Page loading... Please wait.
7|3|85 - जाग्रोऽविचिण्णल्ङित्सु
॥ तस्मै पाणिनये नमः ॥
7|3|85
SK 2480
जाग्रोऽविचिण्णल्ङित्सु   🔊
सूत्रच्छेदः
जाग्रः (षष्ठ्येकवचनम्) , अविचिण्णल्ङित्सु (सप्तमीबहुवचनम्)
अनुवृत्तिः
-
अधिकारः
अङ्गस्य  6|4|1
सम्पूर्णसूत्रम्
Will be updated soon
सूत्रार्थः
Will be updated soon.
One-line meaning in English
Will be updated soon.
काशिकावृत्तिः
जागु इत्येतस्य अङ्गस्य गुणो भवति अविचिण्णल्ङित्सु परतः। जागरयति। जागरकः। साधुजागरी। जागरंजागरम्। जागरो वर्तते। जागरितः। जागरितवान्। वृ̄द्धिविषये प्रतिषेधविषये च यथा स्यातिति जागर्तेरयं गुणः आरभ्यते। तस्मिन् कृते या अत उपधायाः 7|2|116 वृद्धिः प्राप्नोति सा न भवति। यदि हि स्यातनर्थक एव गुणः स्यात्, चिण्णलोश्च प्रतिषेधवचनम् अनर्थकम्। अविचिण्णल्ङित्सु इति किम्? जृ̄शृ̄स्तृर्जागृभ्यः क्विन् जागृविः। चिण् अजागारि। णल् जजागार। ङित् जागृतः। जागृथः। वि इति केचिदिकारम् उच्चारणार्थं वर्णयन्ति, क्वसावपि वकारादौ गुणो न भवति। जजागृवान्। अजागरुः, अहं जजागर इत्यत्र प्रतिषेधः प्राप्नोति? न, अप्रतिषेधात्। अविचिण्णल्ङित्सु इति पर्युदासो ऽयम्, अथवा जाग्रः इति प्रप्तिरसावानन्तर्याद् विचिण्णल्ङित्सु प्रतिषिध्यते। या तु जुसि च 7|3|83, सार्वधातुकार्धधातुकयोः 7|3|84 इति च प्राप्तिः , सा न प्रतिषिध्यते।
`जागरयति` इति। णिच्। `जागरकः` इति। ण्वुल्। `साधुजागरी` इति। ताच्छील्ये णिनिः। `जागरञ्जागरम्` इति। `आभीक्ष्ण्ये णमुल्` 3|4|22 , `आभीक्ष्ण्ये द्वे भवतः` (वा।887) इति द्विर्वचनम्। `जागरो वत्र्तते` इति। भावे धञ्। एतानि वृद्धिविषय उदाहरणानि। `जागरिता, जगरितवान्` इति प्रतिषेधविषये। किं पूनः कारणं वृद्धिविषये प्रतिषेधविषये चैवोपन्यस्तान्युदाहरणानि? इत्यत आह--`वृद्धिविषये प्रतिषेधविषये च` इत्यादि। वृद्धिप्रतिषेधविषयादन्यत्र पूर्वसूत्रेण गुणः सिद्धो भवति। तस्मादवृद्धिप्रतिषेधविषयेऽयं गुण आरभ्यते, तेन तद्विषयाणामेवोदाहरणानासुपन्यासः। जागरयतीत्यादौ गुणे कृते रपरत्वे च `अत उपधायाः` 7|2|116 इति वृद्ध्या भवितव्यमिति कस्यचिद्भ्रान्तिः स्यात्, अतस्तां निरकर्त्तुमाह--`तस्मिन्? कृते` इत्यादि। किं पुनः कारणं तस्मिन्? कृते न भवति? इत्याह--`यदि हि` इत्यादि। यद्यस्मिन्? कृतेऽपि गुणे `अत उपधायाः` 7|2|116 इति वृद्धिः स्यात्, जागरयतीत्यादिकं रूपं न स्यात्, तथा चानर्थको गुणः स्यात्; `अचो ञ्णिति` 7|2|115 इत्यनयैव वृद्ध्या सिद्धत्वात्। `चिण्णलोश्च` इत्यादि। चिण्णलोः प्रतिषेधस्येतत्? प्रयोजनम्--वृद्धेः श्रवणं यथा स्यात्। यदि तु कृतेऽपि गुणे `अत उपधायाः` 7|2|116 इति स्यात्, चिण्णलोः प्रतिषेधोऽनर्थकः यात्; अस्त्वत्र गुणः, सत्यपि तस्मिन्? पुनरुपधाया इति वृद्ध्या भवितव्यम्, ततश्च वृद्धेः श्रवत्रं भविष्यतीति। `अजागारि` इति। लुङ्, च्लिः, `चिण्भावकर्मणोः` 3|1|66 इति च्लेश्चिण्, `चिणो लुक्` 6|4|104 इति तकारस्य लुक्। `जागृतः, जागृथः` इति। लट्, तस्थसौ, तयोः `सार्वधातुकमपित्` 1|2|4 इति ङित्त्वम्, अदादित्वाच्छयो लुक्। `वीति केचिदिकारमुच्चारणार्थं वर्णयन्ति` इति। किं पुनरेवं सतीष्टं सिध्यति, यत एवं व्याचक्षते? आह--`क्वसावप` इत्यादि। यदि समुदायस्थ वेः प्रत्ययस्येवं ग्रहणं स्यात्, क्वासौ गुणप्रतिषेधो न स्यात्। यदि त्विकार उच्चारणार्थो वर्णमात्रस्यैवेदं ग्रहणम्, तदा `यस्मिन्? विधिस्तदादावल्ग्रहणे` (व्या।प।127) इति तदादिविधिना क्वासावपि गुणप्रतिषेधः सिद्धो भवति। `जजागृवान्` इति। लिटः `क्वसुश्च` 3|2|107 इति क्वसुरादेशः, `उगिदचाम्` 7|1|70 इति नुम्, `जजागृवान्` इति। लिटः `क्वसुश्च` 3|2|107 इति क्वसुरादेशः, `उगिदचाम्` 7|1|70 इति नुम्, `सान्तमहतः संयोगस्य` 6|4|10 इति दीर्घः, हल्ङ्यादिसंयोगान्तलोपौ। `केचित्` इति वचनात्--अपर उच्चारणार्थं न वर्णयन्तीत्युक्तं भवति। त एवं मन्यन्ते--छान्दसः क्वसुः, लिट्? च छन्दसि सार्वधातुकमपि भवति; `छन्दस्युभयथा` 3|4|117 इति वचनात्? ततः `सार्वधातुकमपित्` 1|2|4 इति ङित्त्वादेव पर्युदासो भविष्यतीति। `अजागरुः` इत्यादि। एवं मन्यते--`अविचिण्णल्ङित्सु` 1|2|4 इति ङित्त्वादेव पर्युदासो भविष्यतीति। `अजागरुः` इत्यादि। एवं मन्यते--`अविचिण्णल्ङित्सु` इति प्रसज्यप्रतिषेधोऽयम्--विचिण्णल्ङितसु न भवतीति, ततश्चाजागरुरित्यत्रापि `जुसि च` 7|3|83 इत्यनेनापि प्राप्तस्य गुणस्या प्रतिषेधः प्राप्नोति। एवमहं जजागरेत्यत्र `णलुत्तमो वा` 7|1|91 इति वचनाण्णित्त्वं यदा नास्ति तदा `सार्वधातुकार्धधातुकायोः` 7|3|84 इति गुण इष्यते, सोऽस्मात्? प्रतिषेधान्न प्राप्नोति। `न` अप्रतिषेधात्` इति परिहारः। नायं दोषः; कुतः? अप्रतिषेधात्। अप्रसज्यप्रतिषेधा दित्यर्थः। यदि प्रसज्यप्रतषेधो न भवति, कस्तह्र्रयम्? इत्याह--`अविचिण्णाल्ङित्स्विति पर्युदासोऽयम्` इति। प्रसज्यप्रतिषेधे हि लक्षणान्तरेणापि प्रसक्तस्य प्रतिषेधः स्यात्, न पर्युदासे। तथा हि पर्युदासे विचिण्णल्ङिद्भ्योऽन्यत्र गुणो विधीयते, न तु तेषु विचिण्णलादिषु प्रतिषिध्यते। पर्युदासश्चायम्। तस्माज्जुसि णलि च गुणो भवत्येव। अभ्युपेत्यापि प्रसज्यप्रतिषेधं परहारान्तरमाह--`अथ वा` इत्यादि। `अनन्तरस्य विधिर्वा भवति प्रतिषेधो वा` (व्या। प।19) इत्यानन्तर्यात्? जाग्र इति या प्राप्तिस्तस्या अयं प्रतिषेधः, या तु `जुसि च` 7|3|83 इत्यादिना लक्षणान्तरेण प्राप्तिः सा न प्रतिषिध्यते। `अजागरुः` इति। लङ्, `जक्षित्यादयः षट्` 6|1|6 इत्यभ्यस्तसंज्ञा, `सिजभ्यस्तविदिभ्यश्च` 3|4|109 इति झेर्जुस्॥
अविचिण्णल्ङ्त्सु पिरत इति । विचिण्णलिङ्द्भ्योऽन्ये ये प्रत्ययास्तेषु परत इत्यर्थः । जागारयतीत्यादीनि वृद्धिविषये उदाहरणानि । जागरितः, जागरितवानिति प्रतिषेधविषये । किं पुनः कारणं वृद्धिप्रतिषेधविषयाण्येवोदाहरणानि उपन्यस्तानि ? तत्राह---वृद्धिविषये, प्रतिषेधविषये चेति । अन्यत्र पूर्वेणैव गुणस्य सिद्धत्वादेतद्विषय एवायं गुणः, तत्राप्युभयविषयः, कथम् ? चिण्णलोः प्रतिषेधात् वृद्धिविषये तावद्भवति, ङ्त्प्रितिषेधात् प्रतिषेधविषयेऽपीति । तस्मिन्कृत इति । ठङ्गवृते पुनर्वृतौऽ इत्येतदनाश्रित्योच्यते । सा न भवतीति । किं कारणम् ? इत्याह---यदि हीति । यद्यपि जागरितः, जगरितवानित्यत्र गुणविधिश्चरितार्थः, तथापि वृद्धिविषयेऽप्येतद्विधानमित्युक्तम्, तत्रास्यानर्थक्यमुच्यते । किञ्चेत्याह---चिण्णलोश्चेति । यदि गुणे कृते ठत उपधायाऽ इति वृद्धिः स्याच्चिण्णलोर्गुणप्रतिषेधोऽनर्थकः स्यात् । अस्तु तत्रापि गुणः; वृद्धौ सत्यामजागारि, जजागारेति सिद्धम् । जागृत इति । लट्, तस्, अदादित्वाच्छपो लुक्, ठ्सार्वधातुकमपित्ऽ इति ङ्त्विम् । अत्र वीति केचिदिति । ठविचिण्णल्ङ्त्सुऽ इत्यित्र यो वकारात्पर इकारस्तमुच्चारणार्थं वर्णयन्ति, तत्र ठ्यस्मिन्विधिःऽ इति वकारादौ प्रतिषेधः । किमर्थं पुनस्त एवं वर्णयन्ति ? इत्यत आह---क्वसावपीति । जजागृवानिति । ठ्नेड्वशि कृतिऽ इति इट्प्रतिषेधः । तत्र क्रादिनियमादिट् प्राप्तः ठ्वस्वेकाजाद्घसाम्ऽ इति नियमान्न भवति । ये तु क्विपो लोपाद्वर्णाश्रये प्रत्ययलक्षणप्रतिषेधाच्च पर्युदासं नेच्छन्ति, तेषां जागरिति गुणो भवत्येव । अन्ये त्वाहुः---यथा अतृणेडिति प्रत्ययलक्षणेनेभागमी भवति, वर्णस्य प्रत्ययविशेषणत्वात्; एवं क्विपोऽपि पर्युदासः, ततस्तु जागृदिति भवति । चोदयति---कथमजागरुरिति । एवं मन्यते--प्रसज्यप्रतिषेधोऽयं विचिण्णल्ङ्त्सु नि भवतीति, ततश्च ठ्जुसि चऽ इत्यस्यापि गुणस्य प्रतिषेधः स्यात्, तथोतमे णलि णित्वाभावपक्षे गुण इष्यते--ठ्सार्वधातुकार्धधातुकयोःऽ इति, तस्यापि प्रतिषेधः प्राप्नोतीति । परिहरति---नाप्रतिषेधादिति । नायं दोषः, कुतः ? अप्रतिषेधात् । नायं प्रसज्यप्रतिषेधः, कस्तर्ह्ययम् ? इत्याह---अविचिण्णल्ङ्त्स्विति पिर्यदासोऽयमिति । पर्युदासे हि विचिण्णल्ङ्त्सु नि विधिर्न प्रतिषेधः, ततोऽन्यत्र विधानम्, तेन जुसि णलि च लक्षणान्तरेण प्राप्तो गुणो भवत्येव । प्रसज्यप्रतिषेधेऽप्याह---अथ वेति । ठनन्तरस्य विधिर्वा भवति प्रतिषेधो वाऽ इति भावः । केचिद्दर्विरित्यत्र गुणदर्शनादौणादिकं विच्प्रत्यययं वर्णयन्ति, तेषां जागृविरित्यत्र गुणः प्राप्नोति । न च वेः प्रतिषेधवैयर्थ्यम्; क्विपि क्वसौ च चरितार्थत्वात् । तस्माज्जागर्तेः किद्वक्तव्यः ॥
सिद्धान्तकौमुदी
जागर्तेर्गुणः स्याद्विचिण्णल्ङिद्भ्योऽन्यस्मिन् वृद्धिविषये प्रतिषेधविषये च । जजागरतुः । अजागः । अजागृताम् । अभ्यस्तत्वाज्जुस् ॥
जाग्रोऽविचिण्णल्ङित्सु - जाग्रोऽवि । "जाग्र" इति षष्ठी । "मिदेर्गुणः" इत्यतो गुण इत्यनुवर्तते । तदाह — जागर्तेर्गुणः स्यादिति ।अविचिण्णल्ङित्स्वि॑ति च्छेदः । वि चिण् णल् हित् एषां द्वन्देव नञ्समासः । तदाह — विचिण्णल्ङिद्भ्योऽन्यस्मिन्निति । चिण्णल्पर्युदासाद्वृद्धिविषयेऽप्यस्य प्रवृत्तिः । ङित्पर्युदासाद्गुणप्रतिषेधविषयेऽप्यस्य प्रवृत्तिः । तदाह — वृद्धिविषये चेति । जजागतुरिति । अत्र कित्त्वेऽपि गुणः । जजागरुः । जजागरिथ जजागरथुः जजगार । जजागार — जजागर, जजागरिव जजागरिम । विचिण्णल्ङित्सु तु न गुणः । वि — जागृविः । चिण् — अजागारि । णल् — जजागार । ङित् — जागृतः । वृद्धिविषये यथा ण्वुलि — जागरकः । प्रतिषेधविषये यथा — जजागरतुः । कित्त्वेऽपि गुण इत्याद्यूह्रम् ।जागरिता । जागरिष्यति । जागर्तु — जागृतात् जागृताम् जाग्रतु । जागृहि — जागृतात् जागृतम् जागृत । जागराणि जागराव जागराम । लङ्याह — अजागरति । तिपि इकारलोपे हल्ङ्यादिना तकारलोपे रेफस्य विसर्ग इति भावः । अभ्यस्तत्वाल्लङो जेरदादेशे प्राप्ते आह — अब्यस्तत्वाज्जुसिति ।सिजब्यस्तविदिभ्यश्चे॑त्यनेनेति भावः । जक्षित्यादित्वादभ्यस्तत्वम् । अजागृ उस् इति स्थितेसार्वधातुकमपि॑दिति ङित्त्वादविचिण्णल्ङित्स्विति पर्यादासादप्राप्ते गुणे आह —
जाग्रोऽविचिण्णल्ङित्सु - जाग्रोऽविचिण्णल् । ङिद्भ्योऽन्यस्मिन्निति । जागृविः । विशब्देन वादिप्रत्ययो गृह्रते ।इकारस्तूच्चारणार्थ॑ इति वदतां मते क्वसावपि न भवति । जजागृवान् । जजागृवांसौ । चिण्- अजागारि । णल्- जजागार । ङित् — जागृतः । जागृथः । वृद्धिविषये इति । ण्वुलि — जागरकः । घञि — जागरः । णिचि — जागरयति । नचैतेषु गुणे कृतेऽपिअत उपधायाः॑ इति वृद्धिः स्यादिति वाच्यं, गुणविधेश्चिण्णल्प्रतिषेधस्य चाऽ‌ऽनर्थक्यापत्तेः ।
लघुसिद्धान्तकौमुदी
-
महाभाष्यम्
जाग्रोऽविचिण्णल्ङित्सु इह जागरयति जागरक इति गुणे कृते रपरत्वे चाऽत उपधाया इति वृद्धिः प्राप्नोति तस्याः प्रतिषेधो वक्तव्यः चिण्णलोः प्रतिषेधसार्मथ्यादन्यत्र गुणभूतस्य वृद्धिप्रतिषेधः यदयमचिण्णलोरिति प्रतिषेधं शास्ति तज्ज्ञापयत्याचार्यो न गुणाभिनिर्वृत्तस्य वृद्धिर्भवतीति ।। किं पुनरयं पर्युदासो ‐ यदन्यद्विचिण्णल्ङिभ्द्य इति, आहोस्वित्प्रसज्याऽयं प्रतिषेधो ‐ विचिण्णल्ङित्सु नेत्ति ? ।। कश्चाऽत्र विशेषः ? प्रसज्य प्रतिषेधे जुसि गुणप्रतिषेधप्रसङ्गः उत्तमे च(2) णलि प्रसज्य प्रतिषेधे जुसि गुणप्रतिषेधः प्राप्नोति ‐ अजागरुः । । उत्तमे च णलि । । उत्तमेचणलि प्रतिषेधः प्राप्नोति ‐ अहं जजागर(3) न वाऽनन्तरस्य प्रतिषेधात् । न वैष दोषः ।। किं कारणम् ? ।। अनन्तरस्य प्रतिषेधात् । अनन्तरं यद्गुणविधानं(4) तस्य प्रतिषेधः ।। कुत एतत् ? ।। अनन्तरस्य विधिर्वा भवति प्रतिषेधो वेति । जुसि पूर्वेण गुणविधानम् जुसि पूर्वेण गुणो विधीयते जुसि चेति । णलि च (णलि(5) च ) । किम् ? ।। न वानन्तरस्य(6) प्रतिषेधादित्येव । णलि च पूर्वेण गुणो विधीयते ‐ सार्वधातुकार्धधातुकयोरिति ।। अथ वा पुनरस्तु पर्युदासः अतोऽन्यत्र विधाने वावगुणत्वम् अतोऽन्यत्र विधाने वावगुणत्वं वक्तव्यम् । जागृविः । न वा पर्युदाससार्मथ्यात् न वा वक्तव्यम् ।। किं कारणम् ? ।। (ठपर्युदाससार्मथ्यात्) । पर्युदाससार्मथ्यादत्र गुणो न भविष्यति ।। अस्त्यन्यत्पर्युदासे प्रयोजनम् ।। किम् ? ।। क्विबर्थं पर्युदासः स्यात् । शुद्धपरस्य विशब्दस्य प्रतिषेधेग्रहणम्, अनुनासिकपरश्च क्वौ विशब्दः ।। वस्वर्थन्तर्हि पर्युदासः स्यात् जागृवांसो अनुग्मन् ।। कथं पुनर्वेः पर्युदास उच्यमानो वस्वर्थः(2) शक्यो विज्ञातुम् ? ।। सार्मथ्याद्वस्वर्थमिति विज्ञास्येत । वस्वर्थमिति चेन्न सार्वधातुकत्वात्सिद्धम् वस्वर्थमिति चेत्तन्न ।। किं कारणम् ? ।। सार्वधातुकत्वात्सिद्धम् । ( सार्वधातुकत्वात्सिद्धमेतत् ) ।। कथं सार्वधातुकसंज्ञा ? ।। छान्दसः क्वसुः, लिट्च छन्दसि सार्वधातुकमपि भवति । तत्र सार्वधातुकमपिन्डिदिति ङित्त्वात्पर्युदासो भविष्यति ।। अथ वा वकारस्यैवेदमशक्तिजेनेकारेण ग्रहणम् ।। ( जाग्रोऽविचिण्णल्ङित्सु ) ।।