Page loading... Please wait.
7|3|52 - चजोः कु घिन्ण्यतोः
॥ तस्मै पाणिनये नमः ॥
7|3|52
SK 2863
चजोः कु घिन्ण्यतोः   🔊
सूत्रच्छेदः
चजोः (षष्ठीद्विवचनम्) , कु (प्रथमैकवचनम्) , घिन्ण्यतोः (सप्तमीद्विवचनम्)
अनुवृत्तिः
-
अधिकारः
अङ्गस्य  6|4|1
सम्पूर्णसूत्रम्
Will be updated soon
सूत्रार्थः
Will be updated soon.
One-line meaning in English
Will be updated soon.
काशिकावृत्तिः
चकारजकारयोः कवर्गादेशो भवति घिति ण्यति च प्रत्यये परतः। घिति पाकः। त्यागः। रागः। ण्यति पाक्यम्। वाक्यम्। रेक्यम्।
`पाकः, त्यागः` इति। भावे घञ्। `पाक्यम्, वाक्यम्` इति। `ऋहलोण्र्यत्` 3|1|124 । ननु चात्र धिण्ण्यतोः कार्यिणोश्चजोः साम्याद्यथासंख्यं प्राप्नोति--चकारस्य धिति, जकारस्य ण्यति, तत्कथं त्यागः, राग इति धिति जकारसय कुत्वं प्राप्नोति? नैतदस्ति; ज्ञापकादत्र यथासंख्यं न भवति। यत्? `भुजन्युब्जौ पाण्युपतापयोः` 7|3|61 , `प्रयाजानुयाजौ यज्ञाङ्गे` 7|3|62 इति घञि जकारस्य कुत्वाभावं निपातयति, `तेन रक्तं रागात्` 4|2|1 इति च निर्देशं करोति, तज्ज्ञापयति--यथासंख्यमिह न भवतति॥
पाक इत्यादौ भावे घञ् । पाक्यमित्यादौ कर्मणि ठृहलोर्ण्यत्ऽ । यथासंख्यमत्र न भवति---घिति चकारस्य, ण्यति जकारस्येति; ठ्भुजन्युब्जौ पाण्युपतापयोःऽ, ठ्प्रयाजानुयाजौ यज्ञाङ्गेऽ, ठ्वचोऽशब्दसंज्ञायाम्ऽ इत्यादेर्लिङ्गात् । क्वचितु पठ।ल्ते---यथासंख्यमत्र नेष्यते, तेन रक्तं रागादिति लिङ्गादिति ॥
सिद्धान्तकौमुदी
चस्य जस्य च कुत्वं स्यात् घिति ण्यति च प्रत्यये परे ॥निष्ठायामनिट इति वक्तव्यम् (वार्तिकम्) ॥ तेनेह न । गर्ज्यम् । मृजेर्वृद्धिः । मार्ग्यः (कौमुदी-2473)
चजोः कु घिण्ण्यतोः - चजोः कु । "कु" इत्यविभक्तिको निर्देशः । चजोर्घिण्ण्यतोश्च यथासङ्ख्यं तु न,तेन रक्तं रागा॑दित घञि जस्य कुत्वनिर्देशात् ।
चजोः कु घिण्ण्यतोः - चजोः । यथासङ्ख्यं नेह विवक्षितं,तेन रक्तं रागात् इति लिङ्गादिति कैयटहरदत्तादिभिरुक्तं । तदालोच्याह — चस्य जस्य चेत्यादि । घिति ण्यति च चस्य कुत्वं,घिति ण्यति च जस्य कुत्वमिति विवेकः ।
लघुसिद्धान्तकौमुदी
चजोः कुत्वं स्यात् घिति ण्यति च परे॥
महाभाष्यम्
Text Unavailable. Please use feedback link below to provide the text if you have.