Page loading... Please wait.
7|4|70 - अत आदेः
॥ तस्मै पाणिनये नमः ॥
7|4|70
SK 2248
अत आदेः   🔊
सूत्रच्छेदः
अतः (षष्ठ्येकवचनम्) , आदेः (षष्ठ्येकवचनम्)
अनुवृत्तिः
-
अधिकारः
अङ्गस्य  6|4|1 अभ्यासस्य  7|4|58
सम्पूर्णसूत्रम्
Will be updated soon
सूत्रार्थः
Will be updated soon.
One-line meaning in English
Will be updated soon.
काशिकावृत्तिः
अभ्यासस्य आदेः अकारस्य दीर्घो भवति लिटि परतः। अतो गुणे पररूपत्वस्य अपवादः। आट, आटतुः, आटुः। आदेः इति किम्? पपाच। पपाठ।
लिटीत्यनुवत्र्तते। किद्ग्रहणं तु निवृत्तम्। `अतो गुणे` 6|1|94 इति पररूपत्वे प्राप्ते दीर्घत्वमारभ्यते। तपरकरणं स्वभावत एव यो ह्यस्वस्तस्य दीर्घो यथा तेनोपदेशे वो दीर्घस्तस्य ह्यस्वत्वे कृतेऽपि दीर्घो न भवति--`आच्छि आयामे` (धातुपाठः-209), आच्छ, आच्छतुः, आच्चुरिति। लिट्, तिपो णल्, तसोऽतुम्, झेरुस्, द्विर्वचने हलादिशेषे `ह्यस्वः` 7|4|59 । किञ्च स्याद्? यद्यत्र दीर्घः स्यात्? `तस्मारुआउड्द्विहलः` 7|4|71 इति नुट्? स्यात्। `आदेः` इति वचनादिहान्तस्य दीर्घो न भवति--पपाचेत्यादौ॥
ठादेःऽ इति वचनादत्र तदन्तविधिर्न भवति, लिटीत्यनुवर्तते, किद्ग्रहणं तु निवृतम् । ठतो गुणेऽ पररूपत्वे प्राप्ते दीर्घत्वमिदमारभ्यते । तपरकरणं किम् ? दीर्घस्य मा भूत्---ठाच्छि आयामेऽ, आच्छ, आञ्च्छतुः, आञ्छुः । किं च स्यात्, यद्यत्र दीर्घः स्यात् ? ठ्तस्मान्नुड् द्वहलःऽ इति नुट् प्रसज्येत । यद्यप्यत्रापि ह्रस्वत्वे कृते अद्भवति, तथापि तपरकरणसामर्थ्याद् ठदेव योऽत्ऽ इति विज्ञानात् स्वाभाविकस्य मात्रिकस्य परिग्रहः ॥
सिद्धान्तकौमुदी
अभ्यासस्यादेरतो दीर्घः स्यात् । परूपापवादः । एधामास । एधामासतुरित्यादि ॥ एधिता । एधितारौ । एधितारौ । एधितारः । एधितासे । एधितासाथे ॥
अतः आदेः - ततश्च अनुप्रयुज्यमानादस्धातोर्लिटि भूभावनिवृत्तौ णलि एधाम् अस् अ इति स्थिते द्वित्वे हलादिः शेषे अ अस् इति स्थिते सवर्णदीर्घं बाधित्वा अतो गुण इति पररूपे प्राप्ते — अत आदेः । "अत्र लोप" इत्यस्मादभ्यासस्येत्यनुवर्तते । "दीर्घ इण" इत्यतो दीर्घ इति इति च । तदाह — अभ्यासस्येति । अत्र यद्वक्तव्यं तन्नामधातुप्रक्रियायाम् "अ इवाचरति अती" त्यादिग्रन्थस्य व्याख्यानावसरे वक्ष्यते । एधामासेति । नचाऽत्रानुप्युज्यमानाभ्यामस्तिभूभ्यामाम्प्रत्ययवदित्यात्मनेपदं शङ्क्यं, तत्र कृञ्ग्रहणेन प्रत्याहारग्रहणाऽभावस्य भाष्ये उक्तत्वात् । एधामासतुरित्यादीति । एधामासुः । एधामासिथ । एधामासथुः । एधामास । एधामासिव । एधामासिम । इति लिट्प्रक्रिया । एधितेति । लुटस्तादेशे एध्-त इति स्थिते शबपवादस्तस् । लुटः प्रथमस्येति डा । टिलोपः । एधितेति रूपम् । दीधीवेवीटामिति लघूपधगुणो न । एधिताराविति । लुट आताम् । तास् इट् । आतामित्यस्य रौभावः । रि चेति सलोपः । एधितार इति । झस्य रस् । तास् । इट् । रि चेतिसलोपः । रुत्वविसर्गौ । एधितास इति । थासः से । तास् इट् । तासस्त्योरिति सलोपः । एधितासाथे इति । आथाम् टेरेत्वं ।तास् । इट् ।
अतः आदेः - पररूपापवाद इति ।अपवाद॑ इत्ययं ग्रन्तो नामधातुप्रक्रियास्थस्वग्रन्थेन सह विरुध्यते । तत्र हि अ इवाचरति अति । प्रत्ययग्रहणमुपनीय कास्यनेकाजित्युक्तेर्नाम् । औ । अतुः । उः । द्वित्वम्अतो गुणे॑,अत आदेः॑ इति दीर्घः । णल औ वृद्धिरित्युक्तत्वात् । हलादिःशेषात्प्रागेव परत्वात्अत आदे॑ दिति दीर्घे कृते तु पररूपशङ्कापि तत्र नास्तीति चिन्त्योऽयं ग्रन्थ इति नव्याः ।
लघुसिद्धान्तकौमुदी
-
महाभाष्यम्
Text Unavailable. Please use feedback link below to provide the text if you have.