Page loading... Please wait.
8|1|19 - आमन्त्रितस्य च
॥ तस्मै पाणिनये नमः ॥
8|1|19
SK 3654
आमन्त्रितस्य च   🔊
सूत्रच्छेदः
आमन्त्रितस्य (षष्ठ्येकवचनम्) , च (अव्ययम्)
अनुवृत्तिः
-
अधिकारः
पदस्य  8|1|16 पदात्  8|1|17 अनुदात्तं सर्वमापादादौ  8|1|18
सम्पूर्णसूत्रम्
Will be updated soon
सूत्रार्थः
Will be updated soon.
One-line meaning in English
Will be updated soon.
काशिकावृत्तिः
आमन्त्रितस्य पदस्य पदात् परस्य अपदादौ वर्तमानस्य सर्वम् अनुदात्तं भवति। पचसि देवदत्त। पचसि यज्ञदत्त। आमन्त्रिताद्युदात्तत्वे प्राप्ते वचनम्। समानवाक्ये निघातयुष्मदस्मदादेशा वक्तव्याः। इह मा भूवन्, अयं दण्डो हर अनेन, ओदनं पच तव भविष्यति, ओदनं पच मम अभविष्यति। इह च यथा स्यात्, इह देवदत्त माता ते कथयति, नद्यास्तिष्ठति लूके, शालीनां ते ओदनं दास्यामि इति। आमन्त्रितान्तं तिङन्तं युष्मदस्मदादेशाश्च यस्मात् पराणि न तेषां सामर्थ्यम् इति तदाश्रया निघातयुष्मदस्मदादेशा न स्युः, समर्थः पदविधिः (*2,1.1.) इति वचनात्।
`आमन्त्रिताद्युदात्तत्वे प्राप्त इदमुच्यते। इह पदाधिकारमात्रं प्रकृत्य निघातयुष्मदादेशा विधीयमाना यत्रापि नेष्यन्ते, तत्रापि प्रसजन्ति। यत्रापि क्वचिदिष,यन्ते, तत्रापि क्वचिन्न प्राप्नुवन्ति, अत एतद्दोषपरिजिहीर्षयाऽ‌ऽह--`समानवाक्ये` इत्यादि। यस्मात्? पदात्? परस्यामन्त्रितादेर्निघातादि कार्यं विधीयते, तयोः समान एकस्मिन्? वाक्य आधारभूते सति विघातादयो विधीयन्त इति वक्तव्यम्। किमर्थम्? इत्याह--`इह` इत्यादि। `अयं दण्डः` इति। अत्रास्तीत्येतदपेक्षते। अप्रयुज्यमानमपि गम्यत इत् तथोक्तम्। `यत्रान्यत्? क्रियापदं नास्ति तत्रास्तिर्भवन्तीपरः प्रयुज्यते इत्यप्रयुज्यमानोऽपि गम्यते` इति, तदेवमस्तीत्यनेन गम्यमानेन सहितमयं दण्ड इत्येकं धाक्यम्, हरानेनेत्यपरम्। तत्र यद्येकवाक्ये निघातादयो नोच्येरन्, ततो दण्डादिशब्दादतिङन्तात्? परस्य हरेत्यस्य तिङन्तस्य निघातः प्रसज्येत। ननु पदविधिरयम्, स च सामर्थ्ये सति भवति, न चेह तदस्ति, अतोऽसामथ्र्यान्निधातो न भविष्यतीति चेदिहापि तर्हि न स्यात्--इह देवदत्त् माता ते कथयति, नद्यास्तिष्ठति कूले, शालीनां त ओदनं दास्यामीति। न ह्रत्रेहेत्यनेन देवदत्तेत्यामन्त्रितस्यास्ति सामथ्र्यम्; अपि च विद्यत एवायं दण्डो हरानेनेत्यत्र सामथ्र्यम्, तथा ह्रनेनेति सर्वनाम्ना यत करणेन प्रत्यवमुश्यते तद्धरेत्येतदपेक्षते। तच्च प्रत्यासत्तेर्वण्ड एवेत्यस्ति दण्डस्य हरेत्येतस्य च व्यपेक्षालक्षणं सामथ्र्यम्। `ओदनं पच तव भविष्यति` इति। ओदनं पचेत्यकं वाक्यम्, तव भविष्यतीत्यपरम्। `ओदनं पच मम भविष्यति` इति। अत्राप्योदनं पचेत्येकं वाक्यम्, मम भविष्यतीत्यपरम्। तत्र यद्येकवाक्ये युष्मदस्मदादेशा नोच्येरन्, ततः पचेत्येतस्मात्? पदात्? परयोर्युष्मदस्मदोस्तु `तेमयावेकवचनस्य` 8|1|22 इति तेमयावादेशो स्याताम्, अस्ति ह्रत्रापि सामथ्र्यम्। तथा हि--युष्मच्छब्ददाच्योऽस्मच्छब्दवाच्यश्च योऽर्थस्तत्साधनेन पाकेन तत्त्वामिकौदनो भविष्यतीत्येवम्भूता पाकस्य युष्मदस्मदोश्च व्यपेक्षा विद्यते। असः समानवाक्यग्रहणे तु सति न किञ्चिदनिष्टमापद्यते। `इह च` इत्यादि। चशब्दः समुच्यये। इदञ्चापरमत्त्या इष्टेः प्रयोजनमिति दर्शयति। `इह देवदत्त माता ते कथयति` इत्येकं वाक्यम्, `नद्यास्तिष्ठति कूले` इति द्वितीयम्। `शालीनां त ओदनं दास्यामि` इति तृतीयम्। तत्र प्रथमे वाक्ये--इहेत्यस्मात्? पदात्? परस्य देवदत्तस्यामन्त्रितस्यानेन निघातो यथास्यात्, द्वितीये--नद्या इत्वस्मात्परस्य युष्मच्छब्दस्य `तेमयावेकवचनक्य` 8|1|22 इति त इत्येवमादेशो यथा स्यादित्येवमर्थं समानवाक्ये निघातादयो वेदितव्याः। अस्मच्छब्दादेशोदाहरणमिह नोपन्यस्तम्; युष्मच्छब्दादेशोदाहरणेनैवावगम्यमानत्वात्। तात्पुनः शालौनामोदनं मे देहीत्येवंजातीयकं तत्र द्रष्टव्यम्। किं पुनः स्याद्यदि समानवाक्ये निघातयुष्मदस्मदादेशा नोच्येरण्? इत्यत आह--`आमन्त्रितान्तम्` इत्यादि। प्रथमे तावद्वाक्ये--इहेत्येतदधिकरणप्रधानम्, अधिकरणञ्चाधेयापेक्षम्, तच्चाधेयं माता न तु देवदत्तः। इह ते स्विता माता कथयतीत्यर्थः। तस्मादिहशब्देन नास्तिदेवदत्तत्यस्यामन्त्रितस्य सामथ्र्यम्। द्वितीये तु नद्या इत्येतस्मात्? परं तिष्ठतीत्येतत्? तिङन्तम्। न च तस्या नद्या इत्यनेन सामथ्र्यम्; किं तर्हि? कूल इत्यस्य। त#ऋतीयेऽपि--शालीनामित्यस्मात्? पदाद्युष्मच्छब्दः परः, म तु शालीनामित्यनेन तस्य सामथ्र्यमस्ति, किं तर्हि? ओदनस्येति। ततः सामथ्र्याभावात्? तदाश्रया निघातादयो न त्युः। `तदाश्रयाः` इति। इहेत्येतत्? पदं `नद्या` इत्येच्छालीनामित्येतच्छाश्रयो निमित्तं यथां ते तथोक्ताः। अथ वा--तत्? सामथ्र्यमाश्रयो येषां ते तथोक्ताः। असल्यां ह्रस्यामिष्टौ पदादधिकारात्? पदविधिर्निघातादि कार्यं भवति, स च सामथ्र्यनिबन्धनः। तच्च सामथ्र्यमिह नास्तीति कुतो निघातादेः प्रसङ्गः! तस्मादसामर्थ्येऽपि यथा स्यादित्येवमर्थं समानवाक्ये निघातादि कार्य वक्तव्यम्॥
सर्वमनुदातं भवतीति । आमन्त्रितसम्बन्धिनः सर्वेऽचोऽनुदाता भवन्तीत्यर्थः । एतच्चानुवृतस्य सर्वशब्दस्यान्वयमात्रं प्रदर्शितम्, न त्वत्रास्योपयोगः कश्चित् । समानवाक्य इत्यादि । अर्थैकत्वादिकं लौकिकं वाक्यलक्षणम्, इह तु पारिभाषिकं वाक्यम् । आख्यातं साव्ययकारकविशेषणं वाक्यमिति, आख्यातमित्येकत्वं विवक्षितम्, निमितनिमितिनोः समान एकस्मिन्वाक्य आधारभूते सति निघातादयो भवन्तीति वक्तव्यम्, किमर्थमित्याह---इहेति । ठ्भवतीह विष्णुमित्रः, देवदतागच्छऽ इति वाक्यद्वयमेतत्; तिङ्न्तद्वययोगात् । तत्र देवदतेत्यस्यामन्त्रितस्य निघातो न भवति । ननु च पदविधिरयम्, ततश्चासामर्थ्यादेवात्र न भविष्यति, अस्त्यत्र सामर्थ्यं विष्णुमित्रमन्विष्यान्यत्र गच्छन्तं देवदतं प्रतीदमुच्यते, ततश्च विष्णुमित्रस्येह भवनं देवदतागमनस्य निमितत्वेनोच्यत इतियस्ति व्यपेक्षा । क्वचिदेतदुदाहरणं न पठ।ल्ते । अयं दण्ड इति । अस्तीति गम्यमानत्वादेतावदेकं वाक्यम् । अत्राप्यनेनेति सर्वनाम्ना परमृष्टस्य दण्डस्य करणत्वादस्ति सामर्थ्यमिति तिङ्न्तस्य निघातप्रसङ्गः । ओदनं पचेति । त्वत्कर्तृकत्वेन त्वत्स्वामिको मत्स्वामिकश्चौदनो भविष्यतीत्येवं पाकस्य युष्म दस्मदर्थस्य च व्यपेक्षाऽस्तीत्यादेशप्रसङ्गः, एवमतिप्रसङ्गपरिहारः प्रयोजनमित्युक्तम् । इदानीमव्याप्रिपरिहारोऽपि प्रयोजनमित्याह---इह चेति । किं पुनः कारणमेषूदाहरणेषु निघातादयो न स्युरित्यत आह---आमन्त्रितान्तमित्यादि । इह स्थिता मातेत्यन्वयः, न त्विह देवदतेति; नद्याः कूलमित्यन्वयः, न नद्यास्तिष्ठतीति; शालीनामोदनमित्यन्वयः, न शालीनां ते इति, ततश्चासामर्थ्यान्न स्युरित्यर्थः ॥
सिद्धान्तकौमुदी
पदात्परस्यापादादिस्थितस्यामन्त्रितस्य सर्वस्यानुदात्तः स्यात् । प्रागुक्तपाष्टस्यापवादोऽयमाष्टमिकः । इमं मे गङ्गे यमुने सरस्वति (इ॒मं मे॑ गङ्गे यमुने सरस्वति) । अपादादौ किम् । शुतुद्रि स्तोमम् (शुतु॑द्रि॒ स्तोम॑म्) । आमन्त्रितं पूर्वमविद्यमानवत् (कौमुदी-412) । अग्न॒ इन्द्र॑ । अत्रेन्द्रादीनां निघातो न । पूर्वस्याविद्यमानत्वेन पदात्परत्वाभावात् । नामन्त्रिते समानाधिकरणे सामान्यवचनम् (कौमुदी-413) समानाधिकरण आमन्त्रिते परे विशेष्यं पूर्वमविद्यमानवन्न । अग्ने तेजस्विन् (अग्ने॑ तेजस्विन्) । अग्ने त्रातः (अग्ने॑ त्रातः) । सामान्यवचनं किम् । पर्यायेषु मा भूत् । अघ्न्ये देवि सरस्वति (अघ्न्ये॑ देवि सरस्वति) ।
Text Unavailable. Please use feedback link below to provide the text if you have.
Text Unavailable. Please use feedback link below to provide the text if you have.
लघुसिद्धान्तकौमुदी
-
महाभाष्यम्
Text Unavailable. Please use feedback link below to provide the text if you have.