Page loading... Please wait.
8|1|10 - आबाधे च
॥ तस्मै पाणिनये नमः ॥
8|1|10
SK 2145
आबाधे च   🔊
सूत्रच्छेदः
आबाधे (सप्तम्येकवचनम्) , च (अव्ययम्)
अनुवृत्तिः
-
अधिकारः
सर्वस्य द्वे  8|1|1
सम्पूर्णसूत्रम्
Will be updated soon
सूत्रार्थः
Will be updated soon.
One-line meaning in English
Will be updated soon.
काशिकावृत्तिः
आबाधनमाबाधः, पीडा प्रयोक्तृधर्मः, न अभिधेयधर्मः। तत्र वर्तमानस्य द्वे भवतः, बहुव्रीहिवच्चास्य कार्यं भवति। गतगतः। नष्टनष्टः। पतितपतितः। गतगता। नष्टनष्टा। पतितपतिता। प्रियस्य चिरगमनादिना पीड्यमानः कश्चिदेवम् प्रयुङ्क्ते प्रयोक्ता।
`आबाधनभावाधः` इति। भावे घञ्। यद्यत्राबाधोऽभिधेयधर्म आश्रीयते, तदा बाधितपीडिताविशब्दानामेव द्विर्वचनं स्यात्, न तु गतादिशब्दानाम्। प्रयोक्तृधर्म आश्रीयमाणे सर्वत्र भवति। तस्माद्व्याप्तिव्यायात्? प्रयोक्तृधर्म एवाश्रीयते, इत्याह--`प्रयोक्तृधर्मः` इति। `तत्र वत्र्तमानस्य` इति। द्विर्वचनप्रतिपत्तिद्वारेण, बहुव्रीहिवद्भावप्रतिपत्तिद्वारेण च तत्प्रकाशनात्? तत्र तस्य वृत्तिर्वेदितव्या, न तु तदभिधानात्। न हि गतादयः शब्दा कथञ्चिदाबाधनमभिदधति। चकारो वाक्यभेदमाचष्टे। तेन द्वयमत्र विधीयते--एकेन वाक्येन द्विर्वचनम्, अपरेण च बहुव्रीहिवद्भावः। `गतगतः` इत्यादौ पूर्ववत्? सोर्लुक्। `गतगता` इत्यादौ तु पुंवद्भावः पूर्ववदेव। `प्रियस्य गमनादिना` इत्यादि। एतेन प्रयोक्तृधर्मताऽबाधस्येति दर्शयति। आदिशब्देन विनाशादेग्र्रहणम्॥
आबाधनमाबाध इति । भावे घञ् । प्रयोक्तृधर्मो नाभिधेयधर्मैति । अभिधेयधर्मत्वे हि बाधितपीडितादिशब्दानामेव द्विर्वचनं स्यात्, न गतादिशब्दानाम्, प्रयोक्तृधर्मत्वे हि तेषामपि भवतीति व्याप्तिर्भवति । तत्र वर्तमानस्येति । द्विर्वचने सत्याबाधस्य गम्यमानत्वाद् गतादिशब्दानां तत्र वृत्तिः, न तु तदभिधानात् । प्रियस्य चिरगमनादिनेति । प्रयोक्तृधर्मत्वमाबाधस्य दर्शयति । आदिशब्देन नाशादेर्ग्रहणम् ॥
सिद्धान्तकौमुदी
पीडायां द्योत्यायां द्वे स्तो बहुव्रीहिवच्च । गतगतः । विरहात्पीड्यमानस्येयमुक्तिः । बहुव्रीहिवद्भावात्सुब्लुक्‌ । गतगता । इह पुंवद्भावः ।
आबाधे च - आबाधे च । आबाधः=पीडा । तदाह — पीडायामिति । गतगत इति । "प्रिया विना काल" इति शेषः । आबाधं दर्शयितुमाह — विरहादिति । स्त्रीवियोगादित्यर्थः । बहुव्रीहिवद्भावादिति । "गत" इत्यस्य द्विर्वचने सति बहुव्रीहिवत्त्वात्समुदायस्य प्रातिपदिकत्वेन सुपोर्लुकि समुदायात्सुबुत्पत्तिरित्यर्थः । गतगतेति ।ग्रिये॑ति शेषः । इयमपि स्त्रीविरहात्पीडमानस्यौक्तिः । एकस्या एव गमनकर्त्र्या द्विः कथनात्समानाधिकरणं स्त्रीलिङ्गमुत्तरपदमितिस्त्रियाः पुंव॑दिति पुंवत्त्वम्, बहुव्रीहिवत्त्वादुत्तरपदत्वस्यापि सत्त्वात् । तदाह — इह पुंवद्भाव इति ।
आबाधे च - आबाधे च ष । इहेति ।बहुव्रीहि वद्भावा॑दित्यनुषज्यते । तथा चस्त्रियाः पुंव॑दिति वर्तते । न च द्विरुक्तस्य परमुत्तरपदं नेति वाच्यं,बहुव्रीहि व॑दित्यतिदेशबलेनैव उत्तरपदत्वस्यापि लाभात् । ननु बहुव्रीहिवद्भावेनोत्तरपदत्वलाभे सतिनने॑त्यत्रनलोपो नञः॑ इथि कस्मान्न भवति । उच्यते — -॒न लोपो नञः॑इत्यत्र उत्तरपदे इति [प्र]वर्तते, नञ इति च कार्यिणो निर्देशः, तत्र साक्षाच्छिष्टेन कार्यित्वेन नञो निमित्तभावो बाध्यते । यथा मद्रह्यदो भद्रह्यद इति । अत्र रेफस्यअचो रहाभ्यामि॑ति द्वित्वप्रसङ्गे आकरे उक्तंनेमौ रहौ कार्यिणौ किं तु निमित्तमेतौ द्विर्वचनस्ये॑ति । नन्वेवमपिधूर्धूः॑पन्थाःपन्थाः॑ इत्यादौऋक्पूरब्धू॑रिति समासान्तः स्यादिति चेन् ।समासाच्च तद्विषया॑दित्यतः समासादित्यनुवर्तमानेसमासान्ताः॑इति पुनः समासग्रहणं हि समासाधिकारविहितो यः समासस्तत्परिग्रहार्थम् । तेनातिदेशिके समासे समासान्तानामप्रवृत्तिरति दिक् ।
लघुसिद्धान्तकौमुदी
-
महाभाष्यम्
Text Unavailable. Please use feedback link below to provide the text if you have.