Page loading... Please wait.
7|4|16 - ऋदृशोऽङि गुणः
॥ तस्मै पाणिनये नमः ॥
7|4|16
SK 2406
ऋदृशोऽङि गुणः   🔊
सूत्रच्छेदः
ऋदृशः (षष्ठ्येकवचनम्) , अङि (सप्तम्येकवचनम्) , गुणः (प्रथमैकवचनम्)
अनुवृत्तिः
-
अधिकारः
अङ्गस्य  6|4|1
सम्पूर्णसूत्रम्
Will be updated soon
सूत्रार्थः
Will be updated soon.
One-line meaning in English
Will be updated soon.
काशिकावृत्तिः
ऋवर्णान्तानां दृशेश्च अङि परतो गुणो भवति। शकलाङ्गुष्ठको ऽकरत्। अहं तेभ्यो ऽकरं नमः। असरत्। आरत्। जरा। दृशेः अदर्शत्, अदर्शताम्, अदर्शन्।
`क्ङिति च` 1|1|5 इति प्रतिषेधे प्राप्तेऽयं गुणो विधीयते। `अकरत्` इति। कृञो लुड्, च्लिः, `तिप्, `कृमृदृरुहिभ्यश्छन्दसि` 3|1|59 इति च्लेरङ। `असरत्` इति। `सृ गतौ` (धातुपाठः-935)। `आरत्` इति। `ऋ गतिप्रापणयोः` (धातुपाठः-936), `सर्त्तिशास्त्यर्त्तिभ्यश्च` 3|1|56 इति च्लेरङ्, अत्र्तेरजादित्वादाटि कृते `आटश्च` 6|1|87 इति वृद्धिः। `अदर्शत्` इत `इरितो वा` 3|1|57 इत्यङ्। अथ गुणग्रहणं किमर्थम्। अकार एव नोच्येत? नैवं शक्यम्; अकार इत्युच्यमाने दुशेरन्त्यस्य स्यात्। गुणग्रहणे तु सति संज्ञाविधाने नियम इतीक एव स्थाने भवति॥
ठृऽ इति वर्णग्रहणम्; व्याख्यानात् । अकरदित्यादौ ठ्कृमृदॄउहिभ्यश्च्छन्दसिऽ इति च्लेरङ् । असरदिति । ठ्सर्तिशास्त्यर्तिभ्यश्चऽ इत्यङ् । अदर्शदिति । ठिरितो वाऽ इत्यङ् । गुणग्रहणं किम्, नाकार एवोच्येत---ठृदृशोङ्यःऽ इति ? नैव शक्यम्; दृशेरन्त्यस्यत्वं स्यात्, गुणग्रहणात्विको भवति । यदि त्वण् इत्यनुवर्तते, शक्यं गुणग्रहणमकर्तुम् । तथा तु न कृतमित्येव ॥
सिद्धान्तकौमुदी
ऋवर्णान्तानां दृशेश्च गुणः स्यादङि । अदर्शत् । अङभावे ॥
ऋदृशोऽङि गुणः - ऋदृशोऽङि । "ऋ" इत्यङ्गविशेषणत्वात्तदन्तविधिः । तदाह — ऋवर्णान्तानामिति । अङभावे इति । अङभावपक्षे "शल इगुपधा" दिति क्सादेशे प्राप्ते सतीत्यर्थः ।
ऋदृशोऽङि गुणः - अदाङ्क्षीदिति ।वदव्रजे॑ति वृद्धिः । अदांष्टाम् । अदाङ्क्षुः ।
लघुसिद्धान्तकौमुदी
-
महाभाष्यम्
Text Unavailable. Please use feedback link below to provide the text if you have.