॥ तस्मै पाणिनये नम: ॥
Page loading... Please wait.
7|4|60
SK 2179
7|4|60
हलादिः शेषः  
SK 2179
सूत्रच्छेद:
हल्-आदिः - प्रथमैकवचनम् , शेषः - प्रथमैकवचनम्
अनुवृत्ति:
अभ्यासस्य  [7|4|58] - षष्ठ्येकवचनम्
अधिकार:
अङ्गस्य  [6|4|1]
सम्पूर्णसूत्रम्
अभ्यासस्य आदि: हल् शेष:
सूत्रार्थ:
अभ्यासस्य केवलं प्रथमस्थाने विद्यमानः हल्-वर्णः अवशिष्यते, अन्यानि हल्-वर्णानि लुप्यन्ते ।
द्वित्वप्रकरणे द्वित्वे कृते द्वयोः यः प्रथमः तस्य पूर्वोभ्यासः 6|1|4 इत्यनेन "अभ्यास" संज्ञा भवति । अस्य अभ्यासस्य केवलं प्रथम-स्थाने विद्यमानम् व्यञ्जनम् अवशिष्यते, अन्येनि सर्वाणि व्यञ्जनानि लुप्यन्ते - इति अनेन सूत्रेण स्पष्टीभवति ।

अनेन सूत्रेण अच्-वर्णस्य लोपः न भवति इति स्मर्तव्यम् । केवलं हल्-वर्णस्यैव लोपः भवति । तत्रापि प्रथमस्थाने स्थितस्य हल्-वर्णस्य लोपः न भवति । (यदि अभ्यासस्य प्रथमस्थाने अच्-वर्णः अस्ति तर्हि अभ्यासस्य सर्वेषाम् हल्-वर्णानाम् लोपः भवति )।

यथा, पच्-धातोः लट्-लकारस्य प्रथमपुरुषैकवचनस्य प्रक्रियायाम् -
पच् + लिट् [परोक्षे लिट् 3|2|115 इति लिट्]
→ पच् पच् + लिट् [लिटि धातोरनभ्यासस्य 6|1|8 इति द्वित्वम् । द्वित्वे कृते प्रथमः यः "पच्" शब्दः, तस्य अभ्याससंज्ञा भवति ।]
→ प पच् + लिट् [हलादि शेषः 7|4|60 इत्यनेन केवलं पकारः अवशिष्यते । चकारस्य लोपः भवति ।]
→ प पच् + तिप् [तिप्तस्झि... 3|4|78 इति तिप्-प्रत्ययः]
→ प पच् णल् [परस्मैपदानां णलतुसुस्थलथुसणल्वमाः 3|4|82 इति तिप्-इत्यस्य णल्-आदेशः]
→ प पाच् + अ [अतः उपधायाः 7|2|116 इति अङ्गस्य उपधा-अकारस्य वृद्धिः आकारः]
→ पपाच

एतत् स्मर्तव्यम् यत् यदि धातोः प्रथमवर्णः व्यञ्जनम् नास्ति, तर्हि तस्यापि लोपः भवति । यथा, "अद्" धातोः द्वित्वे कृते "अद् अद्" इति स्थिते वर्तमानसूत्रेण "अ अद्" इत्येव अवशिष्यते । अत्र दकारस्य लोपः भवति, यतः दकारः प्रथमस्थाने विद्यमानः नास्ति ।

अन्यानि कानिचन उदाहरणानि -
1. "वन्द्" इत्यस्य द्वित्वे कृते "वन्द् वन्द्" इति प्राप्ते हलादि शेषः 7|4|60 इत्यनेन अभ्यासस्य केवलं प्रथमः हल्-वर्णः अवशिष्यते, अतः "व वन्द्" इति जायते । अच्-वर्णाः तु सर्वे अवशिष्यन्ते इति स्मर्तव्यम् ।
2. "ध्यै" इत्यस्य द्वित्वे "ध्यै ध्यै" इत्यत्र वर्तमानसूत्रेण अभ्यासस्य केवलं प्रथमम् व्यञ्जनम् (धकारः) अवशिष्यते, अतः "धै ध्यै" इति जायते ।
3. "क्षाल्" इत्यस्य द्वित्वे क्षाल् क्षाल्" इत्यत्र वर्तमानसूत्रेण अभ्यासस्य केवलं प्रथमम् व्यञ्जनम् (ककारः) अवशिष्यते, अतः "का क्षाल्" इति जायते ।
One-line meaning in English
Only the first हल् letter from अभ्यास is retained, rest all हल् letters are removed.
काशिकावृत्तिः
अभ्यासस्य हलादिः शिष्यते, अनादिर् लुप्यते। जग्लौ। मम्लौ। पपाच। पपाठ। आट, आटतुः, आटुः। आदिशेषनिमित्तो ऽयम् अनादेर् लोपो विधीयते, तत्र अभ्यासजातेः आश्रयणात् क्वचिदपि वर्तमानो हलादिः अनदेः सर्वत्र निवृत्तिं करोति। अपरे तु ब्रुवते, शेषशब्दो ऽयं निवृत्त्या विशिष्टम् अवस्थानम् आह। तदवस्थानम् उक्तितो यद्यपि प्रधानम्, अविधेयत्वात् तु तदप्रधानम्। निवृत्तिरेव तु विधेयत्वात् प्रधानम्। तत्र अयम् अर्थो ऽस्य जायते, अभ्यासस्य अनादेर् हलो निवृत्तिः भवति इति। सा किम् इति आदेरविधेयां सतीम् अनिवृत्तिम् अपेक्षिष्यते इति।
`हलादिः` इति। हल्? चासावादिश्चेति हलादिः--कर्मधारयोऽयम्, न तु षष्ठीसमासः--हलामादिर्हलादिः। यदि षष्ठीसमासः स्यात्, तदायमर्थः स्यात्--अभ्यासस्य यै हलस्तेषामादिः शिष्यत इति। तथा च--आनक्षतुः, आनक्षुरित्यत्र `अक्षू व्याप्तौ` (धातुपाठः-654) इत्यस्याजादित्वाद्द्वितीयस्यैकाचोऽभावात्? प्रथमस्यैकाचो द्विर्वचने कृते यद्यप्यभ्यासादिः ककारो न भवति, तथापि हलादिर्भवति, तस्य शेषः प्रसज्येत। कर्मधारये तु न दोषः, तत्राभ्यासापेक्षं हलादित्वं विधीयते, न चात्र ककारोऽभ्यासादिः। तस्मात्? कर्मधारयोऽयम्। `जग्लौ` `मम्लौ` इति। `ग्लै हर्वक्षये` (धातुपाठः-903), `म्लै गात्रविनामे` (धातुपाठः-904), `आदेच उपदेशेऽशिति` 6|1|44 इत्यात्त्वम्, `आत औ णलः` 7|1|34 इत्यौत्त्वम्। `आटतुः` आटुः` इति। `अत आदेः` 7|4|70 इत्यभ्यासस्य दीर्घत्वे कृते सवर्णदीर्घत्वम्। ननु च शेषोऽवस्थानम्, तच्चानेः सिद्धमेव, तत्किमर्थ विधीयते? इत्याह--`आदिशेषनिमित्तोऽयम्` इत्यादि। आदिशषो निमित्तं यस्य लोपस्य स तथोक्तः। न ह्रत्रादेः शेषो विधीयते, किं तर्हि? तन्निमित्तोऽयमनादेर्लोपो विधीयते। सिद्ध एव ह्रादेरवस्थाने हलादिशेष इतीदं विधीयमानं नियमार्थं विज्ञायते--आदेरेव हलोऽवस्थानं भवति, त्वनादेरिति एवमादिशेषनिमित्तमनादेरदर्शनं विहितं भवति। यदि तह्र्रादिशेषनिमित्तोऽयमनादेर्लोपो विधीयते, एवं सत्यादुतुराटुरित्यत्र लोपो न भवति; निमित्ताभावात्, अभ्यासस्य हलेव तावदादिर्नास्ति, कुतः पुनस्तस्य शेषः? इत्यत आह--`तत्र` इत्यादि। अनादिलोपे कत्र्तव्येऽभ्यासजातिराश्रीयते, नाभ्यासव्यक्तिः। तेन यद्यपि सर्वास्वभ्यासव्यक्तिषु हलादिर्न वत्र्तते, तथापि क्वचिदपि पपाचेत्यादौ वत्र्तमानो हलादिरनादेः सर्वत्राटतुः, आटुरित्येवमादावपि निवृतिंत करोति; अभ्यासजातेरभिन्नत्वात्। यैव हि पपाचेत्यादावभ्यासजातिः, सैवाटतुः आटुरित्यादावपि। `अपरे तु` इत्यादि। आटतुः, आटुरित्यादावनादेर्लोपं प्रतिपादयितुमपरे ब्राउवत इति। शेषशब्दोऽयं नावस्थानमात्रमाह, किं तर्हि? निवृत्त्या विशिष्टमवस्थानम्, यद्येवम्, अवस्थानस्य विशेष्यत्वात्? प्राधान्यम्, निवृत्तेस्तु विशेषणावादप्राधान्यम्। तथा च--परधानानुयायित्वादप्राधान्यं गुणानाम्। यत्रैवाभ्यासस्य हलादेरवस्थानं पपाचेत्यादौ, तत्रैदानादेर्हलो निवृत्त्या भवितव्यम्; ततः स एव दोषः--आटतुः, आटुरित्यादावनादेर्हलो निवृत्तिर्न प्राप्नोतीति? अत आह--`तदवस्थानम्` इत्यादि। यद्यपि निशेष्यभूतं तदवस्थानं शेषशब्देनाभिधीयत इत्युक्तितः प्रधानम्? तथाप्यविधेयत्वादप्रधानम्। अविधेयत्वं तु तस्य सिद्धत्वात्। निवृत्तरेव विशेषणभूतापि विधेयत्वात्? प्रधानम्। तथा चोक्तम्--सिद्धमुपकारकं परार्थमङ्गम्, साध्योऽनुपकारकस्त्वङ्गीति कृत्वा प्रधानम्। तत्र निवृत्तौ विधेयत्वात्? प्रधानभूतायामयमस्य सूत्रस्यार्थो जायते--`अभ्यासस्यानादेर्हलो निवृत्तिर्भवति` इति। ततश्चासौ विधेयत्वात्? प्राधान्यमापन्ना सती किमित्यादेरविधेयामप्रधानभूतामनिवृत्तिमपेक्षिध्यते। केन कारणेनापेक्षिष्यते? न केनचिदित्यर्थः। न हि प्रधानस्य गुणानुय#आयित्वं युक्तम्। तस्मादसत्यपि हलादेरवस्थानेऽवादेर्लोपेन भवितव्यमिति भावः॥
Text Unavailable. If you can help in fixing this issue by providing this text, please let us know using the feedback link at the bottom of this page. Thank you!
सिद्धान्तकौमुदी
अभ्यासस्यादिर्हल शिष्यते अन्ये हलो लुप्यन्ते । इति वलोपः ॥
हलादिः शेषः। `अत्र लोपोऽभ्यासस्ये`त्यस्मादभ्यासस्येत्यनुवर्तते। शिष्यत इति शेषः, कर्मणि घञ्। शिषधातुरितरनिवृत्तिपूर्वकाविस्थितौ। तदाह-- अभ्यासस्येत्यादिना। इति वलोप इति। भूव् भूव् इत्यत्र अभ्यासवकारस्य लोप इत्यर्थः।
अभ्यासस्येति जातिपरो निर्देशस्तेन आटतुः आटुरित्यादौ तकारादिनिवृत्तिः सिध्यति, क्वचिदभ्यासे आदेर्हलः सत्त्वमाश्रित्य सर्वत्रानादेर्लोपविधानात्॥
लघुसिद्धान्तकौमुदी
अभ्यासस्यादिर्हल् शिष्यते अन्ये हलो लुप्यन्ते। इति वलोपः॥
महाभाष्यम्
हलादिः शेषः किमयं षष्ठीसमासः हलामादिर्हलादिः, हलादिः शिष्यत इति । आहोस्वित्कर्मधारयः ‐ हल्आदिर्हलादिः, हलादिः शिष्यत इति ? ।। कश्चात्र विशेषः ? ।। हलादिःशेषे षष्ठीसमास इति चेदजादिषु शेषप्रसङ्गः ।। हलादिःशेषे षष्ठीसमास इति चेदजादिषु शेषः प्राप्नोति । आनक्ष आनक्षतुः आनक्षुः । अस्तु तर्हि कर्मधारयः ।। कर्मधारय इति चेदादिशेषनिमित्तत्वाल्लोपस्य तद्भावेऽन्त्यलोपवचनम्(1) ।। कर्मधारय इति चेदादिशेषनिमित्तत्वाल्लोपस्य(2) तदभावे ‐ आद्यस्य हलोऽभावे ‐ ऽन्त्यलोपो(1) वक्तव्यः । आटतुः आटुः । ।। तस्मादनादिलोपः(3) ।। तस्मादानादिर्हल्लुप्यत(4) इति वक्तव्यम् ।। उक्तं वा ।। (उक्तं वा) । किमुक्तम् ? ।। प्रतिविधास्यते हलादिशेष इति ।। अयमिदानीं स प्रतिविधानकालः ।। इदं प्रतिविधीयते, इदं प्रकृतम् अत्र लोपोभ्यासस्येति । ततो वक्ष्यामि ह्रस्वः । ह्रस्वो भवत्यादेशः । अभ्यासस्य लोप इत्यनुवर्तते । (अभ्यासस्य(1) च लोपो भवति) । तत्र ह्रस्वभाविनां ह्रस्वो, लोपभाविनां लोपो भविष्यति । ततो हलादिः शेषश्चेति(2) ।। अथ वैवं वक्ष्यामि ‐ ह्रस्वोऽहल् । (ठह्रस्वः) ह्रस्वो भवत्यभ्यासस्येति । ततोऽहल । अहल् च भवत्यभ्यासः । तत आदिः(2) शेषः(7) । आदिःशेषश्च(31) भवत्यभ्यासस्येति। अथ वा योगविभागः करिष्यते । ह्रस्वः (1)। ह्रस्वादेशो भवत्यभ्यासस्य। ततो हल्। हल् च लुप्यतेऽभ्यासस्य । तत आदिः शेषः । आदिःशेषश्च(3) भवत्यभ्यासस्य ।।