`तस्मिन्? सति` इत्यादिनाऽविद्यमानवद्भवतीत्यस्यार्थमाचष्टे। `अविद्यमानवत्` इति। वतिना निर्देशोऽयम्, अविद्यमानेन तुल्यं वत्र्तत इत्यविद्यमानवत्। वतिश्च साद्श्ये भवति, एवञ्च तस्याविद्यमानेन सादृश्यं भवति यदि सत्यपि तस्मस्तन्निबन्धनं कार्यं न भवति। असति च तस्मिन्? यत्? कार्यं तदत्तानिबन्धनं तत्? सत्यपि तस्मिन्? भवति। `आमन्त्रितनिघातेन` [आमन्त्रिततिङनिघात--काशिका--पदमंजरी च] इत्यादिना तस्मिन्? सति यत्कार्यं प्राप्नोति तदभावमविद्यमानवद्भावस्य प्रयोजनं दर्शयति। `देवदत्त् यज्ञदत्त` इति। अत्र पूर्वस्याविद्यमानत्वादसति निघाते यज्ञदत्तशब्दस्य षाष्टिकमेवामन्त्रि
6|1|192 ताद्युदात्तत्वं भवति। `देवदत्त मम ग्रामः स्वम्` ति। `तवममौ ङसि`
7|2|96 इति तदममादेशौ साप्तिकौ। `इत्येवमादिषु` इति। आदिशब्देन `देवदत्त तुभ्यं दीयते` इत्येवमादीनां ग्रहणम्, `युष्मदस्मदादेशा न भवन्ति` इति। `तेमयावेकवचनस्य`
8|1|22 इत्येवमादयः। `पूजायामनन्तरप्रतिषेधः प्रयोजनम्` इत्यादिना तस्मिन्नामन्त्रितेऽसति यत्कार्यं प्राप्नोति तस्य सत्यपि तस्मिन्? भावेऽविद्यमानवद्भावस्य प्रयोजनं दर्शयति। `यावद्देवदत्त पचसीत्यत्रापि` इत्यादि। यत्राप्यामन्त्रितं व्यवधायकमित्येषोऽपिशब्दस्यार्थो वेदितव्यः। `देवदत्तः पचति` इति। अत्राविद्यमानत्वाभावत्? तिङनिघातो भवत्येव। `पूर्वम्` इति। किं देवदत्त इति पूर्वं परमपि खलु भवति? न चेह परमस्तीति नास्ति देवदत्तेत्यस्य पूर्वत्वम्। तेनामन्त्रिताद्युदात्तत्वे कत्र्तव्ये नाविद्यमानवद्भवति। `देवदत्त पचसि` इति। अत्र पचसीत्येतदपेक्षया देवदत्तशब्दस्य पूर्वत्वमस्तीत्यविद्यमानवद्भावेन तस्य भवितव्यम्, ततश्चामन्त्रिताद्युदात्तत्व तस्य न स्यात्। `इमं मे गङ्गे यमुने`--इत्यत्र च गङ्गेशब्दस्य यमुनेशब्देनानन्तर्यमपनयन्? स निघातनिमित्तभावं प्रतिबध्नीयादिति यमुनेशब्दस्य निघातो न स्यादित्येतच्चोद्यद्वयमाशङ्क्याह--`पूर्वत्वं च` इत्यादि। चकारोऽवधारणे, भिन्नक्रमश्च। परापेक्षमेवेत्येवं द्रष्टव्यम्। इतिकरणो हेतौ। येषां यद्भावो यदपेक्षवद्भवति तेषां तद्भावेनानूद्यमानानां विधीयमानो धर्मस्तद्विषय एव प्रतीयते। तद्यथा--पुत्रः कार्येष्ववहित इति पुत्रस्य पुत्रभावः पुत्रापेक्ष इति तस्य पुत्रभावेनानूद्यमानस्य विधीयमानं कार्येष्ववहितत्वं यदपेक्षं पुत्रत्वं तत्कार्येष्ववगम्यते, नान्यकार्येषु। पूर्वत्वं चेदं परापेक्षमेव। तस्मात्? तदनूद्यामन्त्रितस्याविद्यमानवद्भावो यदपेक्षं तत्पूर्वत्वं तस्यैव परस्य कार्ये कत्र्तव्ये भवति, नान्यस्य। किंविशिष्टे कार्ये? स्वानिमित्ते, अन्यनिमित्ते या। स्वं निमित्तं यस्य तत्? स्वनिमित्तम्, आमन्त्रितमित्यर्थः। तस्मादन्यच्छब्दान्तरं निमित्तं यस्य तदन्तनिमित्तम्। यत एवं परस्यैव कार्ये कत्र्तव्ये तदामन्त्रितमविद्यमानवद्भवति, न तु स्वकार्ये कत्र्तव्ये, तेन देवदत्त पचसौत्यत्रामन्त्रिताद्युदात्तत्वं न परस्य कार्यम्; किं तर्हि? आमन्त्रितस्यैव। यतः परस्य कार्यमनुदात्तत्वम्, तस्मस्त्वविद्यमानव्दभवत्येव।एवं प्रथमचोद्यं निराकृत्य द्वितीयं निराकर्त्तुमाह--`इमं मे गङ्गे यमुने` इत्यादि। अत्रापि पूर्वत्वं च परापेक्षं भवतीत्येष एव हेतुः। गङ्गेशब्दः पूर्वमामन्त्रितान्तः स्वयमविद्यमानवत्त्वान्निमित्तं न भवतीति सम्बन्धनीयम्। क्व विषये निमित्तं न भवति? परस्यैव सुमुनेशब्दस्यानुदात्तत्वे कत्र्तव्ये। मेशब्दस्य च निमित्तभावं न प्रतिबध्यातीति गङ्गेशब्दः पूर्वमामन्त्रितो यमुनेशब्दस्यानुदात्तत्वे कत्र्तव्ये विद्यमानवत्त्वादिति सर्वमपेक्षते। इह पूर्वशपब्दस्य सम्बन्धिशब्दत्वात्? परस्य कार्ये कत्र्तव्ये पूर्वस्यामन्त्रितस्याविद्यमानवद्भावो विधीयते। `इमं मे गङ्गे यमुने` इत्तयत्र च यद्यपि गङ्गेशब्दादन्यच्छब्दान्तरं `मे` इत्येतद्यमुनेशब्दस्यानुदात्तस्य निमित्तम्, तथापि तदनुदात्तत्वं पस्यैवामन्त्रितस्य कार्यमिति तस्मिन्नपि कत्र्तव्ये गङ्गेशब्दोऽविद्यमानवद्भवति। अत एव प्रागुक्तम्--अन्यनिमित्ते वैतेनाविद्यटचमानत्वान्मेशब्दस्य निघातं प्रति यो निमित्तभावः तं न प्रतिबध्नाति। वत्करणं किमर्थम्? स्वाश्रयमपि यथा स्यात्--आम्? भो देवदत्तत्रि। `आम एकगान्तरमामन्त्रितमनन्तिके`
8|1|55 इत्येकान्तरतानिबन्धनो निघातप्रतिषेधः सिद्धो भवति। बहुवचनान्तञ्चैतद्विज्ञेयम्; एकवचनान्ते हि `नामन्त्रिते समानाधिकरणे सामान्यवचनम्`
8|1|73 इति प्रतिषेधान्नैवाविद्यमानवत्त्वमस्ति। बहुवचनान्ते तु `विभाषितं विशेषवचने बहुवचनम्`
8|1|74 इति पक्षे विद्यते। ननु च परार्थे प्रयुज्यमानाः शब्दा अतिदेशं गमयन्ति, यथा--`गौर्वाहीक इति, तत्र विद्यमानस्याविद्यमानमिति वचनादतिदेशो गम्यते। अतिदेशधर्मश्च स्वाश्रया निवृत्तिरिति नार्थो वतिना? सत्यमेतत्; एवं तु मन्यते--वतिमन्तरेण प्रयोगव्यवस्थार्थमिवं स्यात्, कुतश्चिदामन्त्रितं पूर्वं न भवतीति। तथा चामन्त्रितस्यामन्त्रितेन पूर्वेणैकान्तराता न स्यादिति॥