Page loading... Please wait.
7|3|78 - पाघ्राध्मास्थाम्नादाण्दृश्यर्त्तिसर्त्तिशदसदां पिबजिघ्रधमतिष्ठमनयच्छपश्यर्च्छधौशीयसीदाः
॥ तस्मै पाणिनये नमः ॥
7|3|78
SK 2360
पाघ्राध्मास्थाम्नादाण्दृश्यर्त्तिसर्त्तिशदसदां पिबजिघ्रधमतिष्ठमनयच्छपश्यर्च्छधौशीयसीदाः   🔊
सूत्रच्छेदः
पाघ्राध्मास्थाम्नादाण्दृश्यर्त्तिसर्त्तिशदसदाम् (षष्ठीबहुवचनम्) , पिबजिघ्रधमतिष्ठमनयच्छपश्यर्च्छधौशीयसीदाः (प्रथमाबहुवचनम्)
अनुवृत्तिः
-
अधिकारः
अङ्गस्य  6|4|1
सम्पूर्णसूत्रम्
Will be updated soon
सूत्रार्थः
Will be updated soon.
One-line meaning in English
Will be updated soon.
काशिकावृत्तिः
प घ्रा ध्मा स्था म्ना दाण् दृशि अर्ति सर्ति शद सद इत्येतेषां पिब जिघ्र धम तिष्थ मन यच्छ पश्य ऋच्छ धौ शीय सीद इत्येते आदेशा भवन्ति शिति परतः। पा पिबति। घ्रा जिघ्रति। ध्मा धमति। स्था तिष्थति। मना मनति। दाण् यच्छति। दृशि पश्यति। अर्ति ऋच्छति। सर्ति धावति। शद शीयते। सद सीदति। पिबतेर् लघूपधगुणः प्राप्नोति, सः अङ्गवृत्ते पुनर् वृत्तावविधिर्निष्ठितस्य इति न भवति। अथ वा अकारान्तो ऽयम् आदेशः आद्युदात्तो निपात्यते। सर्तेर्वेगितायां गतौ धावादेशम् इच्छन्ति। अन्यत्र सरति, अनुसरति इत्येव भवति।
`पा पाने` (धातुपाठः-925), `घ्रा गन्धोपादाने` (धातुपाठः-926) `ध्मा शब्दाग्निसंयोगयोः` (धातुपाठः-927), `ष्ठा गतिनिवृत्तौ` (धातुपाठः-928), `म्ना अभ्यासे` (धातुपाठः-929), `दाण्? दाने` (धातुपाठः-930), `दृशिर प्रेक्षणे` (धातुपाठः-988); `ऋ गतिप्रापणयोः, (धातुपाठः-936), `ऋ सृ गतौ च` (धातुपाठः-1298,1099); `शद्लृ शातने` (धातुपाठः-1428), `षद्लृ वशरणे` (धातुपाठः-1427) तौदादकः, `षद्लृ? विशरणगत्यवसादनेषु` (धातुपाठः-854) भौवादिकः--एषां धातूनां स्थाने यथासंक्यं पिबादय आदेशा भवन्ति। ननु च द्वौ सदी, तत्र वैषम्याद्यथासंख्यं न प्राप्नोति? नैष दोषः; एक एव हि सदिर्विकरणद्वयार्थ द्वियपदिश्यते। `शीयते` इति। `शदेः शितः` 1|3|60 इत्यात्मनेपदम्।`अथ वा` इत्यादि। `पिबतेर्लघूपघगुणः प्राप्नोति` इत्यत्र परिहारान्तरम्। यद्याद्यदात्तो न निपात्येत, ततो धातुस्वरेणान्तोदात्तत्वे सति `एकादेश उदात्तेनोदात्तः` 8|2|5 इति शपा सहैकदेशे सति `अतो गुणे` 6|1|94 पररूपत्वे उदात्ते कृते पिबतीति मध्योदात्तं पदं स्यात्, आद्युदात्तञ्चेष्यते, तस्मादाद्युदात्तो निपात्यते। स निपातनस्वरो धातुस्वरसय बाधको यथा स्यात्। `सर्त्तः` इत्यादि। वेगः=जवः; स यस्यास्ति स वेगी, तस्य भावो वेगिता, तस्यां गतौ सत्र्तेर्धावादेशमिच्छन्ति। स च `लुग्वा दुहदिह` 7|3|73 इत्यादेः सूत्राद्वाग्रहणानुवृत्तेष्र्यवस्थितविभाषात्वाल्लम्यत इति वेदितव्यम्। अर्त्तिसत्र्तीति शितपा निर्देशो धातुनिर्देशार्थ एव, न यङ्लुग्निवृत्त्यर्थः। न हि यङलुकि शित्परः सम्भवति; अदादत्वत्? ततो विहितस्य शपो लुग्वधानात्। `बहुलं छन्दसि` 2|4|73 इति शपो लग्न भविष्यतीति चेत्? न, छन्दस यथादृष्टानुविधानात्। अर्त्तिप्रभृतेश्छब्दसि यङ्लुकि शबन्तस्य प्रयोगादर्शनात्॥
ठ्पा पानेऽ । ठ्पा रक्षणेऽ इत्यस्य तु ग्रहणं न भवति; लुग्विकरणत्वात् शितश्चासम्भवात् । ठ्घ्रा गन्धोपादानेऽ, ठ्ध्मा शब्दाग्निसंयोगयोःऽ, ठ्ष्ठा गतिनिवृतौऽ, ठ्म्ना अभ्यासेऽ, ठ्दाण् दानेऽ, ठ्दृशिर प्रेक्षणेऽ, ठृगतिप्रापणयोःऽ, ठ्सृगतौऽ, भौवादिकौ । ठृ सृ गतौऽ इति जौहोत्यादिकयोस्तु ग्रहणं न भवति; शितोऽसम्भवात् । नन्वेशः सम्भव इति चेत् ? उक्तमत्र---ठ्वर्णे यत्स्यातच्च विद्यातदादौऽ इति । शितीति हि कर्मधारयः---शश्चासाविच्चेति । ठ्शद्लृ शातनेऽ भूवादिः, ठ्शद्लृ विशरणेऽ तुदादिः, ठ्षद्लृविशरणगत्यवसादनेषुऽ । आद्यौदातो निपात्यत इति । यदि न निपात्येत, ततः ठ्धातोःऽ इत्यन्तोदातत्वे सति शपा सहैकादेशे कृते ठेकादेश उदातेनोदातःऽ इति पिबतीति पदं मध्योदातमापद्येत, आद्यौदातं चेष्यते । वेगितायामिति । सञ्जातवेगयायामित्यर्थः । यद्वा---वेगिनो भावो वेगिता, तस्यां च सत्यां गतौ वर्तमानस्येत्यर्थः ॥
सिद्धान्तकौमुदी
पादीनां पिबादयः स्युरित्संज्ञकसकारादौ प्रत्यये परे । सीदति । ससाद । सेदतुः । सेदिथ । ससत्थ । सत्ता । सत्स्यति । लृदित्वादङ् । असदत् । सदिरप्रतेः (कौमुदी-2271) । निषीदति । न्यषीदत् ॥
पाघ्राध्मास्थाम्नादाण्दृश्यर्त्तिसर्त्तिशदसदां पिबजिघ्रधमतिष्ठमनयच्छपश्यर्च्छधौशीयसीदाः - लटि शपि सद् अ ति इति स्थिते — -पाघ्राध्मा । पा घ्रा ध्मा स्था म्ना दाण् दृशि अर्ति सर्ति शद् सद् एषां द्वन्द्वात् षष्ठीबहुवचनम् । पिब जिघ्र धम तिष्ठ मन यच्छ पश्य ऋच्छ धौ शीय सीद एषां द्वन्द्वात् प्रथमाबहुवचनम् । यथासङ्ख्यमादेशाः ।ष्ठिवुक्लमु॑इत्यतः शितीत्यनुवर्तते । श् चासौ इच्चेति कर्मधारयः ।अङ्गाक्षिप्तप्रत्ययविशेषणत्वात्तदादिविधिः । तदाह — इत्संज्ञकेति । ससादेरिति । इत्संज्ञकशकारादिप्रत्ययाऽभावान्न सीदादेशः । श् इत् यस्य स शित् । शितीति बहुव्रीह्राश्रयणे तु पाधातोः कर्मणि लिटि एशि आल्लोपे "पपे" इत्यत्रापि पिबादेशः स्यादिति बोध्यम् । थलि क्रादिनियमप्राप्तस्य इटः "उपदेशेऽत्त्वतः" इति निषेधेऽपि भारद्वाजनियमाद्वेट् । तत्र इट्पक्षे "थलि च सेटी" त्येत्त्वाभ्यासलोपौ । तदाह — सेदिथ ससत्थेति । सेदिव सेदिम । क्रादिनियमादिट् । न्यषीददिति ।प्राक्सितादड्व्यवायेऽपि॑ति षत्वम् ।
पाघ्राध्मास्थाम्नादाण्दृश्यर्त्तिसर्त्तिशदसदां पिबजिघ्रधमतिष्ठमनयच्छपश्यर्च्छधौशीयसीदाः - पाघ्राध्मा । पा पाने । पा रक्षणे इति तु न गृह्रते, लुग्विकरणत्वात् ।द्रष्ट्रि॑ इति केषांचित्पाठस्तत्रसृजिदृशो॑रित्यम् । अर्तीत्यादौ ऋच्छादेशाद्यभाव इव सौत्रत्वात्पश्यादेशाऽभाव इति बोध्यम् ।दृश्यत्र्ती॑ति पाठस्तु निर्दुष्ट एव । पादीनामिति । एकादशानामेषां यथासङ्ख्यमेकादश- पिबाद्यादेशाः स्युरित्यर्थः ।ष्ठिवुक्लमुचमा॑मित्यतः शितीत्यनुवर्तते । स च कर्मधारय इत्यभिप्रेत्याह — इत्संज्ञकशकारादाविति । शकारादाविति किम् । पपे । जिघ्रे । दध्मे । शितीति बहुव्रीहिरित्यभ्युपगमे त्विह पिबाद्यादेशाः स्युरेव ।
लघुसिद्धान्तकौमुदी
पादीनां पिबादयः स्युरित्संज्ञकशकारादौ प्रत्यये परे। पिबादेशोऽदन्तस्तेन न गुणः। पिबति॥
महाभाष्यम्
पाघ्राध्मास्थाम्नाण्दृश्यर्तिसर्तिशदसदां पिबजिघ्रधमतिष्ठमनयच्छर्पश्यच्छधौशीयसीदाः पिबेर्गुणप्रतिषेधः पिबेर्गुणप्रतिषेधो वक्तव्यः, पिबति ‐ लघूपधगुणः प्राप्नोति । स तर्हि प्रतिषेधो वक्तव्यः ? ।। न वक्तव्यः ।। गुणः(1) कस्मान्न भवति ? ।। पिबतिरदन्तः(2) । अदन्त इति चेदुक्तम् किमुक्तम् । धातोरन्त इति चेदनुदात्ते च ‐ बग्रहणमिति । अथ वाऽङ्गवृत्ते पुनर्वृत्ताबविधिर्निष्ठितस्येत्येवं न भविष्यति ।। ( पाघ्राध्मास्थाम्ना ) ।।