Page loading... Please wait.
7|4|58 - अत्र लोपोऽभ्यासस्य
॥ तस्मै पाणिनये नमः ॥
7|4|58
SK 2620
अत्र लोपोऽभ्यासस्य   🔊
सूत्रच्छेदः
अत्र (अव्ययम्) , लोपः (प्रथमैकवचनम्) , अभ्यासस्य (षष्ठ्येकवचनम्)
अनुवृत्तिः
-
अधिकारः
अङ्गस्य  6|4|1 अभ्यासस्य  7|4|58
सम्पूर्णसूत्रम्
Will be updated soon
सूत्रार्थः
Will be updated soon.
One-line meaning in English
Will be updated soon.
काशिकावृत्तिः
यदेतत् प्रक्रान्तं सनि मीमा इत्यादि मुचो ऽकर्मकस्य इति यावत्, अत्र अभ्यासलोपो भवति। तथैव उदाहृतम्। अभ्यासस्य इत्येतच् च अछिकृतं वेदितव्यम् आ अध्यायपरिसमाप्तेः। इत उत्तरं यद् वक्ष्यामः अभ्यासस्य इत्येवं तद् वेदितव्यम्। वक्ष्यति, ह्रस्वः 7|4|59 डुढौकिषते। तुत्रौकिषते। सनि मीमाधुरभलभशकपतपदामच इस्, अभ्यासलोपश्च, इत्येवम् सिद्धे यदत्रग्रहनम् इह अक्रियते, तद् विषयावधारणार्थम्, अत्रैव अभ्यासलोपो भवति, सन्वद्भावविषये न भवति। अमीमपत्। अदीदपत्। सन्वल्लघुनि चङ्परे ऽनग्लोपे 7|4|93 इति सन्वद्भावात् प्राप्नोति। सर्वस्य अभ्यासस्य अयं लोपः इष्यते, तदर्थम् एव केचितत्रग्रहणं वर्णयन्ति। नानर्थके ऽलो ऽन्त्यविधिः इत्यपरे सर्वस्य कुर्वन्ति।
अत्रेत्यनेन यन्निर्दिश्यते तद्दर्शयितुमाह--`यदेतत्` इत्यादि। अथात्रग्रहणं किमर्थम्? `सनि मीमा` 7|4|54 इत्यादौ प्रकरणे यथा स्यात्; ददौ, ददतुरित्यादौ मा भूदिति चेत्? न; यदि ह्रेतत्? प्रयोजनमभिमतं स्यात्? `सनि मीमाधुरभलभशकपतपदामच इसभ्यासलोपश्च` इत्येवमुद्दिश्येत, एवमिहैव प्रकरणे भदिष्यति, नान्यत्र, ततो निष्प्रयोजनमत्रग्रहणमित्यत आह--`सनि मीमाधुरभलभ` इत्यादि। `विषयावधारणार्थम्` इति। अभ्यासलोपविषयस्य नियमार्थमित्यर्थः। तामेव तस्य विषयनियमार्थतां दर्शयितुमाह--`अत्रैव` इत्यादि। अत्रेत्यनेनेसादिविषयो निर्दिश्यते। इसादिविषय एवाभ्यासलोपो यथा स्यादिति नियमेन यद्व्यवच्छिन्नं तद्दर्शयितुमाह--`सन्वद्भावविषये न भवति` इति। `अमीमपत्` इति। `भीञ्? हिंसायाम्` (धातुपाठः-1476) `मीनातिमिनोतिदीङां ल्यपि च` 6|1|49 इत्यात्त्वम्, णिच्, पूर्ववत्? पुक्, लुङः, च्लेश्चङ्, णिलोपः, उपधाह्यस्वत्वम्, द्विर्वचनम्, अट्, `सन्वल्लघुनि चङ्परे` 7|4|93 इत्यादिना सन्वद्भावे `सन्यतः` 7|4|79 इतीत्त्वम्, `दीर्घो लघोः` 7|4|94 इति दीर्घः। `अदीदपत्` इति। `डुदाञ्? दाने` (धातुपाठः-1091) पूर्ववण्णिजादिः। अत्रग्रहणादिहाभ्यासलोपो न भवति। कथं पुनः सन्यभ्यासलोप उच्यमान इह प्राप्नोति, यन्निवृत्त्यर्थमत्रग्रहणं क्रियते? इत्याह--`सन्वल्लघुनि` इत्यादि। यथैव हि सन्वद्भावातिदेशादित्त्वं भवति, एवमभ्यासलोपः स्यात्। इहालोन्त्यपरिभाषया `अलोऽन्त्यस्य` 1|1|51 लोपेन भवितव्यमिति कस्यचिद्भ्रान्तिः स्यात्, अतस्तां निराकर्तुंमाह--`सर्वस्य` इत्यादि। कथं पुनः सर्वस्य लभ्यते? इत्यत आह--`तदर्थमेव` इत्यादि। एतेनैवकारेण विषयावधारणार्थतां निरस्यति। यद्येवम्, सन्वद्भावविषयेऽपि प्राप्नोति? एवं मन्यते--सन्वद्भावविषयेऽप्यभ्यासलोपप्रसङ्गः परिहर्तु शक्यते। तत्र सन्वदिति सनाश्रयकार्यमतिदिश्यते। न चाभ्यासलोपः सनमेवापेक्षते, किं तर्हि? इस्भावादिकमपि। तदभावादसत्यप्यत्रग्रहणेऽमीमपदित्यादिष्वभ्यासलोपो न भविष्यति। तस्मादतिरिच्यत एवात्रग्रहणमिति न कत्र्तव्यमेव। तत्? क्रियते--सर्वस्याभ्यासलोपो यथा स्यादिति। कथं पुनः क्रियमाणेऽप्यत्रग्रहणे सर्वस्य लोपो लभ्यते? ग्रन्थाधिक्यादर्थाधिक्यमित्येके। अत्रग्रहणेन महत्? सूत्रं प्रयणतैतत्? सूचितम्--महतः स्थानिनोऽयं लोपः कत्र्तव्यः। एवञ्चायं महतः स्थानिनः कृतो भवति यदि सर्वस्याभ्यासलोपः क्रियते, नान्यथेत्यन्ये। `नानार्थकेऽलोन्त्यविधिरित्यपरे` इति। के पुनस्ते? ये विषयावधारणार्थतामत्रग्रहणस्य वर्णयन्ति ते वेदितव्याः। अनर्थकत्वमभ्यासस्य स्थाने द्विर्वचनपक्षे वेदितव्यम्। अत्र हि यस्य स्थाने यच्छब्दान्तरं विधीयते तत्? समस्तमेवार्थवत्। एकदेशस्त्वभ्यासोऽनर्थक एव। द्विष्प्रयोगद्विर्वचनपक्षेऽप्यनर्थान्तरवाचित्वादनर्थान्तरवाचित्वादनर्थकताभ्यासस्य॥
अत्रशब्दस्यार्थं दर्शयति---यदेतदिति । अथात्रग्रहणं किमर्थम् ? अत्र ठ्सनिमीमाऽ इत्यादौ प्रकरणे यथा स्याद्; ददौ, ददातीत्यत्र मा भूदिति । नैतदस्ति प्रयोजनम्, एवं वक्ष्यामि---ठ्सनि मीमाघुरभलभशकपतपदामच इसभ्यासलोपश्चऽ---इति, उतरत्रापि ठभ्यसलोपश्चऽ इत्येव ? तत्राह---सनि मीमाध्वित्यादि । विषयावधारणमुविषयर्नियमः । कः पुनरसौ ? इत्यत आह---अत्रैवेत्यादि । अवधारणस्य व्यवच्छेद्यं दर्शयति---सन्वद्भावविषये न भवतीति । अमीमपदिति । मिञो णिचि ठ्मीनातिमिनोतिऽ इत्यात्वम्, पुक, लुङ्, चङ् इद्विर्वचनम्, सन्वद्भावादित्वम्, ठ्दीर्घो लघोःऽ । कथं पुनः सनीत्युच्यमानस्याभ्यासलोपस्यात्र प्रसङ्गः ? इत्यत आह---सन्वल्लघुनीति । यथैव हि सन्वद्भावेनेत्वं भवति, तथाभ्यासलोपोऽपि स्यात्, ठलोऽन्त्यस्यऽ लोपेन भवितव्यमित्याशङ्कायामाह---सर्वस्येति । कथं पुनः सर्वस्य लभ्यते ? अत आह---तदर्थमेवेति । ठितराभ्योऽपि दृश्यन्तेऽ इति षष्ठ।ल्न्तात्रल् । योऽयमभ्यासः प्रसिद्धोऽस्य लोपः, न तदन्तस्येत्यर्थः । विषयावधारणं त्वन्यथापि सिद्धम् । सन्वल्लघुनीति न कार्यमतिदिश्यते, किं तर्हि ? रूपम् । लोपश्चासावभावरूपो न रूपमिति नातिदिश्यते । नानर्थकेऽलोन्त्यविधिरित्यपरे सर्वस्य कुर्वन्तीति । ठनभ्यासविकारेषुऽ इति तु प्रतिषेधो न भवति; लोपस्याविकारत्वात् । तथा च पस्पशायाम्---ठ्लोपागमवर्णविकारज्ञःऽ इति पृथग्ग्रहणम्, ठ्द्वौ चापरौ वर्णविकारनाशौऽ इति च पृषोदरादिसूत्रे । अन्वयव्यतिरेकाभ्यामर्थवतावधार्यते, न चाभ्यासस्योपजनने कश्चिदर्थः प्रतीयत इत्यभ्यासस्यानर्थक्यम् ॥
सिद्धान्तकौमुदी
सनिमीमा--- (कौमुदी-2623) इत्यारभ्य यदुक्तं तत्राभ्यासस्य लोपः स्यात् । आप्तुमिच्छति ईप्सति । अर्धितुमिच्छति । रपरत्वम् । चर्त्वम् । ईर्त्सति । अर्दिधिषति । बिभ्रज्जिषति । बिभर्जिषति । बिभ्रक्षति । बिभर्क्षति ॥
अत्र लोपोऽभ्यासस्य - अत्र लोपोऽभ्यासस्य ।सनि मीमे॑तिआप्ज्ञप्यृधामी॑दितिदम्भ इच्चे॑ति ,मुचोऽकर्मकस्य गुणो वे॑ति पूर्वसूत्रचतुष्टयविहितकार्यमत्रेत्यनेन परामृश्यते । तदाह — सनि मीमेत्यारभ्यते । सूत्रचतुष्टकार्ये कृते सतीत्यर्थः । ईप्सतीति । आप् धातोः सनि आकारस्य इत्त्वेअजादेर्द्वितीयस्ये॑ति प्स इत्यस्य द्वित्वेऽभ्यासलोप इति भावः । रपरत्वमिति । ऋधेः सनि इडभावे ऋकारस्य ईत्त्वे रपरत्वमित्यर्थः । चत्र्वमिति । ईर्ध् स इति स्थिते धस्य चर्त्वे "न न्द्राः" इति रेफं वर्जयित्वाअजादेर्द्वितीयस्ये॑ति, "त्स" इत्यस्य द्वित्वे अभ्यासस्य लोप इति भावः ।पूर्वत्राऽसिद्धीयमद्वित्वे॑ इति वचनाच्चर्त्वे कृते द्वित्वमिति बोध्यम् । इट्पक्षे आह — अर्दिधिषतीति । सनः सादित्वाऽभावादीत्त्वाऽभावे गुणे रपरत्वे अर् ध् इ स इति स्थिते धिस् इत्यस्य द्वित्वमिति भावः । भ्रस्ज्धातोः सन इटिभ्रस्जो रोपधयो॑रिति रमागमाऽभावे आह — बिभ्रज्जिषतीति । सस्य श्चुत्वेन शः, शस्य जश्त्वेन जः । क्ङिदभावात्ग्रहिज्ये॑ति संप्रसारणं न । बिभर्जिषतीति । इटि रमागमपक्षे भ्रस्ज् इस इति स्थिते अकारादुपरि साकरात्प्राग्रेफागमे भकाराद्रेफस्य सकारस्य च निवृत्तौ भर्ज् इस इति स्थिते भर्ज् इत्यस्य द्वित्वं हलादिशेषे अभ्यासस्य इत्त्वे जश्त्वे सनः षत्वे च रूपम् । तदेवमिट्पक्षे रमागमतदभावाभ्यां रूपद्वयम् । बिभ्रक्षतीति । इडभावे रमागमाऽभावे च रूपम् । जस्य कुत्वं सस्य षः । बिभक्र्षतीति । इडभावे रमागमे च रूपम् । तदेवमिडभावपक्षे रमागमतदभावाभ्यां द्वे रूपे ।
अत्र लोपोऽभ्यासस्य - ईप्सतीति ।अजादेर्द्वितीयस्ये॑तिप्सशब्दस्य द्वित्वम् । बिभ्रज्जिषतीति । इटि तदभावे च रमागमविकल्पाच्चत्वारि रूपाणि । सुस्वूर्षतीति ।अज्झनगमा॑मिति दीर्घे सत्युत्वम् ।
लघुसिद्धान्तकौमुदी
-
महाभाष्यम्
अत्र लोपोऽभ्यासस्य ।। अभ्यासस्याऽनचि ।। अभ्यासस्येति यदुच्यते तदनचि द्रष्टव्यम् । पतापतः चराचरः । चलाचलः(1) वदावदः । ( अत्र लोपोऽभ्यासस्य )