Page loading... Please wait.
7|4|21 - शीङः सार्वधातुके गुणः
॥ तस्मै पाणिनये नमः ॥
7|4|21
SK 2441
शीङः सार्वधातुके गुणः   🔊
सूत्रच्छेदः
शीङः (षष्ठ्येकवचनम्) , सार्वधातुके (सप्तम्येकवचनम्) , गुणः (प्रथमैकवचनम्)
अनुवृत्तिः
-
अधिकारः
अङ्गस्य  6|4|1
सम्पूर्णसूत्रम्
Will be updated soon
सूत्रार्थः
Will be updated soon.
One-line meaning in English
Will be updated soon.
काशिकावृत्तिः
शीङः अङ्गस्य सार्वधातुके परतः गुणो भवति। शेते, शयाते, शेरते। सार्वधातुके इति किम्? शिश्ये।
अप्राप्तविषयत्वाद्गुणविधानस्य ङिति सार्वधातुक एतद्विधानम्। पिति तु सामान्यलक्षणैनैव गुणः सिद्धः। लोट्, `आडुत्तमस्य पिच्च` 3|4|92 इत्याटि--शयै, शयावह इत। तस्माद्यत्र गुणो न प्राप्नोति तत्र विधीयते। `शेरते` इति। अदादित्वाच्छपो लुक्? `त्मनेपदेष्वनतः` 7|1|5 इति झकारस्यादादेशः। अत्र `शीङो रुट्` 7|1|6 रुडागमो भवति। `शिश्ये` इति। लिट्, `लिट्? च` 3|4|115 इत्यार्धधातुकसंज्ञा, उत्तमपुरुषस्यैकवचनम्, प्रथमपुरुषस्यैकवचनं वा। यदा प्रथमपुरुस्यैकवचनं तदैश्, पूर्ववदेव द्विर्वचनम्, `एरनेकाचोऽसंयोगपूर्वस्य` 6|4|82 इति यणादेशः; अन्यदेट्, टेरेत्त्वम्। अथ गुणग्रहणं किमर्थम्, न `शीङः सार्वधातुके एत` इत्येंवोच्येत? एवं मन्यते--`शीङः` इति सानबन्धकनिर्देशे षष्ठ्युच्यारिता, निवृत्तिधर्मा चानुबन्धः तस्येत्संज्ञायां लोपेन निवृत्तौ प्राप्तायामयमन्यप्रकारो निवृत्तेरवज्ञायेत। तस्य नान्येत्संज्ञा निवर्त्तिका, किं तर्हि? एकारः। एवं तर्हि ङकारस्य स्थान एकार आपद्यते। तस्माद्गुणग्रहणं त्विकमुपस्थापयति। ङकारस्तु तेनैव हेतुना निवत्र्तत इति यद्येवम्, ङकारो नोच्चारयिष्यते, `झियः` इति निर्देशः करिष्यते? नैष शक्यम्; एवं हि निर्देशे सति यङ्लुक्यपि स्यात्--शेशीत, शेश्यतीति॥
अनुबन्धनिर्देशो यङ्लुकि मा भूदिति---शेशीतः, शेश्यतीति । ठ्शीङ् एःऽ इत्युच्यमाने सानुबन्धकात् षष्ठयुच्चारिता, अनुबन्धश्च निवृत्तिधर्मा, तस्य लोपेन निवृतौ प्राप्तायामयमन्यः प्रकारो विज्ञायेत, नास्य लोपे निवर्तकः, किं तर्हि ? एकार इति । गुणग्रहणं त्विकं निवर्तयति । ङ्कारस्तु स्वनेनैव हेतुना निवर्तते । तस्माद् गुणग्रहणम् ॥
सिद्धान्तकौमुदी
क्ङिति च- (कौमुदी-2217) इत्यस्यापवादः । शेते । शयाते ॥
शीङः सार्वधातुके गुणः - शीङः सार्वधातुके । स्पष्टम् ।सार्वधातुकाद्र्धधातुकयो॑रित्येव सिद्धे किमर्थमिदमित्यत आह — क्ङिति चेत्यस्यापवाद इति । झस्य अदादेशे सति शे-अते इति स्थिते —
शीङः सार्वधातुके गुणः - क्ङिति चेत्यस्येति । अन्यत्रसार्वधातुकाद्र्धधाततुकयो॑रित्यनेन सिद्धमिति भावः ।
लघुसिद्धान्तकौमुदी
क्क्ङिति चेत्यस्यापवादः। शेते। शयाते॥
महाभाष्यम्
Text Unavailable. Please use feedback link below to provide the text if you have.