Page loading... Please wait.
7|4|32 - अस्य च्वौ
॥ तस्मै पाणिनये नमः ॥
7|4|32
SK 2118
अस्य च्वौ   🔊
सूत्रच्छेदः
अस्य (षष्ठ्येकवचनम्) , च्वौ (सप्तम्येकवचनम्)
अनुवृत्तिः
-
अधिकारः
अङ्गस्य  6|4|1
सम्पूर्णसूत्रम्
Will be updated soon
सूत्रार्थः
Will be updated soon.
One-line meaning in English
Will be updated soon.
काशिकावृत्तिः
ई इति वर्तते। अचर्णान्तस्य अङ्गस्य च्वौ परतः ईकारादेशो भवति। शुक्लीभवति। शुक्लीस्यात्। खट्वीकरोति। खट्वीस्यात्।
`च्वौ च` 7|4|26 इति दीर्घस्यापवादः॥
Text Unavailable. Please use feedback link below to provide the text if you have.
सिद्धान्तकौमुदी
अवर्णस्य ईत्स्यात् च्वौ । वेर्लोपः । च्व्यन्तात्वादव्ययत्वम् । अकृष्णः कृष्णः संपद्यते तं करोति कृष्णीकरोति । ब्रह्मीभवति । गङ्गीस्यात् ॥ ।अव्ययस्य च्वावीत्वं नेति वाच्यम् (वार्तिकम्) ॥ दोषाभूतमहः । दिवाभूता रात्रिः । एतच्च अव्ययीभावश्च (कौमुदी-451) इति सूत्रे भाष्ये उक्तम् ॥
अस्य च्वौ - अस्य च्वौ । ईत्स्यादिति ।ई ध्राध्मो॑रित्यतस्तनुवृत्तेरिति भावः । वेर्लोप इति ।वैरपृक्तस्ये॑त्यनेन॑ति शेषः । च्व्यन्तत्वादव्ययत्वमिति ।ऊर्यादिच्विडाचश्चेति॑निपातत्वात्स्वरादिनिपातमित्यव्ययत्वमित्यर्थः ।तद्धितश्चासर्वविभक्ति॑रित्यत्रशस्प्रभृतयः प्राक्समासान्तेभ्यः॑ इति परिगणितेष्वन्तर्भावादव्ययत्वमिति केचित् । कृञ्योगे उदाहरति — कृष्ण इति । वस्तुतोऽकृष्णः सन्वेषादिना कृष्णभावे प्राप्नोतीत्यर्थः । तं करोतीति । अकृष्णं कृष्णरूपेण संपद्यमानं करोतीत्यर्थः । कृष्णीकरोतीति । अत्र वस्तुतोऽकृष्णो नटः प्रकृतिभूतः । स तावत्कृष्णभावं विकारं प्राप्नुवन्सम्पद्यमानत्वात्सम्पद्यकर्तां भवतीति तत्राऽभेदारोपमवलम्ब्य वर्तमानो विकारभूतकृष्णवाचकः शब्दः । तस्माच्च्विप्रत्ययः । चकार इत्, उकार उच्चारणार्थः । तस्मिन्परे अकारस्य ईत्त्वम् ।वेरपृक्तस्ये॑ति वकारलोपः ।कृष्णी॑ति ईकारान्तमव्ययम् । ब्राहृईभवतीति । अब्राहृ ब्राहृ संपद्यमानं भवतीत्यर्थः । ब्राहृन्शब्दाच्च्विः । अन्तर्वर्तिनीं विभक्तिमाश्रित्य पदत्वान्न लोपः । ईत्वमिति भावः । अत्यन्तस्वार्थिकानामेव प्रातिपदिकादुत्पत्तिर्नतु सुबन्तादिति न#इयमः । अतो न च्वेः प्रातिपदिकादुत्पत्तिः,किंतु सुबन्तादेवेति बोध्यम् । अत एव अगौर्गोः समपद्यत गोऽभवदित्यत्र च्व्यन्तस्य गोशब्दस्यएङः पदान्ता॑दिति पररूपमुदाह्मतं भाष्ये सङ्गच्छत इत्यलम् । गङ्गी स्यादिति । अगङ्गा गङ्गात्वेन संपद्यमाना स्यादित्यर्थः । "अस्य च्वौ" इति ईत्त्वम् । दोषाभूतमहरिति । दोषेत्याकारान्तमव्ययं रात्रावित्यर्थे वर्तते । इह तु रात्रिरित्यर्थः वत्र्तते । अदोषाभूतमहो बहुलमेघावरणान्धकाराद्दोषाभूतमित्यर्थः । दिवाभूतारात्रिरिति । दिवेत्याकारान्तमव्ययमहनीत्यर्थे इह तु अहरित्यर्थे वर्तते । चन्द्रिकातिशयवशादहर्भूतेत्यर्थः । ननुअव्ययस्य च्वावीत्त्वं ने॑ति वार्तिकम् "अस्य च्वौ" इति सूत्रभाष्ये न दृश्यत इत्यत आह — एतच्चेति ।
अस्य च्वौ - सम्पद्यकर्तरीति । सम्पद्यश्चासौकर्ता चेति विग्रहः ।पाघ्राध्माधेट्दृशः शः॑इति विहितः शप्रत्ययोऽस्मादेव निपातनात्सम्पदोऽपि भवति । दिवादित्वाच्छ्यनिति हरदत्तः । वक्तव्यमिति । वृत्तिकारस्तुअभूततद्भावे॑इति सूत्रमध्ये प्चिक्षेप । भ्रान्तत्वादिति ।अव्ययस्य च्वावीत्वं नेति वाच्यम् । च्व्यन्तत्वादिति । तस्य निपातत्वात्स्वारादिनिपातमव्यय॑मित्यनेनेत्यर्थः ।
लघुसिद्धान्तकौमुदी
-
महाभाष्यम्
Text Unavailable. Please use feedback link below to provide the text if you have.