Page loading... Please wait.
7|3|54 - हो हन्तेर्ञ्णिन्नेषु
॥ तस्मै पाणिनये नमः ॥
7|3|54
SK 358
हो हन्तेर्ञ्णिन्नेषु   🔊
सूत्रच्छेदः
हः (षष्ठ्येकवचनम्) , हन्तेः (षष्ठ्येकवचनम्) , ञ्णित्-नेषु (सप्तमीबहुवचनम्)
अनुवृत्तिः
कुः  7|3|52 (प्रथमैकवचनम्)
अधिकारः
अङ्गस्य  6|4|1
सम्पूर्णसूत्रम्
हन्तेः अङ्गस्य हः कुः ञ्णित्-नेषु
सूत्रार्थः
हन्-धातोः अङ्गस्य हकारस्य कुत्वम् भवति ञित्-प्रत्यये परे, णित्-प्रत्यये परे, नकारे परे ।
हन्-धातोः यः हकारः, तस्य (1) ञित्-प्रत्यये परे, (2) णित्-प्रत्यये परे, (3) नकारे परे कुत्वम् भवति । हकारस्य बाह्यप्रयत्नः संवार-नाद-घोष-महाप्राणः, अतः तादृशः कवर्गीयः घकारः हकारस्य स्थाने आगच्छति ।

क्रमेण उदाहरणानि पश्यामः -

1) ञिति परे -
हन्-धातोः घञ्-प्रत्ययान्तरूपस्य सिद्धिः एषा -
हन् + घञ् [भावे 3।3।18 इति घञ्]
→ घन् + अ [हो हन्तेर्ञ्णिन्नेषु 7|3|54 इत्यनेन ञित्-प्रत्यये परे हन्-इत्यस्य हकारस्य घकारादेशः ]
→ घत् + अ [हनस्तोऽचिण्णलोः 7|3|32 इति नकारस्य तकारः]
→ घात् + अ [अतः उपधायाः 7|2|116 इति उपधा-अकारस्य दीर्घः]
→ घात

2) णिति परे -
हन्-धातोः ण्वुल्-प्रत्ययान्तरूपस्य सिद्धिः एषा -
हन् + ण्वुल् [ण्वुल्तृचौ 3|1|133 इति ण्वुल् ]
→ घन् + अक [ युवोरनाकौ 7|1|1 इति अक-आदेशः]
→ घन् + अक [हो हन्तेर्ञ्णिन्नेषु 7|3|54 इत्यनेन णित्-प्रत्यये परे हन्-इत्यस्य हकारस्य घकारादेशः ]
→ घत् + अक [हनस्तोऽचिण्णलोः 7|3|32 इति नकारस्य तकारः]
→ घात् अक [अतः उपधायाः 7|2|116 इति उपधा-अकारस्य दीर्घः]
→ घातक

3) नकारे परे -
"वृत्रहन्" इति नकारान्तम् प्रातिपदिकम् अस्ति । तस्य द्वितीया-बहुवचनस्य प्रक्रिया इयम् -
वृत्रहन् + शस्
→ वृत्रह् न् + अस् [अल्लोपोऽनः 6|4|134 इत्यनेन भस्य उपधा-अकारस्य लोपः]
→ वृत्रघ् न् + अस् [हो हन्तेर्ञ्णिन्नेषु 7|3|54 इत्यनेन ञित्-प्रत्यये परे हन्-इत्यस्य हकारस्य घकारादेशः ]
→ वृत्रघ्नः
One-line meaning in English
The हकार of the verb हन् undergoes कुत्वम् in presence of (1) a ञित्-प्रत्यय, (2) a णित्-प्रत्यय, (3) a नकार.
काशिकावृत्तिः
हन्तेः हकारस्य कवर्गादेशो भवति ञिति णिति प्रत्यये परतः नकारे च। घातयति। घातकः। साभुघाती। घातंघातम्। घातो वर्तते। नकारे घ्नन्ति। घ्नन्तु। अघ्नन्। हः इति किम्? अलो ऽन्त्यस्य मा भूत्। हन्तेः इति किम्? प्रहारः। प्रहारकः। ञ्णित्प्रत्ययो हन्तेर् विशेषणम्, नकारो हकारस्य, नकारे ऽनन्तरस्य हन्तिहकारस्य इति। तच्चानन्तर्य श्रुतिकृतं सन्निपातकृतम् आश्रीयते। स्थानिवद्भावशास्त्रकृतं तु यदनानन्तर्यं तदविघातकम्, वचनसामर्थ्यात्। यद्यपि सर्वैरेव ञ्णिन्नैर्हन्तिहकारो विशिष्यते तथापि येन नाव्यवधानं तेन व्यवहिते ऽपि वचनप्रामाण्यातिति ञ्णिति धात्ववयवेन व्यवहिते ऽपि सति भवति। इह तु न भवति, हननम् इच्छति हननीयति, हननीयतेर् ण्वुल् हननीयकः इति।
`धातयति` इत्याद्युदाहरणानि `हनस्तोऽचिण्णलोः` 7|3|32 इत्यत्र व्युत्पादितानि। `ध्नन्ति` इति। लट्, झेरन्तादेशः, `गमहन` 6|4|98 इत्यादिनोपधालोपः। `ध्नन्तु` इति। लोट्। `अध्वन्` इति। लङ्, `इतश्च` 3|4|100 इतीकारलोपः।`प्रहारः, प्रहारकः` इति। हरतेर्घञ्णवुलौ। इह णिन्नग्रहणं हन्तिविशेषणं वा स्यात्--ञ्णिन्नकारपरस्य हन्तेर्यो हकार इति, हकारविशेषणंवा--ञ्णिन्नकारपरसय हकारस्येति स चेद्धन्तेरिति? तत्र यदि पूर्वकः पक्ष आश्रीयेत, ध्नन्त्यादौ न स्यात्, न ह्रत्र नकारपरो हन्तिः; अवयवेन समुदायस्य पौर्वापर्यानुपपत्तेः, अन्यस्य नकारस्याभावात्। अथेतरः पक्ष आश्रीयेत, न क्वचित्? स्यात्, न हि हकारस्य ञ्णिन्नकारपरता सम्भवति। असम्भवस्तु ध्नन्तत्यादावकारलोपस्य पूर्वविधौ स्थानिवद्भावे सत्यकारेण व्यवधानात्, घातयतीत्यादावपि हकारात्? परेण हन्त्यवयवेनानशब्देन व्यवधानात्। अथ वचनसामथ्र्याद्व्यवधानेऽपि कृत्वं स्यात्, एवमपि हननमिच्छतीति `सुप आत्मनः क्यच` 3|1|8 , `क्यचि च` 7|4|33 इतीत्त्वम्, क्यजन्ताण्णवुल्, `अतो लोपः` 6|4|48 इत्यकारलोपो हननीयक इत्यत्रापि स्यादिति यश्चोदयेत्, तं प्रति पक्षान्तरमाश्रित्याह--`ञ्णित्प्रत्ययोऽत्र हन्तेर्विशेषणम्` इत्याद। न हि सर्वेषां ञ्णिन्नकाराणां हन्त प्रति विशेषणत्वमुपपद्यते, नापि हकारं प्रति। तस्माद्यथासम्भवं किञ्चिदेव कस्यचिद्विशेषणम्। ञ्णित्प्रत्ययस्तु हन्तेः परतः उपपद्यते इति तस्यासौ विशेषणम्--ञ्णिति प्रत्यये परतोऽनन्तरस्य हन्तेरिति। नकारस्तु हन्तेर्विशेषणँ नोपपद्यते; पूर्वोक्तात्? कारणात्। इकारस्य तूपपद्यत इति तस्यैव विशेषणम्--नकारे परतोनन्तरस्य हन्तिहकारस्यानन्तर इति। अयं तु `तस्मिन्निति निर्दिष्टे पूर्वस्य` 1|1|65 इति निर्दिष्टग्रहणस्यानन्तर्यार्थत्वाल्लभ्यते। आनन्तर्याश्रयणे तु--हन्ता, हन्तुमित्यत्राप्यतिप्रसङ्गो निरस्तः। ननु चानन्तर्यमेव हकारस्य णकारेण न सम्भवति, अकारलोपस्य स्थानिवद्भावे सत्यकारेण व्यवधानात्? इत्यत आह--`तच्च` इत्यादि। `सन्निपातकृतम्` इति। श्रुतिकृतमित्यर्थः। ननु चाश्रितेऽपि सन्निपातकृतानन्तर्ये स्थानिवद्भावशास्त्रेण यत्? कृतमनानन्तर्यं तद्विहन्यादेव कुत्वम्? इत्यत आह--`स्थानिवद्भावशास्त्रकृतं तु` इत्यादि। किं कारणमविधातकम्? इत्याह--`वचनसामथ्र्यात्` इति। यदि स्थानिवद्भावशासतद्रकृतमनानन्तर्य व्यवधायकं बाधकं स्यान्नकारवचनमनर्थकं स्यात्; निरवकाशत्वात्। तस्माद्वचनसामथ्र्यान्न विघातकम्। `यद्यपि` इत्यादिना यौ द्वौ पक्षावुपन्यस्तौ, तत्र द्वितीये पक्षे यो दोषस्तस्य परीहारः। तत्र नकारेण हकारे विशेष्यमाणे यो दोषः स पूर्वमेव परिह्मतः। सम्प्रति तु ञ्णित्प्रत्ययेन हकारे विसेष्यमाणे यो दोषस्तं परिहरति। योऽयं हन्तेरवयवो हकारात्? परोऽकारादिर्नकारान्तः, तेन सर्वत्र ञ्णित्प्रत्ययस्य व्यवधानम्। अननीयशब्देन तु च्यवधानं सम्भवति, न सम्भवति च तत्र `येन नाव्यवधानं तेन व्यवहितेऽति वचनप्रामाण्यात्` (व्या।प।46) इति घातयतीत्यादौ कुत्वं भवति। येन त्वननीयशब्देन व्यवधानं न सम्भवति, सम्भवति च तेन व्यवधाने हननीयक इत्यत्र न भविष्यति। आद्ये तु पक्षे यो दोष उक्तः, स तस्यानभ्युपगमादेवानवसरः। हन्तेः श्तिपा निर्देशो धातुनिर्देशार्थ एव, न यङ्लुग्निवृत्त्यर्थः। तत्र हि `अभ्यासाच्च` 7|3|55 इति भवितव्यमेव कुत्वेन॥
ञश्च णश्च ञ्णौ, तावितौ ययोस्तौ ञ्णितौ, तौ च नश्च ञ्णिन्नाः, तेषु ञ्णिन्नेषु । नकारेऽकार उच्चारणार्थः, तेन वृत्रघ्नि, वृत्रघ्नोरित्यादावपि भवति । घ्नन्तीत्यादौ ठ्गमहनऽ इत्युपधालोपः । किमिदं ञ्णिन्नग्रहणं हन्तिविशेषणम्---ञ्णिन्नपरस्य हन्तेर्यो हकार इति ? आहोस्विद्धकारविशेषणम्---ञ्णिन्नपरस्य हकारस्य स चेद्धन्तेरिति ? तत्राद्ये पक्षे ह्यत्रासिद्धिः---घ्नन्ति, घ्नन्तु; न हि स्वावयव एव स्वस्मात्परो भवति । द्वितीये तु न क्वचित् स्यात्, न हि ञ्णिन्नकारपरता हकारस्य क्वापि सम्भवति---घातयतीत्यादौ तावदकारेण तकारेण च व्यवधानम्, घ्नन्तीत्यादावुपधा लोपस्य स्थानिवद्भावाद् व्यवधानमेव । अथ वचनाद्व्यवधानेऽपि भविष्यति ? इहापि तर्हि प्राप्नोति---हतमिच्छति हतीयति, हतीयतेर्ण्वुल्, हतायक इति, नकारेऽपि हन्ता, हननमित्यादावपि प्रसङ्गः । नकारग्रहणमिदानीं किमर्थं स्यात् ? यत्र नकारः श्रूयते तत्र यथा स्यात्, इह मा भूत्---हतः, हथ इति तदेवं द्वयोरपि पक्षयोर्दोषं दृष्ट्वा पक्षान्तरं दर्शयति---ञ्णित्प्रत्यय इत्यादि । यद्यपि द्वन्द्वनिर्द्दिष्टानामेकयोगक्षेमता न्याय्या, तथापि सम्भवव्यभिचारौ हि विशेषणविशेष्यभावस्याङ्गमित्ययमेव प्रकार आश्रीयते । ननु च ठ्स्थानिवद्भावादानन्तर्यं नकारस्य न सम्भवतिऽ इत्युक्तम् ? अत आह---तच्चेति । सन्निपातकृतमिति । श्रुतिकृतमित्यर्थः । अथ वा---पुनरस्तु द्वितीयः पक्षः, तत्रापि दोषः सुप्रतिविधानः ? इत्याहयदापीति । धात्ववयवेन नकारेण व्यवधानमव्यभिचारीति तदेवाश्रीयते, न शब्दान्तरेणेति ञ्णित्ययं परिहारः । नकारे तूक्त एव ॥
सिद्धान्तकौमुदी
ञिति णिति च प्रत्यये नकारे च परे हन्तेर्हकारस्य कुत्वं स्यात् ॥
हो हन्तेर्ञ्णिन्नेषु - हो हन्तेः । "हः" इति स्थानषष्ठी,हन्ते॑रित्यवयवषष्ठी । ञ् च ण् च ञ्णौ । तौ इतौ ययोस्तौ ञ्णितौ । इच्छब्दः प्रत्येकं सम्बध्यते । ञ्णितौ च नश्च ञ्णिन्नाः, तेष्विति विग्रहः । अङ्गाधिकारात्प्रत्ययत्वं ञ्णितोर्लभ्यते ।चजोः कु घिण्यतो॑रित्यतः कुग्रहणमनुवर्तते । तदाह — ञितीत्यादिना ।हन्ते॑रिति श्तिपा निर्देशः । हन्धातोरित्यर्थः । प्रकृते हकारस्य नकारपरत्वात्कुत्वम् । तत्र घोषवतो नादवतो महाप्राणस्य संवृतकण्ठस्य हस्य तादृशो वर्गचतुर्थो घकारः । वृत्रघ्नः वृत्रघ्ना इत्यादि सिद्धम् ।
हो हन्तेर्ञ्णिन्नेषु - हन्तेर्हस्येति ।ञिति॑णिती॑त्येतद्धन्तेर्विशेषणम्,नकारे॑इति तुहस्ये॑ति यथासंभवं बोध्यम् । यद्वा ञिण्णिन्नाः सर्वेऽपि ह्यस्यैब विशेषणं । ञिति णितीत्यंशे येन नाव्यवधानन्यायेन द्वाभ्यां व्यवधानं स्वीक्रियते । तेघातः॒॑घातक॑इत्यत्र कुत्वं भवति । इह तु न भवति, हननमात्मन इच्छति हननीयति । हननीयतेर्ण्वुल् — ॒हननीयक॑इति । एतच्च भाष्यकैयटादौ स्पष्टम् ।
लघुसिद्धान्तकौमुदी
ञिति णिति प्रत्यये नकारे च परे हन्तेर्हकारस्य कुत्वम्। वृत्रघ्नः इत्यादि। एवं शार्ङ्गिन्, यशस्विन्, अर्यमन्, पूषन्॥
महाभाष्यम्
हो हन्तेर्ञ्ञ्णिन्नेषु किमिदं ञ्ञ्णिन्नकारग्रहणं हन्तिविशेषणं ञ्ञ्णिन्नकारपरस्य हन्तेर्यो हकार इति, आहोस्विद्धकारविशेषणं ञ्ञ्णिन्नकारपरस्य हकारस्य, स चेद्धन्तेरिति ? ।। कश्चात्र विशेषः ? हन्तेस्तत्परस्येति चेन्नकारेऽप्रसिद्धिः हन्तेस्तत्परस्येति चेन्नकारेऽप्रसिद्धिः । घ्नन्ति घ्नन्तु अघ्नन् ।। अस्तु तर्हि हकारविशेषणम् ।। हकारस्येति चेञ्ञ्ञ्ञ्णित्यप्राप्तिर्व्यवहितत्वात्(23) ।। हकारस्येति चञ्ञ्ञ्ञ्णित्यप्राप्तिः। घातयति घातकः ।। किं कारणम्?।। व्यवहितत्वात् । नकारेणव्यवहितत्वान्न प्राप्नोति ।। वचनाद्भविष्यति ।। इहापि वचनात्प्राप्नोति ‐ हननमिच्छति हननीयति ‐ हन ‐ नीयतेर्ण्वुल् ‐ हननीयक इति स्थानिवद्भावाच्चाऽचोनकारेऽप्रसिद्धिः स्थानिवद्भावाच्चऽचो नकारेऽप्रसिद्धिः स्यात्(4) । घ्नन्ति घ्नन्तु ।। वचनाद्भविष्यति वचनप्रामाण्यादिति चेदलोपे प्रतिषेधः वचनप्रामाण्यादिति चेदलोपे प्रतिषेधो वक्तव्यः । हन्ता हन्तुम् । ( नकारग्रहणसार्मथ्यादलोपे न(1) )। नकारग्रहणसार्मथ्यादलोपे न भविष्यति ।। अस्त्यन्यन्नकारवचनस्य प्रयोजनम् ।। ? ।। किम् ? ।। श्रूयमाणविशेषणम् । यत्र नकारः श्रूयते तत्र यथा स्यादिह मा भूत् ‐ हतो हथ इति सिद्धं तूपधालोप इति वचनात् सिद्धमेतत् ।। कथम् ? ।। (ठउपधालोप इति वचनात्) । उपधालोपे चेति वक्तव्यम् ।। सिध्यति, सूत्रं तर्हि भिद्यते ।। यथान्यासमेवाऽस्तु । ननु चोक्तं ‐ हन्तेस्तत्परस्येति चेन्नकारेऽप्रसिद्धिरिति ? ।। वचनाद्भविष्यति ।। अथ वा पुनरस्तु ‐ हकारविशेषणम् ।। ननु चोक्तं हकारस्येति चेञ्ञ्ञ्ञ्णित्यप्राप्तिरिति ? ।। वचनाद्भविष्यति ।। ननु चोक्तमिहापि वचनात्प्राप्नोति हननीयक इति ? ।। नैष दोषो, येन नाव्यवधानं तेन व्यवहितेऽपि वचनप्रामाण्यात् । न च क्वचिद्धात्ववयवेनाऽव्यवधानम्, एतेन पुनः सङ्घातेन व्यवधानं भवति(3), न च भवति । यदप्युच्यते ‐ स्थानिवद्भावाच्चाऽचो नकारेऽप्रसिद्धिरिति । वचनाद्भविष्यति ।। ननु चोक्तं वचनप्रामाण्यादिति चेदलोपे प्रतिषेध इति ।। नैषः दोषः ।। आनन्तर्यमिहाश्रीयते ‐ हकारस्य नकार इति । क्व चिच्च संनिपातदकृतमानन्तर्यं, न शास्त्रकृतमानन्तर्यं(4), क्व चिच्च न सन्निपातकृतं नापि शास्त्रकृतम् । लोपे सन्निपातकृतमानन्तर्यम्, न शास्त्रकृतमानन्तर्यम्(1), अलोपे नैव सन्निपातकृतं नापि शास्त्रकृतम् । यत्र कुतश्चिदेवानन्तर्यं तदाश्रयिष्यामः ।। ( होहन्तेर्ञ्ञ्णिन्नेषु ) ।।