Page loading... Please wait.
7|4|22 - अयङ् यि क्ङिति
॥ तस्मै पाणिनये नमः ॥
7|4|22
SK 2649
अयङ् यि क्ङिति   🔊
सूत्रच्छेदः
अयङ् (प्रथमैकवचनम्) , यि (सप्तम्येकवचनम्) , क्ङिति (सप्तम्येकवचनम्)
अनुवृत्तिः
-
अधिकारः
अङ्गस्य  6|4|1
सम्पूर्णसूत्रम्
Will be updated soon
सूत्रार्थः
Will be updated soon.
One-line meaning in English
Will be updated soon.
काशिकावृत्तिः
यकारादौ क्ङिति प्रत्यये परतः शीङः अङ्गस्य अयङित्ययम् आदेशो भवति। श्य्यते। शाशय्यते। प्रशय्य। उपशय्य। यि इति किम्? शिश्ये। क्ङिति इति किम्? शेयम्।
`शय्यते` इति। `सार्वधातुके यक्` 3|1|67 । `शाशय्यते` इति यङ्, परत्वान्नित्यत्वाच्च द्विर्वचनात्? प्रागयङादेशः, ततः शय्येत्यस्य द्विर्वचनम्, `दीर्घोऽकितः` 7|4|83 इत्यभ्याससय दीर्घत्वम्। `प्रशय्य` इति। `समानकर्तृकयोः पूर्वकाले क्त्वा` 3|4|21 , `कुगतिप्रादयः` 2|2|18 इति समासः, `समासेऽनञ्पूर्वे क्त्वो ल्यप्` 7|1|37 `येम्` इति। `ञचो यत्` 3|1|97 । `शय्या` [नास्ति--काशिकायाम्] इति। `सज्ञायां समजनि` 3|3|99 इत्यादिना क्यप्॥
शय्यत इति । यक् । शाशय्यत इति । यङ्, परत्वान्नित्यत्वाच्चायङदेशे कृते द्विर्वचनम् । प्रशय्येति । ल्यप् ॥
सिद्धान्तकौमुदी
शीङोऽयङादेशः स्याद्यादौ क्ङिति परे । शाशय्यते । अभ्यासस्य ह्रस्वः । ततो गुणः । डोढौक्यते । तोत्रौक्यते ॥ । इति तिङन्तयङ्प्रकरणम्‌ ।
Text Unavailable. Please use feedback link below to provide the text if you have.
Text Unavailable. Please use feedback link below to provide the text if you have.
लघुसिद्धान्तकौमुदी
-
महाभाष्यम्
Text Unavailable. Please use feedback link below to provide the text if you have.