Page loading... Please wait.
7|3|6 - न कर्मव्यतिहारे
॥ तस्मै पाणिनये नमः ॥
7|3|6
SK 3217
न कर्मव्यतिहारे   🔊
सूत्रच्छेदः
(अव्ययम्) , कर्मव्यतिहारे (सप्तम्येकवचनम्)
अनुवृत्तिः
-
अधिकारः
अङ्गस्य  6|4|1
सम्पूर्णसूत्रम्
Will be updated soon
सूत्रार्थः
Will be updated soon.
One-line meaning in English
Will be updated soon.
काशिकावृत्तिः
कर्मव्यतिहारे यदुक्तं तन् न भवति। प्रतिषेधागमयोरयं प्रतिषेधः। व्यावक्रोशी, व्यावलेखी, व्याववर्ती, व्यावहासी वर्तते। कर्मव्यतिहारे णच् स्त्रियाम् 3|3|43 इति णच्प्रययः, तदन्तात् णचः स्त्रियाम् अञ् 5|4|14
`यदुक्तम्` इति। वृद्धिप्रतिषेधः, ऐजागमश्च। `व्यावक्रोशो` [`व्याक्रोशी` इति मु। पाठः] इत्यादि। `क्रुश आह्वाने` [`आह्वाने रोदने च`--धातुपाठः-] (धातुपाठः-856), `लिख अक्षरविन्यासे` (दा।पा।1365), `चर्च अध्ययने` (धातुपाठः-1712) चुरादिः, `हसे हसने` (धातुपाठः-721)--एभ्यो व्यवपूर्वेभ्यो णच्, तदन्तादञ्। अत्र यथोक्ते कार्ये प्रतिषिद्धे वृद्धिरेव भवति, द्वौ प्रतिषेधो प्रकृत्यर्थं गमयत इति कृत्वा। `टिड्ढाणञ्` 4|1|15 इति ङीप्॥
कर्मव्यतिहारे यदुक्तमिति । यदस्मिन्प्रकरणे उक्तं तत्कर्मव्यतिहारे न भवतीत्यर्थः ॥
सिद्धान्तकौमुदी
अत्र ऐच् न स्यात् । व्यावक्रोशी । व्यावहासी ॥
Text Unavailable. Please use feedback link below to provide the text if you have.
न कर्मव्यतिहारे - ऐच् नेति ।न य्वाभ्या॑मिति प्राप्तस्य निषेधेनादिवृद्धिरेव । णचस्तद्धितत्वाऽभावेऽप्यञस्तद्धितत्वादिति भावः । कृद्ग्रहमपरिभाषया सोपसर्गधातोर्णजन्तत्वात्ततोऽञि तत्प्रयुक्तादिवृद्धिरुपसर्गस्येत्याशयेनोदाहरति — वयावक्रोशीति । क्रुश आह्वाने, हसे हसने ।स्यादेतत् — ॒स्त्रियां क्ति॑न्निति प्रकरण एवायं मज्विधेयः । एवंच स्त्रियामिति न कर्तव्यमिति लाघवमिति चेन्मैवम् । स्त्रियामित्यधिकारे वासरूपविधिनिषेधापत्तेः । इष्यते तु व्यावक्रुष्टिरिति । स्त्रियां क्तिन्नपि अपवादविषये क्वचिदिष्यते — व्यावचोरी । इहण्यासश्रन्थे॑ ति युच्प्राप्तः । व्यात्यक्षी । अत्रगुरोश्च हलः॑ इत्यकारप्रत्ययः प्राप्तः । क्वचिदकार एवेष्यते, न तु णच् । व्यतीक्षा, व्यतीहा । सैषा व्यवस्था न्यायतो दुर्लभाऽपि बाहुलकात्स्वीकार्या ।
लघुसिद्धान्तकौमुदी
-
महाभाष्यम्
Text Unavailable. Please use feedback link below to provide the text if you have.