Page loading... Please wait.
7|3|84 - सार्वधातुकार्धधातुकयोः
॥ तस्मै पाणिनये नमः ॥
7|3|84
SK 2168
सार्वधातुकार्धधातुकयोः   🔊
सूत्रच्छेदः
सार्वधातुक-आर्धधातुकयोः (सप्तमीद्विवचनम्)
अनुवृत्तिः
गुणः  7|3|82 (प्रथमैकवचनम्)
अधिकारः
अङ्गस्य  6|4|1
सम्पूर्णसूत्रम्
सार्वधातुक-आर्धधातुकयोः अङ्गस्य गुणः
सूत्रार्थः
सार्वधातुके आर्धधातुके च प्रत्यये परे अङ्गस्य गुणादेशः भवति ।
धातोः विहिताः प्रत्ययाः "सार्वधातुक" तथा "आर्धधातुक" अनेन प्रकारेण विभाजिताः सन्ति । एतेषां सर्वेषाम् विषये अनेन सूत्रेण अङ्गस्य गुणादेशः भवति ।

गुणादेशः इत्युक्ते "गुण"संज्ञकस्य वर्णस्य आदेशः । अदेङ् गुणः 1|1|2 इत्यनेन अकार-एकार-ओकाराणाम् "गुण"संज्ञा भवति । अतः एतेषु स्थानिनः यः अन्तरतमः स एव आदेशरूपेण आगच्छति ।

इको गुणवृद्धी 1|3|3 इत्यनेन अङ्गस्य अन्तिम-इक्-वर्णस्यैव अयम् गुणादेशः भवति । अतः अकारान्तानाम् एजन्तानाम् च अङ्गानाम् विषये अस्य सूत्रस्य प्रसक्तिः नास्ति ।

उदाहरणे एते -

1. नी + तृच् [ण्वुलतृचौ 3|1|133 इत्यनेन तृच्-प्रत्ययः । आर्धधातुकं शेषः 3|4|114 इति अयम् आर्धधातुकसंज्ञां प्राप्नोति ]
→ ने + तृ [आर्धधातुके प्रत्यये परे सार्वधातुकार्धधातुकयोः 7|3|84 इत्यनेन अङ्गस्य गुणादेशः भवति । स्थानसाधर्म्यात् इकारस्य गुणादेशरूपेण एकारः विधीयते ]

2. भू-धातोः लट्-लकारस्य प्रथमपुरुषैकवचनस्य प्रक्रिया इयम् -
भू + लट् [वर्तमाने लट् 3|2|123 इति लट्]
→ भू + तिप् [तिप्तस्.. 3|4|78 इति तिप्]
→ भू + शप् + ति [कर्तरि शप् इति सार्वधातुके प्रत्यये परे औत्सर्गिकः विकरणप्रत्ययः शप्]
→ भो + अ + ति [शप् इत्यस्मिन् सार्वधातुके प्रत्यये परे सार्वधातुकार्धधातुकयोः 7|3|84 इति अङ्गस्य गुणादेशः । ऊकारस्य गुणः तादृशः एव ओष्ठ्यः ओकारः]
→ भवति [एचोऽयवायावः 6|1|78 इति ओकारस्य अव्-आदेशः]

ज्ञातव्यम् - यदि कश्चन प्रत्ययः ङित् / गित् / कित् अस्ति, तर्हि अस्मिन प्रत्यये परे सार्वधातुकार्धधातुकयोः 7|3|84 इत्यनेन निर्दिष्टः गुणादेशः क्ङिति च 1|1|5 इत्यनेन निषिध्यते । यथा, भू + क्त = भूत । अत्र यद्यपि क्त-प्रत्ययः आर्धधातुकः अस्ति, तथापि अयम् कित्-प्रत्ययः अस्ति, अतः अत्र उकारस्य गुणः न विधीयते ।
One-line meaning in English
When followed by an सार्वधातुक or an आर्धधातुक प्रत्यय, the अङ्ग gets a गुणादेश.
काशिकावृत्तिः
सार्वधातुके आर्धधातुके च प्रत्यये परतः इगन्तस्य अङ्गस्य गुणो भवति। तरति। नयति। भवति। आर्धधातुके कर्ता। चेता। स्तोता। सार्वधातुकार्धधातुकयोः इति किम्? अग्नित्वम्। अग्निकाम्यति। यदि हि प्रत्यये सङि इति वा उच्येत, इह अपि स्यात्।
`चेता, स्तेता` इति। तृच्। `ऋदुशनस्पुरोदंसोऽनेहसाञ्च` 7|1|94 इत्यनङ्, `सर्वनामस्थाने` 6|4|8 इत्यादिना दीर्घः। `सार्वधातुकार्धधातुकयोरिति किम्`? इति। एवं मन्यते--प्रत्यय इति वक्तव्यम्, सङीति वा, एवं ह्रुच्यमाने भवतीत्यादौ गुणः सिद्ध एव, सङीति प्रत्याहारग्रहणं सनः सकारादारभ्य महिङो ङकारेण। `अग्नित्वम्` इति। `तस्य भावस्त्वतलौ` 5|1|118 इति त्वप्रत्ययः। `अग्निकाम्यति` इति। `काम्यच्च` 3|1|9 इति काम्यच्। `यदि इत्यादि। यदि प्रत्यय इत्युच्येत, त्वाकाम्यचोरपि स्यात्। अथापि सङीत्युच्येत, काम्यचि स्यात्; तस्यापि प्रत्याहरेऽन्तर्भावात्॥
सार्वधातुकार्धधातुकयोरिति किमिति । एवं मन्यतेप्रत्यय इति वक्तव्यम्, एवमपि हीष्टे विषये सिद्ध्यतीति । सङिति प्रत्याहारः; सनः सशब्दादाहरभ्या महिङे ङ्कारात् । अग्नित्वमिति । प्रत्यय इत्युच्यमाने, अत्रापि प्राप्नोति । अग्निकाम्यतीति । सङीत्युच्यमाने अत्रापि प्राप्नोति ॥
सिद्धान्तकौमुदी
अनयोः परयोरिगन्ताङ्गस्य गुणः स्यात् । अवादेशः । भवति । भवतः ॥
सार्वधातुकार्धधातुकयोः - भू-अ-ति-इति स्थिते — सार्वधातुकाद्र्ध । "इको गुणवृद्धी" इति परिभाषया "इक" इत्युपस्थितेन अङ्गस्येत्यधिकृतं विशेष्यते । तदन्तविधिः । "मिदेर्गुण" इत्यस्माद्गुण इत्यनुवर्तते । तदाह — अनयोरित्यादिना । तथा च ऊकारस्य गुण ओकारः । अवादेश इति ।ओकारस्येटति शेषः । तथा च परिनिष्ठितं रूपमाह — भवतीति । भवत इति । कर्तृद्वित्वविवक्षायां भूधातोर्लस्तसादेशे च कृते — झोऽन्तः ।
Text Unavailable. Please use feedback link below to provide the text if you have.
लघुसिद्धान्तकौमुदी
अनयोः परयोरिगन्ताङ्गस्य गुणः। अवादेशः। भवति। भवतः॥
महाभाष्यम्
Text Unavailable. Please use feedback link below to provide the text if you have.