Page loading... Please wait.
7|4|62 - कुहोश्चुः
॥ तस्मै पाणिनये नमः ॥
7|4|62
SK 2245
कुहोश्चुः   🔊
सूत्रच्छेदः
कुहोः (षष्ठीद्विवचनम्) , चुः (प्रथमैकवचनम्)
अनुवृत्तिः
अभ्यासस्य  7|4|58 (षष्ठ्येकवचनम्)
अधिकारः
अङ्गस्य  6|4|1 अभ्यासस्य  7|4|58
सम्पूर्णसूत्रम्
अभ्यासस्य कुहोः चुः |
सूत्रार्थः
अभ्यासस्य कवर्गीयवर्णस्य हकारस्य च चवर्गीयवर्णादेशः भवति ।
अभ्यासे यदि कवर्गीयः वर्णः अस्ति, उत हकारः अस्ति, तर्हि तस्य आन्तरतम्यः चवर्गीयवर्णादेशः भवति । कवर्गीयवर्णस्य विषये तु यथासङ्ख्यम् आदेशाः भवन्ति - ककारस्य चकारः, खकारस्य छकारः, गकारस्य जकारः, घकारस्य झकारः, ङकारस्य ञकारः । हकारस्य तु तादृशः ए संवार-नाद-घोष-महाप्राणः झकारः भवति । यथा -

1. कृ-धातोः लिट्-लकारस्य प्रथमपुरुषैकवचनस्य प्रक्रिया इयम् -
कृ-धातोः लिट्-लकारस्य परस्मैपदस्य उत्तमपुरुषैकवचनस्य प्रक्रिया -
कृ + लिट् [परोक्षे लिट् 3|2|115 इति लिट्]
→ कृ कृ + लिट् [लिटि धातोरनभ्यासस्य 6|1|8 इति द्वित्वम्]
→ कर् कृ + लिट् [उरत् 7|4|66 इति ऋकारान्त-अभ्यासस्य ऋकारस्य अकारः । उरण् रपरः 1|1|51 इति सः रपरः]
→ क कृ + लिट् [हलादि शेषः 7|4|60 इति रेफलोपः]
→ च कृ + लिट् [कुहोश्चुः 7|4|62 इति ककारस्य चकारः]
→ च कृ + मिप् [तिप्तस्झि... 3|4|78 इति मिप्-प्रत्ययः]
→ च कृ णल् [परस्मैपदानां णलतुसुस्थलथुसणल्वमाः 3|4|82 इति मिप्-इत्यस्य णल्-आदेशः]
→ च कार् अ / च कर् अ [णलुत्तमो वा 7|1|91 इति वैकल्पिकम् णित्वम् । णित्वे अचो ञ्णिति 7|2|116 इति ऋकारस्य वृद्धिः कारः । णित्वाभावे सार्वधातुकार्धधातुकयोः 7|3|85 इति ऋकारस्य गुणः अकारः । उभयत्र उरण् रपरः 1|1|51 इति रेफः]
→ चकार

2. जुहोत्यादिगणस्य "हा" धातोः लट्लकारस्य प्रथमपुरुषैकवचनस्य रूपम्
हा + लट् [वर्तमाने लट् 3|2|123 इति लट्]
→ हा + तिप् [तिप्तस्.. 3|4|78 इति तिप्]
→ हा + शप् + ति [कर्तरि शप् 3|1|68 इति शप्]
→ हा + ति [जुहोत्यादिभ्यः श्लुः 2|4|75 इति श्लुः]
→ हा हा + ति [श्लौ 6|4|10 इति द्वित्वम्]
→ ह हा + ति [ह्रस्वः 7|4|59 इति ह्रस्वः]
→ झ हा + ति [कुहोश्चुः 7|4|62 इत्यनेन संवार-नाद-घोष-महाप्राण-हकारस्य तादृशः एव चवर्गीयः झकारः]
→ जहाति [अभ्यासे चर्च्च 8|4|54 इति जश्त्वम्]
One-line meaning in English
The कवर्गीय letter and the हकार of an अभ्यास are converted to an appropriate चवर्गीय letter.
काशिकावृत्तिः
अभ्यासस्य कवर्गहकारयोः चवर्गादेशो भवति। चकार। चखान। जगाम। जघान। हकारस्य जहार। जिहीर्षति। जहौ।
`चखान` इति। `खनु अवदारणे` (ध।पा।878), द्विर्वचनम्, तस्य चुत्वम्--छकारः, `अभ्यासे चर्च` 8|4|53 इति छकारस्य चकारः। `जघाति` इति। `लिटन्यतरस्याम्` 2|4|40 इत्यदेर्घस्लादेशः, अभ्यासस्य चुत्वम्। नादवतो महाप्राणस्य स्थाने तादृश एव झकारः, तस्यापि जश्त्वम्--जकारः। `जहार` इति। `ह्मञ्? हरणे` (धातुपाठः-899)। `जिहीर्षति` इति। `इको झल्` 1|2|9 इति सनः कित्त्वम्, `अज्झनगमां 6|4|16 इति दीर्घत्वम्, `ऋत इद्धातोः` 7|1|100 इतोत्त्वम्, रपरत्वम्, `हलि च` 8|2|77 इति दीर्घत्वम्, हीर्ष-इत्यस्य द्विर्वचनम्॥
चखानेति । खकारस्य च्छकारः, तस्य ठभ्यासे चर्च्चऽ इति चकारः । जघासेति । घकारस्य झकारः, तस्य जश्तवम्---जकारः । जिहीर्षतीति । ठिको झल्ऽ इति सनः कित्वम्, हकारस्यापि झकारः, तस्य जश्त्वम् ॥
सिद्धान्तकौमुदी
अभ्यासकवर्गहकारयोश्चवर्गादेशः स्यात् । एधांचक्रे । एधांचक्राते । एधांचक्रिरे ॥
कुहोश्चुः - एवं च — कृ कृ ए इति स्थिते — कुहोश्चुः । कु ह् इत्यनयोद्र्वन्द्वात्षष्ठीद्विचवनम् ।अत्र लोपोऽभ्यासस्ये॑त्यतोऽभ्यासस्येत्यनुवर्तते । तदाह — अभ्यासेति । यद्यपि स्थानिनां कवर्गीयाणां हकारस्य च षट्त्वात्, चवर्गीयाणां पञ्चत्वान्न यथासङ्ख्यं, नापि स्थानत आन्तर्यं, कण्ठतालुस्थानभेदात् । आभ्यन्तरप्रयत्नसाम्यं तु कवर्गचवर्गयोरविशिष्टम् । हकारचवर्गयोस्तु नास्त्येव तत्, अतो बाह्रप्रयत्नत एवान्तर्यमिह व्यवस्थापकमाश्रयणीयम् । तत्र प्रथमस्य कवर्गीयस्य पर्थम एव चवर्गीयो भवति, अघोषआआसविवाराऽल्पप्राणप्रयत्नसाम्यात्, न तु द्वितीयः, महाप्राणत्वात् । नापि तृतीय पञ्चमौ, घोषसंवारनादप्रयत्नत्वात् । नापि चतुर्थः,घोषसंवारनादमहाप्राणप्रयत्नत्वात् । तथा द्वितीयस्य कवर्गीयस्य द्वितीय एव चवर्गीयो भवति, अघोषआआसविवाराऽप्रामप्रयत्नत्वात्, न तु प्रथमः, अल्पप्राणत्वात् । नापि तृतीयपञ्चमौ, घोषसंवारनादाल्पप्राणप्रयत्नत्वात् । नापि चतुर्थःष घोषसंवारनादप्रयत्नत्वात् । तथा तृतीयस्य कवर्गीयस्य तृतीय एव चवर्गीयो भवति । घोषसंवारनादाल्पप्राणप्रयत्नत्वात् । न तु प्रथमः, अघोषआआसविवारप्रयत्नत्वात् । अत एव न द्वितीयोऽपि, महाप्रामप्रयत्नत्वाच्च । नापि चतुर्थः महाप्राणत्वात् । नापि पञ्चमः, घोषसंवारनादाल्प्राणसाम्येऽपि अनुनासिकतया भेदात् । तथा चतुर्थस्य कवर्गीयस्य चतुर्थ एव चवर्गीयो भवति, घोषसंवारनादमहाप्राणप्रयत्नत्वात् । न तु प्रथमः, अघोषआआसविवाराल्पप्राणप्रयत्नत्वात् । नापि द्वितीयः, अघोषविवारआआसप्रयत्नत्वात् । नापि तृतीयपञ्चमौ, अल्पप्राणत्वात् । पञ्चमस्य तु कवर्गीयस्य अनुनासिकत्वाञ्ञकार एव । हकारस्य तु घोषसंवारनादमहाप्राणवतस्तादृशो वर्गचतुर्थ एव झकार इति विवेकः । प्रकृते तु क कृ ए इति स्थिते अभ्यासककारस्य चकारे ऋकारस्य यणि रेफः । तदाह — एधांचक्र इति । एककर्तृका भूतानद्यतनपरोक्षा वृद्धिरूपा कियेत्यर्थ- । एधांचक्राते इति । कृञो लिट आतामि टेरेत्वम् ।द्वर्वचनेऽची॑ति यणि निषिद्धे "कृ" इत्यस्य द्वित्वे उरदत्वम् । हलादिः शेषः । चत्र्वम् । यण् । न च आतामित्यस्य द्वित्वनिमित्तत्वेऽपि आकारस्याऽचो द्वित्वनिमित्तत्वाऽभावात्कथमिहद्वर्वचनेऽची॑ति यण्निषेध इति वाच्यं, साक्षाद्वा, समुदायघटकतया वा द्वित्वप्रयोजकस्यैव द्वित्वनिमित्तशब्देन विवक्षितत्वादिति भावः । एधांचक्रिर इति । झस्य इरेच् । कृ इत्यस्य द्वित्वादि पूर्ववत् ।
Text Unavailable. Please use feedback link below to provide the text if you have.
लघुसिद्धान्तकौमुदी
अभ्यासकवर्गहकारयोश्चवर्गादेशः॥
महाभाष्यम्
Text Unavailable. Please use feedback link below to provide the text if you have.