Page loading... Please wait.
7|3|71 - ओतः श्यनि
॥ तस्मै पाणिनये नमः ॥
7|3|71
SK 2510
ओतः श्यनि   🔊
सूत्रच्छेदः
ओतः (षष्ठ्येकवचनम्) , श्यनि (सप्तम्येकवचनम्)
अनुवृत्तिः
-
अधिकारः
अङ्गस्य  6|4|1
सम्पूर्णसूत्रम्
Will be updated soon
सूत्रार्थः
Will be updated soon.
One-line meaning in English
Will be updated soon.
काशिकावृत्तिः
ओकारान्तस्य अङ्गस्य श्यनि परतो लोपो भवति। शो निश्यति। छो अवछ्यति। द्यो अवद्यति। सो अवस्यति।
`निश्यति` इत्यादि। `शो तनूकरणे` (धातुपाठः-1145), `छो छेदने`[`नास्त्ययं धातुः`--मुद्रितग्रन्थे] (धातुपाठः-1146) `दो अवखण्डने` (धातुपाठः-1148) `षो अन्तकर्मणि` (धातुपाठः-1147)। अथ किमर्थं इयनीत्युच्यते, न `शिति` इत्येवोच्येत, एवं ह्रुच्यमाने श्यन्येव लोपो भविष्यति, न ह्रोकारान्ताच्छ्यनोऽन्यच्छित्? सम्भवति, लघु चैवं सूत्रं भवति, तत्रायमप्यर्थः--`ष्ठिवुक्लमुचमां शिति` 7|3|75 इत्यत्र शिद्ग्रहणं न कत्र्तव्यं भवतीत्येतदेव तत्रानुवर्त्तिष्यते? सत्यं सिध्यत्येव, किन्तु प्रतिपत्तिगौरवं स्यात्। तस्मात्? प्रतिपत्तिगौरवपरीहारार्थं श्यनीत्युक्तम्। `ओतः` इति। तपरकरणं मुखसुखार्थम्। न ह्रन्यदस्य निवर्त्त्यं विधेयं वा सम्भवति॥
श्यतीत्यादि। ठ्शो तनूकरणेऽ, ठ्छाए छेदनेऽ, ठ्दो अवखण्डनेऽ, ठ्षो अन्तकर्मणिऽ । इहि ठोतः शितिऽ इति वक्तव्यम्, न च ओकारान्तानां श्यनोऽन्यः शित् सम्भवति, अर्धमात्रया च लाघवं भवति; तत्रायमप्यर्थः---ठ्ष्ठिवुल्कमुचमां शितिऽ इति शिद्ग्रहणं न कर्तव्यं भवति, इदमेवानुवर्तिष्यते । ननु श्यन्ग्रहणमुतरार्थं कर्तव्यम्---ठ्शमामष्टानाम्ऽ इति ? तत्राप्यस्तु शितीत्येव; यदि शितीत्युच्यते, भ्रमे ठ्वा भ्राशऽ इति पक्षे शब् भ्रमति---अत्रापि प्राप्नोति ? शमादिभिः शितं विशेषयिष्यामः---शमादिभ्यो यो विहितः शिदिति, श्यन्नेव च सर्वेभ्यः शमादिभ्यो विहितः, एवमपि शिद्विशेषणत्वेन शमादीनामुपयोगात्कार्यनिर्द्देशाभावात् नश्यतीत्यादावपि प्रसङ्गः ? नैष दोषः; ठष्टानाम्ऽ इत्यनेन संख्येयाः कार्यिणो निर्दिश्यन्ते, ते च सन्निधानात् शमादय एव विज्ञास्यन्ते ॥
सिद्धान्तकौमुदी
लोपः स्यात् । श्यनि । श्यति । श्यतः । श्यन्ति । शशौ । शशतुः । शाता । शास्यति । विभाषा घ्राधेट्--(कौमुदी-2376) इतीट्सकौ । अशात् । अशाताम् । अशुः । अशासीत् । अशासिष्टाम् । 1146 छो छदने । छयति । 1147 षो ऽन्तकर्मणि । स्यति । ससौ । अभिष्यति । अभ्यष्यत् । अभिससौ । 1148 दो अवखण्डने । द्यति । ददौ । प्रणिदाता । देयात् । अदात् ॥ अथात्मनेपदिनः पञ्चदश ॥ 1149 जनी प्रदुर्भावे
ओतः श्यनि - ओतः श्यनि ।घोर्लोपो लेटि वे॑त्यतो लोप इत्यनुवर्तते इत्यभिप्रेत्य शेषं पूरयति — लोपः स्यादिति । शशाविति । "आदेच" इत्यात्त्वे णल औत्त्वमिति भावः । शशतुरिति । शशिथ — शशाथ । शशिव.शास्यतीति । श्यतु । अश्यत् । श्येत् । शायात् । लुङि सिचि विशेषमाह — विभाषा घ्रेति । सिचो लुक्पक्षे आह — अशादिति । "आतःर" इति जुसिति मत्वा आह — अशुरिति । सिचो लुगभावे सगिटौ मत्वा आह — अशासीदिति । छोदातुरपि शोधातुवत् । षो अन्तकर्मणीति । समापने विनाशने वेत्यर्थः । शोधातुवद्रूपाणि । षोपदेशोऽयम् । स्यतीति ।ओतः श्यनी॑ति लोपः । अभिष्यतीति ।उपसर्गा॑दिति षत्वम् । अभ्यष्यदिति ।प्राक्सिता॑दिति षत्वम् । अभिससाविति ।स्थादिष्वि॑ति नियमान्न षः । दो अवखण्डने । प्रणिदातेति ।नेर्गदे॑ति णत्म् । देयादिति । आशीर्लिङिएर्लिङी॑त्येत्त्वम् । अदादिति ।गातिस्थे॑ति सिचो लुक् । अथात्मनेपदिन इति । "वाशृ शब्दे" इत्यन्ता इत्यर्थः । जनी प्रादुर्भावे इति ।आईदितो निष्ठाया॑मित्याद्यर्थमीदित्त्वम् ।
ओतः श्यनि - षोऽन्त । अन्तक्रम — नाशनम् ।राघव !स्य शरैर्गोरैर्घोरं रावणमाहवे॑ इति । राघवेति संबुद्ध्यन्तम् । स्येति लोण्मध्यमैकवचनम् । अभिष्यतीति ।उपसर्गात्सुनोती॑ति षत्वम् । अभ्यष्यदिति ।प्राक्सितादड्व्यवायेऽपी॑ति षत्वम् । अभिससाविति ।स्थादिषु॑ इति नियमान्न षत्वम् । दो अवखण्डने । अवेत्युपसर्गप्रयोगो वैचित्र्यार्थः, खण्डने इत्येतावत्युक्तेऽपीष्टसिद्धेः । प्रणिदातेति ।नेर्गदे॑ति णत्वम् । देयादिति ।एर्लिङी॑त्येत्त्वम् । अदादिति ।गातिस्थे॑ति सिचो लुक् ।
लघुसिद्धान्तकौमुदी
लोपः स्यात्। श्यति। श्यतः। श्यन्ति। शशौ। शशतुः। शाता। शास्यति॥
महाभाष्यम्
ओतः श्यनि ओतः शिति ओतः शितीति वक्तव्यम् ।। किं प्रयोजनम् ? ।। उत्तरत्र शिद्ग्रहणाऽभावाय तत्रायमप्यर्थः ष्ठिबुक्लमुचमां शितीति शिद्ग्रहणं न कर्तव्यं भवति ।। ननु च भोः श्यन्ग्रहणमपि तर्ह्यत्तरार्थं कर्त्तव्यम् । शमामष्टानां दीर्घः श्यनीति श्यन्ग्रहणं न कर्तव्यं भवति ।। अत्राप्यस्तु ‐ शितीत्येव । यदि(4) शितीत्युच्यते अनुत्वेन्द्रो भ्रमतु मदतु ‐ अत्रापि प्राप्नोति।। शमादिभिरत्र शितं विशेषयिष्यामः ‐ -शमादीनां यः शिदिति ।। कश्च शमादीनां शित् ? ।। शमादिभ्यो यो विहितः ।। एवमपि तस्यति यस्यति ‐ अत्र प्राप्नोति ।। अष्टानामिति वचनान्न भविष्यति ।। ( ओतः )