Page loading... Please wait.
7|4|4 - लोपः पिबतेरीच्चाभ्यासस्य
॥ तस्मै पाणिनये नमः ॥
7|4|4
SK 2587
लोपः पिबतेरीच्चाभ्यासस्य   🔊
सूत्रच्छेदः
लोपः (प्रथमैकवचनम्) , पिबतेः (षष्ठ्येकवचनम्) , ईत् (प्रथमैकवचनम्) , च (अव्ययम्) , अभ्यासस्य (षष्ठ्येकवचनम्)
अनुवृत्तिः
-
अधिकारः
अङ्गस्य  6|4|1
सम्पूर्णसूत्रम्
Will be updated soon
सूत्रार्थः
Will be updated soon.
One-line meaning in English
Will be updated soon.
काशिकावृत्तिः
पिबतेः अङ्गस्य णौ चङि उपधायाः लोपो भवति, अभ्यासस्य ईकारादेशो भवति। अपीप्यत्, अपीप्यताम्, अपीप्यन्। उपधालोपे कृते ओः पुयण् वचनं ज्ञापकं णौ स्थानिवद्भावस्य इति स्थानिवद्भावाद् द्विर्वचनम्।
ह्यस्वत्वे प्राप्ते तदपवादः पिबतेर्लोपो विधौयते, ईकारश्चाभ्यासस्येति। उपधाधिकारादुपधाया एव। पर्यायेण लोपेकारौ मा भूताम्--इत्येवमर्थमध्यासग्रहणम्। `अपीप्यत्` इति। `पा पाने` (धातुपाठः-925), णिच्, `शाच्छासाह्वाव्यावेपाम्` 7|3|37 इति युक्। ननु च नित्यत्वात्? परत्वाच्च पूर्वमुपधालोपे कृतेऽनच्कत्वाद्? द्विर्वचनेन न भवितव्यम्? इत्यत आह--`उपधालोपे कृते` इत्यादि। सुबोधम्। पिब्रातेः श्तिपा निर्देशो यङ्लुग्निवृत्त्यर्थः--अपापयदिति। `पा रक्षणे` (धातुपाठः-1056, `पै ओवै शोषणे` (धातुपाठः-920,921)--इत्येतयोस्तु निवृत्त्यर्थः स नोपपद्यते; तत्र ह्रोकस्य लुग्विकरणत्वादेव न भविष्यति, अपरस्य तु लाक्षणिकत्वात्॥
अपीप्यदिति । ननु च परत्वान्नित्यत्वादुपधालोपे कृते, अनच्कत्वाद् द्विर्वचनं न प्राप्नोति ? अत आह---उपधालोपे कृत इति । उपधाया एव पर्यायेणेत्वं मा भूदिति अभ्यासस्य ग्रहणम् । आकारलोपेनाङ्गस्याग्लोपित्वाल्लघुनश्च परस्यासम्भवात् ठ्सन्वल्लघुनिऽ इतीत्वदीर्घत्वयोरभावादीत्वविधिः । तिपा निर्देशो यङ्लुग्निवृत्यर्थः ॥
सिद्धान्तकौमुदी
पिबतेरुपधाया लोपः स्यादभ्यासस्य ईदन्तादेशश्च चङ्परे णौ । अपीप्यत् । अर्तिह्री-- (कौमुदी-2570) इति पुक् । अर्पयति । ह्रेपयति । व्लेपयति । रेपयति । यलोपः । क्नोपयति । क्ष्मापयति । स्थापयति ॥
लोपः पिबतेरीच्चाभ्यासस्य - लोपः पिबतेः । चङ्परे णाविति । "णौ चङ्युपधायाः" इत्यतस्तदनुवृत्तेरिति भावः । अपीप्यदिति ।नानर्थकेऽलोऽन्त्यविधि॑रित्स्य अनभ्यासविकार इति निषेधादभ्यासाऽन्त्यस्य ईत्त्वम् । इह उपधालोपे कृतेऽग्लोपित्वादलघूपधत्वाच्च सन्वत्त्वदीर्घयोरप्राप्तावीत्त्वविधिः । अर्तिहीति पुगिति । "क्रमेणोदाह्यियते" इति शेषः । अर्पयतीति । ऋधातोरुदाहरणम् । वृदिंध बाधित्वा नित्यत्वात् पुक् । गुणः । ह्येपयतीति ।ह्यी लज्जाया॑मित्यस्य रूपम् । व्लेपयतीति । "व्ली विशरणे" इत्यस्य रूपम् । रेपयतीति । "री क्षये" इत्यस्योदाहरणम् । "क्नूयी शब्दे" इत्यस्य क्नोपयतीत्युदाहरिष्यन्नाह — यलोप इति । क्नूयीधातोर्णौ पुकिलोपो व्यो॑रिति यलोप इत्यर्थः । ततः क्नूप् इ इति स्थिते अलघूपधत्वेऽपि पुगन्तत्वाद्गुणः । क्ष्मापयतीति । "क्ष्मायी विधूनने" अस्माण्णौ पुकि यलोपः । आदन्तस्योदाहरति — स्थापयतीति । लुङि चङि अतिष्ठप् अ त् इति स्थिते —
लोपः पिबतेरीच्चाभ्यासस्य - अपीप्यदिति । उपधालोपस्य द्वित्वे कर्तव्ये प्रतिषेधात्कृते लोपे स्थानिवद्भावाद्वा पाय्शब्दस्य द्वित्वे हलादिः शेषे ईकारः । सच अनभ्यासविकार इति निषेधादन्त्यस्यादेशः । इहाऽग्लोपित्वादलघूपधत्वाच्च सन्वदित्त्वदीर्घयोरप्राप्तवित्त्वं विधीयते । व्लेपयतीत्यादि । व्ली वरणे । रीङ् क्षये । क्नूयी शब्दे उन्दे चाक्ष्मायी विधूनने ।
लघुसिद्धान्तकौमुदी
-
महाभाष्यम्
Text Unavailable. Please use feedback link below to provide the text if you have.