Page loading... Please wait.
8|1|71 - तिङि चोदात्तवति
॥ तस्मै पाणिनये नमः ॥
8|1|71
SK 3978
तिङि चोदात्तवति   🔊
सूत्रच्छेदः
तिङि (सप्तम्येकवचनम्) , च (अव्ययम्) , उदात्तवति (सप्तम्येकवचनम्)
अनुवृत्तिः
-
अधिकारः
पदस्य  8|1|16 अनुदात्तं सर्वमापादादौ  8|1|18
सम्पूर्णसूत्रम्
Will be updated soon
सूत्रार्थः
Will be updated soon.
One-line meaning in English
Will be updated soon.
काशिकावृत्तिः
गतिः इति वर्तते। तिङन्ते उदात्तवति परतो गतिरनुदात्तो भवति। यत् प्रपचति। यत् प्रकरोति। तिङ्ग्रहणम् उदात्तवतः परिमाणार्थम्। अन्यथा हि यं प्रति गतिः, तत्रानुदात्तो भवति इति धातौ एव उदात्तवति स्यात्, प्रत्यये न स्यात् यत् प्रकरोति इति। यत्क्रियाप्रयुक्ताः प्रादयस् तेषाम् तं प्रति गत्युपसर्गसंज्ञे भवतः इति तिङन्ते धातुम् एव प्रति गतिसंज्ञा। आमन्ते तर्हि न प्राप्नोति, प्रपचतितराम्, प्रपचतितमाम् इति? अत्र केचिदामन्तेन गतः समासं कुर्वन्ति। तेषाम् अव्ययपूर्वपदप्रकृतिस्वरत्वे सत्यक्रियमाणे ऽपि तिङ्ग्रहणे परमनुदात्तवद् भवति इति गतिनिघातो नैव सिध्यति। अथ तरबन्तस्य् गतिसमासः? एवम् अपि सतिशिष्टत्वादाम एव स्वरे सति गतेः अनुदात्तं पदम् एकवर्जम् 6|1|158 इत्येवानुदात्तत्वं सिद्धम्। येषां गतिकारकोपपदानां कृद्भिः समासवचनम् प्राक् सुबुत्पत्तेः इत्यनेन वचनेन कृदन्तेन एव प्राक् सुबुत्पत्तेः समासो भवति, न अन्येन, इति दर्शनम्, तेषाम् एवंविधे विषयेसमासेन न एव भवितव्यम् इति। पृथक् स्वरप्रवृत्तौ सत्यामनेन निघातेन प्रयोजनम् अस्ति। तदर्थं यत्नः कर्तव्यः। उदात्तवति इति किम्? प्रपचति। प्रकरोति।
Text Unavailable. Please use feedback link below to provide the text if you have.
Text Unavailable. Please use feedback link below to provide the text if you have.
सिद्धान्तकौमुदी
गतिरनुदात्तः । यत्प्रपचति । तिङ्ग्रहणमुदात्तवतः परिमाणार्थम् । अन्यथा हि यत्क्रियायुक्ताः प्रादयस्तं प्रत्येव गतिस्तत्र धातावेवोदात्तवति स्यात् प्रत्यये न स्यात् । उदात्तवति किम् । प्रपचति ॥ इति तिङन्तस्वराः ॥ अथ वैदिकवाक्येषु स्वरसञ्चारप्रकारः कथ्यते- 'अग्निमीळे' इति प्रथमर्क्‌ । तत्राग्निशब्दोऽव्युत्पत्तिपक्षे 'फिष..' (फिट्‌ १) इत्यनोदात्त इति माधवः । वस्तुतस्तु घृतादित्वात्‌ । व्युत्पत्तौ तु निप्रत्ययस्वरेण । अम्सुप्त्वादनुदात्तः । अमि पूर्वः (कौमुदी-194) इत्येकादेशस्तु एकादेश उदात्तेन (कौमुदी-3658) इत्युदात्तः । ईळे । तिङ्ङततिङः (कौमुदी-3135) इति निघातः । संहितायां तु उदात्तादनुदात्तस्य (कौमुदी-3660) इतीकारः स्वरितः । स्वरितात्संहितायाम्‌ (कौमुदी-3668) इति 'ळ' इत्यस्य प्रचयापरपर्याया एकश्रुतिः । पुरःशब्दोऽन्तोदात्तः 'पूर्वाधरावराणाम्‌-' (कौमुदी-1975) इत्यसिप्रत्ययस्वरात्‌ । हितशब्दोऽपि धाञो निष्ठायाम्‌ दधातेर्हिः (कौमुदी-3076) इति ह्यादेशे प्रत्ययस्वरेणान्तोदात्तः । पुरोऽव्ययम्‌ (कौमुदी-768) इति गतिसंज्ञायां कुगति- (कौमुदी-761) इति समासे समासान्तोदत्ते तत्पुरुषे तुल्यार्थ- (कौमुदी-3736) इत्यव्ययपूर्वपदप्रकृतिस्वरे गतिकारकोपपदात्कृत्‌ (कौमुदी-3873) इति कृदुत्तरपदप्रकृतिस्वरे थाथादिस्वरे च पूर्वपूर्वोपमर्देन प्राप्ते गतिरनन्तरः (कौमुदी-3783) इति पूर्वपदप्रकृतिस्वरः । पुरःशब्दोकारस्य संहितायां प्रचये प्राप्ते उदात्तस्वरितपरस्य सन्नतरः (कौमुदी-3669) इत्यनुदात्ततरः । यज्ञस्य । नडः प्रत्ययस्वरः । विभक्तेः सुप्त्वादनुदात्तत्वे स्वरितत्वम्‌ । देवम्‌ । पचाद्यच्‌ । फिट्स्वरेण प्रत्ययस्वरेण चित्स्वरेण वान्तोदात्तः । ऋत्विक्छब्दः कृदुत्तरपदप्रकृतिस्वरेणान्तोदात्तः । होतृशब्दस्तृन्प्रत्ययान्तो नित्स्वरेणाद्युदात्तः । रत्नशब्दो नब्विषयस्य (फिट्‌ २६) इत्याद्युदात्तः । रत्नानि दधातीति रत्नधाः । समासस्वरेण कृदुत्तरपदप्रकृतिस्वरेण वान्तोदात्तः । तमपः पित्त्वादनुदत्तत्वे स्वरितप्रचयावित्यादि यथाशास्त्रमुन्नेयम्‌ । । इति स्वरप्रकरणम्‌ । इत्थं वैदिकशब्दानां दिङ्मात्रमिह दर्शितम्‌ । तदस्तु प्रीतये श्रीमद्भवानीविश्वनाथयोः ॥
Text Unavailable. Please use feedback link below to provide the text if you have.
Text Unavailable. Please use feedback link below to provide the text if you have.
लघुसिद्धान्तकौमुदी
-
महाभाष्यम्
तिङि चोदात्तवति तिङ्ग्रहणं किमर्थम्?।। तिङ्ग्रहणमुदात्तवतः परिमाणार्थम्।। तिङ्गहणं क्रियते।। (किं प्रयोजनम्(1)?)। उदात्तवतः परिमाणार्थम्। तिङ्युदात्तवति यथा स्यान्मन्द्रशब्दे मा भूत्-आ मन्द्रैरिन्द्र हरिभिर्याहि। ।। यद्योगाद्गतिः(2)।। यत्क्रियायुक्तास्तं प्रति गत्युपसर्गसंज्ञे भवतो न चाङो मन्द्रशब्दं प्रति क्रियायोगः।। किं तर्हि?।। यद्योगाद्गतिरिति चेत्प्रत्ययोदात्तत्वेऽप्रसिद्धिः स्यात्। यत्प्रकरोति। तस्मात्तिङ्ग्रहणं कर्तव्यम्।। यदि तिङ्ग्रहणं क्रियते आमन्ते न प्राप्नोति,- प्रपचतितराम् ,प्रजल्पतितराम्। असति पुनस्तिङ्ग्रहणे क्रियाप्रधानमाख्यातं तस्मादतिशये तरबुत्पद्यते,(1) तरबन्तात्स्वार्थे आम्, तत्र यत्क्रियायुक्तास्तं प्रति गत्युपसर्गसंज्ञे भवत इति भवत्येतं(2) सङ्घातं प्रति क्रियायोगः। तस्मान्नार्थस्तिङ्ग्रहणेन।। कस्मान्न भवति-आ मन्द्रैरिन्द्र हरिभिर्याहि मयूररोमभिः?।। यद्योगाद्गति(3)रिति। (यद्योगाद्गतिस्तं(4) प्रति गत्युपसर्गसंज्ञे भवतो न चाङो मन्द्रशब्दं प्रति क्रियायोगः)।। ननु चोक्तं-यद्योगाद्गतिरिति चेत्प्रत्ययोदात्तत्वेऽप्रसिद्धिरिति ।। नैषः दोषः । यत्क्रियायुक्ता इति नैवं विज्ञायते यस्य क्रिया यत्क्रिया, यत्क्रियायुक्तास्तं प्रति गत्युपसर्गसंज्ञे भवत इति।। कथं तर्हि?।। या क्रिया यत्क्रिया यत्क्रियायुक्तास्तं प्रति गत्युपसर्गसंज्ञे भवत इति।।