Page loading... Please wait.
7|4|82 - गुणो यङ्लुकोः
॥ तस्मै पाणिनये नमः ॥
7|4|82
SK 2630
गुणो यङ्लुकोः   🔊
सूत्रच्छेदः
गुणः (प्रथमैकवचनम्) , यङ्लुकोः (सप्तमीद्विवचनम्)
अनुवृत्तिः
-
अधिकारः
अङ्गस्य  6|4|1 अभ्यासस्य  7|4|58
सम्पूर्णसूत्रम्
Will be updated soon
सूत्रार्थः
Will be updated soon.
One-line meaning in English
Will be updated soon.
काशिकावृत्तिः
यङि यङ्लुकि च इगन्तस्य अभ्यासस्य गुणो भवति। चेचीयते। लोलूयते। यङ्लुकि जोहवीति। यगो वा इति इड्विकल्पः। चोक्रुशीति।
अभ्यसस्य गुणोऽयं विधीयते। तेन यद्यप्यत्र लुक्शब्दोऽयं सामान्यः, तथापि यङ्लुक एव सम्प्रत्ययो भवति। न ह्रत्र लुक्यभ्यासः सम्भवतीति मत्वाऽ‌ऽह--`यङि यङ्लुकि च` इत्यादि। `चौक्रुशीति` `क्रुश आह्वाने` (धातुपाठः-856) यङ्, तस्य `यङोऽचि च` 2|4|74 इति लृक्, `यङो वा` 7|3|94 इतीट्, `न लुमताङ्गस्य` 1|1|62 इति प्रत्ययलक्षणनिषेधाद्यङो लुकि कृते गुणो न प्राप्नोतीति लुग्ग्रहणम्। `पुगन्तलघुपधस्य च` 7|3|86 इति प्राप्तोऽपि गुणः `नाभ्यस्तस्याचि पिति सार्वधातुके` 7|3|87 इति निषिध्यते॥
लुक्शब्देनात्र यङ्लुगेव गृह्यते; सन्निधानात् । किञ्च---अभ्यासस्यायं गुणो विधीयते, न च लुगन्तरेऽभ्यासः सम्भवति । चोक्रुशीतिति । क्रुशेर्यङ्लुगन्तातिप्, ठ्यङे वाऽ इतीट्, ठ्नाभ्यस्तस्याचि पितिऽ इति लघूपधगुणप्रतिषेधः ॥
सिद्धान्तकौमुदी
अभ्यासस्य गुणः स्याद्यङि यङ्लुकि च । सनाद्यन्ताः---(कौमुदी-2304) इति धातुत्वाल्लडादयः । ङिदसन्तात्वादात्मनेपदम् । पुनः पुनरतिशयेन वा भवति बोभूयते । बोभूयांचक्रे । अबोभूयिष्ट । धातोः किम् । आर्धधातुकत्वं यथा स्यात् । तेन ब्रुवो वचिः--(कौमुदी-2453) इत्यादि । एकाचः किम् । पुनः पुनर्जागर्ति । हलादेः किम् । भृशमीक्षते । भृशं रोचते शोभते इत्यत्र यङ्गेति भाष्यम् । पौनः पुन्ये तु स्यादेव । रोरुच्यते । शोशुभ्यते ॥सूचिसूत्रिमूत्र्यट्यर्त्यशूर्णोतिभ्यो यङ् वाच्यः (वार्तिकम्) ॥ आद्यास्त्रयश्चुरादावदन्ताः । सोसूच्यते । सोसूत्र्यते । अनेकात्त्त्वेनाषोपदेशत्वात्षत्वं न । मोमूत्र्यते ॥
Text Unavailable. Please use feedback link below to provide the text if you have.
गुणो यङ्लुकोः - ब्राउवो वचिरित्यादीति । वावच्यते, चाख्यायत इत्यादिरूपसिद्धिः प्रयोजनमित्यर्थः । धातुग्रहणाऽभावे धिगित्यव्ययादपि स्यात्तस्य क्रियावाचित्वादेकाच्त्वाच्चेति तद्वारणार्थमपि धातुग्रहणमावश्यकमित्याहुः ।
लघुसिद्धान्तकौमुदी
अभ्यासस्य गुणो यङि यङ्लुकि च परतः। ङिदन्तत्वादात्मनेपदम्। पुनः पुनरतिशयेन वा भवति बोभूयते। बोभूयाञ्चक्रे। अबोभूयिष्ट॥
महाभाष्यम्
गुणो यङ्लुकोः ।। ऐचोर्यङि दीर्घप्रसङ्गो ह्रस्वाद्धि(1) परं दीर्घत्वम् ।। ऐचोर्यङि दीर्घत्वं प्राप्नोति डोढौक्यते तोत्रौक्यत इति ।। ननु च ह्रस्वत्वे कृते (गुणो(1) भविष्यति) दीर्घत्वं न भविष्यति ।। न सिद्ध्यति ।। किं कारणम् ? ।। ह्रस्वाद्धि परं दीर्घत्वम् । ह्रस्वत्वं क्रियतां दीर्घत्वमिति(2) किमत्र कर्तव्यम् ? ।। परत्वादीर्घत्वेन भवितव्यम् ।। न वाऽभ्यासविकारेष्वपवादस्योत्सर्गाऽबाधकत्वात् ।। न वैष दोषः ।। किं कारणम् ? ।। अभ्यासविकारेष्वपवादस्योत्सर्गाऽबाधकत्वात् । अभ्यासविकारेष्वपवादा उत्सर्गान्न बाधन्त इत्येषा परिभाषा कर्तव्या ।। कान्येतस्याः परिभाषायाः प्रयोजनानि ? ।। प्रयोजनं सन्वद्भावस्य दीर्घत्वम्(3) ।। (सन्वद्भावस्य(1) दीर्घत्वं प्रयोजनम्) ।। अचीकरत् अजीहरत् ।। सन्वद्भावमपवादत्वाद्दीर्घत्वं न बाधते ।। मान्प्रभृतीनां दीर्घत्वमित्त्वस्य ।। मान्प्रभृतीनां दीर्घत्वमपवादत्वादित्त्वन्न बाधते।।। गणेरीत्वं हलादिशेषस्य।। गणेरीत्वमपवादत्वाद्धलादिशेषं न बाधते ।। इदमयुक्तं वर्तते ।। किमत्राऽयुक्तम् ? ।। ऐचोर्यङि दीर्घप्रसङ्गो ह्रस्वाद्धि परं दीर्घत्वमित्युक्त्वा तत उच्यते ‐ न वाभ्यासविकारेष्वपवादस्योत्सर्गाऽबाधकत्वादिति । तस्याश्च परिभाषायाः प्रयोजनानि नामोच्यन्ते ‐ प्रयोजनं सन्वद्भावस्य दीर्घत्वं, मान्प्रभृतीनान्दीर्घत्वमित्त्वस्य(5), गणेरीत्वं हलादिशेषस्यति च । न(1) खलु सन्वद्भावमपवादत्वाद्दीर्घत्वं बाधते ।। किं तर्हि ? ।। परत्वात् । न खल्वपि मान्प्रभृतीनां दीर्घत्वमपवादत्वादित्त्वं बाधते ।। किं तर्हि ? ।। अन्तरङ्गत्वात् । न खल्वपि गणेरीत्वमपवाद्धलादिशेषं बाधते ।। किं तर्हि ? ।। अनवकाशत्वात् ।। एवं तर्हीयं परिभाषा कर्तव्या ‐ अभ्यासविकारेषु बाधका न बाधन्त इति(2) ।। सा तर्ह्येषा परिभाषा कर्तव्या ? ।। न कर्तव्या । आचार्यप्रवृत्तिर्ज्ञापयति भवत्येषा परिभाषेति यदयमकित इति प्रतिषेधं शास्ति ।।