Page loading... Please wait.
7|4|80 - ओः पुयण्ज्यपरे
॥ तस्मै पाणिनये नमः ॥
7|4|80
SK 2577
ओः पुयण्ज्यपरे   🔊
सूत्रच्छेदः
ओः (षष्ठ्येकवचनम्) , पुयण्जि (सप्तम्येकवचनम्) , अपरे (सप्तम्येकवचनम्)
अनुवृत्तिः
-
अधिकारः
अङ्गस्य  6|4|1 अभ्यासस्य  7|4|58
सम्पूर्णसूत्रम्
Will be updated soon
सूत्रार्थः
Will be updated soon.
One-line meaning in English
Will be updated soon.
काशिकावृत्तिः
सनि इति वर्तते, इतिति च। उवर्णान्ताभ्यासस्य पवर्गे यणि जकारे च अवर्णपरे परतः इकारादेशो भवति सनि प्रत्यये परतः। पवर्गे अपरे पिपविषते। पिपावयिषति। बिभावयिषति। यण्यपरे यियविषति। यियावयिषति। रिरावयिषति। लिलावयिषति। ज्यपरे जु इति सौत्रो ऽयं धातुः। जिजावयिषति। एतदेव पुयण्ज्यपरे इति वचनं ज्ञापकम्, अद्विर्वचननिमित्ते ऽपि णौ स्थानिवद् भवति इति। ओः इति किम्? पापच्यतेः सन् पापचिषते। पुयण्जि इति किम्? अवतुतावयिषति। जुहावयिषति। अपरे। इति किम्? बुभूषति।
`पुयण्जि` [नास्ति--काशिका] इति। पुयण्जामेकवद्भावं कृत्वा सप्तम्या निर्देशः। `अपरे` [नास्ति--काशिका] इति। अः परो यस्मात्? पुयण्जस्तदपरमवर्णपरमित्यर्थः। `पिपविषते` इति। पूङ्? पदने` (धातुपाठः-966) सन्, `स्मिपूङ्रञ्च्वशां सनि` 7|2|74 इतीट्, गुणावादेशौ। स्थानिवद्भावात्? `पू` इत्यस्य द्विर्वचनम्, स्थानिवद्भावस्तु `द्विर्वचनेऽचि` 1|1|58 इत्यनेन। `पिपावयिषति` इति। पूङो ण्यन्तात् सन्। अत्रापि स्थानिवद्भावात्? `पू` इत्येतद्द्विरुच्यते। `बिभावयिषति` इति। `भू सत्तायाम्` (धातुपाठः-1) ण्यन्तात्? सन्। `यियावयिषति` इति। यौतेण्र्यन्तात्? सन्। `सनौवन्तं 7|2|49 इत्यादेनेठ्। `रिरावयिषति; लिलावयिषति` इति। रौतिलुनातिभ्यां ण्यन्ताभ्यां सन्।`जिजावयिषति` इति। `जु` इति सौत्रो धातुः 3|2|150 ; `जुचंक्रम्य` 3|2|150 इत्यादौ पाठात्। तस्मात्? ण्यन्तात्? सन्। कथं पुनः पिपादयिषतीत्यादावुकारान्तताऽभ्यासस्य, यावता णौ परतोऽन्तरङ्गत्वाद्वृद्ध्यावादेशयोः कृतयोर्वकारान्तस्याद्विर्वचनेन भवितव्यम्, स्थानिवद्भावादुकारान्तस्य द्विर्वेचनं भविष्यतीति चेत्? न; न हि णौ कृतस्य स्थानिवद्भावो भवति। णेरद्विर्वचननिमित्तत्वादित्यत आह--`एतदेव` इत्यादि। न हि णिचमन्तरेण पुयण्जोवर्णपराः सर्वे सम्भवन्ति। तत्र हि यदि णौ कृतस्य स्थानिवद्भावो न स्यात्, तदा येषां णिचमन्तरेण पुयण्जोऽवर्णपराः सर्वे सम्भवति। तत्र हि यदि माउ कृतस्य स्थानिवद्भवो न स्यात्, तदा येषां णिचमन्तरेणावर्णपरता न सम्भवति, तेषामुवर्णान्तोऽभ्यासो न स्यात्, उच्यते चेदं `ओः पुयज्जयपरे` इति वचनम्। तस्मादेतज्ज्ञापकम्--अद्विर्वचननिमित्त्ेऽपि णौ स्थानिवद्भवतीति। तेन तुतावयिषति, बिभावयिषतीत्यादि सिद्धं भवति। केषाञ्च पुनर्णिचमन्तरेणावर्णपरता न सम्भवति? यकारपकाराभ्यामन्येषां सर्वेषामेव। `पापचिषते` इति। `अतो लोपः` 6|4|48 इत्यकारलोपः, `यस्य हलः` 6|4|49 इति यकारस्य। `तुतावयिषति` [`अवतुतावयिषति` इति काशिकापदमञ्जर्योः पाठः] इति। `तु` इति सौधो धातुः; `तुरुस्तुशम्यमः` 7|3|95 इत्यादौ सूत्रे पाठात्। `जुहावयिषति` इति। `हु दाने` (धातुपाठः-1083) ण्यन्तात्? तस्मात्? सन्। `बुभूषति` इति। पूर्ववदिङ्गुणयोरभावः॥
पुयणाजकाराणां समाहारद्वन्द्वे सप्तम्येकवचनम् । पुयण्जि ठ्द्वन्द्वाच्चुदषहान्तात्समाहारेऽ इति समासान्तस्त्वनित्यत्वान्न भवति, अः परो यस्मात्पुयण्जस्तदपरम्, अवर्णपरमित्यर्थः । पिपविषत इति । ठ्पृङ् पवनेऽ, ठ्स्मिपूङ्रञ्ज्वशां सनिऽ इतीद्गुणावादेशौ, तयोः ठ्द्विर्वचनेऽचिऽ इति स्थानिवद्भावात् ठ्पूऽ इति द्विरुच्यते । पिपावयिषतीति । तत एव ण्यन्तात्सन् । विभावयिषतीति । भवतेर्ण्यन्तात्सन् । यियविषतीति । ठ्यु मिश्रणेऽ, ठ्सनीवन्तर्धेऽ इतीट् । यियावयिषतीति । तस्मादेव ण्यन्तात्सन् । रिरावयिषति, लिलावयिषतीति । रौतिलुनातिभ्यां ण्यन्ताभ्यामेव सन् । जिजावयिषतीति । ठ्जुऽ इति सौत्रो धातुः ठ्जुचङ्क्रम्यऽ इत्यादौ निर्दिष्टः । कथं पुनर्ण्यन्तेषु सन्युवर्णान्ताभ्यासस्य, यावता णौ वृद्ध्यावादेशयोः कृतयोराकारान्तस्य द्विर्वचनेन भवितव्यम्, न हि णौ कृतस्य केनचित्स्थानिवद्भावो विहितः, णेरद्विर्वचननिमितत्वात् ? इत्यत आह---एतदेवेति । न हि णौ कृतस्य स्थानिवद्भावमन्तरेण पुयण्जोऽवर्णपराः सम्भवन्ति । पिपचिषति, यियविषते इति सम्भवनीति चेत् ? किमेतावता ! वर्गग्रहणं प्रत्याहारग्रहणं जग्रहणं चार्थवद्भवति । तस्मादेतदेव वचनमुक्तस्यार्थस्य मृवकमिति । यच्चात्र वक्तव्यं तद् ठ्द्विर्वचनेऽचिऽ इत्यत्रोक्तम्, तत एवावधार्यम् । पापचिषत इति । ठ्सनि योऽभ्यासःऽ इत्येतदनाश्रित्येदं प्रत्युदाहरणम् । तदाश्रये तु प्रत्युदाहरणान्तरं मृग्यं यदि सम्भवति । अवतुतावयिषतीति । ठ्तुऽ इति सौत्रो धातुः ठ्तुरुस्तुशम्यमःऽ इत्यत्र निर्दिष्टः । जुहावयिषतीति । जुहोतेर्ण्यन्तात्सन् ॥
सिद्धान्तकौमुदी
सनि परे यदङ्गं तदवयवाभ्यासोकारस्येत्वं स्यात्पवर्गयण्जकारेष्ववर्णपरेषु परतः । अबीभवत् । अपीपवत् । मूङ् । अमीमवत् । अयीयवत् । अरीरवत् । अलीलवत् । अजीजवत् ॥
ओः पुयण्ज्यपरे - ओः पुयण् । "उ॑ इत्यस्यओ" रिति षष्ठी ।पुयण्जी॑ति छेदः । पुश्च यण् च ज् चेति समाहारद्वन्द्वात्सप्तमी । अः परो यस्मादिति बहुव्रीहिः । "सन्यतः" इत्यस्मात्सनित्यनुवर्तते । अङ्गस्येत्यधिकृतम् । "अत्र लोपः" इत्यस्मादभ्यासस्येति, भृञामिदित्यस्मादिदिति चानुवर्तते । तदाह — सनि परे इत्यादिना । अबीभवदिति । भू इ अत् इति स्थिते द्वित्वे कार्ये णौ अच आदेशस्य निषेधाद्वृद्ध्यावादेशाभ्यां प्रागेवभू॑इत्यस्य द्वित्वे उत्तरखण्डस्य वृद्ध्यावादेशयोः कृतयोरुपधाह्यस्वेऽभ्यासेऽकाराऽभावेन "सन्यतः" इत्यस्याऽप्रवृत्त्या सन्वत्त्वादनेने इत्त्वे दीर्घ इति भावः । अपीपवदिति । पूङ्धातो रूपम् । मूङित्यस्माद्धातोरमीमवदिति रूपमित्यर्थः । अयीयवदिति । युधातो रूपम् । अरीरवदिति । रुधातो रूपम् । अलीलवदिति । लूञ्धातो रूपम् । अजीजवदिति । जुः सौत्रो दातुर्जुचङ्क्रम्येत्यत्र निर्दिष्टः । ननु भू भू इति द्वित्वोत्तरं वृद्ध्यावादेशयोः कृतयोरुपधाह्यस्वे तस्य स्थानिवत्त्वेन लघुपरत्वाऽभावात्सन्वत्त्वाऽप्रसक्त्या कथमिहाभ्यासोवर्णस्य इत्त्वमिति चेन्न, आरम्भसामथ्र्यादेव स्थानिवत्त्वाऽप्रवृत्तेरिल्यम् ।
ओः पुयण्ज्यपरे - ओः पुयण्जि ।पुयण्जी॑ति समाहारद्वन्द्वात्सप्तम्येकवचनम् ।अपरे॑ इति बहुव्रीहिः ।अत्र लोपोऽभ्यासस्ये॑त्यतोऽभ्यासस्येत्यनुवर्तते ।भृञामी॑दित्यत इद्ग्रहणं,सन्यतः॑ इत्यतः सनीति च, अङ्गस्येति तु अधिक्रियत एव । तदेतदभिप्रेत्याह — - सनि परे यदङ्गमित्यादि । अपरे किम् । बुभूषति । पवर्गयण्जीति किम् । ऊर्णुनविषति । अबीभवदित्यादि ।भू सत्तायाम् ।पूङ् पवने॑ । मृङ् बन्धने॑ ।यु मिश्रणादौ॑ । रु शब्दे॑ ।लूञ्छेदने॑ ।जु गतौ॑ । सौत्रोऽयं धातुःजुचङ्क्रम्ये॑त्यत्र निर्दिष्टः । ननु भू भू इति द्वित्वोत्तरं वृद्ध्यावादेशौ भवस्ततः कृतस्यणौ चङी॑ति ह्यस्वस्य स्थानिवद्भावेन लघुपरत्वाऽभावात्सन्वद्भावाऽप्रवृत्त्याऽबीभवदित्यादावभ्यासोवर्णस्येत्वं दुर्लभमिति चेत् । अत्राहुः — आरम्भसामथ्र्यादेव न स्थानिवत्त्वमिति ।
लघुसिद्धान्तकौमुदी
सनि परे यदङ्गं तदवयवाभ्यासोकारस्य इत्स्यात् पवर्गयण्जकारेष्ववर्णपरेषु परतः॥ अबीभवत्॥ ष्ठा गतिनिवृत्तौ॥
महाभाष्यम्
Text Unavailable. Please use feedback link below to provide the text if you have.