Page loading... Please wait.
7|3|89 - उतो वृद्धिर्लुकि हलि
॥ तस्मै पाणिनये नमः ॥
7|3|89
SK 2443
उतो वृद्धिर्लुकि हलि   🔊
सूत्रच्छेदः
उतः (षष्ठ्येकवचनम्) , वृद्धिः (प्रथमैकवचनम्) , लुकि (सप्तम्येकवचनम्) , हलि (सप्तम्येकवचनम्)
अनुवृत्तिः
-
अधिकारः
अङ्गस्य  6|4|1
सम्पूर्णसूत्रम्
Will be updated soon
सूत्रार्थः
Will be updated soon.
One-line meaning in English
Will be updated soon.
काशिकावृत्तिः
सार्वधातुके पिति इति वर्तते। उकारान्तस्य अङ्गस्य वृद्धिर् भवति लुकि सति हलादौ पिति सार्वधातुके। यौति। यौषि। यौमि। नौति। नौषि। नौमि। स्तौति। स्तौषि। स्तौमि। उतः इति किम्? एति। एषि। एमि। लुकि इति किम्? सुनोति। सुनोषि। सुनोमि। हलि इति किम्? यवानि। रवाणि। पिति इत्येव, युतः। रुतः। अपि स्तुयाद् राजानम् इत्यत्र हि ङिच्च पिन्न भवति इति पित्त्वप्रतिषेधाद् वृद्धेरभावः। न अभ्यस्तस्य इत्येतदिह अनुवर्तते, योयोति, रोरोति इत्येवम् आद्यर्थम्।
गुणे प्राप्त उत्तो वृद्धिरारभ्यते। यौतीत्यादौ पूर्ववच्छपो लुक्। `सुनोति` इति। श्नुः। `यवानि` इति। लोट्। उत्तमपुरुषै कवचनम्। `युतः, रुतः` इति। लट्, तस्। तपरकरणं सूतीत्यत्र मा भूदति। अथ `अपि स्तुयाद्राजानञ्` इत्यत्र कस्मान्न भवति, अस्ति ह्रत्रापि यासुटस्तिङ्भक्तत्वात्? तिङ्ग्रहणेन ग्रहणमिति प्राप्तिः, न च शक्यते वक्तुम्--`क्ङिति च` 1|1|5 इति प्रतिषेधो भविष्यतीति; यस्मादिग्लक्षणाया वृद्धेः प्रतिषेधोऽसौ, न चेयमिग्लक्षणा; साक्षान्निर्देष्टस्थानिकत्वात्, `यस्या हि वृद्धेः स्थानी न निर्दिश्यते सेग्लक्षणा` इत्युक्तम्? इत्याह--`अपि स्तुयात्` इत्यादि। अत्र हि `यासुट्? परस्मैपदेषूदात्तौ ङिच्च` 3|4|103 इति सार्वधातुकं ङित; `ङिच्च पिन्न भवति` इति ङित्त्वेन पित्त्वस्य बाधितत्वात्। तस्मात्? पित्युच्यमाना वृद्धिरिहापि न भवति। अथ `योयोति, रोरोति` इत्यत्र कस्मान्न भवति, लुकि सति भवति ह्रेतदङ्गद्वयमुकारान्तम्? इत्याह--`नाभयस्तस्य` इत्यादि। गतार्थम्। आदिशब्देन नोनोतीत्येवमादीनां[`चोकोतीत्यादीनाम्`--प्रांउ।पाठः] ग्रहणम्॥
यवानीति । लोडुतमैकवचनम् । अपि स्तुयादिति । अपिः सम्भावने कर्मप्रवचनीय इति ठुपसर्गात्सुनोतिऽ इत्यादिना षत्वं न भवति । ङ्च्चि पिन्न भवतीति । यासुडादेः सार्वधातुकस्य साक्षाच्छिष्ट्ंअ ङ्त्विमनवकाशम्, तिबादीनां तु पित्वं लकारान्तरेषु सावकाशम्, तेन ठ्ङ्च्चि पिन्न भवतिऽ इति ठ्पिच्च डिन्न भवतिऽ इति वचनद्वयसद्भावेऽपि ठ्ङ्च्चि पिन्न भवतिऽ इत्येतदेवात्र प्रवर्तत इति भावः । ठ्क्ङिति चऽ इति प्रतिषेधस्त्वत्र न लभ्यते, किं कारणम् ? इक इत्येवमिक्संशब्दनेन या वृद्धिस्तस्याः स प्रतिषेधः, इह तु ठुतःऽ इति निर्दिष्टस्थानिकत्वादिक्परिभाषा नोपतिष्ठते ॥
सिद्धान्तकौमुदी
लुग्विषये उकारस्य वृद्धिः स्यात्पिति हलादौ सार्वधातुके न त्वभ्यस्तस्य । यौति । युतः । युवन्ति । युयाव । यविता । युयात् । इह उतो वृद्धिर्न । भाष्ये पिच्च ङिन्न ङिच्च पिन्न इति व्याख्यानात् । विशेषविहितेन ङित्त्वेन पित्त्वस्य बाधात् । यूयात् । अयावीत् । 1034 रु शब्दे
उतो वृद्धिर्लुकि हलि - उतो वृद्धिर्लुकि हलि ।नाभ्यस्याचि पिति सार्वधातुके॑ इति अचिवर्जमनुवर्तते । लुकीति विषयसप्तमी, दर्शनाऽभावस्य लुकः परत्वाऽसंभवात् ।तदाह — लुग्विषय इत्यादिना । यौतीति । गुणं बाधित्वा वृद्धिः । युत इति । अपित्त्वान्न वृद्धिः । युवन्तीति । अपित्त्वाद्वृद्ध्यभावे ङित्त्वाद्गुणाऽभावे उवङिति भावः । यौषि युथः युथ । यौमि युवः युमः । युयावेति । युयुवतुः युयुवुः । युयविथ युयुवथुः युयुव । युयाव-युयव युयुविव युयुविम । यवितेति । उवङं बाधित्वा परत्वाद्गुण- । यविष्यति । यौतु युतात् युताम् युवन्तु । हौ अपित्त्वान्न वृद्धिः । युहि — युतात् युतम् युत । आटि पित्त्वेऽपि हलादित्वाऽभावान्न वृद्धिः । पित्त्वेन ङित्त्वाऽभावाद्गुणः । यवानि यवाव यवाम । अयौत् अयुताम् अयुवन् । अयौः अयुतम् अयुत । अयवम् अयुव अयुम । विधिलिङ्याह — युयादिति । अत्र यासुडागमसहितस्य तिपः पित्त्वादुतो वृद्धिमाशङ्क्याह — - इह उतो वृद्धिर्नेति । कुत इत्यत आह — भाष्ये इति । व्याख्यानादिति । "हलः श्नः शानज्झौ" इति सूत्रव्याख्यावसरे वचनादित्यर्थः । ननु यासुडागमसहितस्य तिपः पित्त्वात्पिच्च ङिन्ने॑त्युक्तवचनेनयासुट् परस्मैपदेषु॑ इति ङित्त्वस्याऽप्यभावात्क्ङिति चे॑त#इ गुणनिषेधाऽभावाद्गुणः स्यादित्यत आह — विशेषविहितेनेत्यादि, बाधादित्यन्तम् ।यासुट् परस्मैपदेषु॑ इति विशेषविहितेन यासुटो ङित्त्वेन तत्सहितस्य तिपोङिच्च पिन्ने॑ति पित्त्वप्रयुक्तङित्त्वनिषेधस्य बाधान्ङित्त्वाद्गुणनिषेधो निर्बाध इत्यर्थः । आशीर्लिङ्याह — यूयादिति । आद्र्धधातुकत्वान्न वृद्धिः ।अकृत्सार्वधातुकयो॑रिति दीर्घः । यूयास्तामित्यादि । लुङ्याह — अयावीदिति । सिचि वृद्धिः ।इट ईटी॑ति सिज्लोपः । अयाविष्टामित्यादि । अयविष्यत् ।
उतो वृद्धिर्लुकि हलि - उतो वृद्धिः ।नाभ्यस्तस्याचि पिती॑त्यतो निषेधानुवृत्तेराह — न त्वभ्यस्तस्येति । उतः किम् । एति । एषि । लुकीति किम् । सुनोति । जुहोति । हलि किम् । यवानि यवाव ।आडुत्तमस्ये॑त्याडागमः पित् । पिति किम् । युतः । रुतः ।नाभ्यस्तस्ये॑ति किम् । योयोति । रोरोति । सार्वधातुके किम् । यूयात् । न चाऽत्र ङिच्च पिन्नेति व्याख्यानान्निर्वाहः शङ्क्यः,किदाशिषी॑ति यासुटः कित्त्वात् । केचित्तु युयात् स्तुयादित्यादावपिङिच्च पिन्ने॑त्येतदानाश्रित्य व्याचक्षते । संज्ञापूर्वकविधेरनित्यत्वाद्वृद्धिर्न भवति । अन्यथाउत औ॑ दित्येव वदेदिति ।
लघुसिद्धान्तकौमुदी
लुग्विषये उतो वृद्धिः पिति हलादौ सार्वधातुके नत्वभ्यस्तस्य। यौति। युतः। युवन्ति। यौषि। युथः। युथ। यौमि। युवः। युमः। युयाव। यविता। यविष्यति। यौतु, युतात्। अयौत्। अयुताम्। अयुवन्। युयात्। इह उतो वृद्धिर्न, भाष्ये -ऽपिच्च ङिन्न ङिच्च पिन्न’ इति व्याख्यानात्। युयाताम्। युयुः। यूयात्। यूयास्ताम्। यूयासुः। अयावीत्। अयविष्यत्॥ या प्रापणे॥ 4॥ याति। यातः। यान्ति। ययौ। याता। यास्यति। यातु। अयात्। अयाताम्॥
महाभाष्यम्
Text Unavailable. Please use feedback link below to provide the text if you have.