Page loading... Please wait.
7|3|70 - घोर्लोपो लेटि वा
॥ तस्मै पाणिनये नमः ॥
7|3|70
SK 3584
घोर्लोपो लेटि वा   🔊
सूत्रच्छेदः
घोः (षष्ठ्येकवचनम्) , लोपः (प्रथमैकवचनम्) , लेटि (सप्तम्येकवचनम्) , वा (अव्ययम्)
अनुवृत्तिः
-
अधिकारः
अङ्गस्य  6|4|1
सम्पूर्णसूत्रम्
Will be updated soon
सूत्रार्थः
Will be updated soon.
One-line meaning in English
Will be updated soon.
काशिकावृत्तिः
घुसंज्ञकानां लेटि परतो वा लोपो भवति। दधद्रत्नानि दाशुषे। सोमो ददद् गन्धर्वाय। न च भवति। यदग्निरग्नये ददात्। आडागमे सति लोपे ऽपि ददातिति सिद्धं भवति। तत्र वावचनं विस्पष्टार्थम्, एषा हि कस्यचिदाशङ्का स्यात्, ददातित्येव नित्ये प्राप्ते लोपः आरभ्य माणो बाधते एव एतद् रूपम् इति।
`ददन्` इति। `डुदाञ्? दाने` (धातुपाठः-1091), लिङर्थे लेट्? 3|4|97 , झेरन्तादेशः, 7|1|3 , `इतश्च लोपः परस्मैपदेषु` 3|4|97 इतीकारलोपः, `लेटोऽडाटौ` 3|4|94 इत्यट्, शप्, तस्य जुहोत्यादित्वात्? श्लुः `श्लौ` 6|1|10 इति द्विर्वचनम्, संयोगान्तलोपः, 8|2|23 `ङमो ह्यस्वावचि ङमुण्णित्यम्` 8|3|32 इति ङ्मुडागमः। `सोमोददद्गन्धर्वाय` इति। ददातेस्पिप्, शेषं पुर्ववत्। `यदग्निरग्नये ददात्` इति। ददा+आदिति स्थितेऽकः सवर्णे दीर्घत्वम्? 6|1|97 शेषं पूर्ववत्। यद्याडागमे [`यद्यडागमे`--प्रांउ।पाठः] कृते सत्यपि लोपे च ददादिति सिध्यति, किमर्थं तर्हि वेत्युच्यते? इत्याह--`तत्र` इत्यादि। स्यादेतत्--विस्ष्टार्थं तर्हि वाग्रहणणयुक्तम्; वदादित्यस्य रूपस्यासिदिंध प्रत्याशङ्काया अभावात्? इत्यत आह--`एषा हि` इत्यादि। सुबोधम्।
दधदिति । दधातेर्लेट्, तिप् ठितश्च लोपः परस्मैपदेषुऽ इतीकारलोपः । दाशुषे यजमानाय सत्नानि, दद्यादित्यर्थः । अन्ये त्वाहुः---दधदिति शत्रन्तमेतत्, दददिति दाञो रूपम् । वावचनं प्रत्याचिख्यासुराह---आडागमे सतीति । अस्त्वत्र लोपः; आटः श्रवणं भविष्यतीत्यर्थः । किमर्थ तर्हि वावचनम् ? इत्यत आह--तत्रेति । किमत्र विस्पष्टनीयम् ? अत आह---एषा हीति । अन्ये त्वाहुः--ज्ञापकार्थं वाग्रहणम्, एतज्ज्ञापयति---अनित्यमागमशासनमिति । अनित्यत्वे त्वाट।ल्सति ददादिति न स्यादिति तत्सिद्धये वाग्रहणं कर्तव्यमिति ॥
सिद्धान्तकौमुदी
दधद्रत्नानि दाशुपे (दध॒द्रत्ना॑नि दा॒शुपे॑) । सोमो ददद्गन्धर्वाय (सोमो॑ ददद्गन्ध॒र्वाय॑) । यदग्निरग्नय ददात् (यद॒ग्निर॒ग्नय॑ ददात्) ।
Text Unavailable. Please use feedback link below to provide the text if you have.
Text Unavailable. Please use feedback link below to provide the text if you have.
लघुसिद्धान्तकौमुदी
-
महाभाष्यम्
घोर्लोपो लेटि वा वेति शक्यमवक्तुम्(1) कस्मान्न भवति ‐ तदन्गिरन्गिये ददात् ? ।। अस्त्वत्र लोपः, आटः भविष्यति । तेनोभयं सिध्द्यति ‐ दधद्रत्नानि दाशुषे । दधाद्रत्नानि दाशुषे ।। ( घोर्लोपो लेटि वा )