Page loading... Please wait.
7|4|66 - उरत्‌
॥ तस्मै पाणिनये नमः ॥
7|4|66
SK 2244
उरत्‌   🔊
सूत्रच्छेदः
उः (षष्ठ्येकवचनम्) , अत् (प्रथमैकवचनम्)
अनुवृत्तिः
अभ्यासस्य  7|4|58 (षष्ठ्येकवचनम्)
अधिकारः
अङ्गस्य  6|4|1 अभ्यासस्य  7|4|58
सम्पूर्णसूत्रम्
अभ्यासस्य उः अत्
सूत्रार्थः
अभ्यासे विद्यमानस्य ऋवर्णस्य अकारादेशः भवति ।
द्वित्वप्रकरणे द्वित्वे कृते द्वयोः यः प्रथमः तस्य पूर्वोभ्यासः 6|1|4 इत्यनेन "अभ्यास" संज्ञा भवति । अस्मिन् अभ्यासे विद्यमानः यः ऋ-वर्णः, तस्य अनेन सूत्रेण अकारादेशः भवति । ("उः" इति "ऋ" इत्यस्य षष्ठी-एकवचनम्) । अयम् अकारः उरण् रपरः 1|1|51 इत्यनेन नित्यं रपरः एव भवति । यथा -

1. कृ-धातोः लिट्-लकारस्य प्रथमपुरुषैकवचनस्य प्रक्रिया इयम् -
कृ + लिट् [परोक्षे लिट् 3|2|115 इति लिट्]
→ कृ कृ + लिट् [लिटि धातोरनभ्यासस्य 6|1|8 इति द्वित्वम्]
→ कर् कृ + लिट् [उरत् 7|4|66 इति ऋवर्णान्त-अभ्यासस्य ऋकारस्य अकारः । उरण् रपरः 1|1|51 इति सः रपरः]
→ क कृ + लिट् [हलादि शेषः 7|4|60 इति रेफस्य लोपः]
→ च कृ + लिट् [कुहोश्चुः 7|4|62 इति ककारस्य चकारः]
→ च कृ + तिप् [तिप्तस्झि... 3|4|78 इति तिप्-प्रत्ययः]
→ च कृ णल् [परस्मैपदानां णलतुसुस्थलथुसणल्वमाः 3|4|82 इति तिप्-इत्यस्य णल्-आदेशः]
→ च कार् अ [सार्वधातुकार्धधातुकयोः 7|3|85 इति ऋकारस्य गुणः अकारः । उरण् रपरः 1|1|51 इति रेफः]
→ चकार

2. तॄ-धातोः लिट्-लकारस्य प्रथमपुरुषैकवचनस्य प्रक्रिया इयम् -
तॄ + लिट् [परोक्षे लिट् 3|2|115 इति लिट्]
→ तृ तॄ + ल् [ह्रस्वः [6।4।59]] इति अभ्यासस्य ह्रस्वादेशः]
→ तृ तॄ + लिट् [लिटि धातोरनभ्यासस्य 6|1|8 इति द्वित्वम्]
→ तर् तॄ + लिट् [उरत् 7|4|66 इति ऋवर्णान्त-अभ्यासस्य ऋकारस्य अकारः । उरण् रपरः 1|1|51 इति सः रपरः]
→ त तॄ + लिट् [हलादि शेषः 7|4|60 इति रेफस्य लोपः]
→ त तॄ कृ + तिप् [तिप्तस्झि... 3|4|78 इति तिप्-प्रत्ययः]
→ त तॄ णल् [परस्मैपदानां णलतुसुस्थलथुसणल्वमाः 3|4|82 इति तिप्-इत्यस्य णल्-आदेशः]
→ त तार् अ [सार्वधातुकार्धधातुकयोः 7|3|85 इति ऋकारस्य गुणः अकारः । उरण् रपरः 1|1|51 इति रेफः]
→ ततार
One-line meaning in English
A ऋ letter present in an अभ्यास is converted to अकार.
काशिकावृत्तिः
ऋवर्णान्तस्य अभ्यासस्य अकारादेशो भवति। ववृते। ववृधे। शशृधे। नर्नर्ति, नरिनर्ति, नरीनर्ति इत्येवम् आदौ अभ्यासविकारेषु अपवादो न उत्सर्गान् विधीन् बाधते इति उः अदत्वे कृते रुगादय आगमाः क्रियन्ते।
छन्दसीति निवृत्तम्; पूर्वसूत्रे च कारानुकृष्टत्वात्। `ववृते, ववृधे, शशृधे` इति। `वृतु वत्र्तने` (धातुपाठः-758), `वृधु वृद्धौ` (धातुपाठः-759), `शृधु शब्दकुत्सायाम्` (धातुपाठः-760), लिट्; तत्राद्ययोरनुदात्तेत्त्वादात्मनेपदम्, इतरत्र स्वरितेत्त्वात्; पूर्ववदेव द्विर्वचनम्, हलादिशेषे च कृत ऋवर्णान्ततयामुपजातायामद्भावः, रपरत्वम्, हलादिशेषः।`नर्नर्त्ति, नरिनर्त्ति, नरीनर्त्ति` इत्येवमादौ `ऋदुपधस्य च` 7|4|90 इति, `रुग्रिकौ च लुकि` 7|4|91 इति वा परत्वादपवादेषु कृतेषु रीगादिषु ऋवर्णान्ताभावादनेन न भवितव्यमिति कस्यचिद्भ्रान्तिः स्यात्, अतस्तां निराकर्तुमाह--`नर्नर्ति` इति॥
ववृते इत्यादौ हलादिशेषे कृते ऋकारान्ततायामुपजातायामद्भावः, रपरत्वे पुनः ठ्हलादिः शेषःऽ । नर्नर्तीत्यादौ रुगादिषु कृतेषु ऋकारान्तत्वाभावादत्वं न स्यादित्याशङ्क्याह---नर्नर्तीत्यादाविति । यथा चाभ्यासविकारेषु बाधका न बाधन्ते, तथा ठ्दीर्घोऽकितःऽ इत्यत्रैव वक्ष्यते ॥
सिद्धान्तकौमुदी
अभ्यासऋवर्णस्य अत्स्यात्प्रत्यये परे । रपरत्वम् । हलादिः शेषः (कौमुदी-2179) प्रत्यये किम् । वव्रश्च ॥
उरत् - उरत् । उः — अदिति छेदः ।ऋ॑इत्यस्य उरिति षष्ठएकवचनम् ।अत्र लोपोऽभ्यासस्ये॑त्यस्मादभ्यासस्येत्यनुवर्तते । अङ्गस्येत्यधिकृतं । तद्वशात्प्रत्यये परत इति लभ्यते । प्रत्यये परत एव अङ्गसंज्ञाविधानात् । तदाह — अभ्यासऋवर्णस्येत्यादिना । रपरत्वमिति । अभ्यासऋवर्णादेशस्याऽकारस्योरण्रपर इति रपरत्वमित्यर्थः । तथा च कर् कृ ए इति स्थिते । हलादिः शेष इति । रेफस्य निवृत्तिरिति भावः । प्रत्यये किमिति । अङ्गेनैव प्रत्ययस्याक्षिप्तत्वात्प्रत्यये परत इति किमर्थमित्यर्थः । वव्रश्चेति । "ओ व्रश्चू च्छेदने" , लिटि णल् द्वित्वं । लिटभ्यासस्येत्यभ्यासरेफस्य सम्प्रसारणमृकारः । उरत् । रपरत्वम् । हलादिः । शेषः । वव्रश्चेति रूपम् । अत्र अभ्यासऋवर्णस्य रेफस्थानिकस्य सम्प्रसारणस्य य उरदत्वसम्पन्नोऽकारस्तस्य अचः परस्मिन्निति स्थानिवत्त्वेन सम्प्रसारणतया तस्मिन्परे वकारस्यन सम्प्रसारणे सम्प्रसारण॑मिति निषेधान्न सम्प्रसारममिति स्थितिः । उरदित्यत्र "प्रत्यये परत" इत्यनुक्तौ तु सम्प्रसारणभूतऋकारस्थानिकस्य अकारस्य परनिमित्तकत्वाऽभावेन स्थानिवत्त्वाऽप्रसक्तेः सम्प्रसारणत्वाऽभावात्तस्मिन् परतोन सम्प्रसारणे सम्प्रसारण॑मिति निषेधो न स्यादिति भावः ।
Text Unavailable. Please use feedback link below to provide the text if you have.
लघुसिद्धान्तकौमुदी
अभ्यासऋवर्णस्यात् प्रत्यये। रपरः। हलादिः शेषः। वृद्धिः। गोपायाञ्चकार। द्वित्वात्परत्वाद्यणि प्राप्ते
महाभाष्यम्
Text Unavailable. Please use feedback link below to provide the text if you have.