Page loading... Please wait.
7|3|74 - शमामष्टानां दीर्घः श्यनि
॥ तस्मै पाणिनये नमः ॥
7|3|74
SK 2519
शमामष्टानां दीर्घः श्यनि   🔊
सूत्रच्छेदः
शमाम् (षष्ठीबहुवचनम्) , अष्टानाम् (षष्ठीबहुवचनम्) , दीर्घः (प्रथमैकवचनम्) , श्यनि (सप्तम्येकवचनम्)
अनुवृत्तिः
-
अधिकारः
अङ्गस्य  6|4|1
सम्पूर्णसूत्रम्
Will be updated soon
सूत्रार्थः
Will be updated soon.
One-line meaning in English
Will be updated soon.
काशिकावृत्तिः
शमादीनाम् अष्टानां दीर्घो भवति श्यनि परतः। शम् शाम्यति। तम् ताम्यति। दम् दाम्यति। भ्रम् भ्राम्यति। क्षम् क्षाम्यति। क्लम् क्लाम्यति। मदी माद्यति। अष्टानाम् इति किम्? अस्यति। श्यनि इति किम्? भ्रमति। वा भ्राश इति श्यनो विकल्पः। बभ्राम।
बहुवचननिर्देशादष्टग्रहणाच्चाद्यर्थो गम्यत इत्याह--`शमादीनाम्` इत्यादि। `शमु उपशमे (धातुपाठः-1201), `तमु काङ्क्षायाम्` (धातुपाठः-1202), `दमु उपशमे` (धातुपाठः-1203), `श्रमु तपसि खेदे च` (धातुपाठः-1204) `क्षमु सहने` (धातुपाठः-1206), `भ्रमु अनवस्थाने` (धातुपाठः-1205), `क्लमु ग्लानौ` (धातुपाठः-1207), `मदी हर्षे` (धातुपाठः-1208)--इत्येतेऽष्टौ शमादयः। `अस्यति` इति। `असु क्षेपणे` (धातुपाठः-1209)। अष्टाभ्यः परेणायं पठते। `भ्रमति` इति। `वा भ्राश` 3|1|70 इत्यादिना श्यन्? यस्मिन्? पक्षे नास्ति तत्रेदं प्रत्युदाहरणम्। श्यन्ग्रहणं स्पष्टार्थम्। शक्यते हि `ओतः श्यनि` 7|3|71 इति यत्? प्रकृतं शन्ग्रहणं तल्लुग्ग्रणेव व्यवहितमपि मण्डूकप्लतिन्यायेनेहानुवत्र्तयितुम्॥
शमुस्तमुः श्रमुदम् भ्रमुक्षमुमदल्कमः । शमादयोऽमी पठिता दिवादिष्वष्ट कृष्टिभिः ॥
सिद्धान्तकौमुदी
शमादीनामित्यर्थः । प्रणिशाम्यति । शेमतुः । शेमिथ । शमिता । अशमत् । 1202 तमु काङ्क्षायाम् । ताम्यति । तमिता । अतमत् । 1203 दमु उपशमे । उपशम इति ण्यन्तस्य । तेन सकर्मकोऽयम्‌ । न तु शमिवदकर्मकः । अदमत्‌ । 1204 श्रमु तपसि खेदे च । श्राम्यति । अश्रमत् । 1205 भ्रमु अनवस्थाने । वा भ्राश--(कौमुदी-2321) इति श्यन्वा । तत्र कृते शमामष्टानाम्--(कौमुदी-2519) इति दीर्घः । भ्राम्यति । लुङ्यङ् । अभ्रमत् । शेषं भ्वादिवत् । 1206 क्षमू सहने । क्षाम्यति । चक्षमिथ । चक्षन्थ । चक्षमिव । चक्षण्व । चक्षमिम । चक्षण्म । क्षमिता । क्षन्ता । अयमवित् । भ्वादिस्तु षित् । अषितः क्षाम्यति क्षान्तिः क्षमूषः क्षमते क्षमा । 1207 क्लमु ग्लानौ । क्लाम्यति । क्लामति । शपीव श्यन्यपि ष्ठिवुक्लमु---(कौमुदी-2320) इत्येव दीर्घे सिद्धे शमादिपाठो घिनुणर्थः । अङ् । अक्लमत् । 1208 मदी हर्षे । माद्यति । अमदत् । शमादयोऽष्टौ गताः ॥ । 1210 असु क्षेपणे । अस्यति । आस । असिता ॥
शमामष्टानां दीर्घः श्यनि - शमामष्टानाम् । स्पष्टम् । बहुवचनाच्छमादिग्रहणम् । तदाह — शमादीनामिति ।शमस्तमुर्दमुरथ श्रमुभ्र्रमुरपि क्षमुः । क्लमुर्मदी चेत्येतेऽष्टौ शमादय इति स्थितिः ।॑ दमु उपशमे इति । ननु "शमु यमु उपशमे" इत्येव पठितुं युक्तमित्यत आह — उपशम इति ण्यन्तस्येति । शमधातोर्हेतुमण्ण्यन्ताद्धञिनोदात्तोपदेशस्ये॑ति वृद्ध्यभाव इत्यर्थः । ततः किमित्यत आह — तेनेति । ततश्च् दाम्यतीत्यस्य शमयतीत्यर्थः । शेषं भ्वादिवदिति । आद्र्धातुकेषु शप्पक्षे च भ्वादिवदित्यर्थः । क्षमु सहने । ऊदित्त्वात्थलि वमादौ च इड्विकल्पः । तदाह — - चक्षमितेत्यादि । षित्त्वाऽषित्त्वयोः फलभेदं श्लोकार्द्धेन संगृह्णाति — अषित इति । अषितः क्षाम्यतेः — श्यन्विकरणपठितस्य क्षमधातोः क्तिनि क्षानतिरिति रूपम् । अषित्त्वात् "षिद्भिदादिभ्यः" इत्यङ्नाक्,मूषस्तु भौवादिकात् षित आत्मनेपदे शपि क्षपि परे इव श्यनि परेऽपि दीर्घसिद्धेः । न चष्ठिवुक्लमुचमांशिती॑त्यत्रैव क्लमुग्रहणं त्यज्यतामितिवाच्यं, शपि दीर्घार्थं तस्यावश्यकत्वादित्यशङ्क्य परिहरति — शपीव श्यन्यपीत्यादि, घिनुणर्थ इत्यन्तम् ।शमित्यष्टाभ्यो घिनु॑णिति विधानादिति भावः । शमादय इति । "शमु उपशमे" इत्यारभ्य "मदी हर्षे" इत्यन्ता अष्टौ शमादयो वृत्ता इत्यर्थः । असु क्षेपणे ।
शमामष्टानां दीर्घः श्यनि - भ्रमु अनवस्थाने । शेषमिति । श्यनि दीर्घो लुङि अङ च विशेष उक्तस्ततोऽन्यदित्यर्थः । चक्षण्वेति ।म्वोश्चे॑ति मस्य नत्वे कृते णत्वम् । शमादिपाठ इति ।॒शमित्यष्टाभ्यो घिनुण् । शमादय इति । शमुतमुदमुश्रमुभ्रमुक्षमुक्लमुमद इत्यर्थः ।
लघुसिद्धान्तकौमुदी
-
महाभाष्यम्
Text Unavailable. Please use feedback link below to provide the text if you have.