः, `ढ्रलोपे पूर्वस्य दीर्घोऽणः` 6|3|110 इति दीर्घः, ऊढ इति स्थिते, तमाचष्ट इति णिच्, `णाविष्ठवत्? कार्य प्रातिपदिकस्य` (वा।813) इतीष्ठवद्भावाट्टिलोपः, तदन्ताल्लुङ्, `णिश्रि` 3|1|48 इत्यादिना चङ्। अत्र धत्वष्टुत्वादीनामसिद्धत्वाद्योऽसौ णो टिलोपलस्तस्य णौ कृतं स्थानिवद्भवतीति (चांप।पा।21) स्थानिवद्भावात्? `चङि` 6|1|11 इति `अजादेर्द्वितीयस्य` 6|1|2 इति ह्त इत्येतस्य द्विर्वचनम्, `कुहोश्चुः` 7|4|62 इति चुत्वम्--महाप्राणस्य हकारस्य स्थाने महाप्राण एव झकारः, `अभ्यासे चर्च` 8|4|53 इति झकारस्य स्थाने जकारः, `आडजादीनाम्` 6|4|72 इत्याट्, `आटश्च` 6|1|87 इति वृद्धिः। अथ `सस्वल्लधुनि चङ्परे` 7|4|93 इति सन्वद्भावः कस्मान्न भवति? इत्याह--`अनग्लोपे` इत्यादि। यदि तह्र्रनग्लोप इति प्रतिषेधात्? सन्वद्भावो न भवति तदौजिढदिति [`तदोजढदिति`--प्रांउ।पाठः] न स#इध्यति? इत्याह--`औजिढत्` [`औजढत्`--प्रांउ।पाठः] इत्यादि। गुडलिण्मान्` इति। गुडं लेढीति क्विप्, तदन्तान्मतुप्, पूर्ववङढत्वम्, `झलां जशोऽन्ते` 8|2|39 इति जश्त्वम्--ढकारस्य डकारः! मतोर्वत्वे कत्र्तव्य ढत्वजशत्वयोरसिद्धत्वात्? `झयः` 8|2|10 इति वत्वं न भवति। कारिकायां झलां जश्त्वग्रहणमुपलक्षणार्थं निदर्शनमिति। अनेनैतत्? दर्शयति--निदर्शनमेतच्छुष्किकादीनाम्, न तु परिगणनमिति। यदि हि सपादायां सप्ताध्याय्यां कत्र्तव्यायां पादोनोऽध्यायोऽसिद्ध इत्युच्यते तदा य इह षष्ठीनिर्देशसप्मीनिर्देश-पञ्चमीनिर्देशाः क्रियन्ते तेऽप्यसिद्धः स्युः, ततश्च `संयोगान्तस्य लोपः` 8|2|23 इत्यत्र षष्ठीनिर्देशस्यासिद्धत्वात्? `षष्ठी स्यानेयोगा` 1|1|48 इत्येषा नोपतिष्ठेन, एवञ्च सामीप्ययोगाप्येषा षष्ठी स्यातः ततः संयोगान्तसमीपो यस्तस्यापि लोप आपद्येत; `झलो झलि` 8|1|26 इत्यत्रापि सप्मीनिर्देशस्यासिद्धत्वात्? `तस्मिन्निति निर्दिष्टे पूर्वस्य 1|1|65 इत्येषा परिभाषा नोपतिष्ठेत, तथा च पूर्वस्यैवानन्तरे भवितव्यमिति नियमस्याभावात्? सामान्येन पूर्वस्य परस्य वानन्तरे व्यवहिते झलि लोपः; `ह्यस्वादङ्गात्? 8|2|27 इत्यादावपि पञ्चमीनिर्देशस्यासिद्धत्वात्? `तस्मादित्युत्तरस्य` 1|1|66 इत्यस्योपस्थानं न स्यात्, ततश्चानियमात्? पूर्वस्य परस्य वानन्तरस्य व्यवहितस्य च लोपः प्रसज्येतेत्यत आह--`येऽत्र षष्ठीनिर्देशाः` इत्यादि। किं पुनः कारणमसिद्धत्वं न भवति? इत्याह--`कार्यकालं हि` इत्यादि। यदि हि `यथोद्र्दशं संज्ञापरिभाषम्` (व्या।प।59) स्यात्, एवमासां परिभाषाणां पूर्वत्वे सति षष्ठोनिर्देशादीनामसिद्धत्वं न स्यात्, न तु यथोद्देशं संज्ञापरिभावम्, किं तर्हि? `कार्यकालं संज्ञापरिभाषम्` (व्या।पा।58), कार्यकालाः कार्यप्रयुक्ता हि संज्ञाः परिभाषाश्च। तस्माद्यत्र कार्यं तत्रैव ताः प्रयुज्यन्ते, तेन ता उपदेश एव। अतो निर्देशैरभिन्नदेशत्वात्? परिभाषाणामत्र पूर्वत्वं नास्ति, ततः कुतस्तासु कत्र्तव्यासु तेषामसिद्धत्वप्रसङ्गः! यदि कार्यकालं संज्ञापरिभाषम्, `विप्रतिषेधे परं कार्यम्` 1|4|2 इत्येषाऽत्रोपतिष्ठेत? तत्र को दोवः? `स्फुर स्फुल सञ्चलने` (धातुपाठः-1389), 1390), `गुरी उद्यमने` (धातुपाठः-1396)--आभ्यां `ऋहलोव्र्यत्` 3|1|124 इति ण्यति कृते दिस्फोयम्, अवगोर्यमिति न सिध्येत्। अस्या हि परिभाषाया उपस्थाने, गुणं परत्वाद्बाधित्वा `हलि च` 8|2|77 इति दीर्घत्वं प्राप्नोतीत्यत आह--`विप्रतिषेधे परमित्येषा तु` इत्यादि। `विप्रतिषेधे परम्` 1|4|2 इत्येषा परिभाषाऽत्र न प्रवत्र्तत इति प्रकृतेन सम्बन्धः। कस्मान्न प्रवत्र्तते? इत्याह--`येन` इत्यादि। द्वयोर्हि तुल्यबलयोर्विप्रतिषेधो भवति। इह तु येन पूर्वेण लक्षणेन `पुगन्तस्य` 7|3|86 इत्यादिना सह परं लक्षणं स्पर्धते तदप्यभिभवितुमिच्छति। पर#ं लक्षणं `हलि च` 8|2|77 इत्यादिकम्, तत्? पूर्वं प्रति तस्यासिद्धत्वम्। अतोऽतुल्यबलत्वाद्विप्रतिषेधो नास्तीति `विप्रतिषेधे परम्` 1|4|2 इत्येषा परिभाषा न प्रवत्र्तते। `तथा च` इत्यादि। एवमस्याः परिभाषाया अप्रवृत्तौ सत्यामित्यर्थः। यदि तर्हि पूर्वस्मिन्? कार्ये कत्र्तव्ये परमसिद्धं भवति, एवं सत्युत्सर्गे कत्र्तव्ये परस्यापवादस्यासिद्धत्वां सायत्। ततश्च दोग्धा, दोग्धृमित्यत्र `दादेर्घातोर्घः` 8|2|32 इति धस्यासिद्धत्वाङढत्वं स्यात्? इत्यत आह--`अपवादसर्य तु` इत्यादि। यद्यप्यपवादविषयस्यापि परस्योत्सर्गे कर्त्व्येऽसिद्धत्व स्यात्, निर्विषयत्वाच्चापवादवचनस्य वैयथ्र्यं स्यात्। अतोऽपवादस्य परस्यापि वचनप्रामाण्यादसिद्धत्वं न भवति। ननु च वचनप्रामाण्यात्? पर्यायेण तयोर्भावः स्यात्, तत्कुतो वैयथ्र्य प्रसङ्ग? नैतदस्ति; यद्यपवादस्य पर्यायता स्यात्, `वा द्रुहमुह` 8|2|33 इति विकल्पेन धत्वविधाननमनर्थकं स्यात्॥
पूर्वत्रासिद्धमित्ययमधिकार इति । यदि तु स्वतन्त्रो विधिः स्यात्, ततो वक्ष्यमाणस्य त्रिपादीलक्षणसमुदायस्य पूर्वत्र सपादसप्ताध्यायीलक्षणे समुदायेऽसिद्धत्वमुक्तं स्यात्, न तु त्रिपाद्यां पूर्वत्र परस्यासिद्धत्वमापादितं स्यात्; ततश्च गुडलिण्मान्, गोधुङ्मानित्यादौ ढत्वघत्वादेरसिद्धत्वाभावात् ठ्झयःऽ इति मतुपो वत्वप्रसङ्गः । तस्मान्न विधिः । अथ परिभाषा स्यात्, सर्वत्रैवाष्टाध्याय्यां पूर्व प्रति परस्यासिद्धत्वात् तेन, तैः, तस्य---इत्यादाविनादिषु कर्तव्येषु त्यदाद्यत्वस्यासिद्धत्वादकारान्तनिमिता इनादयो न स्युः । तस्माद्---अधिकारः । एवं सति यदनेन सम्पादितं भवति तद्दर्शयति---तत्रेति । तत्राधिकारे सतीत्यर्थः । अधिकारे हि त्रिपादीगतानामप्यविशेषेण सपादसप्ताध्यायीगतान्प्रत्यसिद्धत्वं त्रिपाद्यं च पूर्वत्र परस्यासिद्धत्वं सिद्ध्यति । विधौ तु नैतावत्सम्पादयितुं शक्यम्; त्रिपाद्यां पूर्वत्र परस्यासिद्धत्वानापादनात् । परिभाषायां च नैतावति पर्यवस्यति; सर्वत्रैव प्रसङ्गात् । तस्मादधिकारत्वादेतावत्सन्पद्यते । एतावदेव च सम्पद्यत इत्यर्थः । न चैवमत्र भ्रमितव्यम्---येयं सपादसप्ताध्यायी अनुक्रान्तेत्यनेन विधिरूपेण प्रवृत्तिर्दर्शिता, इत उतरमित्या दिना त्वधिकाररूपेण, ततश्च शेष इतिवल्लक्षणं चाधिकारश्चेति ? निष्प्रयोजनत्वाद्, अधिकारोऽयमित्युक्तत्वाच्च । किं हि नामाधिकार एवास्मिन्न सिध्यति, यदर्थो विधिराश्रीयते ! सप्तानामध्यायानां सामाहारः सप्ताध्यायी, सपादाचासौ सप्ताध्यायी चेति कर्मधारयः, सपादेति टाबन्तपाठे त्वसमासः । उतरौतरो योग इति पाठः;वीप्सायां द्विर्वचने सुब्लुकोऽसम्भवात् । अत्राध्यायग्रहणेन योगग्रहणेन च शास्त्रासिद्धत्वमाश्रीयत इति दर्सयति । एतच्च पूर्वत्रेति वचनाल्लभ्यते । शास्त्रस्य हि मुख्यं पूर्वत्वम्; सन्निवेशविशेषयोगित्वात् । कार्यस्य तु शास्त्रद्वारकमौपचारिकम्, न हि मुख्ये सम्भवति गौणस्य ग्रहणं युक्तम् । कथं पुनरुच्चरितं शास्त्रमसिद्धमित्युच्यते, न हि वचनशतेनापि सिद्धमपि असिद्धं भवति ? अत आह---सिद्धकायं न करोतीत्यर्थ इति । वचनादतिदेश आश्रीयत इत्यर्थः । शास्त्रास्यासिद्धत्वमाश्रीयते, न कार्यस्येति दर्शितम् । तत्र प्रयोजनमाह---तदेतदिति । यदिदं शास्त्रविषयमसिद्धवचनं तदेतदित्यर्थः । आदेशो लक्षणं निमितं यस्य कार्यस्य तस्य प्रतिषेधार्थमुत्सृज्यते आदेशेन निवर्तत इति उत्सर्गःउस्थानी, स लक्षणं निमितं यस्य तस्य भावः प्रवृत्तिर्यथा स्यादित्येवमर्थं चासिद्धवचनम् । कार्यासिद्धत्वे तूत्सर्गलक्षणस्य भावो न न सिध्यति । तत्रादेशलक्षणप्रतिषेधस्योदाहरणमाह---अस्मा उद्धरेत्यादि । आयावोः कृतयोः ठ्लोपः शकल्यस्यऽ इति लोपः । व्यलोपस्यासिद्धत्वादिति । शास्त्रद्वारकं व्यलोपस्यासिद्धत्वम् । यदा हि पूर्वशास्त्रसन्निधौ परशास्त्रमसिद्धम्, तदा तत्प्रतिपादितं कार्यं सुतरामसिद्धं भवति । उत्सर्गलक्षणभावस्योदाहरणमाह--अमुष्मै इति । अत्रासत्यसिद्दत्वे परत्वाद् ठदसोऽसेर्दादु दो मःऽ इत्युत्वे सत्यत इति स्मायादयो न स्युः । असिद्धत्वे तु पूर्वं स्मादयः, पश्चादुत्वमिति सिद्धमिष्टम् । उत्वस्येति । उत्वशास्त्रस्येत्यर्थः । शुष्किकेत्यादिश्लोकः । अत्र निदर्शनमिति प्रत्येकमभिसम्बध्यते । निदर्शनमुदाहरणदिगित्यर्थः । मतोर्वत्वे कर्तव्ये ठ्झलां जशोऽन्तेऽ इति जश्त्वेऽसिद्धे सति गुडलिण्मानिति दर्शनम् । न कोपधाया इति पुंवद्भावप्रतिषेधो न भवतीति । कोपधप्रतिषेधे तद्धितवुग्रहणमित्येतनाश्रित्येदं प्रयोजनमुक्तम् । क्षामिमानिति । ठ्क्षायो मःऽ इति निष्ठातकारस्य मत्वम्, ततः ठत इञ्ऽ इति इञन्ताद् ठत इनिठनौऽ इतीन्, तदन्ताद्वा मतुप् । वहेरित्यादि । ठ्वह प्रापणेऽ, निष्ठा, सम्प्रसारणम्, ठ्हो ढःऽ, ठ्झषस्तथोर्धोऽधःऽ, ष्टुअत्वम्, ठ्ढो ढेअ लोपःऽ, ठ्ढ्रलोपे पूर्वस्य दीर्घोऽणःऽ, ऊढ इति स्थिते णिचि टिलोपः, लुङ्, च्छेश्चङ् । हतैत्येतद् द्विरुच्यते इति । ठजादेर्वितीयस्यऽ इति वचनात्, ततः ठ्हलादिः शेषःऽ, ठ्कुहोश्चुःऽ, इति चुत्वम्---हकारस्य झकारः, तस्य ठभ्यासे चर्चऽ इति जश्त्वं जाकरः । अथात्र ठ्सन्वल्लघुनिऽ इतीत्वं कस्मान्न भवति ? तत्राह--अनग्लोप इति वचनादिति । कथं पुनरौजिढदिति भवति ? इत्यत आह---अनग्लोप इति वचनादिति । कथं पुनरौजिढदिति भवति ? इत्यत आह---औजिढदित्येतत्विति । पूर्वत्रासिद्धीयमद्विर्वचनेऽ इत्येतत्विह प्रवर्तते; अनिस्यत्वात् । अनित्यत्वं च ठुभौ साभ्यासस्यऽ इति वचनाद्विज्ञायते, अन्यथा ठनितेःऽ इति णत्वे कृते तस्य सिद्धत्वात् सह णकारेण द्विर्वचने सति सिद्धं स्यात्---प्राणिणिवतीति । गुडलिण्मानिति । गुडं लेढैइति क्विप्, तदन्तान्मतुप्, ढत्वजश्त्वयोः कृतयोः ठ्यरोऽनुनासिकत्वे तद्धिते भाषायां नित्यवचनम्ऽ इति णकारः । षष्ठीनिर्देशा इति । ठ्संयोगान्तस्य लोपःऽ इत्यादयः, पञ्चमीनिर्देशाः ठ्ह्रस्वादङ्गात्ऽ इत्यादयः, सप्तमीनिर्देशाः ठ्झलो झलिऽ इत्यादयलस्तेषाम् । असिद्धत्वं न भवतीति । यदि स्यात् ठ्संयोगान्तस्य लोपःऽ इत्यत्र ठ्षष्ठी स्थानेयोगा इत्येतस्याभावातच्छेषस्य ठलो।ञन्त्यस्यऽ इत्यस्याप्रवृतेः सर्वस्य पदस्य लोपप्रसङ्गः; ठ्ह्रस्वादङ्गात्ऽ इत्यत्राप्यनियमेन दिक्शब्दाध्याहारात्पूर्वस्य परस्य च लोपप्रसङ्गः; ठ्झलो झलिऽ इत्यत्राप्यौपश्लेषिकेऽधिकरणे सप्तमी विज्ञायेतेति पूर्वपरयोरविशेषेण प्रसङ्गः, सत्सप्तमीविज्ञाने तु व्यवहितस्यापि प्रसङ्गः । कथं पुनः पूर्वासु परिभाषासु कर्तव्यासु तेषामसिद्धत्वं न भवति ? अत आह---कार्यकालं हीति । संज्ञापरिभाषमिति समाहारद्वन्द्वः । अयमभिप्रायः--- संज्ञाः परार्था अत्यन्तं परिभाषाश्च तद्विधाः । न स्वातन्त्र्येण तास्तस्मात् कार्यावगतिहेतवः ॥ अनेकस्य प्रधानस्य शेषभूता भवन्त्विति । एताः केवलमाचार्यः पृथन्देशा उपादिशत् ॥ विधिवाक्यैस्तु संहत्य यत्र तत्र स्थितैरपि । बोधयन्त्यः स्वकार्याणि नैकपूर्वाः परा इमाः ॥ इति । यदि कार्यकालं संज्ञापरिभाषम्, ठ्विप्रतिषेधे परम्ऽ इत्येषापि परिभाषात्रोपतिष्ठेत, ततश्च विस्फोर्यम्, अवगोर्यमित्यत्र गुणं बाधित्वा परत्वात् ठ्हलि चऽ इति दीर्घत्वं स्यात् ? इत्यत आह--विप्रतिषेधे परमित्येषा त्विति । एषा तु न प्रवर्तत इति सम्बन्धः । मध्ये हेतुर्येनेति । विप्रतिषेधो हि तस्या निमितम् । कश्च विप्रतिषेधः ? द्वयोस्तुल्यबलयोरेकस्मिन्विषये त्वं चाहं चेति प्रवृत्तिप्रसङ्गः । न चायमत्र सन्भवति, तस्मान्निमिताभावान्न प्रवर्तत इत्यथः । यद्येवम्, अपवादोऽपि परः पूर्वमुत्सग न बाधेत ? अत आह---अपवादस्येति । यद्यपवादस्यासिद्धत्वादुत्सर्ग एव स्यात्, अपवादविधानं व्यर्थं स्यात् ॥
सिद्धान्तकौमुदी
अधिकारोऽयम् । तेन सपादसप्ताध्यायीं प्रति त्रिपाद्यसिद्धा त्रिपाद्यमपि पूर्वं प्रति परं शास्त्रमसिद्धं स्यात् । बाह्यप्रयत्नस्त्वेकादशधा - विवारः संवारः श्वासो नादो घोषोऽघोषोऽल्पप्राणो महाप्राण उदात्तोऽनुदात्तः स्वरितश्चेति ॥ खयां यमाः खयः XकXपौ विसर्गः शर एव च । एते श्वसानुप्रदाना अघोषाश्च विवृण्वते ॥ कण्ठमन्ये तु घोषाः स्युः संवृता नादभागिनः । अयुग्मा वर्गयमगा यणश्चाल्पासवः स्मृताः ॥ वर्गेष्वाद्यानां चतुर्णां पञ्चमे परे मध्ये यमो नाम पूर्वसदृशो वर्णः प्रातिशाख्ये प्रसिद्धः । पलिक्क्नीः । चख्ख्नतुः । अग्ग्निः । घ्घ्नन्तीत्यत्र क्रमेण कखगघेभ्यः परे तत्सदृशा एव यमाः । तत्र वर्गाणां प्रथमद्वितीयाः - खयस्तथा तेषामेव यमाः जिह्वामूलीयोपध्मानीयौ विसर्गः शषसाश्चेत्येतेषां विवारः श्वासोऽघोषश्च । अन्येषां तु संवारो नादो घोषश्च । वर्गाणां प्रथमतृतीयपञ्चमाः प्रथमतृतीययमौ यरलवाश्चाल्पप्राणाः । अन्ये महाप्राणा इत्यर्थः । बाह्यप्रयत्नाश्च यद्यपि सवर्णसंज्ञायामनुपयुक्तास्तथाप्यान्तरतम्यपरीक्षायामुपयोक्ष्यन्त इति बोध्यम् । कादयो मावसानाः स्पर्शाः । यरलवा अन्तस्थाः । शषसहा ऊष्माणः । अचः स्वराः । ःकः पाविति इति कपाभ्यां प्रागर्धविसर्गसदृशौ जिह्वामूलीयोपध्मानीयौ । अं अः इत्यचः परावनुस्वारविसर्गौ । इति स्थानप्रयत्नविवेकः ॥ऋलृवर्णयोर्मिथः सावर्ण्यं वाच्यम् (वार्तिकम्) ॥ अकारहकारयोरिकारशकारयोर्ऋकारषकारयोर्लृकारसकारयोश्च मिथः सावर्ण्ये प्राप्ते ॥
पूर्वत्रासिद्धम् - तथाविधं सूत्रमाह-पूर्वत्रासिद्धम् । पाणिनिप्रणीता अष्टाध्यायी । तत्र अष्टमाध्याये द्वितीयपादस्येदमादिमं सूत्रम् । इतः प्राक्तनं कृत्स्नं सूत्रजालंसपादसप्ताध्यायी॑ति व्यवह्यियते । उपरितनं तु कृत्स्नं सूत्रजालं त्रिपादीति व्यवह्यियत इति स्थितिः । तत्र यदीदं सूत्रं स्वतन्त्रविधिः स्यात्, तदा इतः पूर्वस्मिन् शास्त्रे प्रवर्तमाने उपरितनं शास्त्रमसिद्धं स्यादित्यर्थो लभ्येत । ततश्च सपादसप्ताध्यायीं प्रति त्रिपाद्यसिद्धेति पर्यवस्येत् । एवं सति त्रिपाद्यामपि पूर्वं शास्त्रं प्रति परं शास्त्रमसिद्धमित्यर्थो न लभ्येत । तथा सति किमु उक्तं किम्वुक्तमित्यत्र "मोऽनुस्वारः" इति शास्त्रं त्रैपादिकं प्रति "मय उञो वो वा" इति वत्वशास्त्रं त्रैपादिकं नासिद्धं स्यादित्यत आह-अधि-कारोऽयमिति । अधिक्रियते उपरितनसूत्रजालशेषत्वेन पठत इत्यधिकारः । कर्मणि घञ् । "घञजबन्ताः पुंसि" इति पुंस्त्वम्॥ अयमिति तदपेक्षया पुंलिङ्गनिर्देशः । इदं सूत्रमुपरितनसूत्रेष्वनुवृत्त्यर्थमेव, न तु स्वतन्त्रविधिरिति यावत् । "मय उञो वो वा" इति सूत्रे पूर्वत्रासिद्धमित्यनुवत्र्तते । ततश्चमयः परस्य वकारो वो वा स्यात् । इदं श#आस्त्रं पूर्वत्रासिद्ध॑मिति तदेकवाक्यं संपद्यते । तत्र च अनुवृत्तपूर्वशब्देनैतः प्राक्तनं त्रिपादीस्थं सपादसप्ताध्यायीस्थं च कृत्स्नं सूत्रजालं विवक्षितमिति "मोऽनुस्वारः" इति त्रैपादिकं शास्त्रं प्रति "मय उञो वो वा" इति शास्त्रस्याऽसिद्धत्वं निर्बाधमित्याह-तेनेति । अदिकारत्वेनेत्यर्थः । परं शास्त्रमसिद्धमिति । असिद्धत्वं चाऽत्र नात्यन्ताऽसत्त्वम् । किंतु पूर्वशास्त्रदृष्ठएत्यनुपदेमेवोक्तम् ।परं शास्त्र॑मित्यनेन प्रक्रियाकौमुद्यादिग्रन्थोक्तं कार्यासिद्धत्वमप्रामाणिकमिति ध्वनितम् । कार्याऽसिद्धत्वं पूर्वपक्षयित्वा शास्त्रासिद्धत्वस्यैवात्र सूत्रे, "असिद्धवदत्राभात्" दिति सूत्रे च भाष्ये सिद्धान्तितत्वात् । शास्त्रसिद्धत्वकार्याऽसिद्धत्वयोः फलभेदस्तु शब्देन्दुशेखरे व्यक्तः । अस्माभिश्च स्वादिसन्धौ "मनोरथ" इत्यत्र मूलव्याख्यावसरे , हलन्तशब्दाधिकारे च अदःशब्दप्रक्रियाव्याख्यावसरे प्रपञ्चयिष्यते । तदेवम् "अ अ" इति संवृतविधेः स्वप्राक्तनीं कृत्स्नामष्टाध्यायीं प्रत्यसिद्धत्वात् प्रक्रियादसायामवर्णस्य ह्यस्वस्य विवृतत्वमेव । परिनिष्ठितदशायामेव संवृतत्वमिति स्थितम् । यद्यपि परिनिष्ठ#इतदशायां संवृतविधिः क्वचिदप्यस्मिन् शास्त्रे नोपयुज्यते, तथापि परिनिष्ठिते संवृतविंधिबलात्संवृतत्वेन ज्ञाने सत्येव प्रयोगार्हतेति कल्प्यम्, विवृतसंवृतयोरुच्चारणभेदो वा कल्प्य इत्यलं बहुना । अथ बाह्रप्रयत्नान् प्रपञ्चयति — बाह्रप्रयत्नस्त्विति । प्रशब्दोऽत्र चिन्त्यः, प्रशब्दबलेन आभ्यन्तरयत्नस्यैव प्रयत्नशब्दवाच्यताया तुल्यास्यसूत्रे उक्तत्वात्, यत्नो द्विधेत्युपक्रमाच्च । अविवक्षितार्थो वाऽत्र प्रशब्दः । उदात्तानुदात्तस्वरितशब्दा धर्मपराः । कस्य को बाह्रयत्न इत्याकाङ्क्षायां तद्व्यवस्थां श्लोकद्वयेन संगृह्णाति — खयामिति । "यम" शब्दो व्याख्यास्यते । आआसोऽनुप्रदानो येषां ते आआसानुप्रदानाः=आआसाख्यबाह्रयत्नवन्तः । विवृण्वते कण्ठमिति । विवार एषां यत्न इति भावः । संवृताः=संवाराख्ययत्नवन्तः । नादभागिनः=नादाख्ययत्नभाजः । अयुग्मा वर्गयमगा इति । कादिपञ्चकं टादिपञ्चकं तादिपञ्चकं पादिपञ्चकमिति पञ्च वर्गाः । वर्गगता यमगताश्च अयुग्माः=प्रथमतृतीयपञ्चमवर्णा इत्यर्थः । अल्पासवः=अल्पप्राणाः ।अथ श्लोकद्वयं व्याख्यास्यन् यमशब्दं तावत्सामान्यतो व्याचष्टे — वर्गेष्वित्यादिना ।आद्यानां चतुर्णा॑मिति निर्धारणे षष्ठी ।एकैकस्मा॑दित्यव्याहार्यम् । तेन "अन्यारादितरर्ते" इति परशब्दयोगे पञ्चमीप्रसङ्गादाद्यानां चतुर्णामिति षष्ठनुपपन्नेति निरस्तम् । यमो नामेति । नामशब्द इतिपर्यायः । तदयमर्थः — कादिचादिटादितादिपादिपञ्चकात्मकेषु वर्णेषु एकैकस्य वर्गस्य आद्यानां चतुर्णां मध्ये एकैकस्मात्पञ्चमे वर्णे परे मध्ये पूर्ववर्णसदृशो वर्णो यम इति प्रातिशाख्ये प्रसिद्ध इति । अथ यमानुदाह्मत्य दर्शयति — पलिक्क्नीत्यादिना तत्सदृशा एव यमा इत्यन्तेन । एवं वर्गान्तरयमानामप्युदाहरणं याच्च्ञेत्यादि द्रष्टव्यम् । तदेवं यमशब्दं सामान्यतो व्याख्याय श्लोकद्वयं व्याचष्टे — तत्रेत्यादिना । तत्र "खय" इत्यस्य व्याख्या — वर्गाणां प्रथमद्वितीयाः खय इति । "खयां यमा" इत्यस्य विवरणं — तथा तेषामेव यमा इति । "क पौ" इत्यस्य विवरणं — जिह्वामूलीयोपध्यमानीयाविति । विसर्गशब्दः प्रसिद्धत्वात् स णवोपात्तः । "शर" इत्यस्य विवरणं — शषसा इति ।एते आआसानुप्रदाना अघोषाश्च विवृण्वते कण्ठ॑मित्येतद्व्याचष्टे-एतेषां विवारः आआसोऽघोषश्चेति ।अन्ये तु घोषाः स्युः संवृता नादभागिन॑ इत्येतद्व्याचष्टे-अन्येषां तु संवारो नादो घोषश्चेति । "अयुग्मा वर्गयमगा" इत्येतद्व्याचष्टे — वर्गाणां प्रथमतृतीयपञ्चमाः प्रथमतृतीययमाविति । पञ्चमानां यमाऽभावादिति बावः ।यणश्चाल्पासवः स्मृता॑ इत्येतद्व्याचष्टे — यरलवाश्चाल्पप्राणा #इति । ननु श्लोकद्वये महाप्राण एतेषामिति नोक्तम् । अतो न्यूनतेत्याशङ्क्य तदपि परिशेषादुक्तप्रायमित्याह — अन्ये महाप्राणा इति । वर्गाणां द्वितीयचतुर्थाः शलश्च महाप्राणाः ॑ इति । नन्विह बाह्रयत्नप्रपञ्चनं व्यर्थं, तुल्यास्यसूत्रे प्रयत्नशब्दस्य आभ्यन्तरयत्नमात्रपरत्वादित्याशङ्कते — बाह्रप्रयत्नाश्चेति ।यद्यपी॑ति समुदायः शङ्काद्योतकः । परिहरति-तथापीति । सवर्णसंज्ञाप्रस्तावे बाह्रयत्नानामुपयोगाभावेऽपि "स्थानेऽन्तरतमः" इति वक्ष्यमाणान्तरतम्य्विचारे तेषामुपयोगसत्त्वान्न वैयथ्र्यम् । इह तत्प्रपञ्चनं तुल्यास्यसूत्रे आभ्यन्तरत्वविशेषणव्यावर्त्त्यत्वेनोपस्थितत्वात्प्रासङ्गिकमिति भावः । उदात्तादित्रयस्य तु अज्धर्मत्वस्य प्रसिद्धत्वादिह न तद्व्यवस्थोक्ता । अथ स्पृष्टं प्रयतनं स्पर्शानामित्यादिसंदर्भे उपन्यस्तान् स्पर्शादिशब्दान् व्याचष्टे-कादञ इत्यादिना । क आदिर्येषां तेकादयः॑ । मः अवसाने येषां तेमावसानः॑ । इदं च लोकप्रसिद्धपाठपेक्षम् । इति स्थानयत्नविवेक इति । स्थानयत्निविवेचनं समाप्तमित्यर्थः । स्थानप्रयत्नेति प्रशब्दपाठस्तु चिन्त्यः, अविवक्षितार्थो वाप्र॑शब्द । ऋलृवर्णयोर्मूर्धदन्तात्मकभिन्नस्थानकत्वात्सवर्णसंज्ञायामप्राप्तायाम्ऋकारलृकारयोः सवर्णविधिः॑ इति तद्विधायकं वार्तिकमर्थतः संगृह्र पठति-ऋलृवर्णयोर्मिथः । आ च आ च रलौ । ऋशब्दस्य च "आ" इति प्रथमैकवचनम् । ऋ लृ औ इति स्थिते लृकारस्यऋतो ङि सर्वनामस्थानयोः॑ इति गुणः, अकारः,उरण्परः॑इति लपरत्वम्, ञकारस्य यणादेशो रेफः । रलौ च तौ वर्णौ च ऋलृवर्णौ । तयोर्मिथः परस्परं सावण्र्यं=सवर्णत्वं वक्तव्यं, तुल्यास्यसूत्रेण तदलाभादिति सूत्रकारः शिक्ष्यते (वार्तिककृता) । उक्तामुक्तदुरुक्तचिन्तनात्मकं हि वार्तिकम् । अकारहकारयोरिति । उभयोः कण्ठस्थानविवृतप्रयत्नसाम्यात्सावण्र्यं प्राप्तम् । अकारस्य कवर्गेण तु न सावण्र्यप्रसक्तिः, कण्ठस्थानसाम्ये सत्यपि विवृतस्पृष्टप्रयत्नभेदात् । विसर्जनीयस्य तु अकारोपरि शर्षु च पाठस्योपसङ्ख्यातत्वेन विवृतत्वेऽपि तेन अकारस्य न सवर्णसंज्ञा, प्रयोजनाऽभावात् । ततश्च अकारस्य हकारेण सावण्र्यं परिशिष्टत इति भावः । इकारशकारयोरिति । तालुस्थानविवृतप्रयत्नसाम्यादुभयोः सावण्र्यं प्राप्तम् । इकारस्य चवर्गेण यकारेण च न सावण्र्यप्रसक्तिः,इकारस्य विवृतत्वात् , चवर्गस्य स्पृष्टत्वात्, यकारस्य ईषत्स्पृष्टत्वाच्च । अत इकारस्य शकारेण सावण्र्यं परिशिष्यत इति भावः । ऋकारषकारयोरिति । मूर्धस्थानविवृतयत्नसाम्यादुभयोः सावण्र्यं प्राप्तम् । ऋकारस्य टवर्गेण रेफेण च न सावण्र्यप्रसक्तिः ऋकारस्य विवृतत्वात्, टवर्गस्य स्पृष्टत्वात् , रेफस्यैइषत्स्पृष्त्वाच्च । अत ऋकारषकारयोः सावण्र्यं परिशिष्टत इति भावः । लृकारसकारयोरिति । दन्तस्थानविवृतप्रयत्नसाम्यादुभयोः सावण्र्यं प्राप्तम् । लृकारस्य तवर्गेण लकारेण च न सावण्र्यप्रसक्तिः, लृकारस्य विवृतत्वात्, तवर्गस्य स्पृष्टत्वात्, लकारस्य ईषत्सपृष्टत्वाच्च । अतः लृकारस्य सकारेण सावण्र्यं परिशिष्यते ।
पूर्वत्रासिद्धम् - पूर्वत्रासिद्धम् । यद्ययं स्वतन्त्रो विधिः स्यात्तर्हि त्रिपादी पूर्वं प्रत्यसिद्धेत्येव लभ्येत, त्रैपादिकं तु पूर्वं प्रति परं नासिद्धं स्यात्, तथाच प्रशानित्यत्रमो नो धातोः॑ इति नत्वस्य सिद्धत्वान्नलोपः स्यात्, नत्वविधेः संबुद्धौ चरितार्थत्वात् । तथाऽनङ्वानित्यत्र संयोगान्तलोपस्य सिद्धत्वान्नलोपः स्यात् , नुम्बनिधेस्तु संबुद्धौ चरितार्थत्वात् । तथाऽनङ्वानित्यत्र संयोगान्तलोपस्य सिद्धत्वान्नलोपः स्यात्, नुम्बिधेस्तु संबुद्धौ चरितार्थत्वाद्त आह-अदिकारोऽयमिति । त्रिपाद्यां विहितं कार्यमिति कार्याऽसिद्धिपक्षे अमू अमूमित्यादि न सिद्ध्येदिति भावः । यथा चैतन्न सिध्यति तथाऽदःशब्दव्याख्यावसरेऽस्माभिरुपपादयिष्यते । एकादशधेति । यद्यपि भाष्येऽष्टावुक्ताः, उदात्तादयस्तु नोक्ताः, तथापि कैयटोक्तिमनुसृत्यैकादशोक्ता इति बोध्यम् । खयां यमा इति । बालबोधनाय बाह्रप्रयत्नाः कैश्चित्सुगमोपायेनोपनिबद्धाः । तद्यथा-॒खरो विवाराः आआसा अघोषाश्च, हशः संवारा नादा घोषाश्च, वर्गाणां प्रथमतृतीयपञ्चमा यणश्चाल्पप्राणाः, वर्गाणां द्वितीयचतुर्थौ शलश्च महाप्राणाः॑ इति । आआसानुप्रदाना इति । आआसप्रयत्नका इत्यर्थः । विवृण्वते कण्ठमिति । विवार एषा प्रयत्न इति भावः । अन्येत्विति । हशो, हशां यमाः, अनुस्वारश्च । नादेति । नादभागिनः । नाश्प्रयत्नवन्त इत्यर्थः । अयुग्मा इति । प्रथमतृतीयपञ्चमा वर्गेष्वयुग्माः । वर्गयमगा इति । वर्गगा-यमगाश्चेत्यर्थः । अल्पेति । अल्पासवः=अल्पप्राणाः ।पुंसि भूम्न्यसवः प्राणाः॑ इत्यमरः । अनुपयुक्ता इति । अन्यथा कखगघादीनां परस्परं सावण्र्यं न स्यादिति भावः । आन्तरतम्यपरीक्षायामिति । परीक्षा च-॒अघोषस्य महाप्राणस्य सस्य तादृश एव थकारः॑,घोषवतो नादवतो महाप्राणस्य हस्य तादृशो वर्गचतुर्थ॑ इत्यादिना मूले एव स्फुटीभविष्यति । कादय इति । लोकप्रसिद्धपाठापेक्षमिदम् । चतुर्दशसूत्र्यां सादृश्यमुच्चारणे लेखने च बोध्यम् । कपाभ्यां प्रागिति । एतच्चोपलक्षणम् । खफाभ्यां प्रागित्यपि बोध्यम् । अर्धविसर्गेति । सादृश्यमुच्चारणे लेखने च बोध्यम् । ऋलृवर्णयोरिति ।ऋत्यकः॑ इति प्रकृतिभावः । विग्रहस्तु आ च लृवर्णश्च ऋलृवर्णौ, तयोरित्येके । मनोरमायां तु-आ च आ च रलौ, तौ च तौ वर्णौ चेत्यादिं स्थितम् । नाज्झलौ । आकारसहित इति ।कालसमयवेलासु॑ इत्यादिनिर्देशा आकारप्रश्लेषे लिङ्गम् । यणादिकमिति । शीतलशब्दे सवर्णदीर्घ आदिशब्दार्थः । इहअसेध॑ दित्यादौहो ढः॑ इति ढत्वं नेत्यपि सुवचम् ।इण॑ इति सस्य षत्वमपि नेति तु न सुवचम्, ढत्वं प्रति तस्याऽसिद्धत्वादिति दिक् । अन्यथेति ।नाज्झलौ॑ इत्यस्यानारम्भे । ग्रहणकशास्त्रबलादिति । अयं भावः,-दीर्घादीनामिव हकारादीनामप्यकारवाच्यत्वेऽभ्युपगते ह्रच्त्वं स्यात्, प्रत्याहारेषु तद्वाच्यवाच्ये निरूढलक्षणाभ्युपगमादिति ।
लघुसिद्धान्तकौमुदी
सपादसप्ताध्यायीं प्रति त्रिपाद्यसिद्धा, त्रिपाद्यामपि पूर्वं प्रति परं शास्त्रमसिद्धम्। हर इह, हरयिह। विष्ण इह, विष्णविह॥
महाभाष्यम्
पूर्वत्राऽसिद्धम् येयं सपादसप्ताध्याय्यनुक्रान्ता एतस्यामयं पादोनोऽध्यायोऽसिद्धो वेदितव्यः।। यदि सपादायां सप्ताध्याय्यामयं पादोनोऽध्यायोऽसिद्ध इत्युच्यते य(1) इह सप्तमीनिर्देशाः पञ्ञ्चमीनिर्देशाः षष्ठीनिर्देशाश्चोच्यन्ते तेऽप्यसिद्धाः स्युः।। तत्र को दोषः?।। झलो झलि ह्रस्वादङ्गात् संयोगान्तस्य लोपःथ्द्य;त्येतेषां निर्देशानामसिद्धत्वात्तस्मिन्निति निर्दिष्टे पूर्वस्य तस्मादित्युत्तरस्य षष्ठी स्थानेयोगा इत्येताः परिभाषा न प्रकल्पेरन्।। नैषः दोषः, यद्यपीदं तत्राऽसिद्धं तत्त्विह सिद्धम्।। कथम्?।। कार्यकालं संज्ञापरिभाषम्।। यत्र कार्यं तत्रोपस्थितं द्रष्टव्यम्। झलो झलि ह्रस्वादङ्गात् संयोगान्तस्य लोपः। उपस्थितमिदं भवति,-तस्मिन्निति निर्दिष्टे पूर्वस्य तस्मादित्युत्तरस्य षष्ठी स्थानेयोगेति।। यदि कार्यकालं संज्ञापरिभाषमित्युच्यते इयमपि परिभाषाऽस्ति विप्रतिषेधे परमिति। साऽपीहोपतिष्ठेत।। तत्र को दोषः?।। विस्फोर्यम् अवगोर्यमिति। गुणादीर्घत्वं स्याद्विप्रतिषेधेन।। अत उत्तरं पठति-।। पूर्वत्राऽसिद्धे नास्ति विप्रतिषेधोऽभावादुत्तरस्य।। पूर्वत्रासिद्धे नास्ति विप्रतिषेधः।। किं कारणम्?।। अभावादुत्तरस्य। द्वयोर्हि सावकाशयोः समवस्थितयोर्विप्रतिषेधो भवति न च पूर्वत्राऽसिद्धे परं पूर्वं प्रति भवति।। यद्येवं दोग्धा दोग्धुं,-घत्वस्याऽसिद्धत्वाड्ढत्वं प्राप्नोति।। काष्ठतट् कूटतट्। संयोगादिलोपस्याऽसिद्धत्वात्संयोगान्तलोपः प्राप्नोति। ।। अपवादो वचनप्रामाण्यात्।। झ्र्अपवादो वचनप्रामाण्यात्(1)ट। अनवकाशावेतौ(2) वचनप्रामाण्याद्भविष्यतः। तस्मात्कार्यकालं संज्ञापरिभाषमिति न दोषः।। पूर्वत्रासिद्धमधिकारः।। पूर्वत्राऽसिद्धमित्यधिकारोऽयं द्रष्टव्यः।। किं प्रयोजनम्? ।। परस्य(3) परस्य पूर्वत्र पूर्वत्राऽसिद्धविज्ञानार्थम्(4)।। झ्र्परस्य परस्य पूर्वत्र पूर्वत्राऽसिद्धविज्ञानार्थम्ट। परः परो योगः पूर्वं पूर्वं योगं प्रत्यसिद्धो यथा स्यात्। ।। अनधिकारे हि समुदायस्य समुदायेऽसिद्ध(त्व5)विज्ञानम्।। अनधिकारे हि सति समुदायस्य समुदायेऽसिद्धत्वं विज्ञायेत।। तत्र को दोषः?।। तत्राऽयथेष्टप्रसङ्गः।। तत्राऽयथेष्टं प्रसज्येत। गोधुङ्मान् गुडलिण्मानिति,-घत्वढत्वयोः कृतयोर्झय इति वत्वं प्रसज्येत।। ।। तस्मादधिकारः।। तस्मादधिकारोऽयं द्रष्टव्यः। अथाऽसिद्धवचनं(1) किमर्थम्।। असिद्धवचनम् उक्तम्।। झ्र्असिद्धवचने(2) उक्तम्ट।। किमुक्तम्(3)।। तत्र(4) तावदुक्तं-षत्वतुकोरसिद्धवचनमादेशलक्षणप्रतिषेधार्थमुत्सर्गलक्षणभावार्थं चेति। एवमिहाऽपि पूर्वत्राऽसिद्धवचनमादेशलक्षणप्रतिषेधार्थमुत्सर्गलक्षणावार्थं(5) च। आदेशलक्षणप्रतिषेधार्थं तावत् ‐ राजभिः तक्षभिः राजभ्यां तक्षभ्याम् राजसु तक्षसु इति। नलोपे कृतेऽत इत्यैस्भावादयः प्राप्नुवन्ति। असिद्धत्वान्न भवन्ति। उत्सर्गलक्षणभावार्थं च-अमुष्मै अमुष्मात् अमुष्य अमुष्मिन् इति। अत्र मुभावेऽत इति स्मायादयो न प्राप्नुवन्ति, असिद्धत्वाद्भवन्ति। सुपर्वाणौ। सुपर्वाणः। णत्वे कृते नोपधाया इति दीर्घत्वं न प्राप्नोति। असिद्धत्वाद्भवति।